श्री भगवद् गुण दर्पण: 801-900

श्री भगवद् गुण दर्पण: 801-900

 

85.801   अर्कः

                *801 नवमं शतकम् ‘अहो! महात्माऽतिधार्मिकः’ इति तैः स्तुतः अर्कः । “अर्क स्तुतौ” ।। [नि-801. अत्यन्तधार्मिक इति स्तुतः अर्क ईरितः ।]

85.802   वाजसनिः

                *802 नास्तिक्यवादेन नास्तिक्यवादेन एहिकमन्नादिकमेव संभजतीति वाजसनिः । “वन पण संभक्तौ” “इन् सर्वधातुभ्यः ।” (उणा.पा.-4.119) “क्षपणकव्रतं हीदं यत् प्रातः प्रातः दध्योदनकबलान् गृह्णते इति ।।” [नि-802. अन्नादीन् एहिकानेव यस्मान्मह्यां भजन्ति ते । स वाजसनिः इत्युक्तः वस्वर्णो अन्नप्रदो मनुः ।।]

85.803   शृङ्गी

                *803 शृङ्गमिव अहिंसाविढंबन-पिञ्छिका अस्य करे अस्तीति शृङ्गी । यथा– “बर्हिपत्रधरः” इति ।। (वि.पु.3.18.2)

85.804   जयन्तः

                *804 आस्तिक्यवादिनः संविदात्मत्व-प्रपंचमिथ्यात्व-मिथ्यावादैः जितवान् इति जयन्तः । “जि जये” “तृभूवहिवसि भासिसाधिगण्डिमण्डिजिनन्जिभ्यश्च” इति ‘झच्’ प्रत्ययः ।। (उणा.पा.-3.128) [नि-804. सर्वप्रपञ्चमिथ्यात्व-संविदात्मत्व-वादतः । आस्तिक्यवादिनां जेता जन्त इति कथ्यते ।। ]

85.805   सर्वविज्जयी

                *805 कथं च एतान् प्रमाणविरुद्धं प्रत्याययति? सर्वविझ्जयी । सर्वज्ञा अपि हि जय्या अस्य इति ।। [नि-805. यस्य डय्याश्च सर्वज्ञाः स उक्तः सर्वविज्जयी ।।] सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभीतो महानिधिः ।।86 ।।

86.806   सुवर्णबिन्दुः

                *806 सर्वशक्तित्वात् पटुतरपदकवर्णैः आस्तिकतापलापात् सुवर्णबिन्दुः । “बिदि अपलापे” [नि-806. विन्दति अपलापति आस्तिकत्वं पटुभिरक्षरैः । सुवर्णबिन्दुर्गदितः नवार्णः पापनाशनः ।। ]

86.807   अक्षोभ्यः

                *807 गंभीरशयत्वेन अविकार्यः ।। [नि-807. गभीराशयवत्त्वेन ह्यविकार्यतया परैः । अक्षोभ्यः सप्तावर्णः स्यात् अक्षोभ्यत्वप्रदायकः ।।]

86.808   सर्ववागीश्वरेश्वरः

                *808 सर्ववागीश्वरेश्वरः । अतो वादित्व-वाग्मित्वयोः पारं गतः । यथा– “उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा” इति ।। (राम.अ.1.14) [नि-808. वादिताया गतः पारं सर्ववागीश्वरेश्वरः । वाग्मितायाश्च सर्वेशः रव्यर्णो वाक्प्रदो मनुः ।।]

86.809   महाह्रदः

                *809 यत्र पापकर्माणः अपुनरुत्थानं निमज्जन्ति “क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिसु ” इति, यत्र च पुण्यकृतो गाहं गाहं तृप्यन्ति, सः महाह्रदः । ” ह्रद अव्यक्ते शब्दे ।” ह्रदते इति ह्रदः । पृषोदरादित्वात् ह्रस्वत्वम् ।। (गीता 16.19) [नि-809. मज्जन्ति पापास्तृप्यन्ति पुण्या इति महाह्रदः ।।]

86.810   महागर्तः

                *810 एवं बाह्य-कुदृष्टि-विनिविष्ट-नष्टात्मनां रौरवादिगर्ता अस्मात् इति महागर्तः । यथा– “अश्रद्दधानाः पुरुषाः धर्मस्यास्य परन्तप! । अप्राप्य मां निमर्तन्ते मृत्युस्सारवर्त्मनि ।।” इति ।। (गीता.9.3) एवं स्वशासनातिलंधिनाम् असुराणां निग्राहकत्वम् उक्तम् । अथ देवीं संपदम् अभिजातानां स्वशास्त्रवश्यानाम् अनुग्राहकत्वम् ।।

86.811   महाभूतः

                *811 महाभूतः- महान्तो महात्मानोऽस्य स्वभूताः । इति । यथा- “महात्मानस्तु मां पार्थ” इत्यादि ।। (गीता.9.13). [नि-811. निग्राहकत्वं कथितं स्वस्यैवाज्ञातिलंधनात् । स्वाज्ञानुवर्तिनां पुंसाम् अनुग्रहतोच्यते ।। महाभूतो महात्मनः स्वभूता यस्य स श्रुतः ।। ]

86.812   महानिधिः

                *812 ते निधिवत् अतिप्रिया अस्येति महानिधिः । “ये तु धर्म्यामृतमिदम्” इत्यादि ।। (गीता.12.20) [नि-812. महात्मनो मिधिरिव प्रिया यस्य महानिधिः ।।] कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ।।87।।

87.813   कुमुदः

                *813 कौ-प्रकृतिमण्डले एव, तैः सह मोदते इति कुमुदः ।। [नि-813. प्राकृते मण्डले भूमौ कुमुदः स्यात् स मोदनात् ।।]

87.814   कुन्दरः

                *814 कुं-मुक्तिभुवं ददातीति वा, कुन्दकुसुमवत् वैमल्याद्वा, कुन्दं-परतत्वज्ञानम्; पृषोदरादिः । तत् राति-ददातीति कपन्जरः । “आतोऽनुपसर्गे कः ।” (अष्टा.-3.2.3) “ददामि बुद्धियोगं तम्” इति ।। (गीता.10.10) [नि-814. मुक्तिभूमिप्रदा कुन्दसुमवत् विपुला मतिः । कुन्दम्, तत् राति दत्तेऽसौ कुन्दरः कीर्तितोऽथवा । कुमव्ययं पापवाचि कुन्दरः तस्य दारणात् ।।]

