श्री भगवद् गुण दर्पण: 101-200

श्री भगवद् गुण दर्पण: 101-200(Continued)

 

11.101   अच्युतः

                *101 द्वितीयशतकप्रारंभः (320,557). तेभ्यः प्रपन्नेभ्यः न अपगतः अच्युतः । “यस्मात् न च्युतपूर्वोऽहम् अच्युतः तेन कर्मणा । ” “तस्याहं न प्रणश्यामि” (गीता. 6.30) “न त्यजेयं कथञ्चन” इति ।। (राम.यु,18.3) [नि.101. भक्तेभ्योऽच्युतपूर्वत्वात् अच्युतः परिकीर्तितः । आश्रितानां च्युतिः यस्मात् मास्ति सः अच्युत ईरितः ।।]

11.102   वृषाकपिः

                *102 अच्युतमेव धर्मवराहत्वेन समर्थयते-वृषाकपिः । तथा आर्षं निरुक्तम् — “कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्मात् वृषाकपिं प्राह काश्यपो मां प्रजापतिः ।।” इति (भार.शा.343.59) [नि-102. कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्मात् वृषाकपिः प्रोक्तः वस्वर्णोऽभीष्टदो मनुः ।।]

11.103   अमेयात्मा

                *103 (189). अस्मिन् आश्रितानुग्रहस्रोतसि “अतो ज्यायांश्च पुरुषः”, (पु.सू.) “भूयांश्च अतो जनार्दनः” इति न्यायेन अमेयात्मा-इयान् इति अपरिच्छेद्यस्वरूपः ।। [नि-103. इयान् इति अपरिच्छेद्यस्वभावात् सर्वतोऽधिकः । अमेयात्मा समुद्दिष्टो हिऔन्नत्यफलदो मनुः ।।]

11.104   सर्वयोगविनिस्सृतः

                *104 कतम् ? सर्वयोगविनिस्मृतः । सर्वैरपि शास्त्रलक्षणैः स्वमनीषिका-परिकल्पितै रपि योगैः-उपायैः, विनिस्मृतः-विश्षण-वेद-परमगुह्यैरिव निस्सृतः-प्राप्तुं योग्यः सुग्रह इति वा । यथा– “स्वबुद्धिमात्रः निर्ज्ञातः — परमात्मा जगत्प्रभुः । स्वैश्वर्यानुभव-प्रीतो ज्ञातारम् अनुसेवते ।।” इति । श्रीपौष्करे– “यस्मात् सद्भक्ति-युक्तानां प्रपन्नानां क्रमं विना । प्रसादम् एति मन्त्रेशः तु अचिरात् भावितात्मनाम् ।। किं पुनर्वै क्रिया-ज्ञान-स्पूर्णानां तु पौष्कर! । श्रद्धा-भक्ति-पराणां च बोधितानां च देशिकैः ? ।।” इति ।। (पौष्कर.सं.) श्रीविष्णुतत्त्वे– “नियुक्तं मनसा वाऽपि यदि गृह्वाति माधवः । किं नु (?) नेन्मूलितं दुःखम् एतावदिति निश्चितः ।।”इति (वि.तत्त्व) [नि-104. सर्वैरुपायैः प्राप्यश्च सर्वयोग-विनिस्मृतः ।] वसुर्वसुमनाः सत्यः समात्मा स्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।।

12.105   वसुः

                *105 (271,701) तेषु इयताऽपि अतिप्रीत्या वसति इति वसुः । वसेः “शृम्वृ स्निहित्र प्यसिहनि क्लिदिबन्धि मनिभ्यश्च” इति उः ।। (उणा.पाद.-1.10) [नि-105. वसति इति वसुः तेषु प्रीत्या परमया स्नयम् ।]

12.106   वसुमनाः

                *106 “स महात्मा सुदुर्लभः” इति ।। (गीता.7.19) [नि-106. वसुनीव निधौ तेषु मनो य्सयास्ति सर्वदा । सर्वैः वसुमनाः प्रैक्तो मातृवत् पोषको मनुः ।।]

12.107   सत्यः

                *107 (213,873). तेषु सत्सु साधुः इति सत्यः । “तत्र साधुः” इति यत् ।। (अष्टा.- 4.4.98) [नि-107. सत्सु साधुः सत्यः इति ।]

12.108   समात्मा

                *108 तेषु गुणादिभिः निमनोन्नतेष्वपि अनालोचित-विशेष-मनः समात्मा । यथा– “समोऽहं सर्वभूतेषु” इत्यादि ।। (गीता. 9.19) [नि-108. समात्मा समचित्ततः ।]

12.109   सम्मितः

                *109 तैः सम्मितः । “द्यति स्यति” (अष्टा.-7.4.40) इत्यादिना इकारः । अस्मत्- हस्तस्थः इति सम्यक् परिच्छिन्नः । यथा– “ऊन-षोडश-वर्षो मे रामो राजीव-लोचनः” (राम.बा. 2.02) “ममायं तनयो निजः” इति दशरथ-वसुदेवादिभिः ।। (वि.पु. 5.5.5) [नि-109. मितत्वात् च चता भक्तैः स्मितः परिकीर्तितः ।]

12.110   समः

                *110 त्षवपि परिचित-अपतिचित-तीव्र-मन्द-संवेगित्वादि अवुगणय्य गौरवे सम इति समः । “सम ष्टम अवैकल्ये”, औणादिकोऽकारः ।। (भ्वादिः) [नि-110. ज्ञातेऽपरितिते तापि समत्वात् समः उच्यते ।]

12.111   अमोघः

                *111 (156). त्षाम् अवितथ-स्पर्शः अमोघः यथा– “अमोघं दर्शनं राम न च मोघः तव स्तवः । अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।।” इति ।। (राम.यु.120.31) [नि-111. वितथ-स्पर्श-रहितः स हि अमोघः प्रकीर्तितः ।]

12.112   पुण्डरीकाक्षः

            *112 १. “पुण्डरीकं परं धाम नित्यम् अक्षरम् अव्ययम् तद्भवान् पुण्डरीकाक्षः…..” इति पुण्डरीकाक्षः। नित्यवैकुण्ठ्वासिनां दृष्टिभूतः इत्यर्थः । यथा

२. “दिवीव चक्षुः आततम्” इति। (नि. पुण्डरीकं परं धाम नित्यमक्षरम् अव्ययम्।

तद्गतानाम् अक्षिभूतः पुण्डरीकाक्ष: ईरितः।।)

12.113   वृषकर्मा

                *113 एवं प्रकृष्टस्यापि अस्य अस्मदादीनामपि पूर्वोक्तदिशा श्रेयस्करत्वात् धर्म- रूपम् अस्य कर्म इति वृषकर्मा ।। [नि.113. श्रायस्करं धर्मरूपं कर्म यस्य प्रचक्षते । वृषकर्मा इति विख्यातः शुभकर्मप्रदो मनुः ।।]

12.114   वृषाकृतिः

                *114 तथा अकृतिः अपि इति वृषाकृतिः । अथवा तापत्रय-निर्वापण-सुधासेक-शीतलचेष्टित- श्रीपौष्करे- “वपुषा सुन्दरेणैव दिव्येन अवुकृतेन च . मुञ्चन्तम् अनिशं देहात् आलोकं ज्ञानलक्षणम् ।। पूर्व-कर्मानलार्तानां ध्यायिनां खेद-शान्तये। वदनेम्दु-चयोत्थेन ह्लादयन् गोगणेन तु ।।” इति । (पौष्कर) राजधर्मे- “ततो महति पर्यके मणि-कांचन-चित्रिते । ददर्श कृष्णम् आसीनं नीलं मेरौ इव अम्बुदम् ।।” इति ।। (भार.राज.45.13) [नि-114. धर्मरूपा आकृतिर्यस्य स वृशाकृतिः उच्यते । तापत्रयाग्नि-दग्धानां सुधेव अत्यन्तशीतलम् । रूपं कर्म च यस्यास्ति वृषकर्मा वृषाकृतिः ।।] रुद्रो बहुशिरा बभ्रुः विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतः स्थाणुः वरारोहो महातपाः ।। 13 ।।

13.115   रुद्रः

                *115 एवंविधरूप-विविधचेष्टित-द्रुत-हृदयान् सानन्द-बाष्यान् कुर्वन् रोदयति इति रुद्रः । “रोदेर्णि लुक् च” इति ‘रक्’ प्रत्ययो ण्लोपश्च । यथा (उणा.पा.-2.24) श्रीविष्णुतत्त्वे — “आह्लाद-शीत-नेत्राम्बुः पुलकीकृत-गात्रवान् । सदा पर-गिणाविष्टो द्रष्टव्यः सर्वदेहिभिः ।।” इति ।। (वि.त) [नि-115. ईदृग्रूपैः चेष्टितैस्च भक्तान् सानन्दबाष्पयन् । रोदयन् रिद्र उद्दिष्टः सर्वसन्तोषदो मनुः ।।]

