श्रीविष्णुपुराणम् Amsa 03 Ady 15

श्रीविष्णुपुराणम्

अथ पञ्चदशोऽध्यायः

और्वः-            ब्राह्मणान्भोजयेच्छ्राद्धे यद्गुणांस्तान्निबोध मे ॥ १ ॥

त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्गवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः॥ २ ॥

ऋत्विक्स्वस्त्रीयदौहित्रजामातृश्वशुरास्तथा । मातुलोऽथ तपोनिष्ठः पश्चाग्न्यभिरतस्तथा । शिष्यास्संबन्धिनश्चैव मातापितृपरश्च यः ॥ ३ ॥

               त्रिणाचिकेत  इति ॥ द्वितीयकाठकस्थानुवाकविशेषास्त्रिणाचिकेत: , तदध्यायी तदर्थानुष्ठायी च त्रिणाचिकेतः । मधुवाता इति त्र्यचामध्यायी तद्व्रतस्त्रिमधुः। छान्दोग्योक्तमधुविद्या नेष्ठो वा । * ब्रह्ममेतुमामित्यनुवाकत्रयाच्यायी तद्व्रतश्च त्रिसुपर्णः । [चतुर्वगेंत्र्यचाध्यायी] । योगी—ब्रह्माध्यायी । * मूर्द्धानं  दिव  इत्याधृग्विशेषगीतम्  आज्यदोहमित्यादिपरिभाषितस्सामविशेषो ज्येष्ठसाम,  तद्यथावत्  गायगीति ज्येष्ठसामगः । [ ऋतनिधनादिपरिभाषाविशेषितं मूर्धानं दिव इत्यादिऋग्विशेषितं साम ।] सामत्रयादिसामशाखानाम् । जैमिनीयाना तु उय चित्रमित्र्यृचोत्पन्नं साम त्रेधा सभ्यावसभ्यो द्वौ चेति पञ्चाग्नयः । सावित्रनाचिकेतचातुर्होत्र्यवैश्वसुजारुणकेतुकास्तेषामुपासकः, वेदान्तोक्तपञ्चाग्निविद्यायुक्तो वा ॥ १-३ ॥

एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नृप । ब्राह्मणान्पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान् ॥ ४ ॥

          एतानिति पूर्वोक्तानमसंबंधिनः त्रिणाचिकेतादीन् प्रथमं नियोजयेत्-निमन्त्रयेत् । तेषामभावे अनन्तरान् तद्गुणान् संबन्धिनोऽपि ऋत्विगादीन् अनुकल्पेषु ॥ ४॥

मित्रधुक्कुनखी कीवश्श्यावदन्तस्तथा द्विजः । कन्यादूपयिता वह्निवेदोज्झस्सोमविक्रयी ॥ ५ ॥

             मित्रधुगिति | निसर्गात् कुनखी कृष्णदन्तश्च ॥ ५ ॥

अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकस्तद्वद्भृतकाध्यापितश्च यः ॥ ६ ॥

             अमिशस्त इति ॥ सत्येन वाऽसत्येन वा महापातकेनाभिशतः ॥ ६॥

परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥ ७ ॥

             परपूर्वेति ॥ परपूर्वा-पुनर्भूः, वह्निवेदोज्झकः अकारणात् ॥ ७ ॥

                  तथा देवलकश्चैव श्राद्धे नार्हन्ति केतनम् ॥ ८ ॥

प्रथमेऽह्नि बुधश्शस्ताञ्छ्रोत्रियादीन्निमन्त्रयेत् । कथयेच्च तथैवैषां नियोगान्पितृदैविकान् ॥ ९ ॥

तथेति ॥ देवलक:-रुद्र काल्याद्युपजीवकः । केतनम् निमन्त्रणम् ॥ ८, ९ ॥

ततः क्रोधव्यवायादीनायासं तैर्द्विजैस्सह । यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥ १० ॥

श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च। व्यपायी रेतसो गर्ते मज्जयत्यात्मनः पितृन्॥११॥

         [प्रथमेहनीत्यादिद्वयोरेकं वाक्यम् ।] तत इति ॥ द्विजैस्सह न कुर्वीत-द्विजाश्च न कुर्वीरन् इत्यर्थः ॥१०, ११॥

तस्मात्प्रथममत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् । अनिमन्त्र्य द्विजानेवमागतान्भोजयेद्यतीन् ॥ १२ ॥

                   पादशौचादिना गेहमागतान्पूजयेद्द्विजान् ॥ १३ ॥

पवित्रपाणिराचान्तानासनेषूपवेशयेत् । पितृणामयुजो युग्मान्देवानामिच्छया द्विजान् ॥ १४ ॥