87.815   कुन्दः

                *815 स्वयं च कुन्दः जितपूर्वपूर्व-ज्ञानवैराग्यादि-भूमिकेभ्यः उत्तरोत्तरां परभक्ति-परज्ञानादिभुवं ददाति इति ।। अथवा कुम् इति निपातः । (निपातनात् मान्तत्वम्) । पापार्थो निपातितः । पापं दारयतीति कुन्दरः । अपि च विदारुतं पापं शोधयतीति कुन्दः ।। “दैप् शोधने”, “आतोऽनुपसर्गे कः” इति कः ।। (अष्टा.-3.2.3) [नि-815. भक्तेभ्यः परभक्त्यादि-प्रदानात् कुन्दः उच्यते । विदारितं पापज्ञातं कुन्दः शोधयतीति वा ।।]

87.816   पर्जन्यः

                *816 “अज अर्दने” पर्जन्यः इति ‘अन्य’ प्रत्ययः पर्जादेश्च निपात्यते । स्वतत्त्व-ज्ञापनेन त्रितापापहः पर्जन्यः ।। [नि-816. स्वतत्त्वज्ञानदान्न नित्यं तापत्रयापहा । पर्जन्यः सः ।।]

87.817   पावनः

                *817 तथा पवते इति पवनः पविः गत्यर्थः ।। [नि-817. तदर्थ च पवते पवनश्च सः ।।]

87.818   अनिलः

                *818 “तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः” इति ।। [नि-818. स्वस्य यस्मात् प्रेरकोऽन्यः प्रपन्नानुग्रहे सदा । नापेक्ष्यः सोऽनिलः प्रोक्तः मुन्यर्णो मनुरुत्तमः ।।]

87.819   अमृताशः

                *819 तान् स्वगुणामृतम् आशयतीति अमृताशः ।। [नि-819. यश्च आशयति भक्तान् वै स्वगुणामृतमादरात् । अमृताशः स इत्युक्तः श्रितपीयूषदो मनुः ।।]

87.820   अमृतवपुः

                *820 रूपमपि अमृतमस्येति अमृतवपुः ।। [नि-820. वपुर्यस्यामृतसमं स च अमृतवपुः स्मृतः ।।]

87.821   सर्वज्ञः

                *821 तेषां शक्याशक्य-साध्यासाध्यादिकम् अनुसन्धत्ते इति सर्वज्ञः ।। [नि-821. शक्ताशक्यादिकं सर्वं शाध्यासाध्यादिकं च यः । भक्तानामा अनुरान्धत्ते स सर्वज्ञ इतीरितः]

87.822   सर्वतोमुखः

                *822 तेषामनेनैव मुखेन सुग्रहः, न अन्येन इति नियमं निर्धूय येन केनापि व्याजेन सुप्रवेशत्वात् सर्वतेमुखः । यथा– “आर्तो वा यदि वा दृप्तः परेषां शरणागतः” इत्यादि ।। (राम.यु.18.28) [नि-822. तत्तन्नियममुत्सृज्य यो ज्ञातुं शक्यते बुधैः ।] व्याजेन येन केनापि स स्मृतः सर्वतोमुखः ।। सुलभः सुव्रतः सिद्धः शत्रुजित्-शत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थः चाणूरान्ध्रनिषूदनः ।। 88 ।।

88.823   सुलभः

                *823 ततः शुलभः-अनर्घोऽपि मूल्याभासान स्वीकर्तुं शक्यः, यथा अङ्गरागदीयिनी नैकवक्रा “वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै” इति स्वाधीनं चकार ।। [नि-823. सर्वेषां सुखलभ्यत्वात् शुलभः परिकीर्तितः ।।]

88.824   सुव्रतः

                *824 यथा कथंचित् प्रविष्टानां सर्वथा परिपालनदृढव्रतः लुव्रतः यथा– “सकृदेव प्रपन्नाय” इत्यादि ।। (राम.यु.18.33) [नि-824. येन केनापि विषिटानां सर्वथा परिपालनम् । दृढं सुष्ठुं व्रतं यस्य स सुव्रतः उदाहृतः ।।]

88.825   सिद्धः

                *825 स्वतत्वस्थितिविदां सिद्धः-अयत्नसाध्यः । न हि अस्य गोप्तृत्वम् ओपाधिकं सदा स्वत एव सर्वगोप्तृत्वात् । इति साक्षादाविर्भावाः अथ व्यवहिताः ।। [नि-825.अयत्नसाध्यः सिद्धः स्यात् स्वतत्त्वस्थितिवेदिनाम् ।। ]

88.826   शत्रुजिच्छत्रुतापनः

                *826 तत्र शत्रुचिद्भिः ककुत्स्थ-पुरुकुत्सादिभिः स्वदिव्य-तेजसा आप्यायितैः भगवतः चराचरगुरोः अच्युतस्य तेजसा आप्याय्तो देवासुर-संग्रमे समस्तानेव असुरान् निजघान” इति । (वि.पु.4.2.31) यथा च- “पुरुकुत्सः — रसातलगतश्च असौ भगवत्तेजसा आप्याय्तवीर्यः सकलगन्धर्वान् जधान” इति च ।। (वि.पु.4,3,10) [नि-826. पुरुकुत्सककुस्थाद्यैः शत्रुजिद्भिः स्वतेजसा । आप्यायितेरपि परान् यस्तापयति नित्यशः । अयमेकपदेन उक्तः शत्रुजित-शत्रुतापनः ।।]

88.827   न्यग्रोधोदुम्बरः

                *827 न्यग्रोधश्च असौ उदुम्बरश्च इति व्यग्रोधोदुम्बरः । न्यग्भूतैः –अधः कृताञ्जलिभिः, रुध्यते-स्वप्रसादौन्मुख्येन व्यवस्थाप्यते इदि न्यग्रोधः । यथा- “अञ्जसिलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी” । इति , (विष्णुधर्मोत्तरे 33.105) “कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ।।” इति ।। (राम.कि.32.17) सर्वगुणैः उद्गतम् अम्बरं-परं धाम, तदुपलक्षिताः लक्ष्मीपरिजनादयः अस्य इति उदुम्बरः । पृषोदरादित्वात् वर्णव्यत्ययः । अत्युच्छ्रित-सेव्योऽपि आत्यन्तनी चानामपि अनुवर्तनसाध्यः इत्यर्थः ।। वैष्णवे- “एवं मौनेयगन्धर्वविधूतैः उरुगैरपि । अर्थितो भगवान् आदिपुरुषः पुरुषोत्तमः ” इत्यादौ व्यक्तमेतत् ।। (वि.पु.4.3.4) [नि-827. न्यग्भूतैः प्रणतैः स्वानुग्रहोन्मुख्येन रुद्ध्यते । यो व्यवस्थाप्यते नित्यं न्यग्रोधः स उदाहृतः ।। गुणत्रयादुद्गतं यत् परमं धाम चाम्बरम् । यस्योदुम्बर एष स्यात् उः पृषोदरनीतितः ।। न्यग्रोधोदुम्बर इति ह्येकं नाम प्रकीर्तितम् । अत्युच्छ्रितानां सेव्यो योऽप्यतिनीचानुवर्तनः । न्यग्रोधोदुम्बरः स स्यात् दशर्णः सर्वसिद्धिदः ।।] अथ प्रादुर्भावान्तरसंज्ञः स्वाङ्गभूते तत्तद्देवतामुखेन जगन्नियमनम् ।।

