श्री भगवद् गुण दर्पण: 301-400

श्री भगवद् गुण दर्पण: 301-400

33.301   युगादिकृत्

                *301 चतुर्थ-शतक-प्रारंभः वटपत्रशायी-अवतारः युगादिकृते युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्व सहस्रजित् अनन्तजित् ।। 33 ।। अथ अमर्यादार्यत्वम् । तत्र न्यग्रोध-शाय्यवतारः उदाहरणम् । युगस्य अन्तेऽपि आर्दिं करोति इति युगादिकृत् । स खलु समवर्त्ऽपि प्रलयात् अनुपप्लुतं दगत् प्रवर्तितवान् ।। [नि-301. न्यग्रोधशायी भगवान् पुराण-पुरुषोत्तमः । करोति आदिं युगस्यान्ते स युगादिकृत् ईरितः ।।]

33.302   युगावर्तः

                *302 स्वधर्मव्यवस्ताया कृतादियपगानां पौनः पुन्येन आवर्तनात् युगावर्तः ।। [नि-302. धर्मव्यवस्थया स्वस्य युगाग्यावर्तनात् मुहुः । युगावर्तः समाख्यातः कालरूपधरो हरिः ।।]

33.303   नैकमायः

                *303 मुग्ध-शिशुरूप-अपरिमित-जगन्निगरण-निरालंबन-एकोदक-वटतल-शयनादि-अनेक- अतर्क्य-आश्चर्यः नैकमायः । न च मिथ्यावचनोऽयं ‘माया’ शब्दः, तथ्येऽपि प्रयोग- भूयस्वात् । तथा हि– “मायां तु प्रकृतिं विद्यात्” इति अनेकार्थक्रिया-कारिण्यां प्रकृतौ ; (श्वे.-4.10) “माया वयुनं ज्ञानम्” (निरुक्तं) “संख्याता देवमायया ” (यजुरष्टके) “विश्वानि देव वयुनानि विद्वान्” इति च ज्ञाने ; (ईशावास्य.18) इति तत्त्वज्ञानाबाध्ये अस्त्र-नाश्ये ; वराहे मायाध्यायादिना, “मेघोदयः सागर-संनिवृत्तिः इन्दोर्विभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिः उष्णरश्मेः विष्णोर्विचित्राः प्रभवन्ति मायाः ।। ” इति अयियुक्तैश्च महाश्चर्ये ; आरण्य-पर्वणि मार्कण्डेयेन वटदल-शयनाद्याश्चर्यम् उक्त्वा, “ततो मे पृथिवीपाल! विस्मयः सुमहान् अभूत् । लोकं दृष्ट्वा समस्तं च….; इत्युक्त्वाऽन्तर्हितः तात ! स देवः परमाद्भूतः । आश्चर्यं भरतश्रेष्ठ!” इति तद्विषये निर्दोष-प्रत्यक्षसिद्धे बह्वाश्चर्य-पर्याय-प्रयोगश्च भूतिष्ठ उपलभ्यते ।। [नि-303. मुग्धार्भकत्व-रूपेण जगन्निर्भरमादपि । वटैकपत्र-शयनात् निरालंबजले मुहुः । अनन्ताश्चर्य-संयुक्तो नैकमायस्तु स स्मृतः ।।]

33.304   महाशनः

                *304 निखिल-जगन्निगरणम् अस्य इति महाशनः । यथा– “यच्च किंचित् मया लोके दृष्टं स्थावर-जङ्गमम् । तदपश्यम् अहं सर्वं तस्य कुक्षो महात्मनः ।।” इति ।। [नि-304. भुवनानां निगरमात् महाशन इति ईरुतः ।]

33.305   अदृश्यः

                *305 अदृश्यः । “ऋदुपधाच्चाऽक्लृपिचृतेः” (अष्टा.-3.1.110) इति क्यप् । अतर्क्य- वृत्तान्तः । यथा– “कतं नु अयं शिशुः शेते लोके नाशमुपागते । तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।।” इति ।। [नि-305. अतर्क्य-वृत्तान्ततया जगतः प्रलयेऽपि यः । म लभ्यः चिन्त्यमानोऽपि सः अदृश्य इति क्थ्यते ।।]

33.306   व्यक्तरूपः

                *306 अथ च अभिगच्छतो मार्कण्डेयादेः व्यक्तरूपः–सुग्रह-दिव्यविग्रहः । यथा– “अतसीपिष्प-संकाशः श्रीवत्स-कृत-लक्षणः । साक्षात् लक्ष्म्या इव आवासः ससदा प्रतिभाति मे ।।” (भार.व.188.96) “तस्य ताम्रतलौ तात! चरणौ सुप्रतिष्ठितौ । सिजात-मृदृ-रक्ताभिः अंगुलीभिः अलंकृतौ ।। प्रणतेन मया मूर्धना गृहीत्वा ह्यभिवन्दितौ ।।” इति ।। (भार.व.188.13) [नि-306. महाजले संचरतो मार्कण्डेयस्य धीमतः । दृश्यो यो व्यक्तरूपत्वात् दिव्यविग्रहधारणात् ।।]

33.307   सहस्रजित्

                *307 सहस्र-युग-संख्यं कल्पान्तं शयानो जयति इति सहस्रजित् । “यावत् युगानां विप्रर्षे ! सहस्रं परिवर्तते । तावत् स्वपिमि…. ।।” इत्यादि । (भार.व.189.41) [नि-307. सहस्रयुग-संख्याकं सर्वकल्पान्तमेव हि ।

33.308   अनन्तजित्

                *308 परिमित-शिशु-रूपस्यापि अस्य कश्चित् कदाचित् कथंचिपि बहिमावधि-पिरकर्षौ नास्तीति अनन्तजित् । (महिमावधि-प्रधर्षकः-पा.) “अन्तः शरीरे तस्याहं वर्षाणाम् अधिकं शतम् । न हि पस्यामि तस्याहम् अन्तं देवस्य कर्हिचित् । आसादयामि नैवान्तं तस्य रादन् ! महात्मनः ।।” इति ।। (भार.व.124.125) [नि-308. मितस्य शिशुरूपस्य कदाचित् कश्चिदेव च । कथंचित् अनधिः नास्ति महिम्नः परमात्मनः । तस्मात् अनन्तजित् इति वस्वर्णो जयदो मनुः ।। ] इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधरः ।। 34 ।।

34.309   इष्टः

                *309 एवम् उदरेण धृतैः मुख्यैरपि अविशेषेण जनयित्री इव वांछितः इति इष्टः ।। [नि-309. इष्टोविशिष्टः कथितः सर्व-रक्षण-तत्परः ।] (309).

