27 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः रावणंप्रतिसारणेनपृथक्पृथङ्नामनिर्देशेनतत्तस्पराक्रमादिप्रशंसनपूर्वकमृक्षवानरादियूथाध्यक्षप्रदर्शनम् ॥ १ ॥ तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ।। १ ।। पुनरुक्तेभ्योप्युत्कृष्टान्प्रधानयूथपतीन्वक्तुं प्रतिजानीते – तांस्त्वित्यादि । ये राघवार्थे पराक्रान्ताः सन्तः जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्यामीयन्वयः ॥ १ ॥ स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः […]
26 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः वानरबलावलोकनाय शुकसारणाभ्यांसहोच्चप्रासाद मारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तद्बलपराक्रमवर्णमपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥ तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ।। १ ।। अथ रावणाय सारणेन वानरयूथपतीनां वीर्यादिकथनपूर्वकं तत्प्रदर्शनं षड्विंशे-तदिति अक्वीबं अकातरं । प्रत्यभाषत अनिन्ददित्यर्थः ॥ १ ॥ यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। २ ।। अभियुञ्जीरन् युद्ध्येरन् […]
25 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः विभीषणेन रावणप्रेरणया रामसेनागणनाद्यर्थंप्रहितयोः कपिरूपधारणेनकपिसेना -प्रविष्टयोः शुकसारणनाम्नो राक्षसयोग्रहणेन रामेप्रत्यर्पणम् ॥ १ ॥ स्वप्रार्थनया रावणे संदेशनिवेदनचोदन पूर्वकं राममोचिताभ्यांशुकसारणाभ्यां रावणमेत्य तंप्रति विभीषणकृतस्वग्रहणादिनिवेदनम् ॥ २ ॥ तथा वानरसेनाया अपरिच्छेद्यत्व निवेदन पूर्वकं रामप्रभाववर्णनेनसीताप्रदानपूर्वकं तेनसन्धिविधानम् ॥ ३ ॥ सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ।। १ ।। अथ शुकसारणप्रेषणं पञ्चविंशे – सबल […]
24 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः लङ्कासमीपंगतैरन्तर्गतराक्षस सेनाक्रोश मसहमानैर्वानरैरुच्चैरुद्घोषणम् ॥ १ ॥ रामेणलक्ष्मणप्रति लङ्कावर्णनम् ॥ २ ॥ तथा सुरक्षितंसेनासंनिवेशनपूर्वकं वानरेभ्योबन्धाच्छु – राक्षसमोक्षणम् ॥ ३ ॥ शुकेन रावणमेत्यतंप्रति वानरकृतस्वबन्धादिनिवेदनपूर्वकं रामपराक्रमप्रशंसनेन तस्मैसीताप्रत्यर्पणस्य रणस्यवा करणचोदना ॥ ४ ॥ तेन शुकंप्रत्यात्मश्लाघनपूर्वकं रामेणस्वस्याजय्यत्वादिप्रलपनम् ॥ ५ ॥ सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥ […]
23 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः तीर्णार्णवेनरामेण लक्ष्मणंप्रति घोरतरसमरसूचकोत्पातप्रदर्शन पूर्वकमुत्साहेन सेनयाविभीषण सुग्रीवादिभिस्सहलङ्कांप्रति प्रस्थानम् ॥ १ ॥ निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।सौमित्रं सम्परिष्वज्य इदं वचनमब्रवीत् ॥ १ ॥ एवं रामो नलसेतुना तीर्णमहार्णवो महासमरसूचकान्महोत्पातान्दृष्ट्वा चिरप्रार्थिताभीष्टसिद्धिर्भविष्यतीति सन्तुष्टो दृष्टानि निमित्तानि निमित्तज्ञाय लक्ष्मणाय दर्शयति — निमित्तानीति निमित्तज्ञत्वे लक्ष्मणादप्याधिक्यं दर्शयितुं लक्ष्मणपूर्वज इत्युक्तं । संपरिष्वङ्गश्चिरप्रार्थितसमरस्यासन्नत्वात् । निमित्तापेक्षणस्यावश्यकत्वमुक्तं कामन्दके – निमित्तान्येव शंसन्ति शुभाशुभफलोदयम् […]
