भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
द्वितीयाध्याय:
सञ्जय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदन: ॥ १ ॥
श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥
मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥
एवमुपविष्टे पार्थे कुतोऽयमस्थाने समुपस्थित: शोक इत्याक्षिप्य तमिमं विषमस्थं शोकमविद्वत्सेवितं परलोकविरोधिनमकीर्तिकरमतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धायोत्तिष्ठेति श्रीभगवानुवाच ॥
अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥
गुरूनहत्वा हि महानुभावान् श्रेयश्चर्तुं भैक्षमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ ५ ॥
पुनरपि पार्थ: स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततममजानन्निदमुवाच भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथमहं हनिष्यामि? कथंतरां भोगेष्वतिमात्रसक्तान् तान् हत्वा तैर्भुज्यमानांस्तानेव भोगान् तद्रुधिरेणोपसिच्य तेष्वासनेषूपविश्य भुञ्जीय? ॥ ४-५ ॥
न चैतद्विद्म: कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु: ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: ॥ ६ ॥
कार्पण्यदोषोपहतस्वभाव: पृच्छामि त्वा धर्मसंमूढचेता: ।
यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥
एवं युद्धमारभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्रा: प्रसह्य हन्युरिति चेत्, अस्तु । तद्वधलब्धविजयात् अधर्म्यादस्माकं धर्माधर्मावजानद्भि: तैर्हाननमेव गरीय इति मे प्रतिभातीत्युक्त्वा, यन्मह्यं श्रेय इति निश्चितम्, तच्शरणागताय तव शिष्याय मे ब्रूहीत्यतिमात्रकृपणो भगवत्पादावुपससाद ॥ ६-८ ॥
सञ्जय उवाच
एवमुक्त्वा हृशीकेशं गुडाकेश: परन्तप: ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥
‘एवमस्थाने समुपस्थितस्नेहकारुण्याभ्यामप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्ममप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थमुद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धि-रहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति‘ इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ॥ (गी.सं.६) इति ॥ ९ ॥
तमुवाच हृशीकेश: प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये सीदमानमिदं वच: ॥ १० ॥
एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्ध-गुणान्वितम्, उभयोस्सेनयोर्युद्धायोद्युक्तयोर्मध्ये अकस्मान्निरुद्योगं पार्थमालोक्य परमपुरुष: प्रहसन्निवेदमुवाच परिहासवाक्यं वदन्निव आत्मपरमात्मयाथात्म्य-तत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोग-गोचरं ‘न त्वेवाहं जातु नासम्‘ इत्यारभ्य अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: इत्येतदन्तं वचनमुवाचेत्यर्थ: ॥ १० ॥
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: ॥ ११ ॥
अशोच्यान् प्रति अनुशोचसि । ‘पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया:‘ इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादांश्च भाषसे । देहात्मस्वभावज्ञानवतां नात्र किंचिच्छोकनिमित्तमस्ति । गतासून् देहानगतासून् आत्मनश्च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । अतस्त्वयि विप्रतिषिद्धमिदमुपलभ्यते, यदेतान् हनिष्यामीत्यनुशोचनम्, यच्च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणम्। अतो देहस्वभावं च न जानासि, तदतिरिक्तमात्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धिरहितमात्मयाथात्म्यावाप्त्युपायभूतम् । आत्मा हि न जन्माधीनसद्भाव: न मरणाधीनविनाशश्च, तस्य जन्ममरणयोरभावात् । अत: स न शोकस्थानम् । देहस्त्वचेतन: परिणाम-स्वभाव: तस्योत्पत्तिविनाशयोग: स्वाभाविक इति सोऽपि न शोकस्थानमित्यभिप्राय: ॥ ११॥
प्रथमं तावदात्मनां स्वभावं शृणु –
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा: ।
न चैव न भविष्याम: सर्वे वयमत: परम् ॥ १२ ॥
अहं सर्वेश्वरस्तावत्, अत: वर्तमानात्पूर्वस्मिननादौ काले, न नासम् अपि त्वासम् । त्वन्मुखाश्चैते ईशितव्या: क्षेत्रज्ञा: न नासम् अपि त्वासन् । अहं च यूयं च सर्वे वयम्, अत: परस्मिननन्ते काले, न चैव न भविष्याम: अपि तु भविष्याम एव । यथाहं सर्वेश्वर: परमात्मा नित्य इति नात्र संशय:, तथैव भवन्त: क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्या: ॥ १२ ॥
एवं भगवत: सर्वेश्वरादात्मनाम्, परस्परं च, भेद: पारमार्थिक इति भगवतैवोक्तमिति प्रतीयते अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयमिति व्यपदेशात्। औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते । भगवदुक्तात्मभेद: स्वाभाविक इति श्रुतिरप्याह, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३; क.५.१३) इति । नित्यानां बहूनां चेतनानां य एको नित्यश्चेतनस्सन् कामान् विदधातीत्यर्थ:। अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर्निर्विशेषकूटस्थ-नित्यचैतन्यात्मयाथात्म्य-साक्षात्कारान्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश्च न संगच्छन्ते ।
अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपमिदं भेदज्ञानं दग्धपटादिवन्न बन्धकमित्युच्यते नैतदुपपद्यते मरीचिकाजलज्ञानादिकं हि बाधितमनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतु: । एवमत्राप्यद्वैतज्ञानेन बाधितं भेदज्ञानमनुवर्तमानमपि मिथ्यार्थविषयत्व-निश्चयान्नोपदेशादिप्रवृत्तिहेतुर्भवति । न चेश्वरस्य पूर्वमज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्ति: शक्यते वक्तुम् य: सर्वज्ञ: सर्ववित् (मु.१.२.९), परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.७), वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन (भ.गी.७.२६) इति श्रुतिस्मृतिविरोधात् । किं च परमपुरुषश्च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमानेऽपि भेदज्ञाने, स्वनिश्चयानुरूपमद्वितीयात्मज्ञानं कस्मा उपदिशतीति वक्तव्यम् ॥ प्रतिबिम्बवत् प्रतीयमानेभ्योऽर्जुनादिभ्य इति चेत् नैतदुपपद्यते न ह्यनुन्मत्त: कोऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनोऽनन्यत्वं जानन्, तेभ्य: किमप्युपदिशति । बाधितानुवृत्तिरपि तैर्न शक्यते वक्तुम् बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्त-भेदज्ञानकारणस्यानादेर्विनष्टत्वात् । द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादि-दोषस्य द्विचन्द्रज्ञानहेतोरविनष्टत्वाद्बाधितानुवृत्तिर्युक्ता अनुवर्तमानमपि प्रबलप्रमाणबाधितत्वेन अकिंचित्करम् । इह तु भेदज्ञानस्य सविषयस्य सकारणस्य अपारमार्थिकत्वेन वस्तुयाथात्म्यज्ञान-विनष्टत्वान्न कथञ्चिदपि बाधितानुवृत्ति: संभवति । अत: सर्वेश्वरस्येदानींतन-गुरुपरम्परायाश्च तत्त्वज्ञानमस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभव: । नास्ति चेत्, अज्ञानस्य तद्धेतो: स्थितत्वेनाज्ञत्वादेव सुतरामुपदेशो न संभवति ॥
किं च गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वाच्शिष्यं प्रत्युपदेशो निष्प्रयोजन:। गुरुस्तज्ज्ञानं च कल्पितमिति चेत्, शिष्यतज्ज्ञानयोरपि कल्पितत्वात्तदप्यनिवर्तकम् । कल्पितत्वेऽपि पूर्वविरोधित्वेन निवर्तकमिति चेत्, तदचार्यज्ञानेऽपि समानमिति तदेव निवर्तकं भवतीत्युपदेशानर्थक्यमेव इति कृतमसमीचीनवादै: ॥ १२ ॥
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥
एकस्मिन् देहे वर्तमानस्य देहिन: कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मन: स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद्देहान्तरप्राप्तावपि तथैव स्थिर आत्मेति बुद्धिमान्न शोचति । अत आत्मनां नित्यत्वादात्मनो न शोकस्थानम् ॥ १३ ॥
एतावदत्र कर्तव्यम् आत्मनां नित्यानामेवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैरेव देहैर्बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकमनभिसंहितफलं कर्म कुर्वतामवर्जनीयतया इन्द्रियैरिन्द्रियार्थस्पर्शा: शीतोष्णादिप्रयुक्तसुखदु:खदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति । इममर्थमनन्तरमेवाह –
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु:खदा: ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥
शब्दस्पर्शरूपरसगन्धा: साश्रया: तन्मात्राकार्यत्वान्मात्रा इत्युच्यन्ते । श्रोत्रादिभिस्तेषां स्पर्शा: शीतोष्णमृदुपरुषादिरूपसुखदु:खदा: भवन्ति । शीतोष्णशब्द: प्रदर्शनार्थ: । तान् धैर्येण यावद्युद्धादि-शास्त्रीयकर्मसमाप्ति तितिक्षस्व । ते चागमापायित्वाद्धैर्यवतां क्षन्तुं योग्या: । अनित्याश्च ते । बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थ: ॥ १४ ॥
तत्क्षमा किमर्थेत्यत्राह –
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥
यं पुरुषं धैर्ययुक्तमवर्जनीयदु:खं सुखवन्मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गता: शस्त्रपातादिमृदुक्रूरस्पर्शा: न व्यथयन्ति स एवामृतत्वं साधयति। न त्वादृशो दु:खासहिष्णुरित्यर्थ: । आत्मनां नित्यत्वादेतावदत्र कर्तव्यमित्यर्थ: ॥ १५ ॥
यत्तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तमुक्तम्, ‘गतासूनगतासूंश्च नानुशोचन्ति पण्डिता:‘ इति, तदुपपादयितुमारभते –
नासतो विद्यते भावो नाभावो विद्यते सत: ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: ॥ १६ ॥
असत: देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भाव: । उभयो: देहात्मनोरुपलभ्यमानयो: यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्ट: । निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देनोच्यते । देहस्याचिद्वस्तुनोऽसत्त्वमेव स्वरूपम् आत्मनश्चेतनस्य सत्त्वमेव स्वरूपमिति निर्णयो दृष्ट इत्यर्थ: । विनाशस्वभावो ह्यसत्त्वम् । अविनाशस्वभावश्च सत्त्वम् । यथा उक्तं भगवता पराशरेण, तस्मान्न विज्ञानमृतेऽस्ति किंचित्क्वचित्कदाचिद्द्विज वस्तुजातम् (वि.पु.२.१२.४३), सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् (वि.पु.२.१२.४५), अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम् (वि.पु.२.१४.१४), यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् (वि.पु.२.१३.१००) इति । अत्रापि अन्तवन्त इमे देहा: (२.१८), अविनाशि तु तद्विद्धि (२.१७) इति ह्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुरिति गम्यते॥
अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान्न तत्परोऽयं श्लोक: देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्य: । स एव गतासूनगतासून् इति च प्रस्तुत: । स एव च, अविनाशि तु तद्विद्धि, अन्तवन्त इमे देहा: इति अनन्तरमुपपाद्यते । अतो यथोक्त एवार्थ: ॥ १६ ॥
आत्मनस्त्वविनाशित्वं कथमवगम्यत इत्यत्राह –
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हाति ॥ १७ ॥
तदत्मतत्त्वमविनाशीति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तमिदमचेतनतत्त्वं सर्वं ततं – व्याप्तम् । व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विनाशानर्हास्य तद्व्यतिरिक्तो न कश्चित्पदार्थो विनाशं कर्तुमर्हाति, तद्व्याप्यतया तस्मात्स्थूलत्वात् । नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्रादयोऽपि हि वेगवत्संयोगेन वायुमुत्पाद्य तद्द्वारेण नाशयन्ति । अत आत्मतत्त्वमविनाशि ॥ १७ ॥
देहानां तु विनाशित्वमेव स्वभाव इत्याह –
अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण: ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
‘दिह उपचये‘ इत्युपचयरूपा इमे देहा अन्तवन्त: विनाशस्वभावा: । उपचयात्मका हि घटादयोऽन्तवन्तो दृष्टा: । नित्यस्य शरीरिण: कर्मफलभोगार्थतया भूतसंघातरूपा देहा:, पुण्य: पुण्येन इत्यादिशास्त्रैरुक्ता: कर्मावसानविनाशिन: । आत्मा त्वविनाशी कुत:? अप्रमेयत्वात् । न ह्यात्मा प्रमेयतयोपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: (भ.गी.१३.१) इति । न चानेकोपचयात्मक आत्मोपलभयते, सर्वत्र देहे अहमिदं जानामि इति देहस्य चान्यस्य च प्रमातृतयैकरूपेणोपलब्धे: । न च देहादेरिव प्रदेशभेदे प्रमातुराकारभेद उपलभ्यते। अत एकरूपत्वेन अनुपचयात्मकत्वात्प्रमातृत्वाद्व्यापकत्वाच्च आत्मा नित्य: । देहस्तु उपचयात्मकत्वात्, शरीरिण: कर्मफलभोगार्थत्वात्, अनेकरूपत्वात्, व्याप्यत्वाच्च विनाशी । तस्माद्देहस्य विनाशस्वभावत्वादात्मनो नित्यत्वाच्च उभयावपि न शोकस्थानमिति, शस्त्रपातादिपुरुष-स्पर्शानवर्जनीयान् स्वगतानन्यगतांश्च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व॥१८॥
य एनं वेत्ति हन्तारं यश्चैनन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
एनम् उक्तस्वभावमात्मानं प्रति, हन्तारं हननहेतुं कमपि यो मन्यते यश्चैनं केनापि हेतुना हतं मन्यते तावुभौ न विजानीत:, उक्तैर्हेातुभिरस्य नित्यत्वादेव एनमयं न हन्ति अस्यायं हननहेतुर्न भवति। अत एव चायमात्मा न हन्यते । हन्तिधातुरप्यात्मकर्मक: शरीरवियोगकरणवाची । न हिंस्यात्सर्वा भूतानि, ब्राह्मणो न हन्तव्य: इत्यादीन्यपि शास्त्राणि अविहितशरीर-वियोगकरणविषयाणि ॥ १९ ॥
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूय: ।
अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥
उक्तैरेव हेतुभिर्नित्यत्वेनापरिणामित्वादात्मनो जननमरणादय: सर्व एवाचेतनदेहधर्मा न सन्तीत्युच्यते। तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैरनुभूयमाने जननमरणे कदाचिदप्यात्मानं न स्पृशत: । नायं भूत्वा भविता वा न भूय: – अयं कल्पादौ भूत्वाभूय: कल्पान्ते च न न भविता केषुचित्प्रजापतिप्रभृतिदेहेषु आगमेनोपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणमात्मानं न स्पृशतीत्यर्थ:। अत: सर्वदेहगत आत्मा अज:, अत एव नित्य: । शाश्वत: प्रकृतिवदविशदसततपरिणामैरपि नान्वीयते, पुराण: – पुरापि नव: सर्वदा अपूर्ववदनुभाव्य इत्यर्थ: । अत: शरीरे हन्यमाने न हन्यतेऽयमात्मा ॥ २० ॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुष: पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
एवमविनाशित्वेनाजत्वेन व्ययानर्हात्वेन च नित्यमेनमात्मानं य: पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्वात्मसु कमप्यात्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति कथं वा तत्प्रयोजको भवतीत्यर्थ: । एतानात्मनो घातयामि हन्मीत्यनुशोचनमात्मस्वरूप-याथात्म्याज्ञानमूलमेवेत्यभिप्राय: ॥ २१ ॥
यद्यपि नित्यानामात्मनां शरीरविश्लेषमात्रं क्रियते तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तमस्त्येवेत्यत्राह –
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥
धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीरादधिकतरकल्याणशरीरग्रहणं शास्त्रादवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णतामिव हर्षनिमित्तमेवात्रोपलभ्यते ॥ २२ ॥
पुनरपि अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् इति पूर्वोक्तमविनाशित्वं सुखग्रहणाय व्यञ्जयन् द्रढयति –
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक: ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुत: ॥ २३ ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यस्सर्वगतस्स्थाणुः अचलोऽयं सनातनः ॥ २४ ॥
शस्त्राग्न्यम्बुवायव: छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वादात्मन: सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस्तत्त्वेभ्यस्सूक्ष्मत्वादस्य तैर्व्याप्त्यनर्हात्वात् व्याप्यकर्तव्यत्वाच्च छेदनदहन-क्लेदनशोषणानाम् । अत आत्मा नित्य: स्थाणुरचलोऽयं सनातन: स्थिरस्वभावोऽप्रकम्प्य: पुरातनश्च ॥ २३-२४॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हासि ॥ २५ ॥
