भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
षोडशोऽध्यायः
अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयो: संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयो: प्रकृतिपुरुषयोर्भगवद् विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपात् अव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ्च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्य-तद्विपरीतयोर्देवासुरसर्गयोर्विभागं –
श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥
अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥
तेज: क्षमा धृति: शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभि जातस्य भारत ॥ ३ ॥
इष्टानिष्टवियोगसंयोगरूपस्य दु:खस्य हेतुदर्शनजं दु:खं भयम्, तन्निवृत्ति: अभयम् । सत्त्वसंशुद्धि: – सत्त्वस्यान्त:करणस्य रजस्तमोभ्यामस्पृष्टत्वम् । ज्ञानयोगव्यवस्थिति: – प्रकृतिवियुक्तात्मस्वरूप-विवेकनिष्ठा। दानं – न्यायार्जितधनस्य पात्रे प्रतिपादनम् । दम: मनसो विषयोन्मुख्यनिवृत्तिसंशीलनम्। यज्ञ: फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम् । स्वाध्याय: – सविभूतेर्भगवतस्तदाराधन-प्रकारस्य च प्रतिपादक: कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा । तप: – कृच्छ्रचान्द्रायणद्वादश्युपवासादे: भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम् । आर्जवं – मनोवाक्कायवृत्तीनामेकनिष्ठता परेषु । अहिंसा परपीडावर्जनम् । सत्यं – यथादृष्टार्थगोचरभूतहितवाक्यम् । अक्रोध: – परपीडाफलचित्तविकाररहितत्वम्। त्याग: – आत्महितप्रत्यनीकपरिग्रहविमोचनम् । शान्ति: – इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम्। अपैशुनं – परानर्थकरवाक्यनिवेदनाकरणम् । दया भूतेषु – सर्वभूतेषु दु:खासहिष्णुत्वम् । अलोलुप्त्वम् – अलोलुपत्वम् । अलोलुत्वमिति वा पाठ: विषयेषु निस्स्पृहत्वमित्यर्थ: । मार्दवम् – अकाठिन्यम्, साधुजनसंश्लेषार्हातेत्यर्थ:। ह्री: – अकार्यकरणे व्रीडा । अचापलं – स्पृहणीयविषयसन्निधौ अचञ्चलत्वम् । तेज: – दुर्जनैरनभिभवनीयत्वम्। क्षमा – परनिमित्तपीडानुभवेऽपि परेषु तं प्रति चित्तविकाररहितता । धृति: – महत्यामप्यापदि कृत्यकर्तव्यतावधारणम् । शौचं – बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया । अद्रोह: – परेष्वनुपरोध: परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वमित्यर्थ: । नातिमानिता – अस्थाने गर्वोऽतिमानित्वम् तद्रहितता । एते गुणा: दैवीं संपदमभिजातस्य भवन्ति। देवसंबन्धिनी संपद्दैवी देवा भगवदाज्ञानुवृत्तिशीला: तेषां संपत् । सा च भगवदाज्ञानुवृत्तिरेव । तामभिजातस्य तामभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्तीत्यर्थ: ॥ ३ ॥
दम्भो दर्पोऽतिमानश्च क्रोध: पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमसुरीम् ॥ ४ ॥
दम्भ: धार्मिकत्वख्यापनाय धर्मानुष्ठानम् । दर्प: कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्ष: । अतिमानश्च स्वविद्याभिजनाननुगुणोऽभिमान: । क्रोध: परपिडाफलचित्तविकार: । पारुष्यं साधूनामुद्वेगकर: स्वभाव: । अज्ञानं परावरतत्त्वकृत्याकृत्याविवेक: । एते स्वभावा: आसुरीं संपदमभिजातस्य भवन्ति। असुरा: भगवदाज्ञातिवृत्तिशीला: ॥ ४ ॥
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
दैवी मदाज्ञानुवृत्तिरूपा संपद्विमोक्षाय बन्धान्मुक्तये भवति । क्रमेण मत्प्राप्तये भवतीत्यर्थ: । आसुरी मदाज्ञातिवृत्तिरूपा संपन्निबन्धाय भवति अधोगतिप्राप्तये भवतीत्यर्थ: ॥
एतच्छ्रुत्वा स्वप्रकृत्यनिर्धारणादतिभीतायार्जुनायैवमाह –
मा शुचस्संपदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥
शोकं मा कृथा: त्वं तु दैवीं संपदमभिजातोऽसि । पाण्डव । धार्मिकाग्रेसरस्य हि पाण्डोस्तनयस्त्वमित्यभिप्राय: ॥ ५ ॥
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥
अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश्चासुरश्चेति । सर्ग: – उत्पत्ति:, प्राचीनपुण्यपापरूपकर्मवशाद्भगवदाज्ञानुवृत्तितद्विपरीतकरणायोत्पत्तिकाल एव विभागेन भूतान्युत्पद्यन्त इत्यर्थ: । तत्र दैव: सर्गो विस्तरश: प्रोक्त: देवानां मदाज्ञानुवृत्तिशीलानामुत्पत्तिर्यदाचारकरणार्था, स आचार: कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरश: प्रोक्त: । असुराणां सर्गश्च यदाचारार्थ:, तमाचारं मे शृणु मम सकाशाच्छृणु॥१६.६॥
