श्रीविष्णुपुराणम् Amsa 03 Ady 06

श्रीविष्णुपुराणम्प

ष्ठोऽध्यायः

     श्रीपराशरः-

सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः । क्रमेण येन मेत्रेय बिभेद शृणु तं मम ॥१॥     सुमन्तुस्तस्य पुत्रोऽभूत्सुत्वा तस्याप्यभूत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ महामती ॥२॥

          सुमन्तुरिति ॥ तां जैमिनिसंहितां तत्पुत्रपौत्रावेकैकावयौगपद्येन स्वस्वपितुरधीतयन्तौ ॥२॥

सहस्रसंहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥३॥

                सहस्रेति ॥ एवं सुत्वनः पुत्रः सुकर्माऽपि स्वपितुरधीत्य सहस्रं संहिताभेदं चकार *पुत्रमध्यापयामास सुमन्तुमथ जैमिभिः । सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयन्मुनिः ॥ सुकर्माणं सुतं सुत्वा* इति वायूक्तेः ॥३||

हिरण्यनाभः कौसल्यः पौपिञ्जिश्च द्विजोत्तम । उदीच्यास्सामगाः शिष्यास्तस्य पंञ्चशतं स्मृताः ॥

हिरण्यनाभात्तावत्यस्संहिता यैर्द्विजोत्तमैः । गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ ५॥

            हिरण्यनाभ इति ॥ तस्य-पौष्पिंजेर्वक्ष्यमाणा लोकाक्ष्याद्याः पञ्चशतं शिष्याः उदीच्यास्सामगाः स्मृताः ॥ ४-५॥

लोकाक्षिः कौमुदिश्चैव कक्षीवाँलांगलिस्तथा । पौषपिंजिशिष्यास्तद्भेदैस्संहिता बहुलीकृताः ॥ ६॥

                       लोकाक्षिरीति ॥ तद्भेदैः-पौष्पिंजिशिष्यभेदैः, बहुलीकृता:-ख्यापिताः ॥ ६॥

हिरण्यनाभशिष्यस्तु चतुर्विंशति संहिताः । प्रोवाच कृतनामासौ शिष्येभ्यश्च महामुनिः ॥७॥

             हिरण्यनाभ इति ॥ कृतनामा राजा प्राच्यसामगेष्वन्यतमः ॥ ७॥

तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः । अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् ।

               अथर्ववेदं स मुनिस्सुमन्तुरमितद्युतिः ॥ ८॥

शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा । कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥९॥

              सुमन्तुर्व्यासशिष्यः ॥ ८,९ ॥

देवदर्शस्य शिष्यास्तु मेधो ब्रह्मवलिस्तथा । शौल्कायनिः पिप्पलादस्तथाऽन्यो द्विजसत्तम ॥१०॥

पथ्यस्यापि त्रयश्शिष्याः कृता यैर्द्विज संहिताः । जाबालिः कुमुदादिश्च तृतीयश्शौनको द्विज ॥११॥

शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे। द्वितीयां संहितां प्रादात्सैन्धवाय च संज्ञिने ॥१२॥

             देवदर्शस्येति ॥ अथर्ववेदे देवदर्शसंहिताश्चतस्रो मेधाद्यैर्गृहीताः ॥ १०-१२ ॥

सैन्धवान्मुञ्जिकेशश्च द्वेधाभिन्नास्त्रिधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥१३॥

              सैन्धवादिति ॥ मुञ्जिकेशसंहितयोशिष्या अन्येऽष्टौ ययोर्भेदेषु सुबहूपयोगाः पञ्च भेदा: नक्षत्रकल्पाद्याः। कल्पशब्दो वेदादिभिः प्रत्येकं संबध्यते । तथा वायु:-* नक्षत्रकल्पो वैतानस्संहितानां तथा विधिः । चतुर्थोऽगिरसा कल्पश्शान्तिकल्पश्च पञ्चमः । श्रेष्ठस्त्वधर्वणामेते संहितानां विकल्पकाः ॥ इति । नक्षत्रकल्पो ज्योतिषामंशः । वैतानकल्पो वेदकल्पो ब्रह्मत्वादियज्ञविधिः । संहिताकल्पो मन्त्रभागविधिः ॥ १३ ॥

चतुर्थस्स्यादांगिरसश्शान्तिकल्पश्च पञ्चमः । श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ १४ ॥

     चतुर्थ इति ॥ आङ्गिरसः कल्पोऽभिचारविधिः । शान्तिकल्पोऽष्टादशमहाशान्त्यादिविधिः ॥ १४ ॥

आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः। पुराणसंहितां चक्रे पुराणार्थविशारदः ॥ १५ ॥

प्रख्यातो व्यासशिष्योऽभूत्सुतो वै रोमहर्षणः। पुराणसंहितां तस्मै ददौ व्यासो महामतिः ॥ १६ ॥

