भगवद्रामा
नुजविरचितंश्रीमद्गीताभाष्यम्
द्वादशोध्याय:
भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशैश्वरर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वैश्वर्यं यथावदवस्थितं दर्शितम् उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनामैकान्तिक-आत्यन्तिक-भगवद्भक्त्येकलभ्यत्वम् । अननतरमात्मप्राप्तिसाधनभूतादत्मोपासनाद्भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात्सुसुखोपादानत्वाच्च श्रैष्ठ्यम्, भगवदुपासनोपायश्च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश्चोच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच्श्रैष्ठ्यं तु, योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत: (६.४७) ॥ इत्यत्रोक्तम् ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: ॥ १ ॥
एवम् मत्कर्मकृत् (११.५५) इत्यादिनोक्तेन प्रकारेण, सततयुक्ता: भगवन्तं त्वामेव परं प्राप्यं मन्वाना: ये भक्ता:, त्वां सकलविभूतियुक्तमनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्य-सत्यसंकल्पत्वादि अनन्तगुणसागरं परिपूर्णमुपासते, ये चाप्यक्षरं प्रत्यगात्मस्वरूपं तदेव च अव्यक्तं चक्षुरादिकरणानभिव्यक्तस्वरूपमुपासते तेषामुभयेषां के योगवित्तमा: के स्वसाध्यं प्रति शीघ्रगामिन इत्यर्थ:, भवामि न चिरात्पार्थ (७) इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयमिति हि व्यञ्जयिष्यते॥१॥
श्रीभगवानुवाच –
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा: मता: ॥ २ ॥
अत्यर्थमत्प्रियत्वेन मनो मय्यावेश्य श्रद्धया परयोपेता: नित्ययुक्ता: नित्ययोगं काङ्क्षमाणा: ये मामुपासते प्राप्यविषयं मनो मय्यावेश्य ये मामुपासत इत्यर्थ: ते युक्ततमा: मां सुखेनाचिरात् प्राप्नुवन्तीत्यर्थ: ॥ २ ॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते ॥ ५ ॥
ये तु अक्षरं प्रत्यगात्मस्वरूपम्, अनिर्देश्यं देहादन्यतया देवादिशब्दानिर्देश्यं तत एव चक्षुरादिकरणानभिव्यक्तम्, सर्वत्रगमचिन्त्यं च सर्वत्र देवादिदेहेषु वर्तमानमपि तद्विसजातीयतया तेन तेन रूपेण चिन्तयितुमनर्हाम्, तत एव कूटस्थं सर्वसाधारणम् तत्तद्देवाद्यसाधारणाकारासंबद्धं इत्यर्थ: अपरिणामित्वेन स्वासाधारणाकारान्न चलति न च्यवत इत्यचलम्, तत एव ध्रुवम्, नित्यम्। सन्नियाम्येन्द्रियग्रामं चक्षुरादिकमिन्द्रियग्रामं सर्वं स्वव्यापारेभ्यस्सम्यङ्नियम्य, सर्वत्र समबुद्धय: सर्वत्र देवादिविषमाकारेषु देहेष्ववस्थितेष्वात्मसु ज्ञानैकाकारतया समबुद्धय:, तत एव सर्वभूतहिते रता: सर्वभूताहितरहितत्वान्निवृत्ता: । सर्वभूताहितरहितत्वं ह्यात्मनो देवादिविषमाकाराभिमान-निमित्तम् । य एवमक्षरमुपासते, तेऽपि मां प्राप्नुवन्त्येव मत्समानाकारमसंसारिणमात्मानं प्राप्नुवन्त्येवेत्यर्थ: । मम साधर्म्यमागता: (१४.२) इति हि वक्ष्यते । श्रूयते च, निरञ्जन: परमं साम्यमुपैति (मु.१.१.५) इति । तथा अक्षरशब्दनिर्दिष्टात् कूटस्थादन्यत्वं परस्य ब्रह्मणो वक्ष्यते, कूटस्थोऽक्षर उच्यते । उत्तम: पुरुषस्त्वन्य: (१५.१६) इति । अथ परा यया तदक्षरमधिक्गम्यते (मु.१.१.५) इत्यक्षरविद्यायां तु अक्षरशब्दनिर्दिष्टं परमेव ब्रह्म, भूतयोनित्वादे: ।तेषामव्यक्तासक्तचेतसां क्लेशस्त्वधिकतर: । अव्यक्ता हि गति: अव्यक्तविषया मनोवृत्ति: देहवद्भि: देहात्माभिमानयुक्तै: दु:खेनावाप्यते । देहवन्तो हि देहमेव आत्मानं मन्यन्ते ॥ ३-४-५ ॥
भगवन्तमुपासीनानां युक्ततमत्वं सुव्यक्तमाह –
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परा: ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥
ये तु लौकिकानि देहयात्राशेषभूतानि, देहधारणार्थानि च अशनादीनि कर्माणि, वैदिकानि च यगदानहोमतप:प्रभृतीनि सर्वाणि सकारणानि सोद्देश्यानि अध्यात्मचेतसा मयि संन्यस्य, मत्परा: मदेकप्राप्या:, अनन्येनैव योगेन अनन्यप्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यानार्चनप्रणाम-स्तुतिकीर्तनादीनि स्वयमेवात्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो मामुपासत इत्यर्थ: । तेषां मत्प्राप्तिविरोधितया मृत्युभूतात्संसाराख्यात्सागरादहमचिरेणैव कालेन समुद्धर्ता भवामि ॥ ६ – ७ ॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥
अतोऽतिशयितपुरुषार्थत्वात्सुलभत्वादचिरलभ्यत्वाच्च मय्येव मन आधत्स्व मयि मनस्समा-धानं कुरु । मयि बुद्धिं निवेशय अहमेव परमप्राप्य इत्यध्यवसायं कुरु । अत ऊर्ध्वं मय्येव निवसि-ष्यसि। अहमेव परमप्राप्य इत्यध्यवसायपूर्वकमनोनिवेशनानन्तरमेव मयि निवसिष्यसीत्यर्थ: ॥८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
अथ सहसैव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततोऽभ्यासयोगेन मामाप्तुमिच्छ स्वाभाविकानवधिकातिशयसौन्दर्यसौशील्यसौहार्दवात्सल्यकारुण्यमाधुर्यगाम्भीर्यौदार्यशौर्यवीर्य-पराक्रमसार्वज्ञ्यसत्यकामत्वसत्यसंकल्पत्वसर्वेश्वरत्वसकलकारणत्वाद्यसंख्येयगुणसागरे निखिल-हेयप्रत्यनीके मयि निरतिशयप्रेमगर्भस्मृत्यभ्यासयोगेन स्थिरं चित्तसमाधानं लब्ध्वा मां प्राप्तुमिच्छ॥९॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ १० ॥
अथैवंविधस्मृत्यभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव । मदीयानि कर्माण्यालयनिर्माणोद्योनकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तननाम-संकीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि तानि अत्यर्थप्रियत्वेनाचर । अत्यर्थप्रियत्वेन मदर्थं कर्माणि कुर्वन्नपि अचिरादभ्यासयोगपूर्विकां मयि स्थिरां चित्तस्थितिं लब्ध्वा मत्प्राप्तिरूपां सिद्धिमवाप्स्यसि ॥ १० ॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: ।
सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥ ११ ॥
अथ मद्योगमाश्रित्यैतदपि कर्तुं न शक्नोषि मद्गुणानुसन्धानकृतमदेकप्रियत्वाकारं भक्तियोगमाश्रित्य भक्तियोगाङ्कुररूपमेतन्मत्कर्मापि कर्तुं न शक्नोषि, ततोऽक्षरयोगमात्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितमाश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु । मत्प्रियत्वेन मदेकप्राप्यताबुद्धिर्हि प्रक्षीणाशेषपापस्यैव जायते । यतात्मवान् यतमनस्क: । ततोऽनभिसंहितफलेन मदाराधनरूपेणानुष्ठितेन कर्मणा सिद्धेनात्मध्यानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्ति: स्वयमेवोत्पद्यते । तथा च वक्ष्यते, स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: (१८.४६) इत्यारभ्य, विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कलपते । ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ्क्षति । सम: सर्वेषु भूतेषु मद्भक्तिं लभते पराम् (५४) इति ॥११ ॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्याग: त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
अत्यर्थप्रीतिविरहितात्कर्कशरूपात्स्मृत्यभ्यासादक्षरयाथात्म्यानुसन्धानपूर्वकं तदापरोक्ष्य-ज्ञानमेव आत्महितत्वेन विशिष्यते । आत्मापरोक्ष्यज्ञानादप्यनिष्पन्नरूपात्तदुपायभूतात्म-ध्यानमेवात्महितत्वे विशिष्यते। तद्ध्यानादप्यनिष्पन्नरूपात्तदुपायभूतं फलत्यागेनानुष्ठितं कर्मैव विशिष्यते । अनभिसंहित-फलादनुष्ठितात्कर्मणोऽनन्तरमेव निरस्तपापतया मनसश्शान्तिर्भविष्यति शान्ते मनसि आत्मध्यानं संपत्स्यते ध्यानाच्च तदापरोक्ष्यम् तदापरोक्ष्यात्परा भक्ति: इति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी । आत्मनिष्ठस्यापि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठैव श्रेयसीत्यर्थ: ॥ १२ ॥
अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणानाह –
अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च ।
निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥
सन्तुष्टस्सततं योगी यतात्मा दृढनिश्चय: ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय: ॥ १४ ॥
अद्वेष्टा सर्वभूतानाम् (१३) विद्विषतामपकुर्वतामपि सर्वेषां भूतानामद्वेष्टा मदपराधानुगुणमीश्वर-प्रेरितान्येतानि भूतानि द्विषन्त्यपकुर्वन्ति चेत्यनुसन्दधान: तेषु द्विषत्सु अप्कुर्वत्सु च सर्वभूतेषु मैत्रीं मतिं कुर्वन्मैत्र:, तेष्वेव दु:खितेषु करुणां कुर्वन् करुण:, निर्मम: देहेन्द्रियेषु तत्संबन्धिषु च निर्मम:, निरहङ्कार: देहात्माभिमानरहित:, तत एव समदु:खसुख: सुखदु:खागमयो: साङ्कल्पिकयो: हर्षोद्वेगरहित:, क्षमी स्पर्शप्रभवयोरवर्जनीययोरपि तयोर्विकाररहित:, संतुष्ट: यदृच्छोपनतेन येन केनापि देहधारणद्रव्येण संतुष्ट:, सततं योगी सततं प्रकृतिवियुक्तात्मानुसन्धान-पर:, यतात्मा नियमितमनोवृत्ति:, दृढनिश्चय: अध्यात्मशास्त्रोदितेष्वर्थेषु दृढनिश्चय:, मय्यर्पितमनोबुद्धि: भगवान् वासेदेव एवानभिसंहितफलेनानुष्ठितेन कर्मणा आराध्यते, आराधितश्च मम आत्मापरोक्ष्यं साधयिष्यतीति मय्यर्पितमनोबुद्धि:, य एवंभूतो मद्भक्त: एवं कर्मयोगेन्ा मां भजमानो य:, स मे प्रिय: ॥ १३ – १४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: ।
हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: ॥ १५ ॥
यस्मात्कर्मनिष्ठात्पुरुषान्निमित्तभूताल्लोको नोद्विजते यो लोकोद्वेगकरं कर्म किञ्चिदपि न करोतीत्यर्थ: । लोकाच्च निमित्तभूताद्यो नोद्विजते यमुद्दिश्य सर्वलोको नोद्वेगकरं कर्म करोति सर्वाविरोधित्वनिश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्त: एवंभूतो य:, सोऽपि मम प्रिय: ॥ १५ ॥
अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ: ।
सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय: ॥ १६ ॥
अनपेक्ष: आत्मव्यतिरिक्ते कृत्स्ने वस्तुन्यनपेक्ष:, शुचि: शास्त्रविहितद्रव्यवर्धितकाय:, दक्ष: शास्त्रीयक्रियोपादानसमर्थ:, अन्यत्रोदासीन:, गनव्यथ: शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपुरुष-स्पर्शादिदु:खेषु व्यथारहित:, सर्वारम्भपरित्यागी शास्त्रीयव्यतिरिक्त-सर्वकर्मारम्भपरित्यागी, य एवंभूतो मद्भक्त:, स मे प्रिय: ॥१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान् य: स मे प्रिय: ॥१७ ॥
यो न हृष्यति यन्मनुष्याणां हर्षनिमित्तं प्रियजातम्, तत्प्राप्य य: कर्मयोगी न हृष्यति यच्चाप्रियम्, तत्प्राप्य न द्वेष्टि यच्च मनुष्याणां शोकनिमित्तं भार्यापुत्रवित्तक्षयादिकम्, तत्प्राप्य न शोचति तथाविधमप्राप्तं च न काङ्क्षति शुभाशुभपरित्यागी पापवत्पुण्यस्यापि बन्धहेतुत्वाविशेषात् उभयपरित्यागी । य एवंभूतो भक्तिमान्, स मे प्रिय: ॥ १७ ॥
समश्शत्रौ च मित्रे च तथा मानावमानयो: ।
शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: ॥ १८ ॥
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।
अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: ॥ १९ ॥
अद्वेष्टा सर्वभूतानाम् इत्यादिना शत्रुमित्रादिषु द्वेषादिरहितत्वमुक्तम् अत्र तेषु सन्निहितेष्वपि समचित्तत्वं ततोऽप्यतिरिक्तो विशेष उच्यते । आत्मनि स्थिरमतित्वेन निकेतनादिष्वसक्त इत्यनिकेत: तत एव मानावमानादिष्वपि सम: य एवंभूतो भक्तिमान्, स मे प्रिय: ॥ १८ – १९ ॥
अस्मादात्मनिष्ठाद्भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथोपक्रममुपसंहरति –
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु …….भक्तियोगो नाम द्वादशोऽध्याय: ॥ १२॥
धर्म्यं चामृतं चेति धर्म्यामृतम्, ये तु प्राप्यसमं प्रापकं भक्तियोगम्, यथोक्तम् मय्यावेश्य मनो ये माम् इत्यादिनोक्तेन प्रकारेण उपासते ते भक्ता: अतितरां मम प्रिया:॥२०॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये द्वादशोऽध्याय: ॥ १२ ॥