                   देवानामेकमेकं वा पितृणां च नियोजयेत् ॥ १५ ॥

           तस्मादिति । यतीन्-नियतेन्द्रियान् ॥ १२-१५ ॥

तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसंपन्नस्तन्त्र वा वैश्वदैविकम् ॥ १६ ॥

तथेति ॥ तन्त्रं-सकृदनुष्टानम् ; पितृमातामहवर्गश्राद्धयोरेकमेव वैश्वदेवमित्यर्थः ॥ १६ ॥

प्राङ्मुखान्भोजयेद्विप्रान्देवानामुभयात्मकान् । पितृमातामहानां च भोजयेच्चाप्युदङ्मुखान् ॥ १७ ॥

पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥ १८ ॥

विष्टरार्थं कुशं दत्वा संपूज्यार्घ्यविधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥ १९ ॥

यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥ २० ॥

पितॄणामपसव्यं तत्सर्वमेवोपकल्पयेत् । अनुज्ञां च ततः प्राप्य दत्वा दर्भाद्विधाकतान् ॥ २१ ॥

मन्त्रपूर्वं पितृणां तु कुर्यादावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नृप ॥ २२ ॥

काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् । ब्राह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥ २३ ॥

योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥ २४ ॥

तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितोऽतिथिः ॥२५॥

            प्राङ्मुखानिति ॥ उभयात्मकान्-पितृमातामहवर्गान् ॥ १७-२५ ॥

जुहुयाद्वय्ञ्जनक्षारवर्जमन्नं ततोऽनले । अनुज्ञातो द्विजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ॥ २६ ॥

अग्नये कव्यवाहाय स्वधेत्यादौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम् ॥ २७ ॥

वैवस्वताय चैवान्या तुतीया दीयते ततः । हुतावशिष्टमल्पान्नं विप्रपात्रेषु निर्वपेत् ॥ २८ ॥

ततोन्नं मृष्टमत्यर्थमभीष्टमतिसत्कृतम् । दत्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥ २९ ॥

भोक्तव्यं तैश्च तचित्तैर्मौनिभिस्सुमुखैः सुखम् । अक्रुद्व्यता चात्वरता देयं तेनापि भक्तितः ॥ ३० ॥

रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वा ध्येयास्वपितरस्स्त एव द्विजसत्तमाः ॥ ३१ ॥

पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥ ३२ ॥

पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्ति प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥ ३३ ॥

पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥ ३४ ॥

पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ॥ ३५ ॥

मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता तु योऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ ३६ ॥

              यज्ञेश्वरो हव्यसमस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च्स सर्वे ॥ ३७ ॥

तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्यादाचमनार्थाय तेभ्यो वारि सकत्सकृत् ॥ ३८ ॥

सुतृप्तैस्तैरनुज्ञातस्सर्वेणान्नेन भूतले । सतिलेन ततः पिण्डान्सम्यग्दद्यात्समाहितः ॥ ३९ ॥

पितृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥ ४० ॥

दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥ ४१ ॥

           जुहुयादिति ॥ व्यञ्जनं-शाकादि,  क्षारं-मरीचलवणादि ॥ २६-४१ ॥

पितामहाय चैवान्यं तत्पित्रे च तथाऽपरम् । दर्भमूले लेप(भा)भुजः प्रीणयेल्लेपघर्षणैः ॥ ४२ ॥

पिण्डैर्मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः । पूजयित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥ ४३ ॥

पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर । सुखधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ॥४४॥

दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् । प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत् ॥ ४५ ॥

तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाऽऽशिषः । पश्चाद्विसर्जयेद्देवान्पूर्वं पैत्र्यान्महीपते ॥ ४६ ॥

मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजने च स्वशक्त्या च दाने तद्वद्विसर्जने ॥ ४७ ॥

          पितामहायेति ॥ लेप(भा)भुजः-चतुर्थादीन् , * लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः . इति स्मृतेः ॥ ४२-४७ ॥

 आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रमातामहेषु वै ॥ ४८ ॥

             आपादेति ॥ वैश्वदेवतन्त्रपक्षे पूर्वं वैश्वदेविकान् द्विजानर्चयेत् । ततः पितृवर्गान् , ततो मातामहादीन् । विसर्जनं तु प्रथमं पितृणां ततो मातामहादीनामित्यर्थः ॥४८ ॥

विसर्जयेत्प्रीतिवचस्सम्मानाभ्युत्थितांस्ततः । निवर्त्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥ ४९ ॥

ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियां बुधः । भुञ्जीयाच्च समं पूज्यभृत्यबन्धुभिरात्मनः ॥ ५० ॥

एवं श्राद्धं बुधः कुर्यात्पैत्र्यं मातामहं तथा । श्राद्धैराप्यायिता दधुस्सर्वान्कामान्पितामहाः ॥ ५१ ॥