             आख्यानैरिति ॥ आख्यानैः:-भारतादीतिहासैः, आख्यानैः-तत्प्रसक्तैः ऋभुनिदाघकथाद्यैः । गाथाः पितृपृथ्वीगीताद्याः। कल्पशुद्धिः-वाराहादिकल्पवृत्तान्तनिर्णयः । पितृकल्पमन्त्रकल्पविधिर्वा । एतैस्सह सर्गादिपञ्चलक्षणां पुराणसंहिताम्-अष्टादशपुरणानां संक्षेपरूपां व्यासश्चक्रे । यथोक्तं मास्ये-    * पुराणं सर्वशास्त्राणां प्रथमं ब्राह्मणं स्मृतम् । अनन्तरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ पुराणमेकमेवासीच्छतकोटिप्रविस्तरम् इति। धर्मसंहितायां च *ब्राह्ममेव कृते चाद्यं पुराणं श्रुतिसंमितम्। अष्टादशविधं तच्च शतकोटिप्रभेदतः ॥ तस्मात् त्रेतायुगे प्रोक्तं शतमेकादशोत्तरम् । पुराणसंहिताकर्ता द्वापरे व्यास एव हि॥ इति । पुनर्मात्स्ये च तदर्थोऽत्र चतुर्लक्षैस्संक्षेपेण निवेशितः। पुराणानि दशाष्टौ च सांप्रतं तदिहोच्यते ॥ इति । अयमर्थः कृतयुगे वेदात्पूर्वं ब्रह्मणा सृष्टस्य शतकोटिप्रविस्तरस्य पुराणस्कन्धस्य ब्राह्मसंज्ञस्य पुनस्त्रेतायां ब्रह्माद्यष्टादशर्षिभिः ग्रन्थकोट्या संक्षिप्य ब्राह्मपाद्माद्याष्टादशात्मना विभक्तस्यैकादशाधिकशतसंहितस्य पुनर्द्वापरान्ते तस्य सारं वेदव्यासः चतुर्लक्षेण संक्षिप्याष्टादशपुराणसंहितां कृत्वा रोमहर्षणं सूतमध्यापयदिति ॥ १५, १६ ॥

सुमतिश्चाग्निवर्चाश्च मित्रायुश्शांसपायनः । अकृतव्रणोऽथ सावर्णिष्षट्शिष्यास्तस्य चाभवन् ॥ १७ ॥

       सुमतिरिति ॥ सुमतिरित्यादि । तस्य-रोमहर्षणस्य ॥ १७ ॥

काश्यपस्संहिताकर्ता सावर्णिश्शांसपायनः । रोमहर्षणिका चान्या तिसृणां मूलसंहिता ॥ १८ ॥

              काश्यप इति ॥ काश्यपः- अकृतव्रणः, काश्यपो ह्यकृतव्रणः । इति वायूक्तेः । तिसृणां काश्यपादिकृतानां संहितानां चतुर्थी रोमहर्षणिकाख्यया व्यासेन संक्षिप्ता। रोमहर्षणेनाधीता वशिष्येभ्यः प्रतिपादिता। रोमहर्षणिना उग्रश्रवसाऽपि शौनकादिभ्यः ख्यापिता । तथा च मात्स्ये- चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा ।  मत्पित्रे  मम पित्रा तु मया तुभ्यं निवेदितम् ॥  इति । एवं  तन्मूलास्सर्वाः पुराणसंहिताः कलौ चतुर्विधाः, —  सर्वास्ता हि चतुष्पादाः सर्वास्ताश्चार्थवादिकाः । पाठान्तरपृथग्भूता वेदशाखा यथा तथा ॥ इति वायूक्तेः । कौर्मे तु स्वस्य स्वेनैव चतुर्भेदत्वमुक्तम् , *इदं तु पञ्चदशमं पुराणं कौर्ममुत्तमम् । चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ इति ॥ १८ ॥

चतुष्टयेन भेदेन संहितानामिदं मुने ॥१९॥

     चतुष्टयेनेति ॥ पुराणसंहितानामेतेन चतुष्टयेन मूलभूतेन तदर्थं स्मृत्वा पुरुषरभेदकालभेदानुगुण्येन मया इदं-वैष्णवं पुराणं कृतमित्यर्थः । एतत्संहिता चतुष्टयमूलत्वं सर्वपुराणानां साधारणम् ॥ १९ ॥

आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते । अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ॥ २० ॥

           ब्राह्मं पुराणं प्रशंसति-आद्यमिति । आद्यं-मूलभूतम् । पुराणसंख्यामाह-अष्टादशेति ॥२०॥

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथाऽन्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ २१ ॥