छेदनादियोग्यानि वस्तूनि यै: प्रमाणैर्व्यज्यन्ते तैरयमात्मा न व्यज्यत इत्यव्यक्त: अत: छेद्यादि-विसजातीय: । अचिन्त्यश्च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुमपि नार्हा: अतश्च अविकार्य: विकारानर्हा: । तस्मादुक्तलक्षणमेनमात्मानं विदित्वा तत्कृते नानुशोचितुमर्हासि ॥ २५ ॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो! नैवं शोचितुमर्हासि ॥ २६ ॥
अथ नित्यजातं नित्यमृतं देहमेवैनमात्मानं मनुषे, न देहातिरिक्तमुक्तलक्षणम् तथापि एवमतिमात्रं न शोचितुमर्हासि परिणामस्वभावस्य देहस्योत्पत्तिविनाशयोरवर्जनीयत्वात् ॥ २६ ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हासि ॥ २७ ॥
उत्पन्नस्य विनाशो ध्रुव: अवर्जनीय उपलभ्यते तथा विनष्टस्यापि जन्म अवर्जनीयम् । कथमिदमुपपद्यते विनष्टस्योत्पत्तिरिति सत एवोत्पत्त्युपलब्धे:, असतश्चानुपलब्धे: । उत्पत्तिविनाशादय: सतो द्रव्यस्यावस्थाविशेषा: । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्येव रचनाविशेषयुक्तानि पटादीन्युच्यन्ते। असत्कार्यवादिनाप्येतावदेवोपलभ्यते । न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणां एतावतैवोपपत्ते: न द्रव्यान्तरकल्पना युक्ता । अतो उत्पत्तिविनाशादय: सतो द्रव्यस्यावस्थाविशेषा: । उत्पत्त्याख्यामवस्थामुपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर्विनाश इत्युच्यते । मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत्परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर्विनाश: । सैव तदवस्थस्य चोत्पत्ति: । एवमुत्पत्तिविनाशाख्य-परिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुमर्हासि ॥२७॥
सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन योऽल्पीयान् शोक:, सोऽपि मनुष्यादिभूतेषु न संभवतीत्याह –
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥
मनुष्यादीनि भूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादि-मध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तमस्ति ॥२८ ॥
एवं शरीरात्मवादेऽपि नास्ति शोकनिमित्तमित्युक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश्च दुर्लभ इत्याह –
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्य: ।
आश्चर्यवच्चैनमन्य: शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥
एवमुक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवदस्थितमनन्तेषु जन्तुषु महता तपसा क्षीणपाप: उपचितपुण्य: कश्चित्पश्यति । तथाविध: कश्चित्परस्मै वदति । एवं कश्चिदेव शृणोति । श्रुत्वाप्येनं यथावदवस्थितं तत्त्वतो न कश्चिद्वेद । चकाराद्द्रष्टृवक्तृश्रोतृष्वपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश्श्रवणं दुर्लभमित्युक्तं भवति ॥ २९ ॥
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हासि ॥ ३० ॥
सर्वस्य देवादिदेहिनो देहे वध्यमानेऽप्ययं देही नित्यमवध्यो मन्तव्य: । तस्मात्सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्यप्युक्तेन स्वभावेन स्वरूपतस्समानानि नित्यानि च । देहगतं तु वैषम्यमनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्युद्दिश्य न शोचितुमर्हासि न केवलं भीष्मादीन् प्रति ॥ ३० ॥
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हासि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥
अपि चेदं प्रारब्धं युद्धं प्राणिमारणमप्यग्नीषोमीयादिवत्स्वधर्ममवेक्ष्य न विकम्पितुमर्हासि । धर्म्यान्न्यायत: प्रवृत्ताद्युद्धादन्यन्न हि क्षत्रियस्य श्रेयो विद्यते । शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ (भ.गी.१८.४३) इति हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशो:, निहीनतरच्छागादिदेहपरित्यागपूर्वककल्याणतर-देहस्वर्गादिप्रापकत्वश्रुते: संज्ञपनस्य । न वा उ एतन्म्रियसे न रिष्यसि देवां इदेषि पथिभिस्सुरेभि: । यत्र यन्ति सुकृतो नापि दुष्कृत: तत्र त्वा देवस्सविता दधातु (यजु.४.६.९.४६; यजु.ब्रा. ३.७.७.९४) इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिरुक्ता, ‘वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति‘ इत्यादिना । अत:, चिकित्सकशल्यादिकर्म आतुरस्येव, अस्य रक्षणमेवाग्नीषोमीयादिषु संज्ञपनम् ॥ ३१ ॥
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
अयत्नोपनतमिदं निरतिशयसुखोपायभूतं निर्विघ्नमीदृशं युद्धं सुखिन: पुण्यवन्त: क्षत्रिया लभन्ते॥३२॥
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
तत: स्वधर्मं कीर्ंित च हित्वा पापमवाप्स्यसि ॥ ३३ ॥
अथ क्षत्रियस्य स्वधर्मभूतमिममारब्धं संग्रामं मोहान्न करिष्यसि चेत्तत: प्रारब्धस्य धर्मस्याकरणात् स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्ंित हित्वा पापं निरतिशयमवाप्स्यसि॥३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्ति: मरणादतिरिच्यते ॥ ३४ ॥
न ते केवलं निरतिशयसुखकीर्तिहानिमात्रम् । पार्थो युद्धे प्रारब्धे पलायित: इति अव्ययां सर्वदेशकालव्यापिनीमकीर्तिं च समर्थानि असमर्थान्यपि सर्वाणि भूतानि कथयिष्यन्ति । तत: किमिति चेत् शैर्यवीर्यपराक्रमादिभिस्सर्वसंभावितस्य तद्विपर्ययजा ह्यकीर्ति: मरणादतिरिच्यते । एवंविधाया अकीर्तेर्मरणमेव तव श्रेय इत्यर्थ: ॥ ३४ ॥