13.116   बहुशिराः

                *116 बहूनि शिरांसि परस्सहस्त्रं फणाः अस्य इति बहुशिराः ।। [नि-116. फणाश्च बहवो यस्य स वै बहुशिरा मतः ।]

13.117   बभ्रुः

                *117 तताविधः सन् बिभर्ति इति बभ्रुः । भञः “कुर्भ्रश्च” इति कुप्रत्ययो द्वित्वं च । (उणा.पा.-1.22) “यस्य सा सकला पृथ्वी फणामणिशिलारूपा। ब्भर्ति मावलां लोकानाम्….” ।। (वि.पु.2.5.22) “योऽनन्तः पृथिवीं धत्ते शेखरस्थिति-पंस्थिताम् ।।” इति ।। (वि.पु.5.17.12) [नि-117. अनन्तरूपो यो धत्ते पृथ्वीं बभ्रुः स ईरितः]

13.118   विश्वयोनिः

                *118 151. इदम् अनन्तवपुषा सामान्यं सर्वसाधारणं भक्त-संश्लेषविशेषार्थं व्यवस्थापयति-विश्वयोनिः इति । विश्वेषां भेजुषां स्वेन मिश्रयिता इति । “यु मिश्रणे” “बहि श्रि श्रुयु द्रुग्ला हात्वरिभ्यो नित् ” इति नित्यप्रत्ययः ।। (उणा.पा.-4.52) [नि-118. विश्वेषां भेजुषां स्वेन विश्वयोनिस्तु मिश्रणात् ।]

13.119   शुचिश्रवाः

                *119 तदुक्तानि अवश्यं शृणोति इति शुचिश्रवाः । “शुचीनि श्रावणीयानि शृणोमि इह धनञ्जय! । न च पापानि गृह्वामि ततोऽहं वै शुचिश्रवाः ।। ” इति । (भार.शा.344.61) “धर्म्या रम्याश्च अर्थवतीः विचित्रार्थ-पदाक्षराः । शृण्वतो विविधा वाचः विदुरस्य महात्मनः । अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी ।।” इति ।। (भार.उ.93.2) [नि.119. भक्तैः उक्तानि अवश्यं यः शृणोत् स शुचिश्रवाः ।]

13.120   अमृतः

                *120 तेषां निरवधिक-माधुर्येण जरामरण-वारणेन सदा सेवायामपि अतृप्तिकरत्वेन वा अमृतः । यथा– “अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम्” इति ।। [नि.120. जरामृत्योः वारणेन हि अतृप्तेर्नाऽपि सेवनात् । अमृतः (स्यात्) निरतिशय-माधुर्येण च सर्वदा ।।]

13.121   शाश्वतः स्थाणुः

                *121 ईदृश-शक्तिलेशेन खलु सागर-सारेऽपि अमृतत्वम् उपचर्यते । ततो विशेषमाह- शाश्वतः स्थाणुः । स्वयं नित्यो भोक्तृभ्योऽनपहेर्यश्च, अपुनरावृत्ति-भोग्यत्वात् । अन्यत् हि अमृतम् अनित्यं, सकृत्सेव्यं च ।। [नि-121. भोग्यो हि अपुनरावृत्त्या भोक्तृभ्यो रोचते यतः । स्वय नित्यः सदा योऽसौ शाश्वतः स्थाणुरुच्यते ।। ]

13.122   वरारोहः

                *122 तस्मात् वरारोहः । वरम्-उत्कृष्टम्, आरोहणं — स्वप्राप्तिः अस्य इति । अन्यत् हि सर्वम् अवरम्, यथा– “एते वै निरयास्तात! स्थानस्य परमात्मनः” इति । ‘पर-व्यूह- विभवात्मना त्रिविधं परं ब्रह्म’ इति भागवत-सिद्धान्तः । तत्र परं नाम अकार्यं कार्यनिवच्छिन्न पूर्णषाड्गुण्य-महार्णवोत्कलिक-एकातपत्रीकृत-निस्सीम नित्य-भोगविभूतिकं मुक्तो-पसृप्यम् अनौपाधिकम् अवस्थानम् । व्यूहः च मुमुक्षु-सिसृक्षया प्रदेय-सृष्टिृस्थिति-लयाः शास्त्र-तदर्थ-तत्फलानि ध्यानाराधने लीला च इति ईदृश-कार्योपयुक्त-विभक्त-परगुणरूप-व्यापारशीकर-व्यूह- निर्वाहित-लीलाविभूतिकं मुक्तिलाधकं चतुर्धा अवस्थानम् । विभवः च तच्चायः सुर-निर्यगादिः स्वविभव-जातीयः एच्छः प्रदुर्भाववर्गः । तथा च श्रीसात्त्वते — “षाड्गिण्य-विग्रहं देवं भास्वज्ज्वलन-तेजसम् । “सर्वतः पाणिपादं तत् ” इति उपक्रम्य “परमेतत् समाख्यात् एकं सर्वाश्रयं विभुम् । एतत्पूर्वं त्रयं च अन्यत् ज्ञानाद्यैः भेदितं गुणैः ।। विद्धि एतत् व्यूहसज्ञं वै निःश्रेयस-पलप्रदम् । मुख्यनुवृत्तिभेदेन युक्तं ज्ञानादिभिः गुणैः ।। नानाकृति च तत् विद्धि विभवं भुक्ति-मुक्तिदम् ।। ” इति । (पौष्करे.) तत्र प्रादुर्भावाः केचित् साक्षात्, यता मत्स्य-कूर्मादयः । अन्ये तु ऋष्यादि विशिष्ट-पुरुषाधिष्ठानेन,यथा भार्गवराम-कृष्णद्वैपाय-नादयः । अपरे काले शक्त्या वेशेन यथा पुरंजयादिषु । इतरे च व्यक्तिषु स्वयमेव अवतीर्य, यथा अर्चावतार इति चतुर्धा ।। ननु ब्रह्मादयोऽपि भगवत्प्रादुर्भावाः कल्प्यन्ताम्, तदभेदो-पदेशात् । तदिदं ‘सर्वं खलु इदं ब्रह्म’ (छा.-3.14.1) ब्रह्मादीनां भगवदवतार-गणनासु अपरिगणनात्, देव-मनुष्यादिवत् सृष्टि-प्रकरणेषु सज्यतया परिगण-नाच्च । प्रत्युत तेषां प्रादुर्भावेभ्यः भेदव्यपदेशाः प्रादुर्भाव शब्द-विलक्षणेन प्रादुर्भावान्तर-शब्देन निर्देशः, भगवद्विभूतिलेशोद्बवत्व- तत् प्रादूर्भावविश्ष-अधीन-वृत्तित्वादि-व्ववहाराश्च, भगवध्छास्त्रेषु बहुलम् उपल म्यन्ते । (अत एव हि तेषां प्रादुर्भावेभ्यो भेदः तद्विभूतित्वं च शास्त्रितम् ।) श्रीपौष्करे तावत्– “ज्ञानोपदेष्टा भगवान् कपिलाक्षस्तु अधोक्षजः । विद्यामूर्तिः चतुर्वक्त्रो ब्रह्मा वै लेकपूजितः ।। तदशभूतो वै यस्य विश्व-व्यञ्जन-लक्षणः ।।” इति ।। (सात्वत) ब्रह्मणः कपिलप्रदुर्बावं प्रति ‘यस्य’ इति षष्ठ्या । शेषत्वं, तदंश भूतः सन् ‘विस्वव्यञ्जितम्’ । ‘अंश’ सब्दश्च एतासृशः सविभूतिकस्य भगवतो विभूति-भूत-एकदेशेषु मिख्यो व्याक्यातः “अंशो नानाव्यपदेशात्” इत्यत्र । (ब्र,सू.2.3.42) तथा अनल-शायि-प्रादुर्भावं प्रति इतरस्य “युगान्तेषु च संहारं यः करोति च सर्वदा । संकराख्यो महारुद्रः प्रादुर्भावान्तरं हि तत् । देवस्य अनलाशायेः वै सर्वधः संस्थितस्य च ।। ” इति । अत्र ‘अन्तर’ शब्दो भेदवचनः , “इक्षु-क्षार-गुडादीनां माधुर्यस्य अन्तरं महत्” इतिवत् । (राव्यादर्श 1.102) प्रादुर्भाव-प्रदुर्भावान्तरयोः लक्षमं च विविक्तम् उक्तम् । “प्रादुर्बावस्तु विज्ञेयाः स्वव्यापार-वशात्तु वै ।” प्रादुर्भावान्तराः तद्वत् अंशस्य तु वसादपि ।। इति । अत्र ‘स्वव्यापारवशात्’ इति स्वासाधारमत्वम्, “अंशस्य तु वशादपि” इति ‘तु’ शब्दात् ‘अंशवश’ शब्दाच्च विशेयो विभूति-पारतन्त्र्यं च । पुनरपि तादृश-लक्षणम्– “स्वभावात् अजहत् शश्वत् आकारान्तरम् आकृतेः । यत्तत्त्वात् अंशसंभूतं प्रादुर्भावान्तरं तु तत् ।।” इति । तथा मुख्य-औपचारिक-विभागश्च– “प्रादुर्भावान्तरैः सार्दं प्रादुर्भावैः द्विज! अखिलैः । अप्ययैः प्रभवाख्यैस्तु गौणमुख्यैः सुर्श्वरैः ।।” इति । तथा मुमुक्षुभिः प्रादुर्भावानाम् आराध्यत्वं प्रादुर्भावान्तरामां आराधन-निषेधश्च “यदैव कृतदीक्षामाम् अधिकारः समर्पितः । अच्युतराधनानां तु निःश्रेयस-पदाप्तये ।। तदैव प्रतिषिद्धं च देवतान्तर-पूजनम् । प्यूहाद्वा विभवाख्याद्वा ऋते नान्यत् परोदितात् । स्कन्द-रुद्र-महेन्द्राद्याः प्रतिषिद्धास्तु पूजन् । ज्ञात्वैवं भक्ति-शांकर्यं न कुर्यात् एवमेव हि ।। ” इति । (सात्त्वतं सं) श्रीसात्वतसंहितायां तु महिषी-भूषण-परिजनादेः भोगोप-करणतया भगवद्विग्रहान्तर्भावः, कालविधिशिवादेः लीलौपयिकसंसारोपकरणत्वं च स्फुटीकृतम् । “इत्येतत् देवताचक्रम् अङ्ग-मन्त्र-गणान्वितम् । विग्रहे देवदेवस्य संलीनम् अवतिष्ठते ।। वक्ष्ये भवोपकरण-गीर्वाणगणम् उत्तमम् । नाना-विभव-मूर्तीनां योऽवतिष्ठेत शासने ।। कालोऽपि यन्नियन्ता च शास्त्रं नानाङ्ग-लक्षणम् । मुनयः सप्त पर्वेऽन्ये ग्रहास्तारागणैः वृताः ।। जीमूताश्च अखिला नागाः तु अप्सरोगण उत्तमः । औषध्यश्चैव पशवो यज्ञाः सांगाखिलास्तु ये ।। विद्या चैव अपरा विद्या पावकश्चैव मारुतः । चन्द्रकौं वारिवसुधे इत्युक्तम् अमलेक्षण! ।। चतुर्विंशति-संखयं च भवोपकरणं महत् । भवः साक्षात् प्रधानस्तु व्यापको जड-लक्षणः ।। मन्त्र-मन्त्रेश्वर-न्यासात् सोऽपि पूजत्वमेति च ।।” इति ।। (सात्त्वत सं) अन्तः श्रीजन्मरहस्ये चतुर्मुखादि-प्रसंगः श्रीपौष्करे प्रादुर्भाव-विभूतितया अन्तर्भाव-निबन्धनोऽनुसान्धेयः । एवं च न्यामोह एव त्रिमूर्तिसाम्य-पंडितन्यायः पंण्डितंमन्यानाम् । सर्वं च एतत् तत्र तत्र स्थापयिष्यते ।। तत्र ‘वरारोहः इत्येतदन्तैः नामभिः प्रायशः परत्वम् उक्तम् । “किमेकं दैवतं लोके किं वाऽप्येकं परायणम्” इति प्राप्यप्रश्नयोः तत्प्रतिवचनयोश्च प्रायेण अमीष्वेव विश्रान्त्रिः । 122. द्वाविंशतिशतेन एतैः वरारोहान्तनामभिः । किमेकं दैवतमिति किमिति एकं परायणम् ।। इति प्राप्यप्रश्न-युग्मस्य उक्तम् उत्तरम् अत्र च । व्यूहीयो वासुदेवोऽपि व्याख्यातोऽत्रैव संग्रहात् । अथ संकर्षणात्मानं वक्ष्यति उत्तरनामभिः ।। अथ “स्तुवन्तः कं कम्” इत्यादीनाम् उपायप्रश्न-प्रतिवचना-नाम् अधिकारे व्यूहः । तत्र वासुदेवः परत्वेन व्याख्यातः । इदानीं संकर्षणः ।। [नि-122. वर उत्कृष्ट आरोहः यस्य स्वप्राप्ति-लक्षणः । वर्तते स वरारौहः प्रकृष्टस्थानदो मनिः ।।]

