श्रीभाष्यम् 03-03-05 कार्याख्यानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम्॥५॥

(प्राणवासस्त्वदृष्टिविद्या छा. 5.2, बृ. 8.1.14)

(अधिकरणार्थः – आचमनीयानां अपां प्राणं प्रति वासस्त्वानुसन्धानस्याप्राप्तस्य विधिः, न तु आचमनस्य)

३७२. कार्याख्यानादपूर्वम्॥३१८॥

(विचारणीयविषयोपस्थापनम्)

पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानीं चिन्त्यते। छान्दोग्यवाजसनेयकयो: ज्येष्ठं च श्रेष्ठं च प्राणमुपास्यमुक्त्वा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते; छान्दोग्ये तावत्  होवाच किं मे वासो भविष्यतीति आप इति होचु: तस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टाच्चाद्भि: परिदधति लम्भुको वासो भवत्यनग्नो भवति (छा.५.२.२) इति। वाजसनेयके किं मे वास: (बृ.८.१.१४) इति प्राणेन पृष्टा वागादय: ऊचु: आपो वास इति   तद्विद्वांसश्श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचमन्त्येतमेव तदनमनग्नंकुर्वन्तो मन्यन्ते (बृ.८.१.१४)  तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते (बृ.८.१.१४) इति ।

(विचारणीयोंशः)

तत्र संशय: – किमत्राचमनं विधीयते, उतापां प्राणवासस्त्वानुसन्धानमिति।

(पूर्वपक्षः)

अशिष्यन्नाचामेदशित्वा चाचामेत् (बृ.८.१.१४) इत्याचमने विधिप्रत्ययश्रवणात्,  एतमेव तदनमनग्नं कुरुते (बृ.८.१.१४) इति वेदने विधिप्रत्ययाभावादनग्नतासङ्कीर्तनस्य स्तुत्यर्थतयाऽन्वयोपपत्तेश्च, भोजनाङ्गस्याचमनस्य स्मृत्याचारप्राप्तत्वेन विधिप्रत्ययबलात् प्राणविद्याङ्गम् आचमनान्तरं विधीयते –

(सयुक्तिकः सिद्धान्तः)

इति प्राप्ते ब्रूम: – आचमनीयानामपां प्राणस्य वासस्त्वानुसन्धानमेवेह – अपूर्वम् – अप्राप्तं विधीयते, कार्याख्यानात् – अप्राप्ताख्यानात्, अप्राप्ताख्याने शब्दस्यार्थवत्त्वादित्यर्थ:।

(भोजनाङ्गाचमनस्याप्राप्तत्वतो विधेयत्वाशङ्काया निरासः)

एतदुक्तं भवति – किं मे वास: (बृ.८.१.१४)  आपो वास: (बृ.८.१.१४)   अद्भि:परिदधति (छा.५.२.२)  एतमेव तदनमनग्नं कुरुते इत्युपक्रमोपसंहारयोर्वाक्यस्यापां प्राणवासोदृष्टिपरत्वप्रतीतेराचमनस्य स्मृत्याचारप्राप्तत्वात् आचमनमनूद्य आचमनीयासु अप्सु प्राणवासस्त्वानुसन्धानं विधीयते इति । अत एव च्छान्दोग्ये,  तस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टाच्चाद्भि: परिदधति (छा.५.२.२) इत्यद्भि: परिधानमेवोक्तम्; नाचमनम्॥१८॥

इति श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम्॥ ५॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.