42 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः राक्षसैर्वानरसेनाकृतलङ्काद्वारनिरोधनंनिवेदितेनरावणेन प्रासादारोहणेन तत्सेनावलोकनम् ॥ १ ॥ उच्चप्रदेशारोहणेन लङ्कामवलोकयतारामेण सीतास्मरणेन -शोचनपूर्वकं वानरान्प्रतियुद्धचोदना ॥ २ ॥ ततोरावणचोदितराक्षसानां वानराणांच युद्धारंभः ॥ ३ ॥   ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥ अथ युद्धारम्भो द्विचत्वारिंशे – तत इति ॥ तत्र तस्मिन्काले ॥ १ ॥   रुद्धां तु […]

41 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः रामेण रावणकरग्रहणविमोचनेनपुनरागतंसुग्रीवंप्रत्यालिङ्गनपूर्वकं पुनरपितादृशसाहस करणप्रतिषेधनम् ॥ १ ॥ तथालक्ष्मणंप्रति युद्धादिसूचकदुर्निमित्तप्रदर्शनपूर्वकं सुवेलादवतरणेन -सुग्रीवेणसह रणायसेनासंनाहपूर्वकं लङ्कांप्रत्यभियानम् ॥ २ ॥ लङ्कांगतेनरामेण -नीलाङ्गदहनुमतां क्रमेण प्रागादिद्वारनिरोधनचोदनपूर्वकं स्वयंलक्ष्मणेन -सहरावणाधिष्ठितोत्तरद्वारमिरोधनम् ॥ ३ ॥ तथा राजनीत्यनुसारेणसंदेशनिवेदनाय रावणंप्रत्यङ्गदप्रेषणम् ॥ ४ ॥ अङ्गदेनरावणमेत्यराम संदेश निवेदने तन्नियोगेन राक्षसैरङ्गदग्रहणम् ॥ ५ ॥ तदुद्वहनेनैवगगनमुलुतेनाङ्गदेन स्वाङ्गविधूननेनरक्षसामधः पातनपूर्वकं पादाभिघातात्प्रासादभञ्जनेन पुनारामपार्श्वगमनम् ॥ ६ ॥ अथ तस्मिन्निमित्तानि […]

40 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः सुबेला चलस्थित्यालङ्कामवलोकमानेरामे पार्श्वस्थेनसुग्रीवेण लङ्कागोपुरराजोपचारै रामाभिमुखावस्थितरावणावलोकनम् ॥ १ ॥ तथाकोपादुत्प्लवेनरावणनिकटमेत्य तत्किरीट -पातनपूर्वकं तेनसहचिरंनियुद्धकरणम् ॥ २ ॥ तथा श्रान्तेनतेनमायोपक्रमे लाघवात्पुनाराम -पार्श्वगमनम् ॥ ३ ॥  ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोह ससुग्रीवो हरियूथपसंवृतः ।। १ ।। अथ सुग्रीवरावणयोर्द्वन्द्व युद्धकथनं चत्वारिंशे । अत्र प्रथमश्लोकः पूर्वोक्तानुवादः – तत इति ॥ योजनद्वयमण्डलं योजनद्वय विस्तारमण्डलं ॥ १ […]

39 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः रात्रौसुग्रीवादिभिःसहसुवेले सुखोषितेनरामेण प्रातलंङ्कावलोकनम् ॥ १ ॥ तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीर वनान्युपवनानि च ।। १ ।। अथ लङ्कादर्शनमेकोनचत्वारिंशे — तामिति ॥ ता रात्रिमित्यत्यन्तसंयोगे द्वितीया । ददृशुः प्रातरिति सिद्धं । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि ॥ १ ॥   समसौम्यानि रम्याणि विशालान्यायतानि च । दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः […]

38 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः सूर्येणास्ताचलारोहणे रामेण सुग्रीवादिभिः सह लङ्कावलोकनाय सुवेलाचलारोहणम् ॥ १ ॥ स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ।। १ ।। विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ।। २ ।। अथ लङ्कादर्शनार्थं सुवेलारोहणमष्टत्रिंशे–स त्वित्यादिश्लोकद्वयमेकान्वयं ।। धर्मज्ञत्वादि सुग्रीवस्यापि विशेषणं । सुवेलो नाम लङ्कासमतुङ्गताको […]