34.310   अविशिष्टः

                *310 अविशिष्टः ।। [नि-309,310. इष्टोविशिष्टः कथितः सर्व-रक्षण-तत्परः ।]

34.311   शिष्टेष्टः

                *311 तथा पणडिताग्रण्यां मार्कम्डेयादीनां परमपुरुषार्थत्वेन इष्टः शिष्टेष्टः । तत्रैव च “सत्त्वस्था निरहंकारा नित्यम् अध्यात्म-कोविदाः । मामेव सततं विप्राः चिन्तयन्त उपासते ।।” इति ।। (भार.व.189.167) [नि-311. मार्कण्डेयद्विजातीनां पण्डितेषु अग्रयायिनाम् । उत्कृष्ट-पुरुषार्थत्वेन इष्टः शिष्टेष्टः उच्यते ।।]

34.312   शिखण्डी

                *312 “आसीनं तं नर-व्याघ्रं पश्यामि अमित-तेजसम् ।” इति अपरिमित-अप्रधृष्यम् ऐश्वर्यं परं तेजः शिखण्डम् अस्य अस्तीति शिखण्डी । “अतिशायने” इतिः ।। (अष्टा.-5.3.55) [नि-312. अत्यप्रधृष्यम् ऐश्वर्यं परं यत् तेजः आस्थितम् । तत् शिखण्डं तु यस्यास्ति तं श्खण्डी इति चक्षते ।]

34.313   नहुषः

                *313 तथा स्वमायया जूवान् नह्यति-बध्नाति इति नहुषः इति नैरुक्ताः । यथा– “तस्मिंश्चान्यो मायया सन्निरुद्धः” इति ।। (श्वे.-4.9) [नि-313. जीवन् स्वमायया नित्यं नहुषो नयति इति सः ।]

34.314   वृषः

                *314 स एवामृतोपमया स्वकान्त्या वाचा च सागरस्य उदराटनश्र4न्तम् आश्वासयन् सिञ्चिति इति वृषः । “वृष सेचने” । यथा– “ततो माम् अब्रवीत् बालः सः पद्मनाभ-लोचनः । श्रीवत्सधारी द्युतिमान् वाक्यं श्रुति-सुखावहम् । जीनामि त्वां परुश्रान्तं तदा विश्राम-कांक्षिणम् ।।” इत्यादि ।। (भार.व.188.94) [नि-314. सागरस्योदरे नित्यं वसन् अमृतरूपया । स्वदेहकान्त्या वाचाऽपि सम्यगाश्वासयन् मृहुः । भार्गवो रामः

34.315   क्रोधहा

                *315 अथ भार्गवं रामं ध्वनयति । त्रिस्सप्तवारं नरपतिनिरासकरं क्रोधं काश्यप- प्रार्थनामात्रेण हयवान्-क्रोधहा ।। [नि-315. काश्यपस्य प्रार्थनया य क्रोधम क्षत्रहानिदम् । हतवान् क्रोधहा प्रोक्तः षडर्णः क्रोधनाशकः ।।]

34.316   क्रोधकृत्

                *316 पूर्वं तेभ्यः क्रोधकृत् च ।। [नि-316. क्रोधकृत् क्षतियेभ्यो यः पुरा क्रोधं करोति सः ।]

34.317   कर्ता

                *317 तथाविध-क्रोधहेतोः कार्तवीर्यस्य छेता-कर्ता । यता- “निःक्षत्रियां यश्च चकार मेदिनीम्” इति ।। [नि-317. क्रुद्धेतोः कार्तवीर्यस्य छेत्ता कर्तेति शब्द्यते । ]

34.318   विश्वबाहुः

                *318 एवं कण्टकोद्धारेण विश्वस्मै बाहू यस्य सः विश्वबाहुः ।। [नि-318. विश्वस्मै यस्य बाहू सः विश्वबाहुः एकीर्तितः ।]

34.319   महीधरः

                *319 एवं भारावतरमेन महीं धत्ते इति महीधरः ।। [नि-319. भारावतरणं कृत्वा गां धत्ते स महीधरः ।] अच्युतः प्रथितः प्राणः प्रामदो वासवानुजः । अपां निधिः अधिष्ठानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।

35.320   अच्युतः

                *320 “च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्र-वरुणादिषु । यस्मान्न च्यवते स्थानात् तस्मात् संकीर्त्यसे अच्युतः ।।” इति ब्रह्मादि-साधर्म्येण अवतारेऽपि स्वैश्वर्याप्रच्युति-वैधर्म्यात् अच्युतः ।। [नि-320. च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु । यस्मान्न च्यवते स्थानात् तस्मात् संकीर्त्यतेऽच्युतः ।। साधर्म्येण अवतारेऽपि ब्रह्येन्द्रवरुणादिभिः । न स्वैश्वर्यात् प्रच्युतो यः सोऽच्युतः परिकीर्तितः ।।]

35.321   प्रथितः

                *321 तथात्वेन प्रसिद्धः प्रथितः । यथा– “तस्य नाम महद्यशः” (तै.ना.1.9) “यशसश्च एकभाजनम्” इति ।। (रा.कि.15.19) [नि-321. अच्युतत्वेन लोकेऽस्मिन् प्रक्यातः प्रथितः स्मृतः ।]

35.322   प्राणः

                *322 तत्र उपजीविनां जीवितरूपत्वात् प्राणः । “प्राणोऽस्मि प्रज्ञात्मा तं माम् आयुः अमृतम् इति उपास्स्व” (कौषी.-3.14) “अमृतं देवानाम् आयुः प्रजानाम्” (तै.आ.3) “प्राणस्तथाऽनुगमात्” इति ।। (ब्र.सू.1.1.29) कूर्ममूर्तिः

35.323   प्राणदः

                *323 अथ कूर्ममूर्ति सूचयति–प्राणदः । मरुतां मथनोचितबलप्रदः । “अनन्त-बल-शक्तये” इति तन्मन्त्र-वर्णात् ।। (मन्त्र) [नि-323. मरुतां बलदानाद्धि समुद्रमथने भृशम् । प्राणदश्च समुद्दिष्टः कूर्मरूपतया हि सः ।]

