।।श्रीः।।
नयमयूखमालिका
।।चतुर्थोऽध्यायः।।
।।चतुर्थस्याध्यायस्य प्रथमः पादः।।
साधननुरूपणानन्तरं फलमस्मिन्नध्याये निरूप्यते। देहे स्थितस्य विदुषः पापाश्लेषविनाशो मूर्धन्यनाड्या देहान्निर्गमोर्गतस्यार्चिरादिगतिर्ब्रह्म प्राप्तिश्चेति चतुर्विधं फलम्। तदिदं चतुर्विधं फलं क्रमात्पादचतुष्टयेन विचार्यते। आदौ तावाद्विद्यायां विचारणीयाः केचन विशेषाः विचार्येन्ते। साधनभूताया विद्याया भक्तिदशापन्नायाः फलरूपत्वमस्तीति दर्शयितुं तृतीयविचारणीययानामपूह विचारः–
आवृत्तिरसकृदुपदेशात्।।1।।
लिङ्गाच्च।।2।।
” ब्रह्मविदाप्नोति पर ” मित्यादौ ब्रह्मप्राप्तिसाधनत्वेन श्रुता विद्या किं सकृदेवानुष्ठेया उतासकृदावर्तनीयेति संशये पूर्वपक्षः। सकृदनुष्ठेया। आवृत्तौ प्रमाणाभावात्। अवघातादिवत् दृष्टोपायत्वाभावात्। यागादिकर्मवद्वेदनमपि हि ” फलमतउपपत्तेः ” रित्यत्र प्रतिपादितम्। ननु ” मनोब्रह्मेत्युपासीते ” त्युपासिनाऽनुक्रम्य ” यएववेदे ” त्युपसंहारात् संवर्गाविद्यायां ” यस्तद्वेदे ” ति विदिनोपकर्म्य ” यां देवतामुपास्स ” इत्युपालिनोपसंहाराच्चज वेदान्तेषु विदिधात्वर्थविधान्यस्यावृत्तिगर्भोपासनापर्यवसानावगमादावृत्तिः सिध्येतिचेत्, अस्तु त्रिचतुर वृत्त्याऽप्यावृत्तिशास्त्रार्थसिद्धिर्न तन्मात्रेणासकृदावृत्तिस्सिद्धान्त्यभिमता सिद्ध्यीति। राद्धान्तस्तु। ” द्रष्टव्यश्श्रोतव्योमन्तव्यो निदिध्यासितव्य ” इति ” तत्तस्तु तं पश्यति निष्कळं ध्यायमान ” इति च विशदतरावभासतया विद्याया दर्शनसमानाकारपत्त्यपेक्षाप्रतिपादनात् तादर्थ्येन ” तद्रूपप्रत्ययैकात्मा सन्ततिश्चान्यनिस्पृहा। तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निषपद्यते तदे ” ति स्मृत्यनुसारेमचासकृदावर्तनीया विद्येति।
सङ्ग्रहकारिका।।
मुमुक्षुभिस्सकृत्कराय विहितं ब्र्हमवेदनम्।
ज्योतिष्टोमादितुल्यं हि दृष्टार्थं नावहन्तिवत्।।
आवर्तनीयमसकृत्तदुपास्तितया मितम्।
उपक्रमोलपसंहारशाखान्तरगतैः पदैः।।
इति आवृत्त्यधिकरणम्।।1।।
———————————
आत्मेतितुपगच्छन्ति ग्राहयन्ति च।।3।।