13.123   महातपाः

                *123 महातपः– “यस्य ज्ञानमयं तपः” इति । (मु.-1.1.10) महत् पूज्यं, (तपः) ज्ञानम् अस्य इति । षड्गुणाः व्याख्यास्यन्ते । तेषु ज्ञानबले संकर्षणस्य गूणौ व्यूढौ, ज्ञानं प्राचीन-भव-परिश्रान्ति शान्तये संजिहीर्षा-लक्षणम् अत्र ।। [नि-123. महत् पूज्यं तपो ज्ञानं यस्येति स महातपाः ।] सर्वगः सर्ववित् भानुः विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङेगो वेदवित् कविः ।। 14।।

14.124   सर्वगः

                *124 धारणसामर्थ्य-लक्षणोन बलेन आत्मवत् धारयन् संहृतान् सर्वान् गच्छति इति सर्वगः । “अन्तात्यन्ताध्वदूर पार सर्वा नन्तेषु डः ” । एवं समकर्षणात् हि संकर्षणं नाम (556) निरुच्यते ।। [नि-124. धारयन् संहृतान् सर्वान् गच्छतीति स सर्वगः ।]

14.125   सर्ववित्

                *125 अथ संहृतान् लिसृक्षुः प्रद्युम्नः सर्वकार्यः विन्दति-सृष्ट्या लभते इति सर्ववित् । इदमत्र जगत्क्रिया-शक्त्युल्लास-रूपम् ऐश्वर्यम् ।।

14.126   भानुः

                *126 (285). सर्वनिर्माणेऽपि अविकुर्वाणो भाति इति भानुः । “दाभाभ्यां नुः” इति नुः । (उमादि पाद.3.32) “स एष स्वयम् उद्वभौ” इति । इदम् अविकाराकारं वीर्यम् ।। [नि-126. भीनुः सर्वस्य भाति इति निर्माणेऽपि अविकारतः ।]

14.127   विष्वक्सेनः

                *127 अथ स्थापकः अनिरुद्धः विष्वक्सेनः । इनेन-स्वामिना सह वर्तते इति स्ना, सेश्वरेति यास्कः । अनेन रक्षकवन्ते जन्तवो विषवञ्चोऽस्य इति । इयमत्र सामर्थ्य-शरीरा शक्तिः ।। [नि-127. इनेन स्वामिना साकं वर्तते स्न इत्ययम् । विष्वक् रक्ष्यो जनोऽस्य असौ अनिरुद्धः तथेरितः ।।]

14.128   जनार्दनः

                *128 रक्षाप्रतिपक्षान् जनान् अनपेक्षो अर्दयति इति जनार्दनः ; “दस्यु-त्राणात् जनार्दनः । ” इदम् अनपेक्षा-लक्षणं तेजः । प्रतिमूर्ति गुणानां व्यवस्था इयम्, इयताम् आविष्कारात्, भगवतः सर्वत्र अनावरण-गुणत्वात् । (भार.उ.71.6) मूले हि श्रूयते– “ज्ञानेन ऐश्वर्येण शक्त्या इति सर्वे भगवतोऽनूनाः पूर्णाः” (मूलसं) इति एष आत्मा चतुर्विधः सर्वज्ञः सर्वदर्शी सर्वेश्वरः सर्वशक्तिः समृद्दिमान् वा अग्रन्थिः अनूनः आप्तो वशी स्वाधीनः अनादिः अनन्तो व्यपगत-निद्रा-भय-क्रोध-तन्द्रः व्यपंगत-इच्छा-तमः- क्लम-व्याधिः निर्दोषो निरनिष्टो निरवद्यः; ये भगवन्तं वासुदेवमेवं विदुः ते एनं विदुः ये नैवं विदुः न ते विदुः इति; भगवान् वासुदेवोऽ नन्त एव अपरिमितः, अनन्तत्वेन अपरिमितत्वेन भवति” इति प्रतिपर्यायम् ।। [नि-128.भक्तविद्वेषिणां तूर्णं मर्दनात् स जनार्दनः ।]

