श्रीभाष्यम् 03-03-17 तन्निर्धारणानियमाधिकरणम्

श्री शारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम्॥१७॥

(अधिकरणार्थः – कर्माङ्गाश्रितोद्गीथोपासनादेः क्रतुषु उपादेयतानियमाभावः)

३९५. तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् ४१

(एतदधिकरणीयः संशयगर्भः पूर्वः पक्षः)

ओमित्येतदक्षरमुद्गीथमुपासीत (छां.१.१.१) इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्गभूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानि इत्युद्गीथाद्युपासन-सम्बन्धिनो  यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति वर्तमाननिर्देशस्य पर्णतादिसम्बन्धपापश्लोकश्रवणवत्पृथक्फलत्वकल्पनायोगात् क्रतुषु             नियमेनोपसंहार्याणीति ॥

(सूत्रारार्थतः सिद्धान्तप्रदर्शनम्)

एवं प्राप्ते प्रचक्ष्महे – तन्निर्धारणानियम: – इति । निर्धारणं निश्चयेन मनसोऽवस्थापनम्, ध्यानमित्यर्थ:; तन्निर्धारणानियम: – कर्मसूद्गीथाद्युपासनानामनियम:; कुत:? तद्दृष्टे: उपलभ्यते ह्युपासनानुष्ठानानियम: –  तेनोभौ  कुरुतो यश्चैतदेवं वेद, यश्च वेद (छा.१.१.१०) इत्यविदुषोऽप्यनुष्ठानवचनात्। न चाङ्गत्वे सत्युपासनस्यानुष्ठानानियम उपपद्यते ।

(उद्गीथोपासनस्य फलपार्थक्यम्)

एवमुपासनस्यानङ्गत्वे निश्चिते सत्युपासनविधे: फलाकांक्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वं कर्मफलात्पृथग्भूतं फलमित्यवगम्यते।

किमिदं वीर्यवत्तरत्वम्? कर्मफलस्यैवाप्रतिबन्ध:। प्रतिबध्यते हि कर्मफलं प्रबलकर्मान्तरफलेन तावन्तं कालम्; तदभावोऽप्रतिबन्ध:। स ह्यप्रतिबन्ध: कर्मफलात्स्वर्गादिलक्षणात्पृथग्भूतमेव फलम् । तदिदमुच्यते पृथग्घ्यप्रतिबन्ध: फलमिति ।

अत: कर्माङ्गाश्रयाणामपि पृथक्फलत्वाद्गोदोहनादिवत् कर्मसु उद्गीथाद्युपासनानां अनियमेनोपसंहार:॥४१॥

इति श्रीशारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम् ॥१७॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.