           तान्येवानुक्रामति–ब्राह्ममिति ॥ पुराणानां सर्वेषां चतुर्भेदत्वमुक्तम् । वैष्णवं तु षड्भेदम् । तेन पुराणान्तरेषु वैष्णवस्य दशसहस्राष्टसहस्रत्वाद्युक्तिस्संहिताभेदमानविषया कल्प्या। यथा लैङ्गे *पुराणं वैष्णवं चक्रे प्रसादाद्वै पराशरः। षट्प्रकारं समस्तार्थसूचकं ज्ञानसञ्चयम् ॥ दशसाहस्रसंमितं सर्ववेदार्थसंयुतम् ॥ शैवमात्स्ययोस्तु– * वैष्णवं  चाष्टसाहस्रमिति ; क्वचिद्देशे  नवसहस्रमुच्यते, क्वचिच्चतुर्विंशतिसहस्रं  क्वचित्  द्वाविंशतिसहस्रम् । इदं तु षट्सहस्रमस्माभिर्व्याख्यायमानम् । सर्गादिपञ्चकं पुराणानां सामान्यलक्षणम् । वैशेषिकं तु मात्स्योक्तम् । यथा- ब्रह्मणाऽभिहितं पूर्वं यावन्मात्रं  मरीचये । ब्राह्मं  तद्दशसाहस्रं पुराणं  परिकीर्त्यते ॥ एतदेव च वै  ब्राह्मं  पाद्मकल्पे जगद्धितम्। पाद्मं तत्पञ्चपञ्चाशत्सहस्राणि निगद्यते ॥ वाराहकल्पवृत्तान्तमधिकृत्य पराशरः यान्प्राह धर्मानखिलान् तद्युक्तं वैष्णवं विदुः ॥ विष्ण्वाख्यमष्टसाहस्रं तत्पुराणं विदुर्बुधाः । श्वेतकल्पे प्रसङ्गेन धर्मान् वायुरिहाब्रवीत् ॥ यत्र तद्वायवीयं स्यादुद्रमाहात्म्यसंयुतम् । चतुर्विशत्सहस्राणि पुराणं शैवमुच्यते ॥ यत्राधिकृत्य गायत्री वर्ण्यते धर्मविस्तरः। वृत्रासुरवधो यत्र तद्भागवतमुच्यते ॥ सारस्वताय मुनयो यच्छुण्येयुर्नरामराः। अष्टादशसहस्राणि तद्भागवतमुच्यते ॥ यत्राह नारदो धर्मान् बृहत्कल्पाश्रयानि ह। पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥ यत्राधिकृत्य शकुनिं धर्माधर्मविचारणा ॥ तद्द्वात्रिंशत्सहस्रं वै मार्कण्डेयमिहोच्यते ॥ २१ ॥

आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् । दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ॥ २२ ॥

         आग्नेयमिति ॥ शापावसाने भृगुणा ऋषिणा यत्प्रकाशितम् । चयनानां समुत्पत्तिरिष्टकागणनं तथा ॥ क्रतुसंख्यादितः कृत्वा ह्याग्नेयं तदिहोच्यते। आग्नेयं चाष्टसाहस्रं सर्वक्रतुफलप्रदम्॥ शतानीकेन पृष्टेन व्यासशिष्येण धीमता । सौरा धर्मा विशेषेण व्याख्यातास्तु सुमन्तुना ॥ एकत्रिंशत्सहस्राणि भविष्याख्यं सुभाषितम् । यत्र वै वैष्णवा धर्मा वसिष्ठेन महात्मना ॥ अंबरीषस्य वै प्रोक्तास्सर्गो ब्राह्मस्तथैव च ॥ पुराणं ब्रह्मवैवर्तं तद्द्वादशसहस्रकम् ॥ यत्तदीशानकल्पस्य वृत्तान्तमधिकृत्य च । नन्दिना लैङ्गमित्युक्तमेकादशसहस्रकम् ॥ २२ ॥

वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । महापुराणान्येतानि ह्यष्टादश महामुने ॥ २३ ॥

तथा चोपपुराणानि मुनिभिः कथितानि च । सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं च यत् ॥ २४ ॥

यदेतत्तव मैत्रेय पुराणं कथ्यते मया । एतद्वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम् ॥ २५ ॥

