श्रीभाष्यम् 03-03-12 साम्परायाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम्॥१२॥

(पर्यङ्कविद्या – कौषी.उ.1)

(अधिकरणार्थः – विदुषः देहादपक्रमणसमये एव पुण्यपापयोर्निरवशेषहानचिन्तनम्)

३८१. साम्पराये तर्तव्याभावात्तथा ह्यन्ये २७

(उक्तानुवादेन सङ्गत्यभिव्यञ्जनम्)

सुकृतदुष्कृतयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम् ।

(विचारोपयोगी संशयः)

तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये

(युक्त्या पूर्वपक्षः)

उभयत्रेति युक्तम्, उभयथा श्रुतत्वात्; एवं हि कौषीतकिनस्समामनन्ति  एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति (कौषी.१.३.४) इत्युपक्रम्य  आगच्छति विरजां नदीं तां मनसाऽत्येति तत्सुकृतदुष्कृते धूनुते (कौषी.१.३.४) इति। अत्र वाक्ये अध्वनि सुकृतदुष्कृतहानि: प्रतीयते । ताण्डिनस्तु  अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१.१३) इति। अत्र तु देहवियोगकाल इति प्रतीयते; शाट्यायनकेऽपि  तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्त: पापकृत्याम् इति पुत्रेषु दायसंक्रान्तिसमकालं सुकृतदुष्कृतसंक्रमणं श्रूयमाणं देहवियोगकाल इति गम्यते। अतस्सुकृतदुष्कृतयोरेकदेशो देहवियोगकाले हीयते; शेषस्त्वध्वनि –

(सिद्धान्तार्थः सूत्रतः)

इति प्राप्त उच्यते – साम्पराये – इति। साम्पराये – देहादपक्रमणकाले एव विदुषस्सुकृतदुष्कृते निरवशेषं हीयेते।

कुत:? तर्तव्याभावात् – विदुषो देहवियोगात्पश्चात्सुकृतदुष्कृताभ्यां तरितव्यभोगाभावात्। विद्याफलभूतब्रह्मप्राप्तिव्यतिरेकेण हि सुकृतदुष्कृताभ्यां भोक्तव्ये सुखदु:खे न विद्येते । तथा ह्यन्ये – देहिवयोगादूर्ध्वं ब्रह्मप्राप्तिव्यतिरिक्तसुखदु:खोपभोगाभावमधीयते  अशरीरं वा सन्तं प्रियाप्रिये स्पृशत: (छां.८.१२.१) एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छां.६.१२.२)  तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा.६.१४.२) इति ॥२७॥

(श्रुतेः अर्थस्वाभाव्यस्य चाविरोधतः अन्वयोपपादनम्)

३८२. छन्दत उभयाविरोधात् २८

एवमर्थस्वाभाव्यात्सुकृतदुष्कृतहानिकालेऽवधृते सत्युभयाविरोधेन श्रुतेरर्थस्वभावस्य चाविरोधेन छन्दत: – यथेष्टं पदानामन्वयो वर्णनीय:। कौषीतकीवाक्ये  तत्सुकृतदुष्कृते धूनुते (कौषी.१.४.३) इति चरमश्रुतो वाक्यावयव:  एतं देवयानं पन्थानमापद्य (कौषी.१.४.३) इति प्रथमश्रुतावयवात्प्रागनुगमयितव्य इत्यर्थ: ॥२८॥

(विदुषो गतिश्रवणान्यथानुपपत्त्या कर्मशेषानुवृत्तिशङ्का)

अत्र पूर्वपक्षी प्रत्यवतिष्ठते –

३८३. गतेरर्थवत्त्वमुभथाऽन्यथा हि विरोध: २९

सुकृतदुष्कृतयोरेकदेशस्य देहवियोगकाले हानि:, शेषस्य च पश्चादिति उभयथा कर्मक्षये सत्येव गतेरर्थवत्त्वम् – देवयानगतिश्रुतेरर्थवत्त्वमित्यर्थ: । अन्यथा हि विरोध: – देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्यापि विनाशस्स्यात्; तथा सति केवलस्यात्मनो गमनं नोपपद्यते। अत उत्क्रान्तिसमये विदुषो निश्शेषकर्मक्षयो नोपपन्न:॥२९॥