88.828   अश्वत्थः

                *828 तत्र अद्य स्थितमपि न श्वः – अनित्यम्, इन्द्रादित्यादि-पदं येषां, तेषु नियामकतया तिष्ठतीति अश्वत्थः । पृषोदरादिः । यथा वैष्णवे– “मूर्तिं रजोमयीं ब्राह्यीमाश्रित्य सृजदि प्रजाः । आश्रित्य पौरुषीं मूर्तिं सात्त्विकीं यः स पालयन् । कालाख्यां तामसीं मूर्तिमाश्रित्य ग्रसते जगत् ।।” इत्यादि ।। (वैष्णवे) [नि-828. अनित्यमिन्द्रादिपदं येषां तेष्वपि तिष्ठति । नियामकत्वेन इत्येवम् अश्वत्थ इति कीर्तितः ।।]

88.829   चाणूरान्ध्रनिषूदनः

                *829 तद्विरोधिनं चाणूरनामानम् असुरान्ध्रमल्लं निषूदितवान् इति चाणूरान्ध्र निषूदनः । सुषामादित्वात् षत्वम् ।। [नि-829. चाणूराख्यासुरं योऽरिं मल्लं सुदितवानसौ । प्रोच्यते मुनिभिर्नित्यं चाणूरान्ध्रनिषूदनः ।।]

89.830   सहस्रार्चिः

                *830 पाचन-शोषण-प्रतापन-प्रकाशनधर्माणि अध्यक्षेण उपकारीणि सहस्रमर्चिंषि अनेन सूर्ये निषिक्तानि इति सहस्रार्चिः । श्रीपौष्करे- “अग्नीषोमात्मसंज्ञस्य देवस्य परमात्मनः । सूर्याचन्द्रमसौ विद्धि साकारौ लोचनेश्वरौ ।।” इति “यदादित्यगतं तेजो जगत् भासयतेऽखिलम् । यच् चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।।” इति ।। (गीता.15.12) [नि-830. सूर्ये सहस्रमर्चींषि शोषणादिषु हेतवः । अबिविष्टानि येनासौ सहस्रार्चिः इति स्मृतः ।।]

89.831   सप्तजिह्वः

                *831 तथा अग्निजिह्वाः देवाप्यायक-आहुतिग्रहण-वहनाधिकाराः काली-कराली-प्रभृतयः सप्त अस्येति सप्तजिह्वः । श्रीपौष्करे- “तद्वक्त्रदेवतानां च हुतभुक् परमेश्वरः । मन्त्रपूतं यदादाय हुतमाज्यपुरस्सरम् । ब्रह्माण्डभुवनं सर्वं सन्तर्पयति सर्वदा ।।” इति ।। [नि-831. यस्मात् काल्यादयो जिह्वा अग्नेः सप्त भवन्ति च । स सप्तजिह्वः आख्यातो लोकसन्तज्ञपणे रतः ।। ]

89.832   सप्तैधाः

                *832 इन्धनानि पाक-हविः सोमसंस्थानि प्रत्येकं सप्तसंख्यानि इष्टापूर्तरूपाणि सप्तवानस्पत्याः समिधः अस्येति सप्तैधाः ।। [नि-832. वानस्पत्याश्च समिधः सप्तसंस्थाः तथाऽथवा । इष्टापूर्तादिकर्माणि सप्तैधाः सन्ति यस्य सः ।।]

89.833   सप्तवाहनः

                *833 तत्प्रकाशक-गायत्र्यादिछन्दस्क-वैदिकमन्त्र-अभिमानीनि रविरथधुर्याणि सप्त वाहनानि अस्येति सप्तवाहनः । यथा आम्नायते- “सप्तप्राणाः प्रभवन्ति” इत्यादि । (तै.उ.6.10) “गुहानानि रवेरस्य सप्त” इत्युक्तम् । (तै.उ.6.10) सप्त वायुस्कन्धान् वहतीति वा । श्रीपौष्करे- “विश्वेशप्राणशक्तेर्वै वाय्वाख्याम् अधिदैवतम् । जगत्सन्धारकं चेव नानास्कन्धात्मना तु वै । एते भगवदारामाः तिष्ठन्त्यस्मिन् जगत्त्र्ये ।।” इत्यादि ।। [नि-833. यो वहत्यनिलस्कन्धान् सप्तासौ सप्तवाहनः । वाहनानि रवेरस्य सप्त वा सप्तवाहनः ।। ]”

89.834   अमूर्तिः

                *834 अथ एवम् अधिष्ठेयेम्यः स्वभावविप्रकर्षाः । अमूर्तिः- स्थूल-भौतिक- मूर्तिव्यावृत्तः इत्यर्थः ।। [नि-834. स्थूलभौतिकमूर्तिभ्यो व्यावृत्तः अमूर्तिः उच्यते ।।]

89.835   अनघः

                *835 अकर्मवश्यत्वेन तन्मग्न-जीवविलक्षणः अनघः ।। [नि-835. जीवेभ्यः कर्मवश्येभ्यो व्यावृत्तश्च अनघः स्मृतः ।।]

89.836   अचिन्त्यः

                *836 [नि-836. अचिन्त्यः दुर्निरूपः स्यात् मुक्ताद्युपमयाऽपि सः ।। ]

89.837   भयकृद्

                *837 स्वशासानतिवर्ति-अनुवर्तिषु यथास्ख्यं भयकृत्, [नि-837. आज्ञातिलंधिनां पुंसां नरकीदिभयंकरः । भयकृत् स समाख्यातः सप्तार्ण, भववज्ञधनः ।।]

89.838   भयनाशनः

                *838 भयनाशनः । “भयाभयकरः कृष्णः” इति ।। [नि-838. आज्ञानुवर्तिनां स्वस्य भयं नाशयतीति सः । भयनाशनः इत्युक्तो नवार्णः कर्मकारकः ।।] अणुर्बृहत् कृशः स्थूलो गुणभृत् निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। 90 ।।

