श्रीभाष्यम् 03-03-21 शरीरेभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम्॥२१॥

(अधिकरणार्थः – उपासककर्तृकं प्रत्यगात्मभूतस्य स्वात्मनोऽनुसन्धानम् आविर्भूयमानगुणाष्टकवत्वेन)

४०५. एक आत्मनश्शरीरे भावात् ५१

(विचारणीयविषयोपस्थापनम्)

सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तं –  त्रयाणामेव चैवमुपन्यास: प्रश्नश्च (ब्र.सू.१.४.३) इति। वक्ष्यति चास्य प्रत्यगात्मन: परमात्मात्मकत्वेन अनुसन्धानम्  आत्मेति तूपगच्छन्ति ग्राहयन्ति (ब्र.सू.४.१.३) इति ।

(विचारौपयिकः संशयः)

किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चारक्षमोऽनुसन्धेय:, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिस्वरूपः? ॥

(सहेतुकः पूर्वः पक्षः)

किं युक्तम्? ज्ञातृत्वाद्याकारमात्र इत्येके मन्यन्ते  ॥

कुत:? अस्योपासकस्यात्मन: शरीरे भावात्; शरीरे वर्तमानस्य तादृशमेव रूपम्; तावतैवानुसन्धानेन तत्फलसिद्ध्युपपत्तेश्च  ॥

(उक्तार्थे काम्यकर्मानुष्ठातृदृष्टान्तीकरणम्)

न हि कर्मस्वधिकृतानां स्वर्गादिफलार्थिनां ज्ञातृत्वाद्यतिरेकेण फलानुभवदशायां यादृशं रूपम्, तादृशं रूपं साधनानुष्ठानदशायामनुसन्धातव्यम्, तावतैव साधनानुष्ठानतत्फलयोस्सिद्धे: अतिरिक्तानुसन्धाने प्रयोजनाभावात्; तदविशेषादिहापि तथैव।

(फलसिद्धेः अनुपपत्तिशङ्कापरिहारौ)

ननु चात्र  यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेत: प्रेत्य भवति (छां.३.१४.१) इति विशेषवचनादपहतपाप्मत्वाद्याकार एवानुसन्धातव्य इत्यवगम्यते; नैवम्, तं यथायथोपासते (मुद्गल.उप.३) इत्युपास्यविषयत्वात्तस्य॥

(सिद्धान्तपरं सूत्रं तद्विवरणं च)

एवं प्राप्ते प्रचक्ष्महे

४०६. व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ५२

न त्वेतदस्ति – यत् ज्ञातृत्वाद्याकार एवानुसन्धेय इति; अस्यात्मनस्संसारदशाया: मोक्षदशायां यो व्यतिरेक:, सोऽपहतपाप्मत्वादिकोऽनुसन्धेय:; अस्य मोक्षदशायां यादृशं रूपं, तादृग्रूप एवोपासनवेलायामात्माऽनुसन्धेय इत्यर्थ:। कुत:? तद्भावभावित्वात् तद्रूपापत्ते:; यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति (छा.३.१४.१)  तं यथायथोपासते तथैव भवति (मुद्गल.उप.३.१) इति यथोपासनमेव हि प्राप्ति: श्रूयते।  न च परस्वरूपमात्रविषयमेवेदमिति वक्तुं शक्यते, प्रत्यगात्मनोऽप्युपास्यभूतपरब्रह्मशरीरतयोपास्यकोटिनिक्षिप्तत्वात् । अत: प्रजापतिवाक्योदित-अपहतपाप्मत्वादिगुणकप्रत्यगात्मशरीरपरमात्मोपासनस्य तथारूपमेव प्राप्यमित्युक्तं भवति।

(प्राप्याकारस्यैवाऽनुसन्धेयता)

अत एव  एवं क्रतुर्हामुं लोकं प्रेत्याभिसम्भवितास्मि (अग्निरहस्यं) इत्युच्यते। तस्मात्प्रत्यगात्मा प्राप्याकार एवानुसन्धेय:। उपलब्धिवत् – यथा ब्रह्मोपलब्धिर्विहिता यथावस्थितब्रह्म-स्वरूपविषया, तथाऽऽत्मोपलब्धिरपि यथावस्थितात्मस्वरूपविषयेत्यर्थ: ।

(काम्यानुष्ठातुः दृष्टान्तत्वस्य वैषम्यम्)

कर्मस्वात्मस्वरूपानुसन्धानं कर्माङ्गम्;  यजेत स्वर्गकाम: (यजु.२.५.५) इति कर्मानुष्ठानमेव हि फलाय चोपद्यते। देहातिरिक्तज्ञातृत्वाद्याकारात्मावगति: कालान्तरभाविफलसाधन-कर्माधिकारार्थेति तावन्मात्रमेव तत्रापेक्षितमिति न किञ्चिदपहीनम् ॥ ५२॥

इति श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम्॥२१॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.