विद्यायां विशदतरावभासरूपफलार्थापत्तिप्रसूतमावृत्तिगुणकत्वं निरूपितम्। तदनन्तरं मुक्तावपि भगवतत्पारतंत्र्यरूपफलार्थापत्तिप्रसूतं भगवतः स्वात्मत्वेननानुसन्धेयत्वं नुरूपप्यत इति सङ्गतिः। विद्यास्वीश्वरः स्वात्मत्वेन नानुसन्धेयाः। किं तु पृथक्त्वेननैव। ” पृथगात्मानां प्रेरितारञ्च मत्वाजुष्टस्ततस्तेनामृतत्वेमती ” ति श्रुतेः। अत्नर्यामिब्राह्मणोक्तं भगवतः स्वात्मत्वमस्तिचेत् अस्तु तन्न निषिध्यते। मुक्त्यर्थमनुसन्धानं पृथक्त्वेनैव कर्तव्यमूदाहृतश्रुतेरिति। राद्धान्तस्तु– तत्क्रतुन्यायेन मुक्तावपि भगवत्पारतंत्र्यसिद्ध्यर्थ स्वात्मत्वेनानुसन्धानं कार्यम्। तथैव पूर्वेऽप्युपासितारोऽनुसन्देधते ” त्वंवा अहमसि भगवो देवतेऽहं वै त्वमसी ” ति। तथैव च शास्त्राण्यन्तर्यामिब्र्हमाणादीन्युपदिशन्ति। न च पृथक्त्वानुसन्धानवविरोधः। स्वशरीरात् स्वात्मनैव ततोऽपि परमात्मानोऽधिकत्वेन तथाऽनुसन्धानोपपत्तेः।।
सङ्ग्रहकारिका।।
अन्यत्वेनोपासितुरपासनं भगवतः कार्यम्।
नत्वहमिति भिन्नत्वात् पृथगात्मामनमिति च श्रवणात्।।
भिन्नमपि तावदात्मा ब्रह्मशरीरस्य जीवस्य।
तस्मान्नरोऽहमितिवत् ब्रह्माहमितीदमुपपन्नम्।।
इति आत्मत्वोपासनाधिकरणम्।।2।
————————————–
न प्रतीके न हि सः।।4।।
ब्रह्मदृष्टिरुत्कर्षात्।।5।।
अहं ग्रहेष्वीश्वरस्यात्मत्वेनोपासनमुक्तम्। प्रतीकोपासनेष्पपि तच्छङ्कया सङ्गतिः। ” मनोब्रह्मे ” त्यादिषु ब्रह्मण आत्मत्वेनानुसन्धानं कार्यं नवेति तस्यस्वतंत्रोपास्यत्वदृष्टिविशेषणत्वाभ्यां संशयः। यदि ब्रह्मणि मनोदृष्टिर्विद्येया तदा ब्रह्मणस्स्वतन्त्रोपास्यत्वात् पूर्वाधिकरणन्यायेन तस्यात्मत्वेनानुसन्धानं कार्यम्। यदि मनसि ब्रह्मदृष्टिर्विद्येया तदोपास्यस्याब्रह्मत्वात् न तथोपासनं कार्यमिति फलफलिभावः। तत्र ब्रह्मोपास्यं। मनोदृष्टि विशषणम्। अचेतनस्य मनसः फलप्रदानाशक्तस्योपास्यत्वायोगादिति पूर्वपक्षः। मनसि ब्रह्मदृष्टिर्विधेया ब्रह्मण उत्कृष्टत्वात्। अपकृष्टेह्युत्कृष्टबुद्धिरभ्युदयाय भवति। यथा राजभृत्ये राजबुद्धिः। उत्कृष्टेत्वपकृष्टबुद्धिरनथायैव स्यात्। तस्मान्मनस उपास्यत्वन्नात्मत्वेनानुसंधानं कार्यम्।मनसोऽप्यभिमानिदेवतारूपेण चेतनत्वादिति।।
सङ्ग्रहकारिका।।
एवमात्मत्वधीः कार्या प्रतीकोपासनेष्वपि।
मैवं स हि भवक्यात्मा न खलुपासकं प्रति।।
स हि ब्रह्मदृश्योपास्यो नत्वत्र विपीरतता।
उत्कृष्टब्रह्मदृष्टिर्हि निष्कृष्टे फलदीयिनी।।
इति प्रतीकाधिकणम्।।3।।
——————————-
आदित्यादिमतयश्वांग उपपत्तेः।।6।।
उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येत्युक्तम्।तदोद्गीथादिदृष्टिरादित्यादौ कर्तव्येति शङ्कया सङ्गतिः। ” य एवासौ तपति तमुद्गीथमुपासाञ्चक्रिर ” इत्यादिषु किमादित्यादावुद्गीथादिदृष्टिर्विधेया उतोद्गीथादावादित्यादिदृष्टिरित्यन्यतरोत्कर्षानवधारणात् संशये पूर्वपक्षः। आदित्यादावुद्गीथादिदृष्टिर्विधेया फलवत्कर्माङ्गतया फलवत्त्वात्। आदित्यादेर्देवतारूपेण कर्माङ्गत्वे सत्यपि स्वतस्साध्यस्योद्गीथादेः फलसन्निकर्षात् मनोब्रह्मेत्यत्रेवादित्यादेः प्रथमनिर्दिष्टस्योपास्यत्वप्रतीतेश्चेति।।
सिद्धान्तस्तु–उद्गीथादिष्वादित्यादिदृष्टिर्विधेया। कर्मणामादित्यादिदेवताराधनद्वारेणैव फलसाधनतयाऽऽदित्यादिनामुत्कृष्टत्वोपपत्तेः। आराधनानामाराध्यदेवताप्रधानतया साध्यानुरागेण तस्यापि साध्यतोपपत्तेस्तत्प्रयुक्तोत्कर्षस्याप्यनादरणीयत्वात्। यद्यादित्यादेः “अर्यम्णे चरुं निर्वपेत्स्वर्गकाम ” इत्यादि विध्यन्तरविहितेषु कर्मसु फलप्रदत्वेऽप्यस्मिन्नुपासनाप्रकरणे देवतात्वाभावेन फलप्रदत्वाभावात् तत उद्गीथादेरेवात्र फलवत्कर्मौगतया फलवत्त्वादुत्कृष्टत्वमुच्यते तदाऽप्युद्गीथादावेवादित्यादृष्टिर्विधेया अंगानंगसमभिव्याहारवतीनां विद्यानामंगेष्वगदृष्टिरूपत्वे प्रधानकर्मप्रयुक्तांघाश्रयत्वात्। स्वतन्त्रफलानामपि तासां पृथक्प्रयुक्तिर्नकल्प्येति प्रयुक्तिलाघवाद्वैपरीत्ये प्रयुक्तन्तरकल्पनागौरवात्।।
सङ्ग्रहकारिका।।
यद्वृत्तप्राधम्यं यस्मादादित्यमुख्येषु।
फलसाधनकर्मत्वादुद्गीथादिच तदुत्कृष्टम्।।
तस्मादुद्गीथादिदृगादित्यादिषु समाधेया।
मैवमिह देवतैव हि कर्माराध्या तदुत्कृष्टा।।
इति आदित्यादिमत्त्याधिकरणम्।।4।।
—————————————-
आसीनस्सम्भवात्।।7।।
ध्यानाच्च।।8।।
अचलत्वञ्चापेक्ष्य।।9।।
स्मरन्तिच।।10।।
यत्रैकाग्रता तत्राविशेषात्।।11।।
अवसितमहंग्रह प्रसक्तानुप्रसक्तं।परविद्याविषय एव विचारितौऽनुवर्तते।परविद्यानां प्रधानफलार्थापत्तिमूलावावृत्त्यहंग्रहौ विचारितौ। इदानीमंगरूपप्रदानोपकाराथापत्तिमलौगविशेषश्चित्यते। परविद्यास्वासननियमोऽस्ति नवेति संशये नास्ति नियामकम्। नचासीनस्यैवोपासनोपयोग्यैकाग्न्यं सम्भवतीति वाच्यम्। ऋत्विक्कर्तृकांगावबद्धोपासनेष्विव तिष्ठतोऽपि तत्सम्भवात्। ऋत्विजां कर्मविध्यनुसारेण तिष्ठतामपि तत्तंदंगाश्रयोपासनादर्शनादिति।
सिद्धान्तस्तु–विशदतरावभासरूपदर्शनसमानाकारतापत्तयुपयोगिनीनां परब्रह्मापासनानां निरन्तरस्मृतिसन्तानरूपध्रुवानुस्मृत्यात्मतया क्रत्वंगाश्रयोपासनावैषम्यात् अचलत्वसाम्यमपेक्ष्य ” ध्यायतीव पृथधिवी ध्यायीवान्तरिक्ष ” मित्यादिनिर्देशनात् “उपविश्यासने युज्याद्योगमात्मविशुद्धये” इति स्मृतश्चासीनएवोपासीत। शयानस्य