14.129   वेदः

                *129 पुनः संकर्षणस्य शास्त्र-प्रदत्वम् उच्यते-वेदः; सृष्टि-लंभित-करणा विन्दति तस्मिन् इति । “हलश्च”इति घञ् । (अष्टा.-3.3.121) यथा- “यो वै वेदांश्च प्रहिणोति तस्मै” (श्वे.-6.18) । अतः अभ्युपायः आगमः पन्थाः नेता, ब्रह्मणः आचार्यः इति लंकर्षणाभिज्ञाः ।। [नि-129. संकर्षणत्वे शास्त्रार्थ-पिरदत्वात् वेदः ईरितः ।]

14.130   वेदवित्

                *130 133. वेदार्थं च अवुशय-विपर्यासं वेत्ति इति वेदवित् । आह हि “वेदविदेव च अहम्” इति ।। (गीता 15.1) [नि-130.असंशय विपर्यासं वेदार्थं वेद वेदवित् ।]

14.131   अव्यङ्गः

                *131 तदङ्गैः छन्दः कलेपादिभिः स्वकल्पितैः अविहीनः अव्यङ्गः ।। [नि-131. शिक्षा-व्याकरणादि अङ्गैः न हीनो अव्येङ्ग उच्यते । ]

14.132   वेदाङ्गः

                *132 वेदाश्च अनन्त-शाखाः अस्य अङ्ग शरीरम्, अन्तरङ्ग-व्यञ्जकत्वात् इति वादाङ्गः । यथा- “नावेदवित् मनुते तं बृहन्तम्” (काठ.3.9) “विधूनुते वेदमयं शरीरम्” इति । (वि,पु. 1.4.29) “इति तस्य अनुशासनम्” इति तदाज्ञात्वाद्वा वेदाङ्गः ।। [नि-132. यस्य वेदोऽनन्तशाखोऽपि अङ्गं वेदांग एव सः ।]

14.133   वेदवित्

                *133 (130). वेदैः वेद्यते इति वेदः । तदर्थो धर्मः । तम अनुष्ठापनेन विन्दति इति प्रद्युम्नः वेदवित् (130) । अतो हि अस्य धर्मः प्रद्योतयिता, प्रवर्तयिता इति च विर्देशाः ।। [नि-133. वेदैर्वेद्यतया वेदः तदर्थो धर्म उच्यते । तदनुष्ठापनात् नित्यं प्रद्युम्नो वेदवित् स्मृतः ।]

14.134   कविः

                *134 स एव क्रान्तदर्शित्वात् कविः कुशब्दे दर्सनकर्ममोऽत्मादिन् ।। [नि-134. स एव क्रान्तदर्शित्वात् कविः इत्युच्यते बुधैः ।] लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहः चतुर्दंष्ट्रः चतुर्भुजः ।। 15 ।।

15.135   लोकाध्यक्षः

                *135 क्रान्तदर्शित्वमेव त्रिभिः उपपादयति– लोकाध्यक्षः,धर्माध्यक्षः इति । लोकाः-धर्माधिकारिणः । सुराः-तदाराध्या देवाः । धर्मः – तत्साधनं वैधम् । तेषाम् अध्यक्षः– अकृताभ्यागम-कृतविप्रणाश-परिहारेण फलं दातुम् अनुसन्धाता अनिरुद्धः । अतो ह्यस्य धर्मज्ञः, उपायज्ञः, अध्यक्षः, सत्यसन्धः, स एवास्य संविदं ददाति इति व्यपदेशाः ।। (135, 136, 137) [नि. 135. धर्माधिकारिणो लोकाः तदाराध्याः सुरास्तथा ।]

15.136   सुराध्यक्षः

                *136 क्रान्तदर्शित्वमेव त्रिभिः उपपादयति– लोकाध्यक्षः,धर्माध्यक्षः इति । लोकाः-धर्माधिकारिणः । सुराः-तदाराध्या देवाः । धर्मः – तत्साधनं वैधम् । तेषाम् अध्यक्षः– अकृताभ्यागम-कृतविप्रणाश-परिहारेण फलं दातुम् अनुसन्धाता अनिरुद्धः । अतो ह्यस्य धर्मज्ञः, उपायज्ञः, अध्यक्षः, सत्यसन्धः, स एवास्य संविदं ददाति इति व्यपदेशाः ।। (135, 136, 137) [नि.- 136. धर्मस्तत्साधनं तेषाम् अध्यक्षः स्यात् त्रिनामवान् ।।]

15.137   धर्माध्यक्षः

                *137 क्रान्तदर्शित्वमेव त्रिभिः उपपादयति– लोकाध्यक्षः,धर्माध्यक्षः इति । लोकाः-धर्माधिकारिणः । सुराः-तदाराध्या देवाः । धर्मः – तत्साधनं वैधम् । तेषाम् अध्यक्षः– अकृताभ्यागम-कृतविप्रणाश-परिहारेण फलं दातुम् अनुसन्धाता अनिरुद्धः । अतो ह्यस्य धर्मज्ञः, उपायज्ञः, अध्यक्षः, सत्यसन्धः, स एवास्य संविदं ददाति इति व्यपदेशाः ।। (135, 136, 137) [नि.- 137. लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्ष इति क्रमात् । अनिरुद्धः स विज्ञेयो लोकाध्यक्षादि-नामवान् ।।]

15.138   कृताकृतः

                *138 द्वौ च धर्मौ – संसारस्य प्रवर्तको निवर्तकश्च । तत्र प्रवर्तकस्य अनित्यफलप्रदत्वेन उपचारात् कृतः, निवर्तकस्य नित्यफलप्रदत्वेन अकृतः च इति स एव कृताकृतः ।। [नि-138. अनित्य-नित्यफलदौ प्रवर्तक-निवर्तकौ । ददौ यस्य स्वरूपं यः कृताकृतः इति ईरितः ।।]

15.139   चतुरात्मा

                *139 इत्थं चतुरात्मा – वासुदेवः, संकर्षणः, प्रद्युम्नः, अनिरुद्ध इति ।। [नि-139. वासुदेवादि-रूपत्वात् चतुरात्मा इति कथ्यते ।]

15.140   चतुर्व्यूहः

                *140 773. कथम् एकस्य चातुरात्म्यम् ? तत्राह-चतुर्व्यूहः । यथोक्तप्रयोजनेभ्यः ध्येय-आराध्य-व्यक्तये च समस्त-व्यस्तेन गुण-षट्केन तद्व्यञ्जक-व्यवस्थित- अवयव-वर्ण-भूषण-प्रहरण वाहन-ध्वजादिभिः जागरादि-अवस्था-चतुष्टय-विशिष्टाभिः मूर्तिभिः चतुर्धा व्यूह्यते इति ।। [नि-140. जाग्रत्स्वप्न-सुषुप्त्यादौ व्यूहावस्था-चतुष्टये । एतैः विशिष्ट-मूर्तित्वात् चतुर्व्यूहः इति ईरितः ।।]

15.141   चतुर्दंष्ट्रः

                *141 “चतुर्दशः-सम-द्वन्द्वः चतुर्दंष्ट्रश्चतुर्गतिः” इति ।। (राम.सु.35.19) [नि-141. दंष्ट्रा-चतुष्क-युक्तत्वात् चतुर्दंष्ट्र इति स्मृतः ।]

15.142   चतुर्भुजः

                *142 तता चतुर्भुजः । तथा हि परं रूपमाहुः– “चतुर्भुजमुदाराङ्गं चक्राद्यायुधभूषणम्” । (वि.पु) “तमसः परमो धाता शंखचक्रगदाधरः” (राम.यु.114.15) “भुजैश्चतुर्भिः समुपेतम्” इत्यादि ।। (भार.मो.5.34, वि.पु.34) [नि-142. महापुरुष-रूपत्वात् उच्यते हि चतुर्भुजः ।।] भ्राजिष्णुः भोजनं भोक्ता सहिष्णुः जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। 16 ।।

16.143   भ्राजिष्णुः

                *143 इदमेव यथोक्तं व्यूह्य भ्राजिष्णुः । “भुवश्च” (अष्टा.-3.2.138) इत्यत्र चकारात् इष्णुच् । उपासितृभ्यः प्रकाशन-शीलः ।। [नि-143. उपसितृभ्यो भ्राजिश्णुः स्वप्रकाशन-शीलतः ।]

