श्री भगवद् गुण दर्पण: 901-1000
श्री भगवद् गुण दर्पण: 901-1000(Concluded) 96.901 स्वस्तिदः *901 दशमं शतकम् एवं महन्मङ्गलं ददाति इति स्वस्तिदः ।। [नि-901. भक्तेभ्यो मङ्गलं स्वस्ति ददातः स्मृतः ।।] 96.902 स्वस्तिकृत् *902 स्वगुणैः स्वभोगाशिषं करोति इति स्वस्तिकृत् ।। [नि-902. स्वस्ति भेगाशिषं यस्तु करोति स्वस्तिकृत् च सः ।।] 96.903 स्वस्ति *903 स्वयमेव महन्मङ्गलम् स्वस्ति । “स्वस्ति शिवाशिषोः ।।” […]
श्री भगवद् गुण दर्पण: 801-900
श्री भगवद् गुण दर्पण: 801-900 85.801 अर्कः *801 नवमं शतकम् ‘अहो! महात्माऽतिधार्मिकः’ इति तैः स्तुतः अर्कः । “अर्क स्तुतौ” ।। [नि-801. अत्यन्तधार्मिक इति स्तुतः अर्क ईरितः ।] 85.802 वाजसनिः *802 नास्तिक्यवादेन नास्तिक्यवादेन एहिकमन्नादिकमेव संभजतीति वाजसनिः । “वन पण संभक्तौ” “इन् सर्वधातुभ्यः ।” (उणा.पा.-4.119) “क्षपणकव्रतं हीदं यत् प्रातः प्रातः दध्योदनकबलान् गृह्णते इति ।।” […]
श्री भगवद् गुण दर्पण: 701-800
श्री भगवद् गुण दर्पण: 701-800 74.701 वसुः *701 अष्टमम् शतकम् एतदवतारागमं क्षीरार्णव-निकेतनत्वमाह-वसुः । तत्र वसति इति । यथा- “स लोकानां हितार्थाय क्षौरोदे वसति प्रभुः”, (भार.स.47.26) “एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् ।।” इत्यादि ।। [नि-701. वसतीति वसुः लोकहितेच्छुः क्षीरसागरे ।।] 74.702 वसुमनाः *702 तत्र लक्ष्मीजन्मभूमौ वसतोऽपि वसौ-वसुदेवे मनः अस्येति […]
श्री भगवद् गुण दर्पण: 601-700
श्री भगवद् गुण दर्पण: 601-700 63.601 वृषभाक्षः *601 सप्तम-शतक-प्रारंभः तच्च धर्मद्वारेण इति वृषभाक्षः । फलवर्षी वृषभो धर्मः, सः अक्षः- संसार चक्राधारो यस्मात् ।। [नि-601. यतोऽक्षो वृषभो धर्मो वृषभाक्षः स उच्यते ।।] 63.602 वृषप्रियः *602 एवं प्रवर्तकनिवर्तकधमाँ प्रियो अस्येति वृषप्रियः । तत्प्रियत्वेन हि द्वैधानां कर्मणां धर्मत्वम् । तत्प्रियत्वख्यापनमेव च विध्यर्थः । इदं च […]
श्री भगवद् गुण दर्पण: 501-600
श्री भगवद् गुण दर्पण: 501-600 53.501 शरीरभूतभृत् *501 ।। षष्ठशतकप्रारंभः ।। “तस्य मूर्वा समभवत् द्यौः सनक्षत्रदेवता” इति आरभ्य, (भार.सा.348.49) “एतत् हयशिरः कृत्वा नानामूर्तिभिरावृतम्” इत्यन्तम् ।। (भार.शा.) [नि-501. देहभूतं जगत्तत्वं प्रकृत्यादिधरान्तकम् । शरीरभूतभृत् प्रोक्तो बिभर्तीति दशाक्षरः ।।] 53.502 भोक्ता *502 . “यत्तु तत्कथितं पूर्वं त्वया हयशिरो महत् । हव्यकव्यभुजो विष्मोः उदक्पूर्वे महोददौ ।।” […]
श्री भगवद् गुण दर्पण: 401-500