बन्धुस्नेहात्कारुण्याच्च युद्धान्निवृत्तस्य शूरस्य ममाकीर्ति: कथमागमिष्यतीत्यत्राह –
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥ ३५ ॥
येषां कर्णदुर्योधनादीनां महारथानामित: पूर्वं त्वं शूरो वैरीति बहुमतो भूत्वा, इदानीं युद्धे समु-पस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि, ते महारथास्त्वां भयाद्युद्धादुपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रुभयाद्ते बन्धुस्नेहादिना युद्धादुपरतिर्नोपपद्यते ॥३५ ॥ किं च,
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिता: ।
निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् ॥ ३६ ॥
शूराणामस्माकं सन्निधौ कथमयं पार्थ: क्षणमपि स्थातुं शक्नुयात्, अस्मत्सन्निधानादन्यत्र ह्यस्य सामर्थ्यमिति तव सामर्थ्यं निन्दन्त: शूराणामवाच्यवादांश्च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्रा: ततोऽधिकतरं दु:खं किं तव ? एवंविधावाच्यश्रवणान्मरणमेव श्रेय इति त्वमेव मंस्यसे ॥३६॥
अत: शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर्हाननमुभयमपि श्रेयसे भवतीत्याह –
हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: ॥ ३७ ॥
धर्मयुद्धे परैर्हातश्चेत्, तत एव परमनि:श्रेयसं प्राप्स्यसि परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनि:श्रेयसोपायत्वात्तच्च परमनि:श्रेयसं प्राप्स्यसि तस्माद्युद्धायोद्योग: परमपुरुषार्थलक्षणमोक्षसाधनमिति निश्चित्य तदर्थमुत्तिष्ठ । कुन्तीपुत्रस्य तवैतदेव युक्तमित्यभिप्राय: ॥ ३७ ॥
मुमुक्षोर्युद्धानुष्ठानप्रकारमाह –
सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥
एवं देहातिरिक्तमस्पृष्टसमस्तदेहस्वभावं नित्यमात्मानं ज्ञात्वा युद्धे चावर्जनीय-शस्त्रपातादिनिमित्तसुखदु:खार्थलाभालाभजयपराजयेष्वविकृतबुद्धि: स्वर्गादिफलाभिसन्धिरहित: केवलकार्यबुद्ध्या युद्धमारभस्व। एवं कुर्वाणो न पापमवाप्स्यसि पापं दु:खरूपं संसारं नावाप्स्यसि संसारबन्धान्मोक्ष्यसे इत्यर्थ: ॥ ३८ ॥
एवमात्मयाथात्म्यज्ञानमुपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुमारभते –
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥
सङ्ख्या बुद्धि: बुद्ध्यावधारणीयमात्मतत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिरभिधेया न त्वेवाहम् इत्यारभ्य तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हासि इत्यन्तेन सैषा तेऽभिहिता । आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्य:, स इह योगशब्देनोच्यते। दूरेण ह्यवरं कर्म बुद्धियोगात् (२.४९) इति हि वक्ष्यते । तत्र योगे या बुद्धिर्वक्तव्या, तामिमामभिधीयमानां शृणु, यया बुद्ध्या युक्त: कर्मबन्धं प्रहास्यसि । कर्मणा बन्ध: कर्मबन्ध: संसारबन्ध इत्यर्थ: ॥३९॥
वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यमाह –
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥
इह कर्मयोगे नाभिक्रमनाशोऽस्ति । अभिक्रम: – आरम्भ: । नाश: – फलसाधनभावनाश:। आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् आरब्धस्य विच्छेदे प्रत्यवायोऽपि न विद्यते। अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशोऽपि महतो भयात् संसारभयात्त्रायते । अयमर्थ: ‘पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते‘ इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति प्रत्यवायाय च भवन्ति ॥ ४० ॥
काम्यकर्मविषयाया बुद्धेर्मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि –
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिरेका । मुमुक्षुणानुष्ठेये कर्मणि बुद्धिर्व्यवसायात्मिका बुद्धि: । व्यवसाय: निश्चय: । सा हि बुद्धिरात्मयाथात्म्यनिश्चयपूर्विका । काम्यकर्मविषया तु बुद्धिरव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्व-ज्ञानमात्रमपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चय: । स्वरूपयाथात्म्यानिश्चयेऽपि स्वर्गादि-फलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच्च । सेयं व्यवसायात्मिका बुद्धि: एकफलसाधनविषयतयैका एकस्मै मोक्षाख्यफलाय हि मुमुक्षो: सर्वाणि कर्माणि विधीयन्ते । अत: शास्त्रार्थस्यैकत्वात्सर्वकर्मविषया बुद्धिरेकैव यथैकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानामेकशास्त्रार्थतया तद्विषया बुद्धिरेका, तद्वदित्यर्थ: । अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धय: फलानन्त्यादनन्ता: । तत्रापि बहुशाखा: एकस्मै फलाय चोदितेऽपि दर्शपूर्णमासादौ कर्मणि, आयुराशास्ते इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते । अत: अव्यवसायिनां बुद्धयोऽनन्ता बहुशाखाश्च।
एतदुक्तं भवति – नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्येकशास्त्रार्थतयानुष्ठेयानि काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैरेकीकृत्य यथाबलमनुष्ठेयानि इति ॥ ४१ ॥ अथ काम्यकर्माधिकृतान्निन्दति –
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: ।