90.839   अणुः

                *839 अथ अणिमाद्यधिष्ठानम् अतिप्रकृष्टम् ऐश्वर्यम् ।। अतिशूक्ष्मदहराकाश-अव्यक्त-जीव-अनुप्रवेश-सामर्थ्यात् अणुः । गत्यर्थात् अणतेः “अणश्च” इति उप्रत्ययः । तदणिमाप्येतदणुः । (उणा.पा.-1.8) “अणोरणीयान्” “निपुणो अणीयान् वितोर्णायाः” ।। (तै.उ.6.10) [नि-839. अतिसूक्ष्महृदाकाशव्यक्त जीवप्रवेशने । शक्तिमान् अणुः इत्युक्तः षडर्णः सर्वशक्तिदः ।।]

90.840   बृहत्

                *840 व्याप्त्या विपुल-परमव्योमादि चलकीकृत्य, अतिमहता महिम्ना बृहत् । “पृषद्बृहन्महत्” (उणा.पा.-2.85) इत्यादिना बृहेः अतिप्रत्ययः, शतृवद्भावश्च निपात्यते। यथा- “पृषद्बृहन्महम्” इत्यादिना बृहेः अतिप्रत्ययः, शतृवद्भावश्च निपात्यते । यथा- (उणादि.पा.2.244) “स भमिं विश्वतो वृत्वा अत्यतिष्ठत् दशाङ्गुलम्”, (पु.शू.1.) “महतो महीयान्”, “वर्षीयांश्च पृथिव्याः” इत्यादि ।। (तै.उ.6.10) [नि-840. विपुलं परमव्योम महिम्ना चुलकीकृतम् । येन नाम्ना बृहत् स स्यात् षडर्णश्च बृहत्त्वदः ।।]

90.841   कृशः

                *841 तुलानिसाद्यतिशायिना लघिम्ना सर्वत्राव्याहतगत्वरः कृशः । “कृश तनूकरणे” “इगुहधत्वात् कः ।” क्रशिमा च (अष्टा.- 3.1.135) अयं लघिमा च इति प्रकरमात् गम्यते । यथा- “अप्रमेयोऽन्योज्यश्च यत्रकामगमो वशी” इति ।। (भार. शभा. 40.78) [नि-841. सर्वत्राव्याहतगतिः लघिम्ना कृशः ईरितः ।।]

90.842   स्थूलः

                *842 सर्वम् अव्यवहितम् एकत्र स्थित्वा स्प्रष्टुं भूमिष्ठस्य च चन्द्रमसं परिमार्ष्टुं शक्तिः प्राप्तिः, तयाऽतिप्रकृष्टया विशिष्टः स्थूलः । “खर्जपिञ्जादिम्य ऊरोलचौ” इति ऊलच् । (उणा.पा.-4.91) “ध्रुवः समालभ्य तिष्ठति” इति ।। [नि-842. स्थित्वा एकत्र अखिलं स्पष्टुं शक्तिर्या महती सदा ।

90.843   गुणभृत्

                *843 स्वसंकल्पेन सर्वं स्वगुणभूतसर्वावस्थं कुर्वन् बिभर्ति इति गुणभृत् । इद मस्य प्रकृष्टमीशितृत्वम् । “सर्वस्य वशी सर्वस्येशानः” इति ।। [नि-843. संकल्पात् स्वगुणीभूत-सर्वावस्थमिदं जगत् । कुर्वन् बिभर्ति नित्यं यो गुणभृत् स स्मृतो बुधैः ।।]

90.844   निर्गुणः

                *844 अतद्वश्यतया तत्संस्पर्शेऽपि अस्पृष्ट-तदगुणः निर्गुणः– परपस्वतन्त्रः । इदमस्य परमं वशित्वम् — “विश्वस्य मिषतो वशी”, (तै.उ.6.1) “सत्त्वादयो न सन्तीशो यत्र च प्राकृता गुणाः इति च ।।” [नि-844. स्थितोऽप्यतद्वश्यतया जगति उस्पर्शनात् गुणैः । उक्तः स निर्गुण इति सप्तार्णः पावनत्वदः ।।]

90.845   महान्

                *845 प्राकाम्यम्-इच्छानभिधातः, भूमौ उन्मज्जति निमज्जति च यथोदके; अस्य परमप्रकर्षात् महान् । “महतेः पृषद्बृहत्” इत्यादिना पूर्ववन्निपातनम् । यथा– “संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः । यद्यदिच्छेत् अयं शोरिः तत्त्तत् कुर्यात् अयत्नतः ।। ” इति ।। [नि-845. भूम्यां महानीर इव हि उन्मज्जननिमज्जनात् । महान् प्राकाम्यसंपूर्र्त्या षडर्णस्तु महत्त्वदः ।।]

90.846   अधृतः

                *846 छायानुप्रवेशेन परचित्तवशीकारः अनुध्यानेन तच्चित्ताधिष्ठानम्, सजीवस्य उत्थितजीवस्य वा शरोरस्यानुप्रवेशनम्, इष्टापूर्ताधिष्ठानं च इति चतुर्विधं यत्र कामावशायित्वम् आहुः । तादृशवैश्वरूप्यप्रकर्शेण क्वचित् धृतो नियमितो न इति अधृतः । तत्प्रकर्षश्च सर्वदा स्वाच्छन्द्यम् । अतो हि इति ह स्म आहुः असिद्ध समाधयो हि वैदिकपुत्राः तत्संकल्पात् अपुरावृत्तिपरमपदं प्रापुः , भवावर्तेन पुनरावर्तन्ते च । चिन्दचित्स्वरूप-विपर्याससामर्थ्येऽपि असौ कस्यापि हेतोः न विपर्यासयति इति ।। [नि-846. यश्चानियाम्यः केनाऽपि हि अधृतः स तु कीर्तितः ।।]

90.847   स्वधृतः

                *847 मन्त्र-ओषधि-तपः-समाधि-सिद्धात् बद्धैश्वर्यात् भगवदैश्वर्यं व्यावर्तयति- स्वधृतः । एतदैश्वर्यमस्य न समाध्याद्युपाधिकम्, किं तु स्वभावतो धृतमिति स्वधृतः ।। [नि-847. स्वभावतो धृतैश्वर्यः स्वधृतः परिकीर्तितः ।।]

90.848   स्वास्यः

                *848 अथ मुक्तैश्वर्यात् -स्वास्यः आस्यां-आसनम् । “आतश्चोपसर्गे” इत्यङ् । सा शोभना अस्य इति । मुक्तस्य हि आविर्भूत-स्वाभाविक- ऐश्वर्यंरूपम् आसनं दुष्टम्, पूर्वम् अविद्यातिरेहितत्वात् । नैवं भगवतः सदाऽऽ विर्भावादिति ।। [नि-848. आसनं शोभनं यस्य स स्वास्यः इति कथ्यते ।। ]