निद्रासम्भवात् गच्छतस्तिष्ठत्च देहधारणप्रयत्नापेक्षणात्। आसीनस्यापि पश्चार्धधारणप्रयत्नोऽस्तीति तन्निवृत्त्यपेक्षायां सापाश्रय आसीत देशकालयोः परं न नियमः। एकाग्रतातिरिक्तदेशकालविशेषाश्रवणात्। एकाग्रतानुकूलो यो देशःकालश्च स एवोपासनस्य। न तु तत्र विशेषोऽस्ति। ” समे शुचौ शर्करावह्निवालुकाविवर्जिते शीतलाश्रयादिभिः।मनोऽनुकूले न तुः चक्षुः पूडने गुहानिवाताश्रयणे प्रयोजये ” दिति वचनमप्येकाग्रतोपयोगिनं देशमाह न तु देशविशेषं नियच्छति।मनोऽनुकूल इति वाक्यशेषात्।
सङ्ग्रहकारिका।।
आसीन एव योगं कुर्यादेकाग्रतोत्पत्तेः।
स्थितिगत्योरतियत्नाच्छयने निद्राभिभूतेश्च।।
मनोऽनुकूलतामात्रं देशकालेष्वपेक्ष्यते।
न तारारण्यतिथ्यादि वाक्यशेषे तथा श्रुतेः।
इति आसीनाधिकरणम्।।5।।
——————————
आप्रयाणात्तत्रापि हि दृष्टम्।।12।।
पूर्वाह्णादिकालनियमवदेव तावत्कालपर्यन्तमुपासनाकार्येति कालेयत्तानिमस्याप्यश्रवणात् ” सुकृत्कृते कृतश्शास्त्रार्थ ” इति न्यायादेकस्मिन्नेव दिने कार्या। न तु यावदायूषम्।” स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पूनरावर्तत ” इति श्रुतिः कर्मणामेव यावदायुषमनुष्ठेयत्वमाह। न तु विद्याया पूर्वपक्षः। यावदायुषं कर्मानुष्ठा कर्मानुष्ठानस्यापुनरावृत्तिफलकत्वमुचिमानं विद्यां प्रति स्वरूपोपकारत्वेनैवोपपादनीयमिति तदुक्तिसामर्याद्विद्याया अपि यावदायुषमनुष्ठेयत्वं तत्र विवक्षितमुन्नीयत इति तद्बलात् “प्रायणान्तर्मोंकारमभिध्यायीते ” ति श्रुत्यन्तरदर्शनाच्च यावदायुषमनुष्ठेयेति सिद्धान्तः।।
सङ्ग्रहकारिका।।
उपासनमिदं कार्यमकस्मिन्नेव वासरे।
तावताऽपि कृतार्थं हि स्यादुपासनशासनम्।।
कार्यमन्वहमुपक्रमप्रभृयाशरीरविलयादुपासनम्।
यावदायुषमिति श्रुतौ तथा प्रायणान्तमिति च श्रुतौ विधेः।।
इति आप्रयाणाधिकरणम्।।6।।
——————————-
तदधिगमफत्तरपूर्वाघयोरश्लेषविनाशो तद्व्यपदेशात्।।13।।
एवं विद्यायामावृत्त्यादिविशेषा विचारिताः। अथैतत्पादार्थभूतं पापाश्लेषविनाशरूपं फलं विचार्यत इति सङ्गतिः। ” तद्यथा पूष्करपलाशआपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यत ” इति ” तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्त ” इति च श्रूयमाणौ पापाश्लेषविनाशौ ब्रह्मविद्याफले भवितुर्महतो नवेति अभुक्तकर्मक्षयशास्त्रविरोधाभ्यां संशये पूर्वपक्षः। ब्रह्मविद्याफले तौ। ” नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ” इति