वेदवादरता: पार्थ नान्यदस्तीति वादिन: ॥ ४२ ॥
कामात्मान: स्वर्गपरा: जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैर्यगतिं प्रति ॥ ४३ ॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धि: समाधौ न विधीयते ॥ ४४ ॥
यामिमां पुष्पितां पुष्पमात्रफलाम्, आपातरमणीयां वाचमविपश्चित: अल्पज्ञा: भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरता: वेदेषु ये स्वर्गादिफलवादा: तेषु सक्ता:, नान्यदस्तीति वादिन: तत्सङ्गातिरेकेण स्वर्गादेरधिकं फलं नान्यदस्तीति वदन्त:, कामात्मान: कामप्रवणमनस:, स्वर्गपरा: स्वर्गपरायणा:, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुराम् । भोगैश्वर्यगतिं प्रति वर्तमानां यामिमां पुष्पितां वाचं ये प्रवदन्तीति संबन्ध: । तेषां भोगैश्वर्यप्रसक्तानां तया वाचा भोगैश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धि:, समाधौ मनसि न विधीयते, नोत्पद्यते, समाधीयतेऽस्मिन्नात्मज्ञानमिति समाधिर्मन: । तेषां मनस्यात्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धि: कदाचिदपि नोत्पद्यते इत्यर्थ: । अत: काम्येषु कर्मसु मुमुक्षुणा न सङ्ग: कर्तव्य: ॥ ४२ – ४३ – ४४॥
एवमत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्योऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदा: किमर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतयोच्यते इत्यत आह –
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥
त्रयो गुणास्त्रैगुण्यं सत्त्वरजस्तमांसि । सत्त्वरजस्तम:प्रचुरा: पुरुषास्त्रैगुण्यशब्देनोच्यन्ते तद्विषया वेदा: तम: प्रचुराणां रज:प्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतयैव हितमवबोधयन्ति वेदा: । यद्येषां स्वगुणानुगुण्येन स्वर्गादिसाधनमेव हितं नावबोधयन्ति, तदैते रजस्तम:प्रचुरतया सात्त्विकफलमोक्षविमुखा: स्वापेक्षितफलसाधनमजानन्त: कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टा: प्रनष्टा भवेयु:। अतस्त्रैगुण्यविषया वेदा:, त्वं तु निस्त्रैगुण्यो भव इदानीं सत्त्वप्रचुरस्त्वं तदेव वर्धय नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव न तत्प्राचुर्यं वर्धयेत्यर्थ: । निर्द्वन्द्व: निर्गतसकलसांसारिकस्वभाव: नित्यसत्त्वस्थ: गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथमिति चेत्, निर्योगक्षेम: आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानामर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव आत्मस्वरूपान् वेषणपरो भव । अप्राप्तस्य प्राप्तिर्योग: प्राप्तस्य परिक्षणं क्षेम: । एवं वर्तमानस्य ते रजस्तम:प्रचुरता नश्यति, सत्त्वं च वर्धते ॥ ४५ ॥
यावानर्थ उदपाने सर्वत: संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानत: ॥ ४६ ॥
न च वेदोदितं सर्वं सर्वस्योपादेयम् यथा सर्वार्थपरिकल्पिते सर्वत: संप्लुतोदके उदपाने पिपासोर्यावानर्थ: यावदेव प्रयोजनम्, तावदेव तेनोपादीयते, न सर्वम् एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानत: वैदिकस्य मुमुक्षो: यदेव मोक्षसाधनं तदेवोपादेयम् नान्यत् ॥ ४६ ॥
अत: सत्त्वस्थस्य मुमुक्षोरेतावदेवोपादेयमित्याह –
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भू: मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥
नित्ये नैमित्तिके काम्ये च केनचित्फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्ते कर्ममात्रेऽधिकार: । तत्संबन्धितयावगतेषु फलेषु न कदाचिदप्यधिकार: । सफलस्य बन्धरूपत्वात्फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच्च । मा च कर्मफलयोर्हेातुभू: । त्वयानुष्ठीयमानेऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्तव अकर्तृत्वमप्यनुसन्धेयम् । फलस्यापि क्षुन्निवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेयम् । तदुभयं गुणेषु वा सर्वेश्वरे मयि वानुसन्धेयमित्युत्तरत्र वक्ष्यते । एवमनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामीति यत्त्वयाभिहितम्, न तत्र ते सङ्गोऽस्तु उक्तेन प्रकारेण युद्धादिकर्मण्येव सङ्गोऽस्त्वित्यर्थ:॥४७॥
एतदेव स्फुटीकरोति –
योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥
राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थ: कुरु, तदन्तर्भूतविजयादि-सिद्ध्यसिद्ध्योस्समो भूत्वा कुरु । तदिदं सिद्ध्यसिद्ध्योस्समत्वं योगस्थ इत्यत्र योगशब्देनोच्यते । योग: सिद्ध्यसिद्धियोस्समत्वरूपं चित्तसमाधानम् ॥ ४८ ॥
किमर्थमिदमसकृदुच्यत इत्यत आह –
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: ॥ ४९ ॥
योऽयं प्रधानफलत्यागविषयोऽवान्तरफलसिद्ध्यसिद्ध्योस्समत्वविषयश्च बुद्धियोग: तद्युक्तात्कर्मण इतरत्कर्म दूरेणावरम् । महदिदं द्वयोरुत्कर्षापकर्षरूपं वैरूप्यम् । उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिक-दु:खं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति । इतरदपरिमितदु:खरूपं संसारमिति । अत: कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणमन्विच्छ । शरणं वासस्थानम् । तस्यामेव बुद्धौ वर्तस्वेत्यर्थ:। कृपणा: फलहेतव: फलसङ्गादिना कर्म कुर्वाणा: कृपणा: संसारिणो भवेयु: ॥ ४९ ॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् ॥ ५० ॥