90.849   प्राग्वंशः

                *849 अथ नित्यानामैश्वर्यात्-प्राग्वंशः । भूतः इति । सर्वं हि सर्वथा तदिच्छोपाधिकम् इत्यविवादः । सर्वस्यास्य संग्रहः वैष्णवे– “तथाऽष्टगुणैश्वर्यं नाथ ! स्वाभाविकं परम् । निरस्तातिशयं यस्य ततस्तोप्यामि किं क्वहम् ।।” इति ।। (पु.सू.1) [नि-849. अनादिमुक्ताः प्राञ्चो ये तेषामुद्भवभूमिदः । प्राग्वंशः इति विख्यातः सप्तार्णो मनुरुत्तमः ।।]

90.850   वंशवर्धनः

                *850 अथ तद्विलक्षणस्य तत्तत्-ताद्रूप्यहेतुत्वात् तत्र वंशवर्धनः वंशम् अनन्त रोक्तं स्वसन्तानभूतं नित्यवर्गसिद्धवर्गं वर्धयतीति । यथा- “प्रणतोऽस्मि अन्तसन्तानम्” इति ।। [नि-850. नित्यसिद्धस्य वर्गो यो वंशं सन्तानलक्षणम् । तं वर्धयति यश्चासौ वंशवर्धनः उच्यते ।।] भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। 91 ।।

91.851   भारभृत्

                *851 मुक्तानां च बन्धस्रंसन-स्वरूपाविर्भाव-स्वप्राप्तिभारं विभर्ति इति भारभृत् ।। [नि-851. मुक्तानां बन्धमोक्षादिभारस्य भरणाद्धि सः । भारभृत् सप्तवर्णः स्यात् कार्यनिर्वाहशक्तिदः ।।]

91.852   कथितः

                *852 तत्र प्रमाणयति -कथितः उक्तवक्ष्यमाण-गुणवत्तया सर्वशास्त्रेषु । यथा- “वेदेषु सपुराणेषु शाङ्गोपाङ्गेषु गीयसे ।” “वेदे रामायणै पुण्ये भारते भरतर्षभ ! । आदौ मध्ये तथान्ते च विष्णुः सर्वत्र गीयते ।।” “वचसां वाच्यम् ” इत्यादि ।। (जितंते 1.7) [नि-852. उक्तः शास्त्रेषु कथितः यः सर्वगुणवत्तया ।।]

91.853   योगी

                *853 सर्वमेतत् समभावयति इति योगी । युच्यते अनेन इति योगः — अघटितार्थघटनं महाब्रभावः, सोऽस्य अतिशयेन नित्ययोगेन चेति । यथा- “पश्य मे योगमैश्वरम्”, (गीता.11.8) “योगेश्वरः कृष्णः,” (गीता.18.78) “योगं योगेश्वरात् कृष्णात्”, (गीता.18.75) “महायोगेश्वरो हरिः” इत्यादि ।। (गीता.11.9) [नि-853. योगो हि अघटितार्थस्य घटनं तेन सर्वधा । यस्यास्ति नित्यसंबन्धः स योगी परिकीर्तितः ।।]

91.854   योगीशः

                *854 बद्धेष्वपि सहजसमाधिकानां सनकादियोरिनामपि धुर्यः योगीशः । “सनन्दनादीन् अपकल्मषान् मुनीन् चकार भूयोऽतिपवित्रितं पदम्” इति ।। (वि.पु) [नि-854. योगीशः सनकादीनां योगिनां धुर्य उच्यते ।।]

91.855   सर्वकामदः

                *855 [नि-855. अणिमादीन् सर्वकामान् योगस्खलितयोगिनाम् ।। अन्तरायतया मुक्तेः ददत् स्यात् सर्वकामदः ।।]

91.856   आश्रमः

                *856 ततो निवृत्त्य सुभिक्षपरविद्येषु वैष्णवगेगोषु तेषां विश्रान्तिहेतुः आश्रमः । “शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते” इति ।। (गीता.6.1) [नि-856. तेषां तु योगभ्रष्टानां हेतुर्वैष्णवसद्मसु । सुभिक्षपरविद्येषु विश्रान्तेः आश्रमः स्मृतः ।।]

91.857   श्रमणः

                *857 भोगन्मभ्याम् अनुपक्षीण-पूर्वसंस्कारैः तत्र समाधिशेषो अनायासेन श्रम्यते- अभ्यते इति श्रमणः । “युवोरनाकौ” इति अनः । (अष्टा.-7.1.1) “तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम्” इति ।। (गीता.6.43) [नि-857. अक्षीणपूर्वसंस्कारैः जन्मनाऽनुभवेन सः । श्रम्यतेऽभ्यस्यतेऽनेन श्रमणः परिकीर्तितः ।।]

91.858   क्षामः

                *858 एवं स्वयोगाभिमुख्यमात्रेण ते योगभ्रष्टा अपि दुर्ग तरितुं क्षमन्तेऽस्मा दिति क्षामः । घञ् । “न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति” इति ।। (गीता.6.40) [नि-858. योगाभ्मुख्यमात्रेण योगभ्रष्टा अपि स्वयम् । यस्मात् क्षमन्ते स क्षामो भवाब्धितरणाय वै ।।]

91.859   सुपर्णः

                *859 एवं प्रत्यापन्नसमाधीन् समाधि-विपाकद्वारा तमसः पारं नयतीति सुपर्णः । “स्वपारं भगवान् नयति” इति मौलाः “अनेकजन्म-संस्द्धः ततो याति परां गतिम्” इति ।। (गीता 6.45). [नि-859. प्रत्यापन्नसमाधीन् यः समाधेः परिपाकतः । नयते तमसः पारं सुपर्णः सच कीर्तितः ।। ]

91.860   वायुवाहनः

                *860 तांश्च प्रबलहेतुभिः पतितानपि वायुना-अनुपमगत्वरेण पतगपतिना वाहयति- उत्तारयतीति वायुवाहनः । यथा परमर्षिशापात् अधश्चर परमभागवतं वसुं गरुत्मता पुनः उपरिचरीचकार । श्रीविष्णुतत्त्वे च — “अथना पक्षिराट् तूर्णमागत्य स्वामिनः पदम् । नेष्यति” इति ।। [नि-860. वायुना गत्वरेणेव कर्मणः पतितान् सतः । गरुत्मता वाहयति यः स स्यात् वायुवाहनः ।।] धनुर्धरो धनुर्वेदो दण्डो दमयिताऽदमः । अपरोजितः सर्वसहो नियन्ता नियमो यमः ।। 92 ।।