16.144   भोजनम्

                *144 तैर्भुज्यते–सुखेन अनुभूयते इति भोजनम् ।। [नि-144. सुखेन भोजनं प्राहुः यो भक्तैरनुभूयते ।]

16.145   भोक्ता

                *145 502 स्वयमपि तदर्पितस्य प्रापणादेः अमृतस्येव भोक्ता । यथा– “अश्नामि प्रयतात्मनः ।” (गीता 9.26) “भोक्तारं यज्ञतपसाम्” इत्यादि ।। (गीता 5.29) [नि.145.भोक्ता अर्पितस्य भोक्तृत्वात् ; भोक्ता स्यात् अमृतस्य वा ।।]

16.146   सहिष्णुः

                *146 570. तेषाम् आभिमुख्यात् प्राक् ऊर्ध्वं च संचितानां बुद्ध्या अबुद्ध्या च सकलकरणैः सर्वदा सर्वथा च प्रचीयमानानां विधिनिषेध-शासन अतिलंघनात्मनां साधारणानाम् असाधारणानां च स्वावज्ञा-निन्दादीनां सर्वंसहेन स्वेनापि दुस्सहानां स्वभक्त-विषयाणां च अनवधिकानाम् अपराधानां सहिष्णुः । “अलंकृञ्” इत्यादिना । इष्णुच् । कुतः इयती महती क्षमा अस्य?’ इत्याकांक्षायां, शशि-सलिल-शीतलिमादिवत् स्वरूप-प्रयुक्तत्वात् इति । एवं परः ताच्छील्यादिविषय इष्णुच् प्रत्ययः । एवं व्यूहः ।। [नि-146. प्रागूर्ध्वं संचितानां च बुद्ध्या च करणैः सदा । कृतानां सर्वथा तेषां निषेध-विधि-साधनम् । अतीत्य क्रियमाणानाम्् असत्सेवानुबन्धिनाम् । सर्वंसहेन स्वेनापि दुस्सहानां विशेषतः । स्वभक्त-विषयाणां च निर्मर्याद-कृतैनसाम् । सहनैक-स्वशीलत्वात् सहिष्णुः इति विश्रुतः ।।]

16.147   जगदादिजः

                *147 अथ विभवेषु त्रिभूर्ति-मध्यावतारो जगदादिजः । जगदादि-भूतासु त्रिमूर्तिषु अन्यतमत्वेन जातः इति । “सप्तम्यां जनेर्डः” । एवं मेधज (759)-गदाग्रजादयोऽपि (770) । यथा ब्रह्मा– (अष्टा.-3.2.97) क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ।। ” इति । (वि.पु.4.1.39) तथा उद्योगे देवाः- “गतिश्च नस्त्वं देवेषु पूर्वजो जगतः प्रभुः । रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् ।।” इति ।। (बार.उ.12.11) [नि-147. वर्णितोऽमूत् व्यूहभेदो विभवस्तु प्रतन्यते । जगताम् आदिभूतासु मूर्तिषु अन्यतमत्वतः । जातत्वात् विष्णुरूपेण प्रोच्यते जगदादिजः ।।]

16.148   अनघः

                *148 एवं संसार-मध्ये जनित्वाऽपि अनघः–पापप्रतिस्पर्धी ।। [नि-148. पाप-प्रतिस्पर्धी अनघः,] (148).

16.149   विजयः

                *149 मूर्त्यन्तरयोरपि सृष्टि-संहारादिभिः जगद्विजयो अस्मात् इति विजयः । यथा- “तदाऽऽदर्शित-पन्थानौ सृष्टि-संहार-कारकौ” इति ।। (भार.मो.169.19) [नि-149. विजयो जगतां जयी । ] (149).

16.150   जेता

                *150 तयोरपि जेता-स्वाभिप्रायेषु अवस्थापयिता ।। [नि-150. स्वाभिप्राये स्थापयिता जेता स्यात् विधि-शंकरौ ।]

16.151   विश्वयोनिः

                *151 118. तन्मुखेन विश्वस्य-कार्यप्रपञ्चस्यापि कारणं, विश्वयोनिः ।। [नि-151. विश्वं तत्कार्यवर्गः स्यात् योनिस्तस्य तु कारणम् । तस्य ब्रह्मादिमुखतो विश्वयोनिः इति ईरितः ।]

16.152   पुनर्वसुः

                *152 पुनः तत्प्रभृतिषु अन्तरात्मतया वसति च इति पुनर्वसुः । यथा– “देवानां बन्धु निहितं गुहासु” ब्रह्मा- “तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः” इति ।। (भार.मो.179.4) [नि-152. ब्रह्मादिष्वपि देवेषु हि अन्तरात्मतया च यः । पुनः निवसनात् नित्यं पुनर्वसुः उदाहृतः ।। ] उपेन्द्रो वामनः प्रांशुः अमोघः शुचिरूर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। 17 ।।

17.153   उपेन्द्रः

                *153 अथ आदित्येषु जघन्यजः उपेन्द्रः- अनुजत्वेन इन्द्रम् उपगतः । यथा– “जघन्यजः स सर्वेषामादित्यानां गुणाधिकः । “द्वादशैव अदितेः पुत्राः शक्रमुख्या नराधिप ! ।। तेषाम् अवरजो विष्णुः यत्र लोकाः प्रतिष्ठितः ।। “विष्णुः इन्द्रानुजोऽभवत्” इत्यादि ।। [नि-153. इन्द्रस्यापि अनुजत्वेन जातश्च उपेन्द्रः उच्यते ।]

17.154   वामनः

                *154 स एव इन्द्र-सन्त्राणाय बलि-मखे वामनः । “द्रष्टॄन् स्वकान्त्या वामानि-सुखानि नयति” इति श्रुतिः । [नि-154. दृष्ट्या स्वकान्त्या वामानि सुखानि नयतीति यः । स वामनः ।]

17.155   प्रांशुः

                *155 तत्रैव प्रांशुः । अश्नोतेः “खरुशङ्कु” (उणा.पा.-1.37) इत्यादिना ‘उ’ प्रत्ययो नुमागमश्च । “सर्वव्यापिने इति मन्त्र-वर्णात्” (मंत्रवर्णं) यथा– “तोये तु पतिते हस्ते वामनो भूतवामनः । तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।। नभः प्रक्रममाणस्य नाभ्यां तौ समवस्थितौ ।” (वि.ध.79.52) “वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्त-त्रैलोक्यः स्फुरदायुधः ।।” इत्यादि । (वि.पु.5.5.17) ईदृगपदान-डिण्डिमाभिप्रायेण वेदः — “इदं विष्णुर्विचक्रमे” (वि.सू.) “त्रीणि पदा विचक्रमे विष्णुः” (वि.सू.) “विचक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुः” (वि.सू) “त्रिर्देवः पृथिवीम्” इति (वि.शू) “प्र विष्णुः” इत्यादि ।। (वि.सू.) [नि-155. व्याप्तिमत्त्वात् प्रांशुः च परिकीर्तितः ।]

17.156   अमोघः

                *156 111. न अस्य व्यर्थः अस्ति इति अमोघः । “अपरिमितप्रभावाय” इति तन्मन्त्रवर्णः । (मन्त्रवर्ण) बलि-वासवयोः अविशेषेण कृतार्थीकरणात् । यथा– “अनुग्रहं चापि बलेरनुत्तमं चकार यश्चेन्द्र-पदोपमं क्षणात् । सुराश्च यज्ञांशभुजः ” (वि.ध.43.35) “यत्राम्बु विन्यस्य बलिर्मनोज्ञान् अवाप भोग्यान् वसुधा-तलस्थः । तथाऽमरत्वं त्रिदशाधिपत्यं मन्वन्तरं पूर्णमपेतशत्रु ” इत्यादि ।। (वि.पु. 5.17.30) [नि-156. बलेश्च वासवस्यापि कृतार्थीकरणात् समम् । मानातीत-प्रभावत्वात् अमोघः परिकीर्तितः ।। न मोघं चेष्टितं यस्य सः अमोघः परिकीर्तितः ।।]

17.157   शुचिः

                *157 252. ईदृगुपकारेषु प्रत्युपकार-निरपेक्षत्वात् शुचिः । इगुपधात् कित् । एवम् ‘ऋषि’ ‘रुचि’ प्रभृतयः । यथा– “अस्पर्शश्च महान् शुचिः” । इति ।। [नि-157. स्वयं कृतोपकारेषु यत्किंचित् प्रत्युपक्रियाम् । अनपेक्ष-स्थितो योऽसौ शुचिः स्यात् धर्मदो मनुः ।।]