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥
प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्ममासुरा न विदु: न जानन्ति । शौचं वैदिककर्मयोग्यत्वं शास्त्रसिद्धम् तद्बाह्यमान्तरं चासुरेषु न विद्यते । नापि चाचार: तद्बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सोऽप्याचारस्तेषु न विद्यते । यथोक्तम्, संध्याहीनोऽशुचिर्नित्यं अनर्हा: सर्वकर्मसु (द.स्मृ.२.२२) इति । तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते॥७॥
किं च
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ ८ ॥
असत्यं जगदेतत्सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकमिति नाहु: । अप्रतिष्ठं तथा ब्रह्मणि प्रतिष्ठितमिति न वदन्ति । ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथोक्तम्, तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम् (वि.पु.२.५.२७) इति । अनीश्वरम् । सत्यसंकल्पेन परेण ब्रह्मणा सवश्वारेण मयैतन्नियमितमिति च न वदन्ति । ‘अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते‘ इति ह्युक्तम् । वदन्ति चैवमपरस्परसंभूतम् किमन्यत् । योषित्पुरुषयो: परस्परसंबन्धेन जातमिदं मनुष्यपश्वादिकमुपलभ्यते अनेवंभूतं किमन्यदुपलभ्यते ? किंचिदपि नोपलभ्यत इत्यर्थ: । अत: सर्वमिदं जगत्कामहेतुकमिति ॥ ८ ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय: ।
प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽशुभा: ॥ ९ ॥
एतां दृष्टिमवष्टभ्य अवलम्ब्य, नष्टात्मान: अदृष्टदेहातिरिक्तात्मान:, अल्पबुद्धय: घटादिवज्ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मोपलभ्यत इति विवेकाकुशला:, उग्रकर्माण: सर्वेषां हिंसका जगत: क्षयाय प्रभवन्ति ॥ ९ ॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: ।
मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रता: ॥ १० ॥
दुष्पूरं दुष्प्रापविषयं काममाश्रित्य तत्सिसाधयिषया मोहादज्ञानात्, असद्ग्राहानन्यायगृहीतपरिग्रहान् गृहीत्वा, अशुचिव्रता: अशास्त्रविहितव्रतयुक्ता: दम्भमानमदान्विता: प्रवर्तन्ते ॥ १० ॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता: ।
कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥
अद्य श्वो वा मुमूर्षव: चिन्तामपरिमेयाम् अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकाल-साध्यविषयामुपाश्रिता:, तथा कामोपभोगपरमा: कामोपभोग एव परमपुरुषार्थ इति मन्वाना:, एतावदिति निश्चिता: इतोऽधिक: पुरुषार्थो न विद्यत इति संजातनिश्चया: ॥ ११ ॥
आशापाशशतैर्बद्धा: कामक्रोधपरायणा: ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥
आशापाशशतै: आशाख्यपाशशतैर्बद्धा:, कामक्रोधपरायणा: कामक्रोधैकनिष्ठा:, कामभोगार्थमन्यायेनार्थसंचयान् प्रति ईहन्ते ॥ १२ ॥
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥
इदं क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना इमं च मनोरथमहमेव प्राप्स्ये, नादृष्टादिसहित: । इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदमपि पुनर्मे मत्सामर्थ्येनैव भविष्यति॥१३॥
असौ मया हत: शत्रुर्हानिष्ये चापरानपि ।
असौ मया बलवता हत: शत्रु: । अपरानपि शत्रूनहं शूरो धीरश्च हनिष्ये । किमत्र मन्दधीभिर्दुर्बलै: परिकल्पितेनादृष्टपरिकरेण ॥ तथा च –
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ १४ ॥
ईश्वरोऽहं स्वाधीनोऽहम् अन्येषां चाहमेव नियन्ता । अहं भोगी स्वत एवाहं भोगी नादृष्टादिभि: । सिद्धोऽहं स्वतस्सिद्धोऽहम् न कस्माच्चिददृष्टादे: । तथा स्वत एव बलवान् स्वत एव सुखी॥१४॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥
अहं स्वतश्चाढ्योऽस्मि अभिजनवानस्मि स्वत एवोत्तमकुले प्रसूतोऽस्मि अस्मिन् लोके मया सदृश: कोऽन्य: स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयमेव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिता: ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यमित्यज्ञानविमोहिता मन्यन्ते ॥ १५ ॥