92.861   धनुर्धरः

                *861 ईदृगुपासकानां कण्टकोद्धरणाय स्वयमेव धनुर्धरः । “एतदर्थं हि लोकेऽस्मिन् क्षत्रियैर्धार्यते धनुः ।” “धार्यते क्षत्रियैः चापो नार्यशब्दो भवेदिति ।।” इति ।। [नि-861. उपासकानां भक्तेर्यः प्रत्यूहविनिवृत्तये ।

92.862   धनुर्वेदः

                *862 अन्येऽपि सुरनरेन्द्रादयः धनुरादिकं तत्तच्छास्त्र-प्रवर्तकेऽस्मिन् विन्दन्तीति धनुर्वेदः । [नि-862. सुरेन्द्राद्या धनुः शास्त्रं यस्मात् विन्दन्ति स श्रुतः । धनुर्वेदो ह्यष्टवर्णः धनुर्वेदप्रदायकः ।।]

92.863   दण्डः

                *863 वेदधर्म-क्षेमंकर-नृपतिमुखेन दण्डनीत्या दुष्टान् दण्डयतीति दण्डः ।। “ञमन्ताड्डः” (उणा.पा.-1.119) [नि-863. वेदधर्मारिष्टताति नृपादिमुखतः खलान् । दण्डनीत्या दण्डयतीति असौ दण्डः प्रकीर्तितः ।।]

92.864   दमयिता

                *864 स्वयं च रावणादीन् ताच्छील्येन दमयिता ।। [नि-864. ताच्छील्यात् रावणादीनां हर्ता दमयिता स्वयम्।।]

92.865   अदमः

                *865 न चास्यान्यः कश्चित् एवमिति अदमः । मथा- “ईस्म कुर्यात् जगत्सर्वं मनसैव जनार्दनः । न तु कृत्स्नं जगच्छक्रं किंचित् कर्तुं जनार्दने ।।” इति ।। (भार.उ.67.8) [नि-865. कश्चित् दमयिता नास्ति यस्यासौ अदमः स्मृतः ।।]

92.866   अपराजितः

                *866 एवं सर्वतोमुखे प्रशासने क्वचित् कदाचित् कुतश्चित् अप्रतिहतः अपराजितः । यथा- “दाशार्हम् अपराजितम्”, “यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः । हरिः त्रैलोक्यनाथः सन् किं नु तस्य न निर्जितम् ।।” इति च ।। (भार.उ) [नि-866. क्वचित् कदाचित् कस्माच्चित् सर्वतोमुखशासने । यस्य प्रतिहतिर्नास्ति स वै स्यात् अपराजितः ।।]

92.867   सर्वसहः

                *867 स्वशासवेन सर्वं देवतान्तरमपि मन्दाधिकारिणाम् आराध्यतया सहते- ब्भर्ति इति सर्वसहः ।। [नि-867. मन्दाधिकारिणां सर्वमाराध्यत्वेन दैवतम् । बिभर्ति सहते यस्तु स सर्वसहः ईरितः ।।]

92.868   नियन्ता

                *868 तत्र तत्तद्रुचीन् प्ररोचयन् नियच्छतीति नियन्ता ।। “यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति” इति ।। (गीता.7.21) [नि-868. दैवतेषु च सर्वेषु तत्तदिच्छाम् प्ररोचयन् । मन्दाधिकारिणो योऽसौ न्यन्ता स्यान्नियच्छति ।।]

92.869   नियमः

                *869 तत्फलं च जात्यायुर्भोगादिकं नियम्यतेऽस्मिन्निति नियमः । “यमः समुपनिविषु च” इत्यप् । यथा- (अष्टा.-3.3.63) “लभते च ततः कामान् मयैव विहितान् हितान्” इति । (गीता.7.22) [नि-869. भोगादिकं नियम्यास्मिन् लेभयन् नियमः स्मृतः ।।] (869).

92.870   यमः

                *870 “प्रभवति संयमने ममापि विष्णुः” इति ।। (वि.पु.3.7.13) एवं रजस्तमसोर्नियमनम् ।। [नि-870. यमादीन् यच्छति यमः तत्तात्फलनियामकान् ।।] सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः न्नियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ।। 93 ।।

93.871   सत्त्ववान्

                *871 अथ सत्त्वस्य । परमप्रकाश-लाघव-सुखसंपदा मोक्षमूलं सत्त्वं साक्षादधिष्ठेयम् अस्योति सत्त्ववान् । यता– “महान् प्रमुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः ।” द्रुहिणादिमुखे हि रजस्तमसी । श्रीमति वाराहे देवः — “सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् । रजसा सत्त्वयुक्तेन भवेत् श्रीमान् यशोऽधिकः ।।” “तज्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते । यद्रजस्तमसोपोतं सोऽहं नास्त्यत्र संशयः ।।” इति ।। [नि-871. प्रकाशलाधवसुखसंपदा मोक्षसाधनम् । सत्त्वं साक्षादधिष्ठेयं यस्यासौ सत्त्ववान् श्रुतः ।।]

93.872   सात्विकः

                *872 धर्मज्ञानवैराग्यैश्वर्यरूप-फलनियमनेन च सत्त्वम् अर्हतीति सात्विकः । “तदर्हति” इति ठक् ।। (अष्टा.-5.1.63) [नि-872. विज्ञानैश्वर्यवैराग्य धर्मरूपफलस्वयम् । नियम्यार्हति सत्त्वं यः सात्विकः परिकीर्तितः ।।]

93.873   सत्यः

                *873 सात्विकशास्त्र-प्रतिपाद्यतया यथार्थवैभवः सत्यः । “सत्ये प्रतिष्ठितः कृष्णः सत्यमस्मिन् प्रतिष्ठितम् । सत्तासत्ते च गोविन्दः तस्मात् सत्य- सतां मतः ।।” इति वा सत्यः ।।(भार.उ.69.12.13) [नि-873. यतार्थवैभवः सत्यः श्रुतः सात्विकशास्त्रतः ।।]

93.874   सत्यधर्मपरायणः

                *874 निरुपाधिः सात्विकचोदनाधिकारिफलक उत्तम-धर्मोऽस्य परायणं-परमप्रीणनमिति सत्यधर्मपरायणः ।। [नि-874. उपाधिरहुतः सर्वमुख्यो धर्मः परायणम् । परमप्रीणनो यस्य सत्यधर्मपराणः ।। ]

93.875   अभिप्रायः

                *875 सत्यधर्मनिष्टेन स्वच्छेन निरुपाधिकोद्देश्यतया अभिप्रेतः इति अभिप्रायः ।। [नि-875. स्वच्छेन धर्मनिष्ठेन योऽभितः प्रेयते पुनः । निरुपाधिकम् उद्देश्यतयाऽसौ अबिसंहितः ।। अभिप्रायः इति ज्ञेयो वस्वर्मो मनुरुत्तमः ।।]