(उक्ताशङ्कासमाधानम्)

अत्रोत्तरम् –

३८४. उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ३०

उपपन्न एवोत्क्रान्तिकाले सर्वकर्मक्षय:; कथम्? तल्लक्षणार्थोपलब्धे:,  क्षीणकर्मणोऽप्याविर्भूस्वरूपस्य देहसम्बन्धलक्षणार्थोपलब्धे: । परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२)  तत्र पर्येति जक्षत्क्रीडन् रममाण: (छां.८.१२.३)  स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) एकधा भवति त्रिधा भवति (छां.७.२६.२) इत्यादिषु देहसम्बन्धाख्योऽर्थो ह्युपलभ्यते । अत: क्षीणकर्माणोऽपि सूक्ष्मशरीरयुक्तस्य देवयानेन गमनमुपपद्यते।

(कर्मणो निरवशेषक्षयेऽपि गमनोपयोगिदेहान्वयोपपत्तिः)

कथं सूक्ष्मशरीरमप्यारम्भकर्मविनाशेऽवतिष्ठत इति चेत् विद्यामाहात्म्यादिति ब्रूम: । विद्या हि स्वयं सूक्ष्मशरीरस्यानारम्भिकाऽपि प्राकृतसुखदु:खोपभोगसाधनस्थूलशरीरस्य सर्वकर्मणां च निरवशेषक्षयेऽपि स्वफलभूतब्रह्मप्राप्तिप्रदानाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति; लोकवत् – यथा लोके सस्यादिसमृद्ध्यर्थमारब्धे तटाकादिके तद्धेतुषु तदिच्छादिषु विनष्टेष्वपि तदेव तटाकादिकमशिथिलं कुर्वन्तस्तत्र पानीयपानादि कुर्वन्ति; तद्वत् ॥३०॥

(विदुषां देहपातानन्तरमपि सूक्ष्मशरीरानुवृत्तेर्विमर्शः)

अथ स्यात् – ज्ञानिनां साक्षात्कृतपरतत्त्वानां देहपातसमये कर्मणो निरवशेषक्षयाद्देहपातादूर्ध्वं सूक्ष्मशरीरमात्रं गत्यर्थमनुवर्तते, सुखदु:खानुभवो न विद्यत – इति यदुक्तम्; तन्नोपपद्यते; वसिष्ठावान्तरतप:प्रभृतीनां साक्षात्कृतपरतत्त्वानां देहपातादूर्ध्वं देहान्तरसङ्गम:, पुत्रजन्मविपत्त्यादि-निमित्तसुखदु:खानुभवश्च दृश्यते – इति । अत उत्तरं पठति –

३८५. यावदधिकारमवस्थितिराधिकारिकाणाम् ३१ (सि)

नास्माभिस्सर्वेषां ज्ञानिनां देहपातसमये सुकृतदुष्कृतयोर्विनाश उक्त:;  अपि तु येषां ज्ञानिनां देहपातानन्तरं अर्चिरादिका गति: प्राप्ता, तेषां देहपातसमये सुकृतदुष्कृतहानिरुक्ता। वसिष्ठादीनां त्वाधिकारिकाणां न देहपातानन्तरमर्चिरादिगतिप्राप्ति:, प्रारब्धस्याधिकारस्य असमाप्तत्वात् । तेषां कर्मविशेषेणाधिकारविशेषं प्राप्तानां यावदधिकारसमाप्ति तदारम्भकं कर्म न क्षीयते। प्रारब्धस्य हि कर्मणो भोगादेव क्षय:। अत आधिकारिकाणां तदारम्भकं कर्म यावदधिकारमवतिष्ठते। अतस्तेषां न देहपातादनन्तरमर्चिरादिगतिप्राप्ति: ॥३१॥

इति श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम् ॥१२॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.