22 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः रामेण सप्रतिज्ञानसागरशोषणायब्रह्मास्त्राभिमन्त्रितशरसन्धानपूर्वकंधनुराकर्षणे घोरतरोत्पातप्रादुर्भावेभीतेनसागरेण गङ्गादिभिःसह नानाभूषणभूषितनिजरूपप्रकटन पूर्वकं समुद्रमध्यादुद्गमनेन श्रीराममेत्य साञ्जलिबन्धंक्षमापणम् ॥ १ ॥ रामेण धनुस्संहित निजशरस्यामोघत्वोक्त्यालक्ष्यप्रदर्शनंचोदितेनसागरेण स्वान्तर्वर्तिमरुकान्तार -वासिपापतराभीरेषुशरमोक्षणचोदने शराग्निनातद्वध पूर्वकंतरप्रदेशस्य मरुत्व दोषनिरसनम् ॥ २ ॥ सागरेणरामंप्रति कपिकुलमध्यवर्तिनलगुणप्रशंसनपूर्वकं तत्करेणसेतुरचनाचोदनेन -पुनरन्तर्धानम् ॥ ३ ॥ नलेनरामचोदनया कपिगणाहृतनानागिरितरुभिरद्भुतसेतुरचना ॥ ४ ॥ हनुमदङ्गदांससमारूढाभ्यांराघवाभ्यां सुग्रीवादिभिस्सहसेतुमार्गेण परपारमेत्यतत्र सेनासंनिवेशनम् ॥ ५ ॥ अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः ।अद्य […]
21 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः रामेण समुद्रप्रसादनायतत्तीरेसमास्तृतदर्भेषु निजभुजोपधानेननियमाच्छयनम् ॥ १॥ रामे दिवसत्रयमनवारतंकुशशयनेशयानेपि समुद्रेस्वशरीरमदर्शयति कोपाद्रामेण लक्ष्मणकराद्धनुरानयनेनकतिपयशरप्रक्षेपेण जलधिजलविक्षोभपूर्वकंजलधिजिघांसया शरान्तरसन्धानायधनुराकर्पणे लक्ष्मणेन सप्रतिषेधनंधनुरालंबनम् ॥ २ ॥ ततः सागरवेलायां दर्भानास्तीर्य राघवः ।अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ।बाहुं भुजङ्गभोगाभमुपधायारिसूदनः ।। १ ।। एवं प्रासङ्गिकं परिसमाप्य एकान्तरितपूर्वसर्गान्तोदितकथाशेषमुपक्षिपति-तत इत्यादि सार्धश्लोक एकान्वयः ॥ ततः शुकमोक्षणानन्तरं । सागरवेलायां शर्कराप्रचुरायां । दर्भान् शिताग्रकुशान् । आस्तीर्य […]
20 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः रावणचोदनयासागरोत्तरतीरमेत्य रामादिवृत्तान्तावगमनपूर्वकं लङ्कांपुनरागते नशार्दूलनाम्नाचारेणशवणे रामवृत्तान्तनिवेदनम् ॥ १ ॥ रावणप्रेषितेनपक्षिरूपधारिणाशुकनाम्नाराक्षसते नान्तरिक्षस्थेनैवसता सुग्रावे रावणसंदेशनिवेदनम् ॥ २ ॥ गगन मुद्गत्तैर्वानरैर्भूप्रापणपूर्वकंपीडितेनशुकेन स्वप्रार्थित रामनियोगात्तैर्विमोक्षणे पुनरन्तरिक्षमेत्यसुग्रीवंप्रति संदेशप्रार्थनम् ॥ ३ ॥ शुकंप्रतिसुग्रीवेणरावणे रामापराधात्पुत्रमित्रादिभिस्सहमारणप्रतिज्ञानरूपप्रतिसंदेश निवेदनचोदना ॥ ४ ॥ अङ्गदेन शुकेदूतत्व निषेधेनचारत्वसमर्थने वानरैः पुनर्ग्रहणेनबन्धनपूर्वकं तत्पीडनम् ॥५॥ शुकप्रार्थितेनरामेण तेभ्यस्तनिवारणम् ॥ ६॥ ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ।ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम […]
19 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः विभीषणेन मन्त्रिभिः सहगगनादवतीर्य श्रीरामचरणप्रणामपूर्वकं तंप्रति स्ववृत्तान्तनिषेदनेनस हस्वशरणागतिनिवेदनम् ॥ १ ॥ विभीषणेन रामचोदनयातंप्रतिरावण -कुंभकर्णादिपराक्रम निवेदनपूर्वकं यथाशक्तियुद्ध साहाय्यकरणप्रतिज्ञानम् ॥ २ ॥ रामेण विभीषणपरिष्वङ्ग पूर्वकंतस्य लक्ष्मणकरेणलङ्काराज्येऽभिषेचनम् ॥ ३ ॥ हनुमत्सुग्रीवाभ्यांसागरतरणोपायंपृष्टेनविभीषणेन तौप्रति रामेणसमुद्रंप्रतिशरणागतिकरणोक्तिः ॥ ४ ॥ रामेण लक्ष्मणसुग्रीवाद्यनुमत्यासमुद्रोपासनाय तत्तीरेसमास्तृतकुशोपरिशयनम् ॥ ५ ॥ राघवेणाभये दत्ते सन्नता रावणानुजः । विभीषणो महाप्राज्ञो भूमिं समवलोकयन् । खात्पपातावनीं […]
18 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः रामेणसुग्रीवंप्रति विभीषणस्यमित्र भावेनप्राप्तत्वरूपहेतुना त्यागानर्हत्वोक्तौ सुग्रीवेणतंप्रतिसप्रणामंतस्मिन्दोषोद्भावनेन प्रिहप्रार्थना ॥ १ ॥ रामेणतंप्रति विभीषणस्य निर्दोषत्वसमर्थनपूर्वकं शरणागतरक्षणस्यावश्यंकर्तव्यत्वे कपोतोपाख्यानस्यदृष्टान्तीकरणेनसह कण्डुमुनिवचनस्यप्रमाणीकरणेन शत्रुत्वेपिशरणागतरक्षणस्य स्वव्रतत्वोत्या तस्माअभयप्रदानोक्तिपूर्वकं तदानयनचोदना ॥ २ ॥ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ।। १ ।। एवं सुग्रीवादिभिः स्वस्वमते प्रतिपादिते स्वाभिमतमपि रामो वक्तुं प्रारभते – अथेति ॥ वायुसुतस्य वचनमिति […]