35.324   वासवानुजः

                *324 अमृतार्थिनं वासवमनु तत्संविधानाय जात इति वासवानुजः । “अनौ कर्मणि” इति डः ।। (अष्टा.-3.2.100) [नि-324. वासवस्य अनुजत्वेन जातत्वात् वासवानुजः ।]

35.325   अपां निधिः

                *325 मथ्यमान-महार्णव-धारणात् अपां निधिः ।। [नि-325. अपां निधिः मथ्यमान-महार्णव-विधारमात् । ]

35.326   अधिष्ठानम्

                *326 “मन्दराद्रेः अधिष्टानं भ्रमतोऽभूत् महामुने” इति अधिष्ठानम् ।। (वि.पु.1.9.88) [नि-326. भ्राम्यमाणं मन्दराद्रिं धृतवाऩ् यो महाजले । अधिष्ठानं तमेवाहुः अधिष्ठान-प्रदो मनुः ।। ]

35.327   अप्रमत्तः

                *327 एवंविधानां त्राणेषु अप्रमत्तः अत्यन्तम् अवहितः ।। [नि-327.अत्यन्तावहितः त्राणे हि अप्रमत्तः प्रकीर्तितः ।।]

35.328   प्रतिष्ठितः

                *328 स्वयम् अन्यानपेक्षया स्वे महिम्नि प्रतिष्ठितः । “स भगवः क्व प्रतिष्ठित इति । स्वे महिम्नि” इति । (छा.-7.24.1) “स्वे महिम्नि स्थितं देवम्” इति च ।। (वि.ध.72.2) [नि-328. स्वे महिम्नि स्थितो यस्तु स प्रतिष्ठित उच्यते ।] स्कन्दः स्कन्धरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुः आदिदेवः पुरन्दरः ।। 36 ।।

36.329   स्कन्दः

                *329 स्वयम् असुरादीन् स्कन्दयति–शेषयति इति स्कन्दः ।। [नि-329. असुरादीन् शोषयति स्कन्दः स्कन्दयतीति यः ।]

36.330   स्कन्दधरः

                *330 तादृशं सुरसेनान्यमपि धरते इति स्कन्धरः । सोऽपि हि तस्य विभूतिः– “सेनानीनामहं स्कन्दः” इति ।। (गीता.10.24) [नि-330. स स्कन्दधर आख्यातः षडानन-विधारणात् ।]

36.331   धुर्यः

                *331 “भुवनभृते” इति तन्मन्त्रवर्णात् धुर्यः । (मंत्रवर्ण) “धुरो यड्ढकौ” इति यत् ।। (अष्टा.-4.47.7) [नि-331. भुवनं धृतवान् धुर्यः]

36.332   वरदः

                *332 [नि-332. वरदोऽभीष्टदः स्मृतः ।]

36.333   वायुवाहनः

                *333 तद्यथा वायुवाहनः जगत्प्राणं वायुं वाहयति इति ।। [नि-333. जगत्प्राणं वहति यो वायुवाहन उच्यते ।]

36.334   वासुदेवः

                *334 अथ द्विषट्क-उध्यात्म-विषयः वासुदेवः । वासुशिच अशौ देवश्चेति विश्वं सवि- त्रीव वासयन्, बक्षाभ्यामिव आच्छादयंश्च तस्मिन् वसतीति वासुः । एवं क्रीडति विजिगीषते, अथ च द्योतते, स्तूयते, गच्छति च इति देवः । अतो वासुदेवः । निरूचुश्च ॠषयः — “छादयामि जगत् सर्वं भूत्वा सूर्य इव अंशुभिः । सर्वभूताधिवासश्च वासुदेवः ततः स्मृतः ।।” (भार.मो.160) “वसनात् सर्वभूतानां वसुत्वात् देवयोनितः । वासुदेवस्ततो ज्ञेयः सर्वेषामपि पठ्यते ।।” (भार.उ.69.3) “सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ।।” (वि.पु.1.2.12) इति सर्वशास्त्रे । गृह्यमिति न अतिव्यज्यते ।। [नि-334. सर्वभूतान् वासयति वासुः स परिकीर्तितः । दिवुधातोरपि क्रीडाद्यज्ञथकत्वात् विशेषतः । वासुश्ट देवश्चेत्येष वासुदेवः प्रकीर्तितः ।। सर्वभूतेषु अपि वसन् स्वस्मिन् भूतानि वासयन् । यः क्रीडति मुदा यद्वा वासुदेवः स उच्यते ।। सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुद्वेति विद्वद्भिः परिपठ्यते ।। ]

36.335   बृहद्भानुः

                *335 तदेव व्याचिकीर्षति । तत्र यत् भोगविभूत्या द्योतमानकत्वं तदाह-बृह्द्भानुः । वृहन्तो भानवः-नित्य-दीप्राः अस्य इति ।। [नि-335. बृहन्तो भानवो यस्य स बृहद्भानुः उच्यते ।]

36.336   अदिदेवः

                *336 यदवरविभूत्या क्रीडति, तदाह-आदिदेवः । यथा– “संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः । क्रीडते भगवान्” (अ.30.43) “अप्रमेयोऽनियोज्यश्च यत्रकामगमो वशी । मोदते भगवान् विष्णुः बालः क्रीडनकैरिव ।।” (भार.स.62.34) [नि-336. क्रीडतीति आदिदेवः सः पदात्मक-विभूतिभिः ।]

36.337   पुरन्दरः

                *337 छादनात् यत् असद्वाध-निवारणं तदाह चतुर्भिः । असुरपुराणि दारयतीति पुरन्दरः । “वाचंयमपुरन्दरौ च” इति निपातितः । (अष्टा.-6.3.6) असुर-पिशाच-अशनि-ग्रहादि-आधिदैविक-भयहरण-प्रदर्शनम् एतत् ।। [नि-337. पुरन्दर इति खायातोऽसुराणां पुरदारमात् ।] अशोकस्तारणः तारः शूरः शौरिः जनेश्वरः ।

37.338   अशोकः

                *338 आध्यात्मिकानां शोक-मोह-एशनायादीनां विरोधी एशोकः ।। [नि-338. अशोकः शोकमोहादिनाशकः परिकीर्तितः ।]

37.339   तारणः

                *339 आधिभौतिकेभ्यश्च वैरि-चोर-व्याध्यादि-भयेभ्यः तारयति इति तारणः ।। [नि-339. तारमो यस्तारयति वैरिव्याघ्रादि-भीतित ।]

