श्रीभाष्यम् 03-03-26 यथाश्रयभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम्॥२६॥

(अधिकरणार्थः – उद्गीथाद्यङ्गाश्रितानामुपासनानां पृथक्फलतायाः उद्गीथाद्यनङ्गतायाश्च दर्शनात् क्रतुषूपादानानियमो दृढैव)

४१३. अङ्गेषु यथाश्रयभाव: ५९

(विषयसंशययोः प्रदर्शनम्)

उद्गीथादिक्रत्वङ्गेष्वाश्रिता:  ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) इत्यादिकाः विद्या: किमुद्गीथादिवत्क्रत्वर्थतया क्रतुषु नियमेनोपादेया:, उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति विशये –

(पूर्वः पक्षः)

नियमेनोपादेया इति युक्तम् ।

(अधिकरणस्यास्य कृतकरत्वशङ्कापरिहारः)

ननु चासां पुरषार्थत्वेनानियम: प्रतिपादित:  तन्निर्धारणानियमस्तद्दृष्टे: पृथग्ध्यप्रतिबन्ध: फलम् (शारी.३.३.४१) इत्यत्र । सत्यम्; तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्त्या चाक्षिप्यते । तत्र हि तेनोभौ कुरुत: (छा.१.१.१०) इत्यनियमदर्शनात् पृथक्फलत्वमुक्तम्; उपासनाश्रयभूतोद्गीथादिवत् उपासनानामप्यङ्गतयोपादाननियमे बहवो हेतव उपलभ्यन्ते; न ह्यत्र  गोदोहनेन पशुकामस्य प्रणयेत् इत्यादिवदुपासनाविधिवाक्ये फलसम्बन्ध: श्रूयते;  उद्गीथमुपासीत (छा.१.१.१) इत्युद्गीथादिसम्बन्धितयैवोपासनं प्रतीयते।

(स्ववाक्ये फलसम्बन्धाश्रवणस्पष्टीकरणम्)

यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् (छा.१.१.१०) इति वर्तमानोपदेशरूपवाक्यान्तराद्धि फलसम्बन्धो ज्ञायते; स्ववाक्येनैवाव्यभिचरित-क्रतुसम्बन्धि उद्गीथादिसम्बन्धेन निर्ज्ञातक्रत्वङ्गभावस्य वाक्यान्तरस्थवर्तमानफलसम्बन्धनिर्देशः अर्थवादमात्रं स्यात्, अपापश्लोकश्रवणादिवत्।

अतो यथोद्गीथादय उपासनाश्रया: क्रत्वङ्गतया प्रयोगविधिना नियमेनोपादीयन्ते; तथा तदाश्रिताश्चोपासनास्तन्मुखेन क्रत्वङ्गभूता इति नियमेनोपादेया एव॥५९॥

(उक्तार्थे श्रौतस्य विधानस्य नियामकत्वम्)

४१४. शिष्टेश्च ६०

शिष्टि: – शासनम्, विधानमित्यर्थ:।  उद्गीथमुपासीत (छां.१.१.१) इत्युद्गीथाङ्गतयोपासन-विधानाच्चोपादाननियम:।  गोदोहनेन पशुकामस्य प्रणयेत् इत्यादिवद्विधिवाक्ये अधिकारान्तराश्रवणात् उद्गीथाङ्गभाव एव हि विधेय इति गम्यते ॥६०॥

(श्रौतस्य दुरुद्गीथसमाधानवचनस्य नियमज्ञापकत्वम्)

४१५. समाहारात् ६१

होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति (छां.१.५.५) इत्युपासनस्य समाहारनियमो दृश्यते। दुरुद्गीथं वेदनविहीनमुद्गीथम् । वेदनहानावन्येन समाधानं ब्रुवत्तस्य नियमेनोपादानं दर्शयति ॥६१॥

(सोपासनप्रणवानुवृत्तेः उपासनानुवृत्तिज्ञापकत्वम्)