श्री भगवद् गुण दर्पण: 401-500 43.401 अनयः *401 पञ्चम-शतक-प्ररंभः स एव, असुहृद्भिः न नयः अस्य अस्तीति अनयः । यथा रावणेन– “हिमवान् मन्दरो मोरुः त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्याम् उद्धर्तुं न संख्ये भरतानुजः ।।” (राम.यु. 59.110) यद्वा “अयः शुभावहो विधिः”, सः अस्मादन्यो जगतो नास्तीति अनयः । यथा–(अमरकोश) “एते वयं सर्वंसमृद्धकामा येषामयं नो भविता प्रशास्ता” […]
श्री भगवद् गुण दर्पण: 301-400
श्री भगवद् गुण दर्पण: 301-400 33.301 युगादिकृत् *301 चतुर्थ-शतक-प्रारंभः वटपत्रशायी-अवतारः युगादिकृते युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्व सहस्रजित् अनन्तजित् ।। 33 ।। अथ अमर्यादार्यत्वम् । तत्र न्यग्रोध-शाय्यवतारः उदाहरणम् । युगस्य अन्तेऽपि आर्दिं करोति इति युगादिकृत् । स खलु समवर्त्ऽपि प्रलयात् अनुपप्लुतं दगत् प्रवर्तितवान् ।। [नि-301. न्यग्रोधशायी भगवान् पुराण-पुरुषोत्तमः । करोति आदिं युगस्यान्ते स युगादिकृत् ईरितः […]
श्री भगवद् गुण दर्पण: 201-300
श्री भगवद् गुण दर्पण: 201-300 22.201 सर्वदृक् *201 तृतीय-शतक-प्रारंभः 577. स एव सर्वान्- अनुकूल-प्रतिकूल-तटस्थान् यथार्हं नियन्तुं पश्यति इति सर्वदृक् । “दृशेश्च इति वक्तव्यम्” इति क्विन् । क्विन् पेरत्यय कुः । स हि सर्वतोमुखः ।। [नि-201. अनुकूलान् तटस्थाश्च प्रतिकूलानपि स्वयम् । नियन्तुं च यथायोग्यं यः पश्यति स सर्वदृक् ।।] 22.202 सिंहः *202 क […]
श्री भगवद् गुण दर्पण: 101-200
श्री भगवद् गुण दर्पण: 101-200(Continued) 11.101 अच्युतः *101 द्वितीयशतकप्रारंभः (320,557). तेभ्यः प्रपन्नेभ्यः न अपगतः अच्युतः । “यस्मात् न च्युतपूर्वोऽहम् अच्युतः तेन कर्मणा । ” “तस्याहं न प्रणश्यामि” (गीता. 6.30) “न त्यजेयं कथञ्चन” इति ।। (राम.यु,18.3) [नि.101. भक्तेभ्योऽच्युतपूर्वत्वात् अच्युतः परिकीर्तितः । आश्रितानां च्युतिः यस्मात् मास्ति सः अच्युत ईरितः ।।] 11.102 वृषाकपिः *102 अच्युतमेव […]
श्री भगवद् गुण दर्पण: 1-100
श्री भगवद् गुण दर्पण: (1-100) श्री विष्णुसहस्रनामभाष्ये प्रथमशतकप्रारंभ: अथ पञ्चसिद्धान्तनिष्ठानिर्णयेन पर-व्यूह-विभवविशेषेषु स्वनाम अर्थ प्रकरण- औचित्य- अपौनरुक्त्य- प्रभूतिभिः न्यायैः व्यवस्थाप्य, व्याकरण निरुक्त- आर्ष- निर्वचनप्रस्थानेन नामानि निरुच्यन्ते। 1.1 विश्वम् *1 1. तत्र पूर्वं सर्वतोमुखं भगवतः पूर्णत्वमाह– विश्वम् इति । विशति अवयवान् इत्यर्थे “अशुप्रुषि लटिकणि खटि विशिभ्यः क्वन्” इति क्वन् प्रत्ययः । (उणा.पा.-1.157) । यथा […]