37.340   तारः

                *340 सन्निधानाच्च सर्वंस्सारभयात् तारयति इति तारः । अथर्वशिरसि-“गर्भ-जन्म-जरा-मरण-संसारसागर-महाभयात् तारयतीति । तस्मादुच्यते तारः ।” इति । (अथर्वशिराः ) “अपहतपाप्मा विजरो विमृत्युः” इत्यादिका च श्रुतिः एतत्प्रकरण-प्रवणा ।। (छा.-8.7.3) [नि-340. तारः संसारभयतो नित्यं तारयतीति सः ।]

37.341   शूरः

                *341 यद्विजिगीषुत्वं तदाह-शूरः इति । शीरः-समर्थो जैत्रः । शु गतौ । “शिसिचिमीनां दीर्घश्च” इति क्रन् प्रत्ययो दीर्घश्च ।। [नि-341. विजिगीषुतया जैत्रः समर्थः शूर उच्यते ।।]

37.342   शौरिः

                *342 यत् विशेषतो भक्तान् गच्छति, तत् प्रदर्शयति-शौरिः । शूरस्य वसुदेवस्य अपत्यम् । “अत इञ्” ।। (अष्टा.-4.1.95) [नि-342. शूरस्य वसुदेवस्य योऽपत्यं शौरिः उच्यते ।]

37.343   जनेश्वरः

                *343 एवं सर्वसंप्लावन्-उज्ज्वलैश्वर्य-महौघः जनेश्वरः ।। [नि-343. प्लवनोज्ज्वलनैश्वर्यमहौघः स्यात् जनेश्वरः ।।]

37.344   अनुकूलः

                *344 अथ च निसर्ग-महत्त्वेन विस्मय-मद-मान-वर्जनात् अनुद्वेलः । अनुकूलः –कुलमनु वर्तते इति । यथा– “वीर्यवान् न च वीर्येण महता स्वेन विस्मितः” (राम.अ.1.13) भक्तभव्यो वा अनुकूलः । “हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः” (वि.ध.3.23) “यदि शक्नोषि गच्छ त्वम् अति-चञ्चल-चेष्टित !” इत्यादि ।। (वि.पु.5.6.15) [नि-344. स्वभावतो महत्त्वेऽपि मदविस्मय-वर्जनात् । भक्तक-प्रवमो नित्यम् अनुकूल इति स्मृतः ।।]

37.345   शतावर्तः

                *345 तथा शतावर्तः-शतम् आवर्ता अस्येति । आवर्तशब्देन ऐश्वर्य-विजृंभितानि लक्ष्यते । अतिवेलमपि अनुवेलीक्रियमाणम् इदमैश्वर्य-संकतगति-क्षोम-समुद्भवत्-सरिदावर्तवत् विदृंभृते । एवं “शान्तोदितविज्ञानप्राणाय” इति परमन्त्र-लिङ्गं समर्थितम् ।। (मन्त्र) [नि-345. ऐश्वर्यजृंभिताभिख्या आवर्ता यस्य नित्यशः । शतं सन्ति शतावर्तः वस्वर्णो भुक्तिमुक्तिदः ।।]

37.346   पद्मी

                *346 एवं वासुदेवत्वं गुणतो विवृत्य,रूपतोऽति विव्रियते । लीलापद्मेन नित्ययोगात् पद्मी ।। लीला-पद्मधरो नित्यं पद्मी इति परिकीर्त्यते ।।] पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिः ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ।। 38 ।।

37.347   पद्मनिभेक्षणः

                *347 अमल-कमलास्फालननिभं श्रमापहं वीक्षणम् अस्य इति पद्मनिभेक्षणः ।। [नि. 347. स्वच्छाम्बु-जातसदृशम् ईक्षणम् श्रमहारि च । यस्यास्ति भक्तरक्षायां स स्यात् पद्मनिभेक्षणः ।।]

38.348   पद्मनाभः

                *348 नाभिश्च पद्मनिभः अस्य इति पद्मनाभः ।। [नि.348 -नाभिश्च पद्मवत् यस्य पद्मनाभः स उच्यते ।]

38.349   अरविन्दाक्षः

                *349 अरविन्द-सुरन्दरे अक्षिणी अस्येति अरविन्धाक्षः ।। [नि-349. रक्तारविन्द-नयनस्तु अरविनादाक्षः इरितः ।]

38.350   पद्मगर्भः

                *350 स्वसदृशेन सुरबि-कोमलेन आसनपद्मेन,उपासक-मानस-सरसिजेन वा, गीर्यते- स्वान्तरवस्ताप्यते इति पद्मगर्भः । “अर्तितॄभ्यां भनि ” । था– (उणा.पा.-153) “दहरं विपाप्मं परवेश्मभूतं यत् पुम्डरीकम्”, (तै.ना.10) “दहरं पुण़्रीकम् वेस्म”, (छा.-8.1.1) “सरसिजासन-सन्निविष्टः” इत्यादि ।। नि-350. योगि-हृत्पुण्डरीकश्थः पद्मगर्भः स उच्यते ।]

38.351   शरीरभृत्

                *351 ईदृशेन शुभाश्रयेण स्वशरीरभूतम् उपासकं पुष्णाति इति शरीरभृत् । उपास्य-गुणैः हि तेषां पोषः । “वसति ह-दि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य शौम्यरूपः ।” (वि.पु.3.7.24) “ब्रह्मविद इव-सोम्य ! ते मुकं भाति” इति च । (छा.4.14.2) उपको हि तस्य आत्मवत् शरीरवच्च । “रक्षते भगवान् विष्णुः भक्तान् आत्मशरीरवत्” इति ।। [नि-351. योगिहृत्कज-मध्यस्थः स्वदेहं तं बिभर्ति यः । शरीरभृत् स कथितो वस्वर्णो भुक्तिमुक्तिदः ।।]

38.352   महर्द्धिः

                *352 अथ विभूतितोऽपि स एव विव्रियते । तद्योगक्षेम-क्षम-निस्सीम-विभूतिः महर्द्धिः ।। [नि-352. स एवाथो विव्रियते वासुदेवो विभूतिभिः । तद्योगक्षेमवहन-निर्मर्यादविभूतितः ।। महर्द्धिः ।]