४१६. गुणसाधारण्यश्रुतेश्च ६२

उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य  तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति (छा.१-१-९) इति साधारण्यश्रुतेश्च उपासनसमाहारो गम्यते ।  तेन (छा.१.१.९) इति प्रकृतपरामर्शात्सोपासन एव प्रणवस्सर्वत्र सञ्चरति । अत उपासनस्य प्रणवसहभावनियमदर्शनाच्च उद्गीथाद्युपासनानां उद्गीथादिवत् नियमेनोपादानम्॥

(सिद्धान्तसूत्रारम्भः)

इति प्राप्त उच्यते –

४१७. वा तत्सहभावाश्रुते: ६३

न चैतदस्ति – यदुद्गीथाद्युपासनानां क्रतुषूद्गीथादिवदुपादाननियम: – इति। कुत:? तत्सहभावाश्रुते: – उद्गीथाङ्गभावाश्रुतेरित्यर्थ:। अङ्गभावे हि सहभावनियमो भवति ।

(अङ्गत्वविरोध्यंशोपपादनम्)

यद्यपि  उद्गीथमुपासीत (छा.१.१.१) इत्यस्मिन् पदसमुदायेऽधिकारान्तरं न प्रतीयते; तथापि तदनन्तरमेव  यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति विद्याया: क्रतुवीर्यवत्तरत्वं प्रति साधनभाव: प्रतिपाद्यते । तेन क्रतुफलात्पृथग्भूतफलसाधनभूता विद्या  उद्गीथमुपासीत (छा.१.१.१) इति कर्तव्यतया विधीयते। क्रतुफलात्पृथग्भूतफलसाधनतया अवगतस्योपासनस्य क्रत्वङ्गभूतोद्गीथाङ्गतया विनियोगो नोपपद्यते।

(उपासनं प्रत्युद्गीथस्य आश्रयतामात्रम्)

अथ उपासनस्याश्रयापेक्षायां सन्निहित: उद्गीथ: आश्रयमात्रं भवति। उद्गीथश्च क्रत्वङ्गभूत इति क्रतुप्रयुक्तोद्गीथाद्याश्रये उपासने क्रत्वधिकारिण एव क्रतोर्वीर्यवत्तरत्वेच्छा-निमित्तमिदमधिकारान्तरमिति न क्रतुषु तदुपादाननियम:। वीर्यवत्तरत्वं च क्रतुफलस्य प्रबलकर्मान्तरफलेनाप्रतिबन्ध इत्युक्तम्। क्रतोरविलम्बितफलत्वमित्यर्थ:।

(पर्णताविधिवैलक्षण्यस्य श्रुत्या स्पष्टीकरणम्)

पर्णतादीनां तु  यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति (छां.१.२.१०) इति विद्याया: फलसाधनत्ववदपापश्लोकश्रवणादिफलं प्रति साक्षात्साधनभावो न श्रुत इति क्रत्वङ्गभूतजुह्वाद्यङ्गतया विनियोगाविरोधात्तदङ्गभूतानां फलान्तरसाधनभावकल्पनानुपपत्तेस्तत्र फलश्रुतिरर्थवादमात्रं स्यात् ॥६३॥

(उपासनोपादानानियमस्य श्रुत्या स्पष्टीकरणम्)

४१८. दर्शनाच्च॥ ६४

दर्शयति च श्रुतिरुपासनोपादानानियमम्, एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्त्विजोऽभिरक्षति (छा.४.१७.१०) इति ब्रह्मणो वेदनेन सर्वेषां रक्षणं ब्रुवती । उद्गातृप्रभृतीनां वेदनस्यानियमे सत्येतदुपपद्यते। अनेन लिङ्गेन पूर्वोक्तानां समाहारादिलिङ्गानां प्रायिकत्वमवगम्यते। अतोऽनियम एवेति स्थितम् ॥६४॥

इति श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम् ॥२६॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य तृतीय: पाद:॥३॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.