17.158   ऊर्जितः

                *158 नमुचि-प्रभृति-परिपन्थि-वधबन्धनादौ बलम् ऊर्जा अस्य संजाता इति ऊर्जितः । इतच् ।। [नि-158. ऊर्जा बलं यस्य नित्यं संजाता इति ऊर्जिंतः स्मृतः ।]

17.159   अतीन्द्रः

                *159 इन्द्रानुजत्वऽपि ऐश्वर्येण अपदानेन तम् अतिक्रान्तः – अतीन्द्रः । यथा- “अविदित-विभवाय” इति तन्मन्त्रवर्णः । (मन्त्रवर्ण) “अतिवाय्विन्द्र-कर्माणम्” इति ।।

17.160   संग्रहः

                *160 अथ भक्तैः अयत्नेन संगृह्यत इति संग्रहः । “ग्रहवृदृनिश्चिगमश्च” इति अप् ।। (अष्टा.-3.3.58) [नि-160. भक्तैरपि अप्रयत्नेन संग्राह्यः संग्रहः स्मृतः ।]

17.161   सर्गः

                *161 त्रिविक्रम-क्रमण-सग्रह-पाद-पद्मो ह्यसौ तेभ्यः सृज्यते इति सर्गः ।। “निसृष्टात्मा सुहृत्सु च ” इति ।। (राम. यु. 17.36) [नि.161. ब्रह्मादिभ्यः सृज्यते यः सर्गं तं परिचक्षते ।]

17.162   धृतात्मा

                *162 एवम् आत्मदानेन धृता आत्मान इति–धृतात्मा इति ।। [नि.162. येन आत्मानो धृता नित्यं स धृतात्मा इति कीर्त्यते ।]

17.163   नियमः

                *163 869. तत्प्रतिबला बलिप्रभृतयोऽपि नियम्यन्ते अनेन इति नियमः । “यमः सुमुपनिविषु च” इत्यप् ।। (अष्टा.-3.3.63) [नि-163. नियम्यते जगत् येन नियमः स उदीरितः ।]

17.164   यमः

                *164 870. एवम् अखिलम् अकण्टकानुकूलं यच्छति इति यमः । अच् । यथा– “यः पृथिवीमन्तरो यमयति” (बृ.3.7.3) “य आत्मानमन्तरो यमयति” (बृ.माध्यं) इति प्रतितत्त्वम् अन्तर्यामिब्राह्मणे । यथा– “यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ।।” इति ।। (मनु.8.92) [नि-164. अकण्टकं च अनुकूलं यच्छति इति अखिलं यमः ।] वेद्यो वैद्यः सदा योगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ।।

18.165   वेद्यः

                *165 एवम् आविर्भूय प्रकटित-अतीन्द्रिय-महिमत्वात् सर्वैः वेदितुं शक्यो वेद्यः । [नि-165. सर्वैंश्च वेदितुं शक्यः सौलभ्यात् वेद्यः ईरितः ।]

18.166   वैद्यः

                *166 वेदितृ-भव-भञ्जनीं विद्यामधीते, वेदं वा इति वैद्यः ।। “तदधीते तद्वेद” इत्यण् । यथा- (अष्टा.- 4.2.59) “मेरु-मन्दर-मात्रोऽपि” ।। (वि.ध. 69.110) [नि-166. वेदितॄणां भवाख्यस्य गदस्य विनिवर्तिनीम् । विद्यामधीते वेदेति यो वैद्यः समुदाहृतः ।।]

18.167   सदायोगी

                *167 एवमत्र सततजागरूकः सदा योगी । यथा– “य एषु सुप्तेषु जागर्ति” इति ।। (कठ.-2.2.8) [नि-167. चिकित्सायां जागरूकः सदा योगी इति कथ्यते ।]

18.168   वीरहा

                *168 “ब्रह्मभ्रूणवृत्रेषु” इति नियमः प्रायिकः । (अष्टा.-3.2.87) । एवं कामहा (295), क्रोधहा (315),भगहा (564) इत्येवमादयोऽपि । यथा– “असत्यमप्रतिष्ठं ते जगदाहुः अनीश्वरम्” इति प्रसज्य, (गीता 16.8) “तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।” क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिषु ।। इत्यादि ।। (गीता 16.19) [नि-168. स्वध्यान-भंजकान् वीरान् हन्ति यः स तु वीरहा ।]

18.169   माधवः

                *169 (73,741). अथ स्वविषय-परविद्या-प्रवर्तनात् माधवः । यथा– “मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्मात् माधव-नामासि धवः स्वामीति शब्दितः ।।” “मौनात् ध्यानाच्च योगाच्च विद्धि भारत ! माधवम्” इति वा ।। (भार.3.69.4) [नि-169. मा विद्या तु हरेः प्रोक्ता तस्याः स्वामी धवः स्मृतः । तस्मान् माधव-नामासौ ब्रह्मविद्या-प्रदो मनुः । मौनात् ध्यानाच्च योगाच्च माधवः परिकीर्तितः ।]

18.170   मधुः

                *170 लब्धविद्येभ्यः स्वदमानत्वात् मधुः । मन ज्ञाने । अस्मात् स्वाद्वर्थात् “फलिपाटि नमि” इत्यादिना (उणा.पाद.-1.18) ‘उ’ प्रत्ययः, धकारः अन्तादेशश्च । यथा- “मध्व उत्सः” इति । (वि.सू) “प्रियो हि ज्ञानिनोऽत्यर्थम्” इति च ।। (गीता 7.17) [नि-170. भक्तेभ्यो लब्ध-विद्येभ्यो स्वदमानतया मधुः ।]

18.171   अतीन्द्रियः

                *171 662. अथ मधुर-मधूदधि-स्वरूपेऽस्मिन् गुणिनि उक्त-परव्यूह-विभव-हृदयं षाड् गुण्यं विवक्षन् स्वरूपं शोधयति — अतीन्द्रियः । ज्ञानोपकरणानि अतिक्रान्तः ।। [नि-171. ज्ञानोपकरणव्रातम् अतिक्रान्तो हि अतीन्द्रियः ।]

18.172   महामायः

                *172 कथं? महामायः । महती-अप्रतिपन्न-निखिल-जगन्मोहिनी तिरस्करिणीवत् माया अस्य इति “गुणमाया-समावृतः” इति । नेयं मृषा माया इति वक्ष्यते ।। (जितं ते 3) [नि-172. माया यस्य अप्रपन्नानां सर्वेषामस्ति मोहनी । महामायः स विज्ञेयो वरवर्णो मनुः उज्ज्वलः ।।]

18.173   महोत्साहः

                *173 ज्ञानमयादपि अकर्तुः अलसोदासीनात् सांख्येश्वरात् व्यावर्तकम् ऐश्वर्यं गुणमाह-महोत्साहः । महान् उत्साहः उत्साहनं कर्तृत्व-लक्षणम् ऐश्वर्यम् अस्य इति । अनेन खलु अयम् अखिल-कार्येंषु अनन्य-नियोज्य-निरङ्कुश-स्वसंकल्प-कणिका- मात्रेण सर्व-भोक्तॄणां भुक्ताभुक्त-विचित्र-कर्म-तारतम्यानुगुण-भोग-तदुपकरण-प्रकार-परिणाम भेदभिन्नजगद्-अपरिमित-अपूर्वरचना-चतुर-सर्वशक्तिरपि स्वातन्त्र्येण यथा पुरतः स्वभाव-नियमम् अनुरुन्धानः सर्वम् आविष्करोति । एतच्छीकर-परमाणुः अणिमादिः द्रुहिणादौ विजृंभते ।। [नि-173. महत् उत्सहनं यस्य हि ऐश्वर्यं कर्तृलक्षणम् । महोत्साहः स विज्ञेयो मनुः ऐश्वर्यदायकः ।।]

18.174   महाबलः

                *174 सहायापेक्ष-कर्त्रन्तर-व्यावर्तकं महत् बलमस्य इति महाबलः । अनेन हि अयम् अपरिमित-क्रियोऽपि अनाकलित-श्रमः स्वे महिम्नि तिष्ठन् अवधीरित-आधारान्तरः [नि-174. कर्त्रन्तरानपेक्षो यः सृष्टेः स स्यात् महाबलः ।] महाबुद्धिर्महावीर्यो महाशक्तिः महाद्युतिः । अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाद्रिधृत् ।। 19 ।।