38.353   ऋद्धः

                *353 तत्समृद्ध्या स्वयमपि समृद्धः ॠद्धः । यथा– “अभिषिच्य च लङ्कायाम्” इतियीदि ।। (रा.बा.1.25) [नि-353. तत्समृद्ध्या यः समृद्धः स्वुद्धः उच्यते । ]

38.354   वृद्धात्मा

                *354 इमं महान्तं महिमानं चुलकयन्निव प्रवृद्धः आत्मा-स्वरूपमस्य इति वृद्धात्मा ।।

38.355   महाक्षः

                *355 महाक्षः महान-पूज्यः, अक्षः यस्य सः । वहनेन रथावयव-साम्यात् अक्षः त्रयोमयः तार्क्ष्यः । स हि गरुडवाहनस्य औपवाह्यः ।। [नि-355. अक्षस्तु तार्क्ष्यो वहनात् रथावयव-साम्यतः । महान् पूज्यः स यसायास्ति स महाक्षः इति स्मृतः ।]

38.356   गरुडध्वजः

                *356 स एव ध्वजो यस्य सः गरुडध्वजः । तद्धि सर्वोश्वरस्य असाधारणं चिह्नम् ।। [नि-356. स एव तु ध्वजो यस्य स उक्तो गरुडध्वजः ।।] अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ।। 38 ।।

39.357   अतुलः

                *357 एवम् अतुलः-अनुपमः । “न तस्य प्रतिमा अस्ति” इति ।। (तै.2) [नि-357. गरुडध्वजवत्त्वाद्धि सः अतुलः अनुपमः स्मृतः ।]

39.358   शरभः

                *358 स्वमर्यादा-अतिवर्तिनः शृणाति इति शरभः । “कॄशॄशलिकलिगर्दिभ्यो अभव्” इति अभव् ।। (उणा.पा.-3.122) [नि-358. स्वाज्ञातिलंघिनः पुंसः शिक्षमात् शरभः स्मृतः ।]

39.359   भीमः

                *359 अतस्ते तस्मात् बिभ्यतीति भीमः । “भियः षिग्वा” इति ‘मक्’ प्रत्ययः । (उणा.पा.-1.153) “भीमादयोऽपादाने” इति । (अष्टा.- 3.4.74) तद्भीता हि वाय्वादयो देवाः स्वमर्यादां नातिवर्तन्ते । यथा — “भीषाऽस्मात् वातः पवते” इत्यादि, (तै.आ.8) “यदिदं किंच जगत् सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रम् उद्यतम्” (कठ.-2.3.2) “भयोदेव अग्निस्तपति भयात् तपति सूर्यः । भयात् उन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ।।”(कठ.-2.3.3) “कम्पनात्” (ब्र.सू.1.3.40) [नि-359. भीमो यस्मात् बिभ्यति तु शरभात् पवनादयः ।]

39.360   समयज्ञः

                *360 अतः तेषाम् अग्न्यादीनाम् उर्ध्व-ज्वलनादि-समयमि-जानाति इति समयज्ञः । “सीर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत्” इति । (तै.1) यद्वा भक्तेभ्यः स्वात्मदान-अवसरः समयः, तदभयदान-व्रतं वा इति ।। [नि-360. अग्न्यादीनां च समयम् उर्द्ध्वाग्र-ज्वलनादिकम् । यो जानाति अधिकारं स समयज्ञः प्रकीर्तितः ।]

39.361   हविर्हरिः

                *361 “तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये” इति । (छा.6.14.2) श्रुतिसिद्धं समयं ज्ञात्वा, तेभ्यो दीयते. तैः आदीयते च इति हविः । “हु दानादानयोः” “अर्चि शुचि हु सृ पिछादि छर्दिभ्यः इसिः” इति इसिः । (उणा.पा.-2.108) तद्विघ्नम् अपहरति इति हरिः । “सर्वधातुभ्यः इन्” (उणा.पा.-4.119) इति हरतेः इन् यथा- “हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्मृस्टो दहत्येव हि पावकः ।।” इति । (हर्यष्टकम्) हविर्हरिः इति एकं नाम । “इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णश्च मे हरिः श्रेष्ठः तस्मात् हरिः अहं स्मृतः ।।” इति ।। (भार.शा.343.39) [नि-361. भक्तेभ्यः स्वात्मदानाय यो ज्ञात्वाऽवसरं मुदा । दीयते चादीयते च तैर्योऽसौ तु हविः स्मृतः ।। हरिश्च तद्विघ्रहरो यद्वा क्रतुषु दीयते । यत् हविः तस्य हरणात् हविर्हरिः इति स्मृतः ।।] लक्ष्मीपतित्वम्

39.362   सर्वलक्षणलक्षण्यः

                *362 अथ लक्ष्मीपतिमूर्तिः । साक्षात् लक्ष्मी-सततालिह्गन-सौभाग्य-सूचकैः लक्षणे ज्ञाने साधुः सर्वलक्षण- लक्ष्ण्यः । “तत्र साधुः” (अष्टा.-4.4.98) इति यत् । तानि लक्षणानि यथा– “ध्यायेत् कमलगर्भाभं देवं लक्ष्मीपतिं ततः । कमलालय-हेतीश-विभूषित-करद्वयम् ।।” तन्मनौ च “पुण्डरूकाक्ष! सकलसुख-सौभाग्य-वारिधे!” (मन्त्र) इति ।। [नि-362. सर्वलक्षणलक्षण्यो लक्ष्मीलक्षणचिह्नितः ।]

39.363   लक्ष्मीवान्

                *363 तथा च लक्ष्मीवान्-ततैव लक्ष्म्या नित्ययोगवान् । यथा — “द्वयं देवीपरिणये लीलयौव समर्पयन् । प्रकाशयन् अनादित्वम् आत्मना प्रकृतेः सह ।। मत्करैः अनुविद्धेयं प्रकृतिः प्राकृतैः अहम् । यतोऽहम् आश्रितश्च अस्या मूर्तिः मयि एतदात्मिका ।।” इति । प्रकृतिः-जगतां माता श्रीः ।। [नि-363. लक्ष्म्या च नित्ययुक्तत्वात् लक्ष्मीवान् इति कथ्यते ।]

