श्रीभाष्यम् 03-03-25 विकल्पाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम् ॥२५॥

(अधिकरणार्थः – ब्रह्मप्राप्त्यर्थं एकैकस्या एव विद्यायाः विकल्पेनानुष्ठेयता, न समुच्चयेन सर्वस्या अपि )

४११. विकल्पोऽविशिष्टफलत्वात् ५७

(सङ्गतिसंशययोः प्रदर्शनम्)

ब्रह्मप्राप्तिफलानां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्; इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति, उत प्रयोजनाभावाद्विकल्प एवेति विशये –

(सयुक्तिकः पूर्वः पक्षः)

किं युक्तम्? समुच्चयोऽपि सम्भवतीति; कुत: एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदर्शनात्। दृश्यते ह्येकस्यैव स्वर्गादेस्साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वर्गस्य भूयस्त्वापेक्षयैकत्र पुरुषे समुच्चय:; एवमिहापि ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयोऽपि सम्भवतीति॥

(सूत्रतस्सिद्धान्तोपपादनम्)

एवं प्राप्ते प्रचक्ष्महे – विकल्प एव; न समुच्चयस्सम्भवतीति। कुत:?  अविशिष्टफलत्वात् – सर्वासां हि ब्रह्मविद्यानामनवधिकातिशयानन्दब्रह्मानुभव: फलमविशिष्टं श्रूयते – ब्रह्मविदाप्नोति परम् (तै.आन.१.१)  एको ब्रह्मण आनन्द: श्रोत्रियस्य चाकामहतस्य (तै.आन.८.४)  यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इत्यादिभ्य:।

(ब्रह्मानन्दस्य फलत्वदर्शनम्)

ब्रह्म हि स्वस्य परस्य च स्वयमनुभूयमानमनवधिकातिशयानन्दं भवति । स च तादृशो ब्रह्मानुभव एकया विद्ययाऽवाप्यते चेत् – किमन्ययेति न समुच्चयसम्भव:। स्वर्गादेर्हि देशत: कालत: स्वरूपतश्च परिमितत्वेन तत्र देशाद्यपेक्षया भूयस्त्वसम्भवात् तदर्थिनस्समुच्चयस्सम्भवति; इह तु  तद्विपरीतस्वरूपे ब्रह्मणि तन्न सम्भवति। सर्वाश्च विद्या: ब्रह्मानुभवविरोध्यनादि-कर्माविद्यानिरसनमुखेन ब्रह्मप्राप्तिफला इत्यविशिष्टफलत्वात्सर्वासां विकल्प एव ॥५७॥

(काम्यफलासु क्रियासु समुच्चयसम्भवः)

ब्रह्मप्राप्तिव्यतिरिक्तफलास्तु विद्यास्स्वर्गादिफलकर्मवद्यथेष्टं विकल्पेरन्, समुच्चयेरन्वा, तासां परिमितफलत्वेन भूयस्त्वापेक्षासम्भवात् । तदाह –

४१२. काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ५८

अपरिमितफलत्वाभावादित्यर्थ: ॥५८॥

इति श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम्॥२५॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.