          विसर्जयेदिति ॥ ततस्संमान्याभ्यर्थितान् देवान् विसर्जयेत् । दौहित्रः उद्देश्यस्य । पितरो हि सप्त गणाः कन्यासन्ततिप्रधानाः ॥ ४९-५१ ॥

श्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य कथा दानं तथा संदर्शनादिकम् ॥ ५२ ॥

वर्ज्यानि कुर्वता श्राद्धं क्रोधोऽध्वगमनं त्वरा । भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥ ५३ ॥

विश्वेदेवास्सपितरस्तथा मातामहा नृप । कुलं चाप्यायते पुंसां सर्व श्राद्धं प्रकुर्वताम् ॥ ५४ ॥

          त्रीणीति ।। कुतपः-दिवसस्याष्टमो मुहूर्तः । अन्ये च कुतपास्सन्ति *मध्याह्नः स्वङ्गपात्रं च तथा नेपालकंबलः । रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः । अष्टावते यतस्तस्मात्कुतपा इति विश्रुताः॥* इति । रजतस्य कथा-कीर्तनम् । आदिशब्देन राजतपात्रादि गृह्यते ॥ ५२-५४॥

सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः। श्राद्धे योगिनियोगस्तु तस्माद्भूपाल शस्यते ॥ ५५ ॥

सहस्रस्यापि विप्राणां योगी चेत्पुरतःस्थितः । सर्वान्भोक्तृंस्तारयति यजमानं तथा नृप ॥ ५६ ॥

                 सोमाधार इति ॥ आधिकारिदेवता अग्निष्वात्ताद्याः वसुरुद्रादित्यरूपाः सन्ति । ते अस्मदादिनिमन्त्रितविप्रान् आविश्य तमुखेन श्राद्धं भुक्त्वा तृप्तास्सन्तो नित्यं स्वयोगाप्यायितसोमद्वारा अस्मदादिपितृंस्तल्लोकस्थान् तर्पयन्ति, कर्तृंश्चास्मदादीन् कामैर्वर्द्धयन्ति । ते चाधिकारिपितृगणास्सप्तचत्वारो मूर्तिमन्तोऽत्र त्रयः येषां मूर्तयः तेऽपि योगवलेन सोममाप्याययन्ति । सोमोऽप्यस्मदादिपितृणामाधारः पोषकश्च, तेषां च योगनिष्ठाः प्रिया इति श्राद्धे योगी निमन्त्र्यः । तेनास्माकं पितृगणाः सोमाधाराः प्रागेवोक्ताः । स च सोमोधिकरिपितृणां योगेन धार्यः । ते हि प्रजासर्गे नियुक्तत्वात् अग्नीसोमात्मकस्य जगतः सोमांशाधिक्यभावनया सृष्टिं पुष्णन्ति । एवमन्येऽपि योगिनः । तथा हरिवंशे भीष्मं प्रति शन्तनूक्ति:- [* आदिदेवसुतास्तात पितरो दिवि देवताः] * आदितेयास्तु ते तात पितरोऽदितिदेवताः ॥ तान्यजस्व महाभाग पितृश्राद्धैरतन्द्रितः ॥ ते हि श्रेयो विधास्यन्ति सर्वकामफलप्रदाः । त्वयैवाराध्यमानास्ते नामगोत्रादिकीर्तनैः ॥ अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत ॥ श्रादेषु ये प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः । सर्वत्र वर्तमानान्स्वान्पितृनथ – पितामहान् ॥ भावयिष्यन्ति सततं । श्राद्धदानेन पूजिताः ॥ इति । तत्रैव देवान्प्रति ब्रह्मा * श्राद्धैराप्यायिताश्चैव पितरस्सोममव्ययम् । आपीयमानं युष्माभिर्वर्धयिष्यन्ति नित्यशः ॥ श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति। श्राद्धानि पुष्टिकामाश्च ये चरिष्यन्ति मानवाः ॥ तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरस्सदा ॥* इति । तत्रैव *एते हि पितरस्तात योगिनां योगवर्द्धनाः । आप्याययन्ति ये पूर्वं सोमं योगवलेन वै ॥ तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम ॥ इति । वायुप्रोक्ते च * श्रादैः प्रीताः पुनस्सोमं पितरो योगमास्थिताः । आप्याययन्ति योगेन त्रैलोक्यं तेन जीवति ।। इति ॥ ५५, ५६॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे

पंचदशोऽध्यायः ।। १५ ।।

 

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते

विष्णुपुराणव्याख्याने तृतीयेशे पंचदशोऽध्यायः ।। १५ ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.