39.364   समितिञ्जयः

                *364 तया जगत्पिता पितृवत् निर्वृतिकरोऽयम् जीवानां स्वदास्यविवादक्लोशं जयति इति समितिञ्जयः । “संज्ञायां भृतॄवृजि” इत्यादिना खच् । (अष्टा.-3.2.46) “अखिल-दुःखजयः” इति मन्त्रवर्णात् ।। (मन्त्र) [नि-364. चेतनानां स्वदासत्व-विवादं जयतीति सः । समितिञ्जयः आख्यातः सर्वदुःख-शमाश्रयः ।।] विक्षरो रोहितो मार्गो हेतु दामोदरः सहः । महीधरो महाभागो वेगवान् अमिताशनः ।। 40 ।।

40.365   विक्षरः

                *365 यथोक्त-भक्तप्रणय-अक्षरणात् विक्षरः ।। [नि-365. उक्त-स्नेहस्य अक्षरणात् विक्षरः परिकीर्तितः । ]

40.366   रोहितः

                *366 कमलगर्भाभत्वात् रोहितः ।।

40.367   मार्गः

                *367 उपासकैः मार्ग्यते इति मार्गः । “वाञ्छित-सिद्धि-प्रदः” इति मन्त्र-वर्णात् ।। (मन्त्र) [नि-367. उपासकैः मार्ग्यमाणां मार्गो नाञ्छित-सिद्धये । ]

40.368   हेतुः

                *368 तद्धेतुः होतुः । “हि गतौ” “कमिमनि” इत्यादिना तुः ।। (उणा.पा.-1.75) [नि-368. वाञ्छितार्थ-निदानत्वात् हेतुः इत्यभिधीयते ।]

40.369   दामोदरः

                *369 उदरे दामनि अस्य इति दामोदरः । “दामानि लोकनामानि भान्ति यस्योदरान्तरे । तेन दामोदरो देवः ” इति । “देवानां सुखशंसित्वात् दामात् दामोदरं विदुः” इति वा । (भार.उ.71.9) “ततः स दामोदरतां प्रययौ दाम-बन्धनात्” इति वा । (वि.पु.5.6.20) एवं लक्ष्म्या अपि स्पृहणीय-चीतुर्योऽपि सन् यशोदा-दामनि गलितजलः संश्रित- वात्सल्यात् बभूव उत्यर्थः ।। [नि-369. दामानि लोकनामानि हि उदरे यस्य सन्ति सः । दामोदरो मतो यद्वा यशोदा-दाम-बन्धनात् । देवानां सुख-शंसित्वात् दामात् दोमोदरोऽपि वा ।।]

40.370   सहः

                *370 एवं तद्वन्धन-तर्जन-भर्त्सनादिकं सहते इति सहः ।। [नि-370. यशोदा-कृतबन्धादि-सहनात् सह ईरितः ।]

40.371   महीधरः

                *371 स एव भूभार-हरमेन महीधरः । [नि-371. भूभारनाशनेन ज्या-धरणात् धरणीधरः । ]

40.372   महाभागः

                *372 वल्लवी-नीला-षोडशहस्र-दिव्यकन्यका-रुक्मिणी-सत्यबामा-जांबवती-प्रभृतीनां स्वयंवर-सौभाग्यवत्त्वात् महाभागः ।। [नि-372. रुक्मिम्यादि-बहुस्त्रीभिः महाभागः स्वयंवृतः ।]

40.373   वेगवान्

                *373 मनुष्यधर्म-लीले बाल्येऽपिदुर्वार-परमैश्वर्य-प्रसरत्वात् वेगवान् । “अति- शायन् मतुप्” ।। [नि-373. दुर्वार-परमैश्वर्य-प्रसरत्वात् विशेषतः । मनुष्यधर्मे बाल्येऽति वेगवान् इति शब्द्यते ।।]

40.374   अमिताशनः

                *374 कथम् ? अमिताशनः-अपरिमितं गोपैः इन्द्राय परिकल्पितम् अशनम् अस्येति । तस्मिन् विस्मिता हि गोपाः तम् अतिशशङ्किरे । यथा– “देवो वा दानवो वा त्वम् ?” इत्यादि ।। (वि.पु.5.13.121) [नि-374. इन्द्राय कल्पितं गोपैः अमितं च अशनं स्वयम् । भुक्तवान् यश्च निःशेषं प्रोच्यते सः अमिताशनः ।।] करणं कारणं कर्ता विकर्ता गहनो गुहः ।। 41 ।।

41.375   उद्भवः

                *375 “दामोदरं बन्धहरम्” (वि,पि.41.23) इति प्रकारेण स्वबन्ध-अनु-सन्धायिनां भवबन्ध-निर्धूननेन उद्गतो भवः अस्मात् इति उद्भवः ।। [नि-375. समुद्गतो भवो यस्मात् उद्भवः परिकीर्तितः]

41.376   क्षोभणः

                *376 अन्यान् बन्धार्हान् बन्धनीं च प्रकृतिं क्षोभयति इति क्षोभणः ।। [नि-376. प्रकृतिं बन्धनार्हांस्च क्षोभयन् क्षोभणः स्मृतः ।]

41.377   देवः

                *377 मायापाशेन व्याघ्र-वराहादिवत् जीवान् बद्धवा दीव्यति-क्रीडति इति देवः ।। [नि-377. व्याघ्रादिवत् जीवततेः मायापाशेन बन्धनम् । कृत्वा नित्यं क्रीडति यः देवः परिकीर्तितः ।]

41.378   श्रीगर्भः

                *378 एवंप्राय-भोगक्रीडा-साहित्योन वर्धनीया अस्य श्रीः इति श्रीगर्भः । “विष्णोः एषा अनपायिनी” इति ।। (वि.पु.1.9.144) [नि-378. श्रीगर्भः श्रीः येन भोगक्रीडा-साह्येन-पोष्यते ।]

41.379   परमेश्वरः

                *379 एवं लक्ष्मी-स्वयंग्रहण-सप्रयोजन-परमैश्वर्यः परमेश्वरः । यथा– “अतीव-रामः शुशुभोऽरामया विभुः श्रिया विष्णुरिवमहेश्वरः” इति ।। (राम.बा.77.33) [नि-379. श्रीस्वयंग्रह-सार्थात् स्वात् ऐश्वर्यात् परमेश्वरः ।]

41.380   करणम्

                *380 स्वप्राप्तेः सादकतमत्वात् करणम् । ज्ञानकरमानां श्रवण-नयनांदीनां क्रियोप- करणानां च एतच्छक्ति-शीकरतः करणत्वम् । यथा– “चक्षुश्च द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च नारायणः” इत्यादि ।। (महोप.सु.) [नि-380. स्वप्राप्तौ साधकतमं जीवनां करणं विदुः ]

