श्रीभाष्यम् 03-03-13 अनियमाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम् ॥१३॥

(अधिकरणार्थः – अर्चिरादिगतेः वेदान्तावगतसर्वविद्यासाधारणत्वम्, न तु विशेषनियतत्वम्)

३८६. अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ३२

(विचारणौपयिकः संशयः)

उपकोसलादिषु येषूपासनेष्वर्चिरादिगति: श्रूयते; किं तन्निष्ठानामेव तया ब्रह्मप्राप्ति:, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशये,

(पूर्वपक्षः सहेतुकः)

इतरेष्वनाम्नानात्,  ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१)  श्रद्धां सत्यमुपासते (बृ.८.२.१५) इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तन्निष्ठानामेव –

(सूत्रतः सिद्धान्तवर्णनम्)

इति प्राप्तेऽभिधीयते –  अनियम: – इति । सर्वेषां – सर्वोपासननिष्ठानां तयैव गन्तव्यत्वात् तन्निष्ठानामेवेति नियमो नास्ति । सर्वेषां तयैव गमने हि सति शब्दानुमानाभ्यां – श्रुतिस्मृतिभ्यामविरोध:, अन्यथा विरोध एवेत्यर्थ:।

(सर्वविद्यानिष्ठानामपि अर्चिरादिगतेः श्रौतता)

श्रुतिस्तावत् छान्दोग्यवाजसनेयकयो: पञ्चाग्निविद्यायामर्चिरादिमार्गेण सर्वब्रह्मोपासननिष्ठानां गमनमाह   – एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति (बृ.८.२.१५) इति वाजसनेयके;  तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति (छा.५.१०.१) इति छान्दोग्ये;  य इत्थं विदु: इति पञ्चाग्निविद्यानिष्ठान्  ये चेमे इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांश्चोद्दिश्यार्चिरादिका गतिरुपदिश्यते ।

(सत्यतपश्शब्दयोः ब्रह्मपरता)

सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१)  सत्यं त्वेव विजिज्ञासितव्यम् (छा.७.१७) इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धे: । तपश्शब्दस्यापि तेनैकार्थ्यात्सत्यतपश्शब्दाभ्यां ब्रह्मैवाभिधीयते ।  श्रद्धापूर्वकं ब्रह्मोपासनं चान्यत्र श्रुतं  सत्यं त्वेव विजिज्ञासितव्यम् (छा.७.१७) इत्युपक्रम्य श्रद्धा त्वेवविजिज्ञासितव्या (छा.७.१९) इति।

(अर्चिरादिगतेः सर्वविद्यासाधारणत्वे गीतास्मृतिः)

स्मृतिरपि  अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: (गी.८.२४) इति सर्वेषां ब्रह्मविदामनेनैव मार्गेण गमनमित्याह । एवंजातीयका: श्रुतिस्मृतयो बह्व्यस्सन्ति। एवं सर्वविद्यासाधारणी इयं गति: प्राप्तैवोपकोसलविद्यादावनूद्यते ॥३२॥

इति श्रीशारीरकमीमांसाभाष्ये  अनियमाधिकरणम्॥१४॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.