                    वाराहमिति ॥ महावराहस्य पुनर्माहात्म्यमधिकृत्य च । विष्णुनाऽभिहितं क्षोण्यास्तद्वाराहमिहोच्यते । मानवस्य  प्रसङ्गेन  कल्पस्य  मुनिसत्तमाः । चतुर्विशत्सहस्राणि तत्पुराणमिहोच्यते ॥ यत्र माहेश्वरान् धर्मानधिकृत्य व षण्मुखः। कल्पे तत्पुरुषे रुद्रचरितैरुपबृंहितम् ॥ स्कान्दं नाम पुराणं तत्सहस्रशतसम्मितम्। त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः ॥ त्रिवर्गं च त्रिदैवत्यं वामनं परिकीर्त्यते ॥ चतुर्दशसहस्राणि श्वेतकल्पानुगं शिवम् ॥ यत्र धर्मार्थकामानां मेक्षस्य च रसातले । माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥ इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यश्शक्रसन्निधौ । कौर्मं तत् षट्सहस्राणि (लक्ष्मी) अग्निकल्पानुषंगिकम् ॥ श्रुतीनां यत्र कल्पादौ प्रवृत्यर्थं जनार्दनः । मत्स्यरूपी च मनवे नरसिंहोपवर्णनम्। अधिकृत्याब्रवीत्सप्तकल्पवृत्तं सहव्रतम् । तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश ॥ यथा च गारुडे कल्पे विश्वाण्डं गरुडोद्भवम् । अधिकृत्याब्रवीद्विष्णुर्गारुडं तदिहोच्यते ॥ तत् षोडशसहस्राणि  नृपते त्विह पठ्यते । ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः। तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् । भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः॥ तद्ब्रह्माण्डं पुराणं तु ब्रह्मणा समुदाहृतम् ॥ इत्यादि ॥ २३-२५ ॥

सर्गे च प्रतिसर्गे च वंशमन्वंतरादिषु । कथ्यते भगवान्विष्णुरशेषेष्वेव सत्तम ॥ २६ ॥

                  सर्गे चेति ॥ अशेषेषु पुराणेषु सर्गप्रतिसर्गादिषु कर्तृत्वेन भगवान् विष्णुः कथ्यते, सर्गादेस्तत्कर्तृकत्वात् *यतो वा इमानि भूतानि* इत्यादिश्रुतेः । – विष्णुर्ब्रह्मा शिवो विष्णुर्विष्णुरादित्य एव च । सर्वं विष्णुमयं ब्रह्मन्निति पौराणिकं वचः ॥ एवमेव पुराणेषु दशस्वष्टसु नान्यथा। अन्यथा ये प्रपद्यन्ते नारकास्ते भवन्ति वै॥ इत्यादित्यपुराणम् ॥२६॥

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ २७ ॥

         पुराणानां वेदोपबृंहकत्वेन धर्मवेदनहेतुत्वाद्धर्मविद्यास्थानेषु अन्तर्भावं दर्शयति-अङ्गानीति ॥ इतिहासस्य पुराणेऽन्तर्भावः, * इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् – इति वचनात् ॥ २७ ॥

आयुर्वेदो धनुर्वेदो गांधर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः ॥ २८॥

          आयुरिति ॥ आयुर्वेदादिचतुष्कस्य दृष्टप्राधान्यात्केवलविद्यास्थानत्वात् न धर्मस्थानत्वमिति तस्य पृथगुक्तिः। *आयुर्वेदो वैद्यशास्त्रं गान्धर्वो गीतशासनम्। अर्थशास्त्रं दण्डनीतिर्धनुर्वेदोऽस्त्रशासनम्॥ चत्वार उपवेदास्ते * इति वैजयन्ती ॥ २८ ॥

ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्यो ऋषिप्रकृतयस्त्रयः ॥ २९॥

   वेदप्रसङ्गात्तदर्शिन ऋषयो वंशभेदात् निधोक्ताः ज्ञेया इत्यादिना ॥ ऋषिप्रकृतयः-प्राषिस्वभावाः ॥२९॥

इति शाखास्समाख्याताश्शाखाभेदास्तथैव च । कर्तारश्चैव शाखानां भेदहेतुस्तवोदितः ॥ ३० ॥

          इतीति ॥ भेदहेतुः मनुष्याणां बलाद्यल्पत्वम् ॥ ३० ॥

सर्वमन्वन्तरेष्वेवं शाखाभेदास्समाः स्मृताः ॥ ३१ ॥

प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ ३२ ॥

एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया । मैत्रेय वेदसंबन्धं किमन्यत्कथयामि ते ॥ ३३ ॥

        सर्वमन्वन्तरेष्विति ॥ प्राजापत्या-ब्रह्मदृष्टा ; तद्विकल्पा:-तस्या विभागभूताः इमे अधीयमानाः शाखाभेदाः अनित्या इव प्रतिद्वापरं किञ्चिद्भिन्नपाठतया शाखान्तरत्वं नीताः सन्तः समन्तात् नित्या एव तथातथा दृश्यन्ते ॥ ३१-३३ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयांशे षष्ठोऽध्यायः ॥ ६॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते विष्णुपुराणव्याख्याने  श्रीविष्णुचित्तीये तृतीयांशे षष्ठोऽध्यायः ॥ ६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.