बुद्धियोगयुक्तस्तु कर्म कुर्वाण: उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति । तस्मादुक्ताय बुद्धियोगाय युज्यस्व । योग: कर्मसु कौशलम् कर्मसु क्रियमाणेष्वयं बुद्धियोग: कौशलम् अतिसामर्थ्यम् । अतिसामर्थ्यसाध्य इत्यर्थ: ॥ ५० ॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: ।
जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् ॥ ५१ ॥
बुद्धियोगयुक्ता: कर्मजं फलं त्यक्त्वा कर्म कुर्वन्त:, तस्माज्जन्मबन्धविनिर्मुक्ता: अनामयं पदं गच्छन्ति हि प्रसिद्धं ह्येतत्सर्वासूपनिषत्स्वित्यर्थ: ॥ ५१ ॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥
उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर्यदा मोहकलिलं अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्त: इत: पूर्वं त्याज्यतया श्रुतस्य फलादे: इत: पश्चाच्छ्रोतव्यस्य च कृते स्वयमेव निर्वेदं गन्तासि गमिष्यसि ॥५२॥
योगे त्विमां शृणु इत्यादिनोक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलमाह –
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥
श्रुति: – श्रवणम् । अस्मत्त: श्रवणेन विशेषत: प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशय-सूक्ष्मतत्त्वात्मविषया, स्वयमचला एकरूपा बुद्धि: असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगमात्मावलोकनमवाप्स्यसि । एतदुक्तं भवति – शास्त्रजन्यात्मज्ञानपूर्वककर्मयोग: स्थितप्रज्ञताख्यज्ञाननिष्ठामापादयति ज्ञाननिष्ठारूपा स्थितप्रज्ञता तु योगाख्यमात्मावलोकनं साधयति इति ॥ ५३ ॥
एवदुक्त: पार्थोऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूताया: स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति –
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधी: किं प्रभाषते किमासीत व्रजेत किम् ॥ ५४ ॥
समाधिस्थस्य स्थितप्रज्ञस्य का भाषा को वाचकश्शब्द: ? तस्य स्वरूपं कीदृशमित्यर्थ: ।स्थितप्रज्ञ: किं च भाषादिकं करोति ?॥५४॥
वृत्तिविशेषकथनेन स्वरूपमप्युक्तं भवतीति वृत्तिविशेष उच्यते –
श्रीभगवानुवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥
आत्मन्येवात्मना – मनसा आत्मैकावलम्बनेन तुष्ट: तेन तोषेण तद्व्यतिरिक्तान् सर्वान् मनोगतान् कामान् यदा प्रकर्षेण जहाति, तदायं स्थितप्रज्ञ इत्युच्यते ।ज्ञाननिष्ठाकाष्ठेयम् ॥५५॥
अनन्तरं ज्ञाननिष्ठस्य ततोऽर्वाचीनादूरविप्रकृष्टावस्थोच्यते –
दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: ।
वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
प्रियविश्लेषादिदु:खनिमित्तेषु उपस्थितेषु अनुद्विग्नमना: न दु:खी भवति सुखेषु विगतस्पृह: प्रियेषु सन्निहितेष्वपि विगतस्पृह:, वीतरागभयक्रोध:, अनागतेषु स्पृहा राग:, तद्रहित: प्रियविश्लेष- अप्रियागमनहेतुदर्शननिमित्तं दु:खं भयम्, तद्रहित: प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगत-दु:खहेतुभूतस्वमनोविकार: क्रोध:, तद्रहित: एवंभूत: मुनि: आत्ममननशील: स्थितधीरित्युच्यते॥५६॥
ततोऽर्वाचीनदशा प्रोच्यते –
य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
य: सर्वत्र प्रियेषु अनभिस्नेह: उदासीन: प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहित:, सोऽपि स्थितप्रज्ञ: ॥ ५७ ॥
ततोऽर्वाचीनदशामाह –
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥
यदेन्द्रियाणीन्द्रियार्थान् स्पृष्टुमुद्युक्तानि, तदैव कूर्मोऽङ्गानीव, इन्द्रियार्थेभ्य: सर्वश: प्रतिसंहृत्य मन आत्मन्यवस्थापयति, सोऽपि स्थितप्रज्ञ: । एवं चतुर्विधा ज्ञाननिष्ठा । पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या॥५८॥
इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह –
विषया विनिवर्तन्ते निराहारस्य देहिन: ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
इन्द्रियाणामाहारा विषया: निराहारस्य विषयेभ्य: प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते रस: राग: । विषयरागो न निवर्तत इत्यर्थ: । रागोऽप्यात्मस्वरूपं विषयेभ्य: परं सुखतरं दृष्ट्वा निवर्तते ॥ ५९ ॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: ॥ ६० ॥
आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्येन्द्रियाणि प्रमाथीनि बलवन्ति, मन: प्रसह्य हरन्ति । एवमिन्द्रियजय: आत्मदर्शनाधीन:, आत्मदर्शनमिन्द्रियजयाधीनमिति ज्ञाननिष्ठा दुष्प्रापा ॥ ६० ॥
तानि सर्वाणि संयम्य युक्त आसीत मत्पर: ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानीन्द्रियाणि संयम्य, चेतसश्शुभाश्रयभूते मयि मनोऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति । ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति । यथोक्तम्, यथाग्निरुद्धतशिख: कक्षं दहति सानिल: । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्॥ (वि.पु.६.७.७४; ना.पु.४७.७०,गा.पु.२२२–१६) इति । तदाह वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता इति ॥ ६१ ॥
एवं मय्यनिवेश्य मन: स्वयत्नगौरवेणेन्द्रियजये प्रवृत्तो विनष्टो भवतीत्याह –
ध्यायतो विषयान् पुंस: सङ्गस्तेषूपजायते ।