37 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः सुग्रीवादिभिः सहमन्त्रयमाणंश्रीरामंप्रति विभीषणेन लङ्कामेत्यरावणवृत्तान्ता -वगमेनपुनरागतनिजामात्यनिवेदितरावणकृतङ्कारक्षणसंविधानप्रकारनिवेदनम् ॥ १ ॥ रामेण लङ्कायाः प्रागादिद्वारत्रये क्रमेणयुद्धाय नीलाङ्गदहनुमन्नियोजनपूर्वकं स्वेनरावणाधिष्ठितो -त्तरभागेलक्ष्मणेनसहावस्थान निर्धारणेन सेनयासहलङ्काभियानम् ॥ २ ॥ नरवानरराजौ तौ स च वायुसुतः कपिः । जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ।। १ ।। अङ्गदो वालिपुत्रश्च सौमित्रिः शलभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ।। २ ।। गजो […]

36 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्स्त्रिंशः सर्गः रावणेनात्मश्लाघनेनरामवधप्रतिज्ञानपूर्वकं सोपालंभंमाल्यवद्विसर्जनम् ॥ १ ॥ तथा मन्त्रिभिस्सहमन्त्रपूर्वकं प्राच्यादिदिक्षु पुररक्षणायसैन्यैःसहप्रहस्तादिप्रेषणेनान्तःपुरप्रवेशः ॥ २ ॥ तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ।। १ ।। अथ लङ्कागुप्तिकरणं षट्त्रिंशे – तत्विति ॥ हितमुक्तं हितं यथा भवति तथा उक्तं । न मर्षयति नामर्षयत् ॥ १ ॥   स बद्ध्वा भ्रुकुटिं […]

35 Sarga युद्धकाण्डः

अथ पञ्चत्रिशः सर्गः ।। ३५ ।। रामसेनारणभेरीशङ्खरवश्रवणखिन्नेनरावणेन सभायांमन्त्रिणःप्रति तदानीमपितेषा मौदासीन्यस्यानौचित्योक्त्यागर्हणम् ॥ १ ॥ माल्यवतारावणंप्रति शास्त्रोदितनीतिप्रदर्शनपूर्वकं विपत्सूचकापशकुननिवेदनेन रामेणसंधानविधानम् ॥ २ ॥   तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ।उपयाति महाबाहू रामः परपुरञ्जयः ।। १ ।। अथ माल्यवदुपदेशः पञ्चत्रिंशे–तेनेति ॥ शङ्खविमिश्रेण शङ्खशब्दविमिश्रेण । उपयाति उपाययौ ।। १ ॥   तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ।। २ […]

34 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः सरमयासीतांप्रति रामे स्वेनसंदेशप्रापणप्रार्थने सीतयातस्यानौचित्यबुद्ध्या स्वविषयेरावणाध्यवसायावगतयेतत्प्रेषणं ॥ १ ॥ रावणाध्यवसायाधिगमेन पुनरागतयासरमया सीतांप्रति रावणमात्राऽविन्ध्यनाम्नामंत्रिणाचतंप्रति बहुधारामायसीताप्रत्यर्पणचोदनेपि तस्य तदनर्पणेदृढाध्यवसायनिवेदनम् ॥ २ ॥ तथा रामेण रावणहननपूर्वकमयोध्यांप्रतितदानयन -निवेदने तन्त्रोपश्रुतितयावानरसेनासंनाहभेरीशङ्खरवप्रादुर्भावः ॥ ३॥ अथ तां जातसन्तापां तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ।। १ ।। अथ सरमया रावणाशयपरिज्ञानं चतुत्रिंशे–अथ तामित्यादि । अथेति प्रथमश्लोकेन पूर्वसर्गोक्तानुवादः । […]

33 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः माया कल्पितशिरोदर्शनेनदूयमानांसीतांप्रति विभीषणभार्ययासरमया हेतूपन्यासेनसमाश्वासनम् ॥ १ ॥ सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी । आससादाथ वैदेहीं प्रियां प्रणयिनी सखी ।। १ ।। मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ।। २ ।। अथ सरमा सीतां समाश्वासयति त्रयस्त्रिंशे सीतामिति ॥ मोहितां रामविषयविपरीतज्ञानवतीं । सरमा विभीषणभार्या । प्रणयिनीं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.