श्रीभाष्यम् 03-03-10 वेधाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम्॥१०॥

(अधिकरणार्थः – शुक्रं प्रविध्येत्येवमादीनां आथर्वणिकादिभिरधीयमानानां मन्त्राणां अध्ययनाङ्गत्वमेव, न विद्याङ्गता)

(विचारणीयविषयोपस्थानम्)

३७९. वेधाद्यर्थभेदात् २५

(विचारणीयविषयोपस्थानम्)

आथर्वणिका उपनिषदारम्भे  शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) इत्यादीन्मन्त्रानधीयते; सामगाश्च रहस्यब्राह्मणारम्भे  देव सवित: प्रसुव यज्ञं प्रसुव (साम.ब्रा.१.१.१) इत्याद्यामनन्ति, काठकास्तैत्तिरीयकाश्च  शं नो मित्रश्शंवरुण: (तै.शि.१) इत्यादिकम्; शाट्यायनिश्च  श्वेतोऽश्वो हरिनीलोऽसि इत्यादिकम्; ऐतरेयिणस्तु महाव्रतब्राह्मणमधीयते  इन्द्रो ह वै वृत्रं हत्वा महानभवत् इत्यादि; कौषीतकिनोऽपि महाव्रतब्राह्मणमेव  प्रजापतिर्वै संवत्सरस्तस्यैष आत्मा यन्महाव्रतम् इति, वाजसनेयिनस्तु प्रवर्ग्यब्राह्मणं  देवा हवै सत्रं निषेदु: इत्यादि।

(संशयीयकोटिस्वरूपम्)

तत्र संशय: – किमुपनिषदारम्भेष्वधीता:  शुक्रं प्रविध्य (अथर्व.उ.१), शं नो मित्र: (तै.शिक्षा.१) इत्यादयो मन्त्रा: प्रवर्ग्यादीनि च कर्माणि विद्याङ्गम्, उत नेति।

(पूर्वपक्षः सहेतुकः)

किं युक्तम्? विद्याङ्गमिति। कुत:? सन्निधिसमाम्नानात् विद्याङ्गत्वप्रतीते:।

(वेधमन्त्रस्य अन्याङ्गत्वेऽपि शन्न आदेः विद्याङ्गत्वशङ्का)

यद्यपि शुक्रं प्रविध्य इत्यादीनां मन्त्राणां प्रवर्ग्यादेश्च कर्मण: श्रुतिलिङ्गवाक्यैर्बलवद्भिर्यथायथं कर्मसु विनियोगोऽवगम्यते, तथाऽपि  शं नो मित्र: (तै.शी)  सह नाववतु (तै.आन.१) इत्यादेर्मन्त्रस्यान्यत्र विनियोगाभावाद्विद्याधिकाराच्च विद्याङ्गत्वमवर्जनीयिमिति सर्वासु विद्यासु इमे मन्त्रा: उपसंहर्तव्या:-

(सूत्रार्थविवरणतः सिद्धान्तः)

एवं प्राप्ते प्रचक्ष्महे – वेधाद्यर्थभेदात् । शुक्रं प्रविध्य हृदयं प्रविध्यऋतं वदिष्यामिसत्यं वदिष्यामि (तै.शिक्षा.१)  ऋतमवादिषं, सत्यमवादिषं (तै.उ.शिक्षा.१२.१)  तेजिस्वनाऽवधीतमस्तु मा विद्वषावहै (तै.भृगु.१.१)  इत्यादिभिर्लिङ्गैरभिचाराध्ययनादिष्वेषां विनियोगावगमान्न विद्याङ्गत्वम् ।

(सूत्रे वेधकण्ठोक्तेः दृष्टान्ततयाऽन्वयः)

एतदुक्तं भवति- यथा  हृदयं प्रविध्य इत्यादिमन्त्रसामर्थ्यात्  शुक्रं प्रविध्य  इत्यादीनामभिचारादिशेषत्वमवगम्यते, एवमेव  ऋतं वदिष्यामि (तै.शिक्षा.१.अनु)  तेजिस्वनावधीतमस्तुु इत्यादिमन्त्रसामर्थ्यादेव स्वाध्यायशेषत्वं  शं नो मित्र: (तै.शिक्षा.१) इत्यादिमन्त्राणामवगम्यते; अतो न तेषां विद्याङ्गत्वम् इति  शुक्रं प्रविध्य इत्यादीनां प्रवर्ग्यादिब्राह्मणानां चेह पाठो दिवाकीर्त्यत्वारण्येऽनुवाक्यत्वकृत:॥२५॥

इति श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम् ॥१०॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.