19.175   महाबुद्धिः

                *175 असर्वज्ञकारण-मत-व्यवच्छेदमाह-महत् ज्ञानम् अस्य इति महाबुद्धिः । इदं च अस्य अशेष-देशकाल-स्वभाव-विप्रकृष्ट-अविप्रकृष्ट-विषयं सार्वज्ञ्यात् अविशय-विपर्यासतया यथार्थम्, क्लेश-कर्म-विपाकाशयादि-अपरामर्शात् स्वाभाविकत्वात् नित्यं च चक्षुरादि-करण-निरपेक्षं च, तदपेक्षं च स्वातन्त्र्येण, पुण्डरीकाक्षत्व- शुचिश्रवस्त्वादेः । न च रूप रसादि-ग्रहणे करणनियमः सर्वेण सर्वकार्यशक्तेः ; सर्पोऽपि हि तिर्यंक्षु चक्षुषैव पश्यति शृणोति च । कथमिदं सर्वशक्तेः दुःशकम् ? यथोक्तं जयायाम्– “सर्वतः श्रुतिमांश्चासौ यथा दृक्छ्रावकोरगः ।” इति । (जयाख्यसं) करतलामलक-विलोकनवत् अपरोक्षं च वैशद्यात्, अमोघं च सर्वं-निर्वहणात् । यथा– “विश्वतश्चक्षुः उत विश्वतोमुखः” (तै.ना.1.12) “पश्यत्यचक्षुः स शृणोति अकर्णः” (श्वे.-3.19) “सर्वतोऽक्षिशिरोमुखम्” इत्यादि । (गीता 13.13) आहुश्च नाथमुनि-मिश्राः- “यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः” इति (न्यायतत्त्व) यत् केचित् सर्वज्ञम् अवजज्ञिरे– “एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते। नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ।।” इति । तत् बौद्धाद्यनुमित-सर्वज्ञ-विषयम्, तत्प्रकरणात्, अन्यथा शास्त्रविरोधाच्च । “नित्यश्चेत् अर्थवादत्वं तत्परे स्यात् अनित्यता ।” इति शास्त्रीय-सर्वज्ञत्व- व्युदासनम् अत एव अन्यपरोक्तं दुरुक्तं वा ; चक्षुः-श्रवः-प्रभृतिषु काक-उलूक- गृध्रादिषु मन्त्रसिद्ध-औषध-तपः प्रभावादि-संस्कृतेषु च करणानां ज्ञानकार्य- व्यतिहार-तन्त्रता-प्रकर्ष-तारतम्य-दर्शनात् सार्वज्ञ्य-शास्त्रस्य अयोग्यार्थ- ताऽपि दुर्वदा । गुणान्तर-वैचित्र्येऽपि एषा एव दिक् । अस्य लवो बद्ध-मुक्त- नित्येषु चैतन्यम् ।। [नि-175. महाबुद्धिः महत् ज्ञानं स्वरूपं यस्य सा उच्यते ।]

19.176   महावीर्यः

                *176 दधिभावम् आपद्यमान-दुग्धादि-कारणेभ्यो भेदकं सत्यपि हेतौ अविकार-लक्षणं महत् वीर्यमस्य इति महावीर्यः । अगरु-मृगमद-कस्तूरिका-कुसुमामोदवत् सन्निधि मात्रेण निर्मर्याद-कार्यकारी हि अयम् । यथा- “तस्य सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथाऽसौ परमेश्वरः ।।” इति । एतदणुः योगीश्वर-प्रभृतिषु अक्षोभ्यत्वम् ।। [नि-176. हेतौ सति विकारित्वेऽपि अविकारित्व-लक्षणम् । महत् हि वीर्यं यस्य इति महावीर्यः स च स्मृतः ।।]

19.177   महाशक्तिः

                *177 पशुपति-मत-अवगत-उपादान-शक्ति-विकल-निमित्त-मात्र-व्यावर्तिका महती शक्तिः अस्य इति महाशक्तिः । सा हि साधन-ग्राम-विनियोग-लक्षणा स्वशरीरैकदेशीकृत-प्रकृति- परिणाम-योग्यता-लक्षणा सत्या असत्या वा सामग्र्या सर्वदा सर्वसंपादिनी । ऊर्णनाभि प्रभृतेः कीटस्यापि निमित्तस्यैव उपादानशक्तिः अतर्क्या, कथमियं सर्वज्ञशक्तिः तर्क्या? अस्या विप्रुट् प्रधान-दधि-दुग्दादौ प्रतिक्षण-परिणामित्वम् ।।

19.178   महाद्युतिः

                *178 सहकार्यपेक्ष-कारण-वैलक्षण्यकरं तदनपेक्षा-लक्षणं तेजो महत् अस्य इति महाद्युतिः । यत् बाह्यान्तर-तमो-विरोधि स्वपर-वर्गयोः क्रमेण रमणीयं भीषणं च भवति । अस्य बिन्दुः द्युमणि-माणिक्यादौ प्रकाशः । षट्सु च अमीषु (173-178) महत्त्व-विशेषणेन एते गुणाः कलयैव परावरं कार्यकलापं प्रवर्त्य अशेषेण अलब्धामिषा महोदधाविव महौघाः भगवति अनन्ते भान्ति इति निवेद्यते । अतिप्रथिता इयं प्रक्रिया- “पराऽस्य शक्तिर्विविधैव श्रूयते” स्वाभाविकी ज्ञानबलक्रिया च ।” (श्वे.-6.8) “तेजोबलैश्वर्यं-महावहोध- सुवीर्यशक्त्यादि-गुणैकराशिः ” (वि.पु.6.5.85) “ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्यशेषतः । भगवच्छब्द-वाच्यानि विना हेयैः गुणादिभिः ।।” इत्यादौ । (वि.पु.6.5.79) भगवच्छास्त्राणि कार्त्स्न्येन इदमर्थानि । एषु षट्सु एव सौशील्यवात्सल्यादयो अगणित-गुणाः केनापि प्रयोजनेन अन्तर्भाव्यन्ते ।। [नि-178. तेजोऽनपेक्ष-रूपं स्वं महत् यस्य महाद्युतिः।]

19.179   अनिर्देश्यवपुः

                *179 662. एतत्-षाड्गुण्य-विग्रहत्वात् अनिर्देश्यवपुः । यथा– “षाड्गुण्य-विग्रहं देवं भास्वज्ज्वलन-तेजसम् ।” इति । (मौल सं.) मौल-संहितायां च एतत् व्यञ्जितम् । “बुद्धि-मनोऽङ्ग-प्रत्यङ्गवत्तां भगवति लक्षयामहे, शास्त्र-शब्देभ्यो बुद्धिमान् मनोवान् अङ्ग-प्रत्यङ्गवान्” इति । (मौल.सं) । निरुक्तं च एतत् “ये बुद्धिमनोऽङ्गप्रत्यङ्गवन्तो भवन्ति, साप्तमहाभौतिकास्ते भवन्तिः ; ‘किमात्मिका नु खलु इयं भगवतो व्यक्तिः ?'” इति भौतिकत्वम् आशङ्क्य, उत्तरयति–“भगवदात्मिकैव एषा भगवतो व्यक्तिः ; यदात्मको हि भगवान्, तदात्मिकैवैषा । किमात्मकश्च भगवान् ? ज्ञानात्मकः, ऐश्वर्या त्मकः शक्त्यात्मकः । यथा, अङ्गारः खादिरः शाल्मलो वा सुप्रदीप्तः सर्वतो अग्निरेव स्यात् यथा वा मधु मात्रं प्रपीयमानं सर्वतो मधुरमेव स्यात् ; यथा वा सुवर्णपिण्डो निघृष्यमाणः, सर्वतः सुवर्णमेव स्यात् ; यथा वा प्रासादः आलोक्यमानः सर्वतो दर्शनीय एव स्यात्, एवं भगवान् सर्वतो ज्ञानमेव; सर्वतः ऐश्वर्यमेव ; सर्वतः शक्तिरेव ; यदिच्छेत् तद्भवेत् ” इत्यादिना । (निरुक्तं) । एष एव पञ्चोप निषद्-विषयो वक्ष्यते । “शुद्धसत्त्वमयेन हि अनेन कनकदलेन इव रत्नम् उन्मील्यते षड्गुणी, न तु त्रिगुणमयेन इव निमील्यते” (पंचोपनिषत्) इति तत्त्वम् ।। वैष्णवे च — “रूपवर्णादि-निर्देश-विशेषणविवर्जितः” (वि.पु.1.2.10) । निर्देश-विशेषणम्- उपमान–विशेषणम् ; तद्वर्जितः अनुपम-वपुः इत्यर्थः ।। [नि-179. ज्ञानादि-षाड्गुण्यमयम् उपमान-विवर्जितम् । वपुः अस्यास्ति तेजिष्ठम् अनिर्देश्य-वपुः हि सः ।]