अनेकचित्तविभ्रान्ता मोहजालसमावृता: ।
प्रसक्ता: कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥
अदृष्टेश्वरादिसहकारमृते स्वेनैव सर्वं कर्तुं शक्यमिति कृत्वा, एवं कुर्याम्, तच्च कुर्याम्, अन्यच्च कुर्यामित्यनेकचित्तविभ्रान्ता:, एवंरूपेण मोहजालेन समावृता:, कामभोगेषु प्रकर्षेण सक्ता:, मध्ये मृता: अशुचौ नरके पतन्ति ॥ १६ ॥
आत्मसंभाविता: स्तब्धा: धनमानमदान्विता: ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥
आत्मनैव संभाविता: । आत्मनैवात्मानं संभावयन्तीत्यर्थ: । स्तब्धा: परिपूर्णं मन्यमाना न किंचित्कुर्वाणा: । कथम् ? धनमानमदान्विता: धनेन विद्याभिजनाभिमानेन च जनितमदान्विता:, नामयज्ञै: नामप्रयोजनै: यष्टेतिनाममात्रप्रयोजनैर्यज्ञै: यजन्ते । तदपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकमयथाचोदनं यजन्ते ॥ १७ ॥ ते चेदृग्भूता यजन्त इत्याह
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिता: ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥
अनन्यापेक्षोऽहमेव सर्वं करोमीत्येवंरूपमहंकारमाश्रिता:, तथा सर्वस्य करणे मद्बलमेव पर्याप्तमिति च बलम्, अतो मत्सदृशो न कश्चिदस्तीति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस्तान् सर्वान् हनिष्यामीति च क्रोधम्, एवमेतान् संश्रिता:, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं मामभ्यसूयका: प्रद्विषन्त:, कुयुक्तिभिर्मत्स्थितौ दोषमाविष्कुर्वन्तो मामसहमाना: । अहंकारादिकान् संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थ:॥१८॥
तानहं द्विषत: क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥
य एवं मां द्विषन्ति, तान् क्रूरान्नराधमानशुभानहमजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्यासुरीष्वेव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्वेव जन्मसु क्षिपामि । तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्वहमेव संयोजयामीत्यर्थ: ॥ १९ ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥
मदानुकूल्यप्रत्यनीकजन्मापन्ना: पुनरपि जन्मनि जन्मनि मूढा: मद्विपरीतज्ञाना मामप्राप्यैव ‘अस्ति भगवान् सर्वेश्वरो वासुदेव:‘ इति ज्ञानमप्राप्य तत: ततो जन्मनोऽधमामेव गतिं यान्ति ॥२०॥
अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुमाह –
त्रिविधं नरकस्यैतद्द्वारं नाशनमात्मन: ।
काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥
अस्यासुरस्वभावरूपस्य नरकस्यैतत्त्रिविधं द्वारम्, तच्चात्मनो नाशनम् काम: क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वमेव व्याख्यातम् । द्वारं मार्ग: हेतुरित्यर्थ: । तस्मादेतत्त्रयं त्यजेत् तस्मादतिघोरनरकहेतुत्वात्कामक्रोधलोभानाम्, एतत्त्रितयं दूरत: परित्यजेत् ॥ २१ ॥
एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर: ।
आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥ २२ ॥
एतै: कामक्रोधलोभै: तमोद्वारै: मद्विपरीतज्ञानहेतुभि: विमुको नर: आत्मन: श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते । ततो मामेव परां गतिं याति ॥ २२ ॥
शास्त्रानादरोऽस्य नरकस्य प्रधानहेतुरित्याह –
य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥
शास्त्रं वेदा: विधि: अनुशासनम् । वेदाख्यं मदनुशासनमुत्सृज्य य: कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिमवाप्नोति न कामप्यामुष्मिकीं सिद्धिमवाप्नोति न सुखं किंचिदवाप्नोति । न परां गतिम् । कुत: परां गतिं प्राप्नोतीत्यर्थ: ॥ २३ ॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हासि ॥ २४ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु देवासुरसम्पद्विभागयोगो नाम षोडशोऽध्याय: ॥ १६॥
तस्मात्कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रमेव तव प्रमाणम् । धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदा: यदेव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तच्शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावदन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वमर्हासि तदेवोपादातुमर्हासि ॥ २४ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये षोडशोऽध्यायः॥ १६॥