श्रीविष्णुपुराणम् Amsa 03 Ady 08

श्रीविष्णुपुराणम् अष्टमोऽध्यायः मैत्रेयः- भगवन्भगवान्देवः संसारविजिगीषुभिः। समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥१॥ आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥२॥ श्रीपराशर:- यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतश्शृणु ॥३॥ सगरः प्रणिपत्यैनमौर्वं पप्रच्छ भार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ४ ॥ फलं चाराधिते विष्णौ यत्पुंसामभिजायते । स चाह पृष्टो यत्तेन तस्मै तन्मेऽखिलं शृणु ॥ ५॥ और्व:- […]

श्रीविष्णुपुराणम् Amsa 03 Ady 07

श्रीविष्णुपुराणम् अथ सप्तमोऽध्यायः मैत्रेय:- यथावत्कथितं सर्वं यत्पृष्टोऽसि मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥१॥ सप्त द्वीपानि पातालवीथयश्च महामुने । सप्तलोकाश्च येऽन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥२॥ स्थूलैस्सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मैस्सूक्ष्मतरैस्तथा । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥३॥ अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥४॥ सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः […]

श्रीविष्णुपुराणम् Amsa 03 Ady 06

श्रीविष्णुपुराणम्प ष्ठोऽध्यायः      श्रीपराशरः- सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः । क्रमेण येन मेत्रेय बिभेद शृणु तं मम ॥१॥     सुमन्तुस्तस्य पुत्रोऽभूत्सुत्वा तस्याप्यभूत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ महामती ॥२॥           सुमन्तुरिति ॥ तां जैमिनिसंहितां तत्पुत्रपौत्रावेकैकावयौगपद्येन स्वस्वपितुरधीतयन्तौ ॥२॥ सहस्रसंहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥३॥                 सहस्रेति ॥ एवं सुत्वनः पुत्रः सुकर्माऽपि स्वपितुरधीत्य सहस्रं संहिताभेदं […]

श्रीविष्णुपुराणम् Amsa 03 Ady 05

श्रीविष्णुपुराणम् अथ पञ्चमोऽध्यायः      श्रीपराशर:- यजुर्वेदतरोश्शाखास्सप्तविंशन्महामुनिः। वैशंपायननामाऽसौ व्यासशिष्यश्चकार वै ॥१॥ शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥२॥ याज्ञवल्क्यस्तु तत्राभूद्ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरस्सदा ॥३॥        यजुर्वेदतरोरिति ॥ सप्तविंशति यजुषः प्रधानशाखाः । ब्रह्माण्डोक्तः षडशीतिपक्षः तत्प्रतिशाखा- -विवक्षया। ताश्च काण्वादिशुक्लयजु पञ्चदशकं च संहत्येकशतमध्वर्युशाखाः आपस्तंबोक्तास्स्युः ॥१-३॥ ऋषिर्योऽद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ॥४॥ पूर्वमेवं मुनिगणैस्समयो यः […]

श्रीविष्णुपुराणम् Amsa 03 Ady 04

श्रीविष्णुपुराणम् अथ चतुर्थोऽध्यायः श्रीपराशर:- आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः । ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वकामधुक् ॥१॥       आद्य इति ॥ आद्य: सर्गादौ चतुर्मुखेनाविभक्तः पठितः । चतुष्पादः ऋगादिरूपेण। शतसाहस्रेति अनन्तशाखासमुदायरूपः । ततः–तस्माद्दशगुणो यज्ञः प्रावर्तत । दशगुणो-दशविधः, स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः सोम इति। तथा *पञ्च वा एते महायज्ञाः, इत्युपक्रम्य * देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इति […]

श्रीविष्णुपुराणम् Amsa 03 Ady 03

श्रीविष्णुपुराणम् अथ तृतीयोऽध्यायः मैत्रेय:- ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः ॥१॥ एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ २ ॥ यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तं तमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ॥३॥       श्रीपराशर:- वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्या विस्तराद्वक्तुं संक्षेपेण शृणुष्व त्वम् ॥४॥ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 02

श्रीविष्णुपुराणम् अथ द्वितीयोऽध्यायः मैत्रेयः- प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्षे ममाख्यातुं त्वमर्हसि ॥१॥       श्रीपराशरैः- सूर्यस्य पत्नी संज्ञाऽभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥२॥               सूर्यस्येति ॥ अष्टममनोः प्रसङ्गाद् यमादीनां जन्मेतिहासः ॥ १,२ ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तुःशुश्रूषणेsरण्यं स्वयं च तपसे ययौ ॥३॥ संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । […]

श्रीविष्णुपुराणम् Amsa 03 Ady 01

श्रीविष्णुपुराणम् तृतीयेऽशे प्रथमोऽध्यायः        मैत्रेयः- कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥१॥ देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥२॥ ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥३॥ मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् । भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ४ ॥           उक्त:  प्रथमांशे  प्रजासर्गः । द्वितीये तच्छेषः  प्रियव्रतवंशः, प्रसक्तः  सृष्टानामावासभूतो लोकसन्निवेशः।अथ तृतीयचतुर्थयोर्वैदिकः मनुब्यासादिप्रवर्तितो धर्मः, […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.