सङ्गात्संजायते काम: कामात्क्रोधोऽभिजायते ॥ ६२ ॥
क्रोधाद्भवति संमोह: संमोहात्स्मृतिविभ्रम: ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥
अनिरस्तविषयानुरागस्य हि मय्यनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानमवर्जनीयं स्यात् । ध्यायतो विषयान् पुंस: पुनरपि सङ्गोऽतिप्रवृद्धो जायते । सङ्गात्संजाते काम: । कामो नाम सङ्गस्य विपाकदशा । पुरुषो यां दशामापन्नो विषयानभुक्त्वा स्थातुं न शक्नोति, स काम: ॥ कामात्क्रोधोऽभिजायते । कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिरस्मदिष्टं विहितमिति क्रोधो भवति । क्रोधाद्भवति संमोह: । संमोह: कृत्याकृत्यविवेकशून्यता । तया सर्वं करोति । ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति । स्मृतिभ्रंशाद्बुद्धिनाश: आत्मज्ञाने यो व्यवसाय: कृत:, तस्य नाश: स्यात् । बुद्धिनाशात्पुनरपि संसारे निमग्नो विनष्टो भवति ॥ ६२-६३॥
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥
उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश्शुभाश्रयभूते न्यस्तमना: निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैरात्मवश्यैरिन्द्रियै: विषयांश्चरन् विषयांस्तिरस्कृत्य वर्तमान: विधेयात्मा विधेयमना: प्रसादमधिगच्छति निर्मलान्त:करणो भवतीत्यर्थ: ॥ ६४ ॥
प्रसादे सर्वदु:खानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते ॥ ६५ ॥
अस्य पुरुषस्य मन:प्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदु:खानां हानिरुपजायते । प्रसन्नचेतस: आत्मावलोकनविरोधिदोषरहितमनस: तदानीमेव हि विविक्तात्मविषया बुद्धि: पर्यवतिष्ठते । अतो मन:प्रसादे सर्वदु:खानां हानिर्भवत्येव ॥ ६५ ॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् ॥ ६६ ॥
मयि सन्न्यस्तमनोरहितस्य स्वयत्नेनेन्द्रियनियमने प्रवृत्तस्य कदाचिदपि विविक्तात्मविषया बुद्धिर्न सेत्स्यति। अत एव तस्य तद्भावना च न संभवति । विविक्तात्मानमभावयतो विषयस्पृहाशान्तिर्न भवति । अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्ति: ॥ ६६ ॥
पुनरप्युक्तेन प्रकारेणेन्द्रियनियमनमकुर्वतोऽनर्थमाह –
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥
इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनमनु यन्मनो विधीयते पुरुषेणानुवर्त्यते, तन्मनोऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोतीत्यर्थ: । यथाम्भसि नीयमानां नावं प्रतिकूलो वायु: प्रसह्य हरति ॥ ६७ ॥
तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥
तस्मादुक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्येन्द्रियाणि इन्द्रियार्थेभ्य: सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥ ६८ ॥
एवं नियतेन्द्रियस्य प्रसन्नमनस: सिद्धिमाह –
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुने: ॥ ६९ ॥
या आत्मविषया बुद्धि: सर्वभूतानां निशा निशेवाप्रकाशा, तस्यामात्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमना: जागर्ति आत्मानमवलोकयनास्त इत्यर्थ: । यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति, सा शब्दादिविषया बुद्धिरात्मानं पश्यतो मुनेर्निशेवाप्रकाशा भवति॥ ६९॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमाप: प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥
यथा स्वेनैवापूर्यमाणमेकरूपं समुद्रं नादेय्य आप: प्रविशन्ति, आसामपां प्रवेशेऽप्यप्रवेशे च समुद्रो न कञ्चन विशेषमापद्यते एवं सर्वे कामा: शब्दादयो विषया: यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिमाप्नोति । शब्दादिष्विन्द्रियगोचरतामापन्नेष्वनापन्नेषु च स्वात्मावलोकनतृप्त्यैव यो न विकारमाप्नोति, स एव शान्तिमाप्नोतीत्यर्थ: । न कामकामी । य: शब्दादिभिर्विक्रियते, स कदाचिदपि न शान्तिमाप्नोति ॥ ७० ॥
विहाय कामान् य: सर्वान् पुमांश्चरति निस्स्पृह: ।
निर्ममो निरहङ्कार: स शान्तिमधिगच्छति ॥ ७१ ॥
काम्यन्त इति कामा: शब्दादय: ।
य: पुमान् शब्दादीन् सर्वान् विषयान् विहाय –
तत्र निस्स्पृह: तत्र ममतारहितश्च, अनात्मनि देहे आत्माभिमानरहितश्चरति स आत्मानं दृष्ट्वा शान्तिमधिगच्छति ॥ ७१ ॥
एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥
एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थिति: स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुन: संसारं नाप्नोति, अस्या: स्थित्यामन्तिमेऽपि वयसि स्थित्वा ब्रह्मनिर्वाणमृच्छति निर्वाणमयं ब्रह्म गच्छति सुखैकतानमात्मानमवाप्नोतीत्यर्थ: ॥
एवमात्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनतामजानत: शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान्निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धि:, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धि: स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता तदुक्तम्, नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधी: । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये इति (गी.सं.६) ॥ ७२ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये द्वितीयाध्याय: ॥ २॥