41.381   कारणम्

                *381 तैस्तैः तद्वतः तत् तत् कारयति इति कारणम्-दैवतम् ।। [नि-381. जीवानां चक्षुरादीन् यो कारयति सः प्रोच्यते कारणम् ।]

41.382   कर्ता

                *382 तत्र स्वतन्त्रः कर्ता । अधिकारी फली जोवोऽपि हि स्वयं स्वस्य यथा सुख- दुःखाभीमानी, तता तदतिशयेन वा तदवस्थाभिमानी हि भगवन् । यथा- “व्यसनाषु मनुष्याणां भृशं भवति दुःखितः । उत्सवेषु च सर्वेषु पितेव परुतुष्यति ।। ” (राम.अ.2.40) “बहु स्यां प्रजायेय” इति च । पृथगबिमानित्वे हि न “बहु स्याम्” इति स्यात् ।। (तै.आ.6) [नि-382. कर्ता स्वतन्त्रः परिकीर्तितः ।।]

41.383   विकर्ता

                *383 अत एव तत्फलभोगेन हर्षशोकादिभिः विकुर्वाणः विकर्ता । स्वार्थ-हर्ष- [नि-383. विकुर्वाणो विकर्ता यो हर्षशोकादिभिः स्मृतः ।]

41.384   गहनः

                *384 एवं सर्वेषां ज्ञानायतन-भोगतदुपकरम-स्वरूपेषु तदबिन्न-तन्त्राभिमानत्मके महागुणे गहनः-अतिबूतिः । “सहैव सन्तं न विजानन्ति देवाः” (यजुरा.3.2.4) तत्र अन्तर्यामि-ब्राह्मणम् “यः पृथिव्यां तिष्ठन्” इत्यादि सर्वम् । (बृ.5.7.3) शुबालोपनिषदि- “चक्षुश्च द्रष्टन्यं च नारायमः” इत्यादि । (सु.-7) “अधिष्ठानं तता कर्ता करणं च पृथग्विधम् । विविधाश्च पृतक्चेष्टा दैवं चैवात्र पञ्चमम् ।।” इति ।। [नि-384. बुद्ध्यायतन-भोगोपकरणादिषु देहिनाम् । तदभिन्नाभिमानात्म-महागुणगमेऽपि च । गहनो हि अतिभूमित्वात् ।।]

41.385   गुहः

                *385 एवं गूहति-रक्षति इति गुहः ।। [नि-385. …….रक्षतीति गुहः स्मृतः ।] व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रवः । परार्द्धिः परमः स्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।।

42.386   व्यवसायः

                *386 अतिशयेन सीयते (अवसीयते-पा) बध्यते अस्मिन् ज्योतिश्चक्रम् इति व्यवसायः । अधिकरमे घञ् । नक्षत्राध्रार-व्योम-शरीरत्वात् । अतो हि “गगनमूर्तये” इति तन्मन्त्रवर्णः । “भवचक्रभृतं देवम्” इति तद्ध्यानम् ।। [नि-386. ज्योतिश्चक्रं ध्रुवे नित्यं सीयते बद्ध्यते यतः । व्यवसायः ततो ज्ञपः भ-गमाधार-मूर्तिमान् ।।]

42.387   व्यवस्थानः

                *387 तन्मूलः कालः कला-मुहूर्ताद्यात्मा तत्रेव व्यवतिष्ठते इति व्यवस्थानः ।। [नि-387. कला-मुहूर्तादिमयो ध्रुवे कालोऽवतिष्ठते यस्मात् तस्मात् व्यवस्थानः ह्यष्टार्णः स्थानदो मनुः ]

42.388   संस्थानः

                *388 सर्वम् एतस्मिन् सन्तिष्ठते-समाप्यते इति संस्थानः ।। [नि-388. ध्रुवे (तस्मिन्-पा) समाप्यते सर्वमिति संस्थान उच्यते ]

42.389   स्थानदः

                *389 स एव “परमपद-प्राप्तिहेतवे” इति मन्त्रवर्मात् स्थानदः ।। [नि-389. स एव परमाकास-प्राप्तौ हेतुत्त्वतः सदा । प्रोच्यते स्थानद इति सप्तार्णो मनुनायकः ।।]

42.390   ध्रुवः

                *390 स कलु तुङ्गपद-प्रदानेन अर्वाचीनं-ध्रुवमपि ध्रुवी चकार । अतो ध्रुवः । अस्य सर्वव्यापकत्वं तत्त्वम् ।। अथ मृत-सञ्जीवनं रामचरितम् ।

42.391   परर्द्धिः

                *391 सर्वैश्वर्यादपि पराऽस्य कल्याण-गुण-समृद्धिः इति परर्द्धिः । परावस्थस्यापि हि रामस्य अवर-सोमादिदेव-गुणैकदैश-निदर्शनं क्रियते । यथा– “विष्णुना सदृशो वीर्ये शोमवत् प्रियदर्सनः” (राम.बाल.1.18) इत्यादौ । परत्वं च अत्रैव– “एतत् तदुक्तम् अव्यक्तम् अक्षरं ब्रह्मसंमितम् । देवानां हृदयं सौम्य ! गुह्यं रामः परन्तपः ।।” (राम.यु.122.31) “बहवो नृप! कल्याणगुणाः पुत्रस्य सन्ति ते” इत्यादि । (राम.अ.2.26) “भगवते” इति स्वमन्त्र-वर्णाच्च ।। [नि-391. कल्याणां पराणां च गुणानाम् ॠद्धिदः सदा । परावस्थतया चैव परर्द्धिः इति कथ्यते ।।]

42.392   परमस्पष्टः

                *392 किञ्च परमस्पष्टः । स्पष्ट-प्रत्यक्ष-दृष्ट-स्वपारभ्यः । यथा– “व्यक्तमेष महायोगो परमात्मा सनातनः ” (रामययु.114.14) “सूर्ययस्यापि भवोत् सूर्यः” इत्यादि ।। (राम.अ.44.15) [नि-392. साक्षात् दृष्टस्वपारभ्यः परमस्पष्ट उच्यते ।]