93.876   प्रियार्हः

                *876 एवमैदमर्थ्यज्ञानिनं प्रियमेवार्हतीति प्रियार्हः । एकभक्तिषु हि भगवतः । स्वत एव प्रावण्यम् आर्त-अर्थार्थि-जिज्ञासुषु औदार्यं बलात्करणेन । “तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते”, (गीता.7.17) “उदाराः सर्वं एवैते” इति ।। (गीता.7.18)

93.877   अर्हः

                *877 अनन्यस्पृहाणां तेषामपि अयमेव योग्य इति अर्हः । “आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ” इति ।। (गीता.7.18) [नि-877. अनन्येच्छावतां पुंसां योग्यः स अर्ह इति स्मृतः ।]

93.878   प्रियकृत्

                *878 अन्यपरानपि भजतः तच्छन्दानुवर्तनेन प्रियान् करोति इति प्रियकृत् । “निराशीः कर्मसंयुक्तान् सात्वतांश्चापि अकल्पयम्” इति ।। [नि-878. भक्तान् अन्यपरानेवं स्वप्रियान् कुरुते सदा ।। छन्दानुवर्तनेनेति प्रियकृत् स निगद्यते ।।]

93.879   प्रीतिवर्धनः

                *879 अथ उत्तरोत्तर-गुणाविष्कारेण तां प्रीतिं वर्धयति इति प्रीतिवर्धनः । “भजताम् प्रीतिपूर्वकम् । ददामि बुद्धियोगं तम्” इति ।। (गीता.10.1) [नि-879. गुणाविष्करणात् नित्यम् उत्तरतोऽधिकम् । यस्तु प्रीतिं वर्धयति प्रीतिवर्धनः ईरितः ।।] विहायसगतिर्ज्योतिः सुरुचिः हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलेचनः ।। 94 ।।

94.880   विहायसगतिः

                *880 तथा निरूढभक्तिपरकोटिभिः विहायसं परमव्योम-पदमेव गम्यते अस्मादिति विहायसगतिः । स खल्वाह- “भुक्त्वा च विपुलान् त्रोगान् त्वमन्ते मत्प्रसादतः । ममानुस्मरणं प्राप्यमम लोके निवत्स्यसि ।।” इति सबत्रं च । (गीता) “तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृति योगाच्च हार्दानुगृहीतः शताधिकया” इति ।। (ब्र.सू.4.2.16) [नि-880. निरूढभक्तियुक्तैर्हि नित्यं यस्मात् गम्यते । विहायसः परं व्योम विहायसगतिः तु सः ।।]

94.881   ज्योतिः

                *881 तदारोहणनिश्रेण्या अर्चिरादिगतेः प्रथमं पदम् अर्चिः आह- ज्योतिः । द्योत्यते अस्मात् इति । द्युतेरिसन् जादेशश्च । यथा– “ते अर्चिषम् अभिसंभवन्ति” इति ।। (छा.-5.10.1) उपासनप्रसन्नेन भगवता उपासकातिवहने नियुक्तत्वेन आतिवाहिका हि अर्चिरादयः “अर्चिरादिना तत्प्रथितेः” (ब्र.सू.4.3.1) “आतिवाहिकास्तल्लिङ्गात्” (ब्र,सू.4.3.4) इत्यादौ चिन्तिताः ।। [नि-881. स्वप्राप्तेः साधनत्वात् यः स्वयं नित्यं विशेषतः । अर्चिरादिगतेः ज्योतिः प्रथमं पर्व कथ्यते ।।]

94.882   सुरुचिः

                *882 सूर्योदयात् रोचते इति रुचिः ; सा अस्य शोभना इति सुरुचिः । “इगुपधात् कित्” इति कर्तरि इन् कित् ।। (उणा.पा.-4.121) “अर्चिषोऽहः” इति ।। (छा.5.10.1) [नि-882. अहः शुभं यस्य स वै सुरुचिः परिकीर्तितः । ]

94.883   हुतभुग्विभुः

                *883 “अह्न आपूर्यमाणपक्षम्” इति ।। (छा.-5.10.1) [नि-883. हुतं सुधापरिणतं भुञ्जानश्चन्द्रमास्तथा । विभुः पूर्णो भवेत् यस्मिन् स वै स्यात् हुतभुग्विभुः ।।]

94.884   रविः

                *884 उत्थानकालतया उदगयतद्वारा रूयते-प्रशस्यते इति रविः । “आपूर्यमाणपक्षात् यान् षडुदङ्ङेति मासान्” इति ।। (छा.-5.10.1) [नि-884. यश्चोत्तरायणद्वारा रूयतेऽत्र प्रशस्यते । स वै रविः समाख्यातः प्राशस्त्यफलदो मनुः ।।]

94.885   विरोचनः

                *885 द्वाभ्यात् अयनगतिभ्यां संवत्सरो रथेन आदित्यं विरोचयतीति विरोचनः । “मासेभ्यः संवत्सरम्”, (छा.-5.10.2) “संवत्सरोऽसावादित्यः” इति ।। (तै.6)न्यासविद्या [नि-885. अयनद्वयगत्याऽर्कं यो विरोचयति स्वयम् । विरोचन इति ख्यातः प्रकाशफलदो मनुः ।।]

94.886   सूर्यः

                *886 वायुः सदा सरति अस्मादिति सूर्यः । “राजसूयसूर्यः” (अष्टा.-3.1.114) इत्यादिना निपातितः । बहुलवचनात् अन्येऽपि कृतः प्राप्तमर्थ व्यभिचरन्तीति कृत्प्रत्ययानां सर्वत्र इष्टार्थत्वं द्रष्टव्यम् । “स वायुलोकम्” इति ।। (कौषी.-1.21) [नि-886. वायुः सरति यस्माद्धि तस्मात् सूर्यः षडक्षरः ।।]

94.887   सविता

                *887 सूर्यद्वारा वृष्टिसस्यादिकं सूते इति सविता । “संवत्सरात् आदित्यम्”, (छा.-5.10.2) “वायुमब्दात् अविशेषविशेषाभ्याम् ” इति न्याय्यं व्यवधानम् ।। (शा.सू.4.3.2) [नि-887. वृष्टिसस्यादिकं सूते सविता इति रवेर्भुखात् ।।]

94.888   रविलोचनः

                *888 रविरश्मि-लंक्रान्त्यादिमुखेन चन्द्र-विद्युद्-वरुणान् लोचयतीति रविलोचनः । “आदित्यात् चन्द्रमसं चन्द्रमसो विद्युतम्” (छा.-5.10.2) “स वरुणलोकम्” इति ।। (कौषी.-1.21) [नि-888. सूर्यस्य रश्मिसंबन्धात् विद्युद्वरुण चन्द्रकान् । निरन्तरं लोचयति रविलोचन ईरितः ।।] अनन्तहुतभुग्भोक्ता सुखदो नैकदोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ।। 95 ।।