19.180   श्रीमान्

                *180 (22,222). तदनुरूपया दिव्य-भूषण-संपदा नित्ययुक्तः श्रीमान् ।। [नि-180. दिव्य- भूषण-संपद्भिः युक्तः श्रीमान् सदा स्मृतः ।]

19.181   अमेयात्मा

                *181 इत्थं विविधगुण-रूप-अनुरूप-अंभोधि-गंभीरभावः अमेयात्मा ।। [नि-181. सिन्धु-गंभीर-भावो यो हि अमेयात्मा स कीर्तितः ।]

19.182   महाद्रिधृत्

                *182 अथ तदनुगुण – यथेष्ट – विहार – चेष्टितः महाद्रिधृत् । महान्तं मन्दरं मथने धृतवान् ।। (182) महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ।। 20 ।।

20.183   महेष्वासः

                *183 तथा महान्-मनोहारी, इषूणाम् आसः- क्षेपः, सिन्धुबन्ध-दशकन्धर-वधादौ यस्य सः महेष्वासः ।। [नि-183. महेष्वासः स विज्ञेयः चण्ड-कोदण्ड-मण्डितः ।]

20.184   महीभर्ता

                *184 ललित-धरणी-भरणशीलः महीभर्ता ।। [नि-184. धरणीधर-लीलः सः महीभर्ता इति शब्द्यते।]

20.185   श्रीनिवासः

                *185 (614).श्रीनिवासः–इति च मथन-समानीत-लक्ष्मी-चाटुकार-वक्षोऽधिरोपणादि दिव्य चेष्टापरम् ।। [नि-185. मथनानीत-लक्ष्मीवान् श्रीनिवासः स ईरितः ।]

20.186   सतां गतिः

                *186 सतां गतिः-स्वच्छन्द-चेष्टितैरपि प्रणत-प्रियंकरः ।। [नि-186. प्रणतानां प्रियकरः सतां गतिः इह उच्यते ।]

20.187   अनिरुद्धः

                *187 एवं निर्धूत निरोध निरवधिक-जीवलोक-जीवातु-दिव्यचेष्टितः- अनिरुद्धः । “अपरिमित-चेष्टो भगवान् अनिरुद्धः” इति मौलाः ।। (मौल सं) [नि-187. अनन्त-चेष्टा-युक्तत्वात् अनिरुद्धः उदाहृतः ।]

20.188   सुरानन्दः

                *188 अस्य अनिरुद्धस्य अवतार-कन्दस्य हंसावतारः । आपत्सखत्वेन सुरा आनन्दन्ति अस्मात् इति सुरानन्दः । [नि-188. सुरानन्दः सुरान् सर्वान् आनन्दयति यः सदा ।]

20.189   गोविन्दः

                *189 तद्गवां -स्तुतिगिरां, विन्दः-गोविन्दः । “गवादिषु विन्देः संज्ञायाम्” इति शः । तैः सुरैः स्तूयमानोपकारः ।। (अष्टा.-3.1.138). [नि-189. गवां स्तुति-गिरां विन्दो गोविन्दः स उदाहृतः ।]

20.190   गोविदां पतिः

                *190 गावः-वेदगिरः, तद्विदां ज्ञानिनां, ज्ञानयज्ञ-आराध्यत्वेन पाता गोविदां पतिः । यथा – “हंसमूर्तिम् अथ आत्मानं ज्ञानयज्ञ-भुजं स्मरेत्” इति ।। [नि-190.गवो वेदगिरः प्रोक्ताः गोविन्दः तत्सुपालनात् । गोविदां पतिः उद्दिष्टो वेदविद्वत्पदो मनुः ।। ] मरीचिः दमनो हंसः सुपर्णो भुजगोत्तमः।

21.191   मरीचिः

                *191 एवं जनुषा अन्धेभ्योऽपि जन्तुभ्यः प्रकाशित-निर्मल-रूपः मरीचिः । “मृकणिभ्यामीचिः” । (उणा.पा.-4.71) । मृङ् अत्र दीप्ति-कर्मा । यथा- “कुन्देन्दुस्निग्ध-कान्तिश्च” इति तद्-ध्यानम् ।। [नि-191. अन्धेभ्योऽपि च जन्तुभ्यः हंसग्रीवावतारतः । प्रकाशित-स्वरूपत्वात् मरीचिः इति कल्प्यते ।। ]

21.192   दमनः

                *192 कान्ति-मन्दाकिनीभिः भवतापं दमयति इति दमनः ।। [नि-192. भवतापस्य दमनात् कान्त्या दमनः ईरितः ।]

21.193   हंसः

                *193 क एवम् ? हंसः । “हन्ता सङ्गानाम्” इति मौलाः ।। मनोहरं हन्ति- गच्छति, स्मयते इति वा हंसः । पृषोदरादित्वात् साधुः । यथा– (मौलसं) “सत्सत्त्व-शूभाश्रय-परमहंसाय” इति ।। (ध्यानं) [नि-193. हन्ता संगस्य, हसति गच्छतीति मनोहरम् । हंसः ।]

21.194   सुपर्णः

                *194 शोभन-पर्णत्वात्, संसारपार-नयनात् वा सुपर्णः इति नैरुक्ताः ।। [नि-194. शोभन-पर्णत्वात् सुपर्णं इति कथ्यते । संसार-पार-नयनात् सुपर्ण इति वा मतः ।। ]

21.195   भुजगोत्तमः

                *195 “पद्मनाभोऽमरप्रभुः” (48,49) इत्यत्र व्यूह-पश्चिमो अनिरुद्धः पद्मनाभ उक्तः । इह प्रादुर्भाव-प्रथमः पद्मनाभो विवक्ष्यते–भुजगोत्तमः । भुजगस्य- शेषस्य, उत्तमः-शेषी ; अनन्त-भोग-पर्यंक-शयनः । “मानसेऽनन्तशयने दिव्य-बोधतनुः विभुः” इति तद्ध्यान-विधौ । आरण्य-पर्वणि–(ध्यान) “सुष्वाप भगवान् विष्णुः अप्-शय्याम् एक एव हि ।। नागस्य भोगे महति शेषस्य अमिति-तेजसः ।।” (भार.व.) वैष्णवे– “भोगि-शय्यागतः शेते त्रैलोक्य-ग्रास-ब्रृंहितः” इति ।। [नि.195. प्रादुर्भावेषु प्रथमः पद्मनाभः अथ तु उच्यते । भुजगस्य उत्तमः शेषी भुजगोत्तमः उच्यते ।।]

21.196   हिरण्यनाभः

                *196 हिरण्यनाभः स एव ।। [नि-196. हिरण्यनाभः सौन्दर्य-नाभिः यस्य इति स स्मृतः ।]

21.197   सुतपाः

                *197 सुतपाः च । तपो ज्ञानं संहृत-साक्षि । तद्ध्याने– “दिव्यबोधतनुः विभुः” इति ।। [नि-197. तपो बुद्धिः सैव तनुः सुतपाः यस्य स स्मृतः ।]

21.198   पद्मनाभः

                *198 (48,348) पद्मनाभः च पूर्ववत् । हिरण्यनाभत्व-पद्मनाभत्वे (196,198) ब्राहेमोक्ते– “कदाचित् तस्य सुप्तस्य नाभ्यां कामादजायत । दिव्यम् अष्टदलं भूरि पङ्कजं पार्थिवं महत् । यस्य हेममयी दिव्या कर्णिका मेरुः उच्यते ।।” इति ।। यस्य नाभौ तदुत्पत्तिः मद्मनाभः स उच्यते ।।]

21.199   प्रजापतिः

                *199 70. तत्पद्मोद्भव-पिरभृतीनां प्रजानां पतिः–नायकः । नैमित्तिक-सृष्टि- प्रलय-विषयं ट एतत् द्रष्टव्यम् ।। [नि-199. नैमित्तिके ये सृष्टाः प्रजा ब्रह्ममुखास्तथा । तेषां चैव पतिः स्वामी प्रजापतिः इह उच्यते ।।] अमृत्युः सर्वदृक् सिंहः सान्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्माः सुरारिहा ।। 22 ।।

22.200   अमृत्युः

                *200 अथ नृसिंहावतारः । अमृत्युः — मृत्युविरोधी । मृत्यु-मृत्युत्वात् ।। [नि-200. नारसिंहम् अथ स्तौति सर्वमृत्यु-निवारणम् ।।] इति श्रीहरितकुलतिलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराज-दिव्याज्ञा-लब्ध-श्रीपराशरभट्ट-अपरनामधेयस्य श्रीरंगनाथस्य कृतौ श्रीविष्णुसहस्रनामविवरमे श्रीभगवद्गुणदर्पणे द्वितीयं शतकम् समाप्तम् ।।

…..Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.