42.393   तुष्टः

                *393 अधिकृत-अधिकारात् परत्वादपि अतिशयेन समस्त-मनुष्या-द्यधिकारयोः दाशरथित्व- जगत्पालनयोः लाभात् प्रीतः तुष्टः । यथा– “पितरं रोचयामास तदा दशरथं नृपम्” (राम.बा.15.31) “कुलोचित-मतिः क्षात्रं धर्मं स्वं बहु मन्यते” (राम.अ.1.16) “आत्मानं मानुषं मन्ये क्षात्रं धर्मं स्वं बहु मन्यते” (राम.यु.120.11) [नि-393. लाभात् दाशरथित्वस्य जगतः पालनस्य च । मनुष्यत्वेऽपि यः प्रीतः स तुष्ट इति कथ्यते । ]

42.394   पुष्टः

                *394 एवं महागुणैः परिपूर्णः पुष्टः । “तमेवं गुणसंपन्नम्” इति ।। (राम.बा.1.19; राम.अ.2.48) [नि-394. गुणैर्यो हिं आनृशंस्याद्यैः पूर्णः पुष्ट इतीरितः]

42.395   शुभेक्षणः

                *395 एवंविध-ऐशेवर्य-शीलातिशय-पिशुन-शीतल-विशाल-उदार-दीर्ध-राजीव-लोचनः शुभेक्षणः यता– “सुभ्रूः आयत-ताम्राक्षः साक्षात् विष्णुरिव स्वयम्” इति । (राम.अ.2.44) स्वकर्मकं स्वकर्तृकं च दर्शनम् अबिमतमस्य इति वा शुभेक्षणः । यथा– “यश्च रामं न पश्येत्तु यंच रामो न पश्यति । निन्दितः स वसेल्लोके स्वात्माऽपि एनं विमर्हते ।।” इति ।। (राम.अ.17.14) [नि-395. शोशील्य-ऐश्वर्य-पिशुनं शीतलं दीर्धम् आयतम् । ताम्रं च सोचनं यस्य स शुभेक्षण ईरितः ।। ] रामो विरामो विरतो मार्गो नोयो नयोऽनयः ।

43.396   रामः

                *396 “रम्यतेऽस्मिन् सदा सर्वैः गुणरूप-वशीकृतैः” (राम.अ.53.1) । इति रामः । यथा- “रामो रमयतां श्रेष्ठः ।” “गुणाभिरामं रामं च ।” (भार.स.58.42) “श्यामो युवा लोहिताक्षो मातङ्गानामिव ॠषभः” “तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितपः । गुणैर्विरुरुचे रामो दाप्तः सूर्य इवांशुभिः ।।” इति । (राम.अ.1.33) “शरदिन्दीवरत्विषे अभिराम-शरीराय” इति स्वमन्त्रलिङ्गाच्च ।। [नि-396. शुभेक्षणेऽस्मिन् स्वगुणैः रम्यते राम ईरितः ।]

43.397   विरामः

                *397 विरम्यते अस्मिन् वरप्रदैः ब्रह्मादिभिः वरैश्च अवध्य-त्वादिभिः लब्धवरैश्च रावणादिभिः इति विरामः । यथा– “ब्रह्मा स्वयंभूः चतुराननो वा” इत्यादि ।। (राम.सु.51.45) [नि-397. वरप्रदैः ब्रह्ममुख्यैः अवध्यत्वादिः वरैः । यस्मिन् विरम्यते इति स विरामः प्रकूर्तितः ।।]

43.398   विरजोमार्गः

                *398 विसर्ग-नैरपेक्ष्येण कृपणात् राज्यादेः विरतः । यथा– “न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति । लोककान्कस्य कान्तत्वं शीतरसमेरुव क्षपा ।।” (राम.अ.19.32) “स पितुर्वचनं श्रीमान् अभिषेकात् परं प्रियम् ।” (राम.सु.33.25) “धर्मोपदेशात् त्यजतश्च राज्यं मां टाप्यरण्यं मयतः पदातिम्” इत्यादि ।। (राम.सु.36.29) भरद्वाजादि-मुनिभिः मार्ग्यते इति मार्गः ।। विरजो मार्गः इति पाठे विरजाः-अपांसुलो निर्दोषः तद्दर्शितो मार्गः इति । यथा — “या गतिर्यज्ञशीलानाम् आहिताग्नेश्च या गतिः ।” (राम.आ.68.29) “आवहत् परमां गतिम्” (राम.कि.17.8) [नि-398. निसर्गनैरपेक्ष्येण राज्यादेः कृपणाद्धिः यः । विरागी विरतः स स्यात् सप्तार्णवः परमाद्भूतः ।।]

43.399   नेयः

                *399 सुह-दां नियोगार्हत्वात् नेयः — “आज्ञप्योऽहं तपस्विनाम्” (राम.बा.6.22) “आवासं तु अहमिच्छामि प्रदिष्टम् इह कानने ।” (राम.आ.5.33) “सुहृदां हि अर्थकृच्छ्रेषु युक्तं बुद्धिमता सता । समर्थनापि सन्देष्ट्रं शाश्वतीं भूतिमिच्छता ।। ” (राम.यु.17.31) सभापर्वणि च स्वयम्– “यजस्व अभीप्सितं यज्ञं मयि श्रेयसि अवस्थिते । नियुंक्ष्व चापि मां कृत्ये कर्तास्मि ते वचः ।।” (बार.अ.33.25) उद्योगे– “अयमस्मि महाबाहो! ब्रूहि यत् ते विवक्षितम् । करिष्यामीह तत् सर्वं यत् त्वं वक्ष्यसि भारत ! ।।” (भार.उ.71.5) “वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः । शत्रूणाम् अप्रकंप्योऽपि लघुत्वम् अगमत् कपेः ।।” इति वा ।। (राम.यु.59.121) [नि-399. नियोगयोग्यः सुहृदां योऽसौ नेयः स उच्यते ।]

43.400   नयः

                *400 त् च तथा अस्मिन् नीयन्ते इति नयः । ते हि आहुः — [नि-400. यस्मिन् तपोधना नित्यं नीयन्ते इति वै नयः । ] इति श्रीहरितकुतिलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराज-दिव्याज्ञा-लब्ध-श्रीपराशरभट्ट-अपरनामधेयस्य श्रीरंगनाथस्य कृतौ श्रीविष्णुसहस्रमानविवरणे श्रीभगवद्गुणदर्पणे चतुर्थ शतकम् समाप्तम् ।।

….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.