95.889   अनन्तहुतभुग्भोक्ता

                *889 सप्ततन्तुषु हुतं भुक्ते इति इन्द्रो हुतभुक्; प्रजाः भुनक्ति- पालयतीति प्रजापतिः भोक्ताः तौ महान्तौ अस्य इति अनन्तहुत-भुग्भोक्ता । “स इन्द्रलोकं स प्रजापतिलोकम्” इति ।। (कौषी.-1.21) [नि-889. मरुत्त्वान् हुतभुक् भोक्ता यो भुनक्ति प्रजा विधिः । सः अनन्तहुतभुग्भोक्ता महान्तो यस्य तौ सदा ।।]

95.890   सुखदः

                *890 “तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति” इति ।। (छा.-5.10.2) [नि-890. अमानवकरस्पर्शात् भवमुत्सार्य सत्वरम् । स्वप्राप्तिलक्षणसुखं ददाति सुखदः च सः ।।]

95.891   नैकदः

                *891 एकं ददति इति एकदाः ; तद्विरुद्धाः नैकदाः — असंख्येय-मालांजनवासः-प्रभृति ब्रह्मालंकारदायिन्यो मुक्ताभ्युत्तानविदो दिव्याप्सरसः अस्योति नैकदः । “तं पंच शतान्यप्सररः उपाधावन्ति शतं मालाहस्ताः शतम् अंजनहस्ताः ” इत्यादि कौषीतकिनः समामनन्ति । (कौषी.-1.34) “तं ब्रह्मालंकारेणअलंकुर्वन्ति” इत्यादि च ।। (कौषी.1.4) [नि-891. ब्रह्मालंकारदायिन्यो मुक्तेभ्यश्च परे पदे । दिव्यस्तु अप्सरसो यस्य नैकदः स च कथ्यते ।।]

95.892   अग्रजः

                *892 एवं प्राप्तानां मुक्तानामग्रे सह सर्वैश्वर्या श्रिया यथा-पर्यङिकविद्य परमभोग्यो जायते इति अग्रजः । “स आगच्छति अमितौजसं पर्यङ्कम्” इति प्रभृति (कैषी.-1.42) “उपश्रीरुपबृंहणं तस्मिन् ब्रह्मास्ते, तमित्थवित् पादेनैव अग्रे आरोहति, तं ब्रह्माह ‘कोऽसि’इति ” इति प्रभृतिच (कौषी.-1.51) “सा या ब्रह्मणि चितिः या व्यष्टिः तां चितिं जयति, तां व्यष्टि व्यष्नुते इति” इत्येवमन्ता हि पर्यंङ्कविद्या ।। (कौषी.-1.67) [नि-892. स्वस्याग्रे प्राप्तमुक्तानां सर्वेश्वर्या श्रिया सह । यथापर्यंकविद्य च करुणाविष्टचेतसा । तद्भोग्यो जायते यश्च सः अग्रजः परिकीर्तितः ।।]

95.893   अनिर्विण्णः

                *893 एवमाश्रितं महता प्रणिधानेन संसारगर्तात् उत्तार्य, आत्मानं प्रापय्य च, तमशोच्य पश्यन् अनिर्विण्णः । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह इतिवत् ।। (राम.बा.1.85) [नि-893. महता प्रणिधानेन हि उत्ताय भवगर्ततः । प्रापय्य च तमात्मानं कृतकृत्यश्च विज्वरः । पश्यन्नशोच्यमेनं यो हि अनिर्विण्णः स ईरितः ।। ]

95.894   सदामर्षी

                *894 ततः प्रभृति सर्वकालं तेन कृतप्रतिकृतं मर्षितुं-निर्वोढुं शीलम् अस्येति सदामर्षी । “शोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इत्यादि ।। (तै.1.2) [नि-894. कृतप्रतिकृतं त्वस्य निर्वोढुं मर्षितुं भवेत् । सर्वदा शीलमस्येति सदामर्षी इति कीर्तितः ।।]

95.895   लोकाधिष्ठानम्

                *895 “अनुत्तमेषु उत्तमेषु लोकेषु” इति (छा.1.2) श्रुतानां मुक्तभोग्यानां नित्याश्रयो लोकाधिष्ठामम् ।। [नि-895. लोकानां मुक्तभोग्याना लोकाधिष्ठानम् आश्रयः ।।]

95.896   अद्भुतः

                *896 ततार च अद्भुतः । “अदिभुवो डुतच्” । (उणा.पा.-5.1)सर्वदा सर्वैः सर्वथाऽनुभवेऽपि इपूर्ववत् अतिविस्मयनीयः ।। [नि-896. सर्वदा सर्वथा सर्वैः भुज्यमानोऽप्यपूर्ववत् । स्मयनीयः अद्भुतः प्रोक्तः ।।] सनात् सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ।। 96 ।।

96.897   सनात्

                *897 तेषां संभजनाम् सनात् । “सनः सनात्” इति गणे निपातितऋः ।। [नि-897. तेषां संभजनात् सनात् ।।]

96.898   सनातनतमः

                *898 एवं सनातनतमः । सना पुराणे तनपि रूपम्, पुराणतमः । पुरा अपि नवः पुराणः । सदातनत्वेऽपि तदातनत्ववत् नित्य नूतनभोग्यः ।। [नि-898. नित्यनूतनभोग्यत्वात् सनातनतमः स्मृतः ।।]

96.899   कपिलः

                *899 किंरूपः? मध्यस्थ-नीलतोयद-विद्युल्लोखोज्ज्वलवर्णः कपिलः ।। [नि-899. विद्युन्मण्डलमध्यस्थनीलमेघवत् उज्ज्वलः । कपिलः स समाख्यातः सप्तवर्णों महामनुः ।।]

96.900   कपिरव्ययः

                *900 स्वयमपि तदनुभवसुखनिर्वृतिं पाति पिबतीति वा कपिरव्ययः ।। “इन् सर्वधातुभ्यः” । आतो लोपः ।। (उणा.पा.-4.119) [नि-900. नित्य सुखं स्वानुभवं पात्ययं कपिरव्ययः ।।] इति श्रीहरितकुलतिलक श्रीवत्सांकमिश्रसूनोः श्रीरंगराजदिव्याज्ञा-लब्ध श्रीपराशरभत्तापरनामधेयस्य श्रीरंगनाथस्य कृतौ श्रीमद्विष्णुसहस्रनामविवरणे भगवद्गुणदर्पणे नवमं शतकं संपूर्णम् ।।

….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.