शास्त्रेण कर्मणां भोगैकनाश्यत्वावगस्या तयोर्विद्याफलत्वकल्पनायोगात्। न च तत्सामान्यशास्त्रं विद्याविनाश पापातिरिक्तकर्मविषयं स्यादिति वाच्यम्। विद्यायाः पापाश्लेषविनाषार्थत्वेन विधेरश्रूततया तत्संकोचकल्पकाभावात् । न च तथा विधिकल्पनं ब्रह्मप्राप्तिसाधनत्वेन विहिताया विद्यायाः फलान्तरानपेक्षत्वत् पापाश्लेषविनाशक्षवणस्य विद्याप्रशसार्थत्वोपपत्तेरिति।।
सिद्धान्तस्तु– विद्यालाभे सति उत्तरपूर्वाघयोरश्लेषविनाशौ भवतएवा ” तद्यथा पुष्करपलाश ” इत्यादिश्रुतिषु तथा व्यपदेशात्। न च ब्रह्मप्राप्तिफलकविद्यार्थवादस्तथा व्यपदेशः अभुक्तकर्मक्षयशास्त्रानुरोघादिति वाच्यम्। भोगं विना कर्मक्षयाभावे भोगार्थे शरीरं ग्राह्यं तस्मिन्नपि शरीरे कर्मान्तरार्जनमवर्जनीयम्त्यनिर्मोक्षापत्त्या मोक्षशास्त्रैरेव पापाश्लेषविनाशयोरपेक्षितत्वात्। पापाश्लेषविनाशाभुक्तकर्मक्षयशास्त्रयोर्भिन्नविषयत्वे विरोधाभावाच्च। तथाहि। अभुक्तर्माक्षयशास्त्रं कर्मणां फलजननशकिं्त प्रतिपादयति। पापविनाशाश्लेषशास्त्रे तु प्राचीनकर्मणां फलजननसाम्र्थ्यविनाशक्तिमागामिकर्मणां फवजननसामर्थ्योत्पत्तिप्रतिबन्धशकिं्त च प्रतिपादयतः।न च तत्र विरोधशङ्कास्ति। अग्निजलयोरौष्ण्यतन्निवारणश्कितवदुपपत्तेः। अश्लेषवचनं प्रामादिकपापमात्रविषयम्। “नाविरतो दुश्चरिता” दित्यादिशास्त्रैराप्रायणमहरहरनुष्ठेयाया विद्याया दुश्चरितविरतिनिष्पाद्यत्वावगमात्। ” अपिचेत्पातकं किंचिद्योगि कुर्यात्प्रमादतः। योगमेव निषेवेत नान्यत्कर्म समाचरे”दिति स्मृतेश्च। नन्विदं पापश्लेषविनाशद्वयमुपसनारम्भ- प्रथमदिवसे उत मध्ये अथवा तदवसान इति विवेक्तव्यम्।मध्ये दर्शनसमानाकारापत्तिसमय इति वविक्तमेव “क्षीयन्तेचास्य कर्माणि तस्मिन्दृष्टे ” इति श्रुत्या। ननु पूर्वै शरीरपातसमये कर्मक्षय उक्तःअत्र कथं समयान्तरोक्तिः। उच्यते। भगवदप्रितिः पापं। तत्प्रीतिविशेषरूपावश्लेषविनाशौ। ततश्च दर्शनसमाकारापत्तिसमये प्रीतिः परमात्मा तत्समाप्तावुपासकस्याघं क्षमिष्य इति सङ्कल्पयतीति तद्विषयमिदमधिकरणम्। समाप्तौ क्षान्तामिति सङ्कल्पयतीति तद्विषयं पूर्वाधिकरणमिति न विरोधः।।
सङ्ग्रहकारिका।।
विद्योदयानन्तरपूर्वपापयोरश्लेषविध्वंसनवर्णनं स्तुतिः।
नाभुक्तिकर्माक्षयशास्त्रबाधितं विद्याफलत्वप्रतिपादनक्षमम्।।
विभिन्नशक्त्योरनयोर्विरुदधतानशास्त्रयोरस्ति मुधैकबाधनम्।
अमोधशक्तेरपि किं न सम्भवेद्विनाजन्मप्रतिबन्धकारणम्।।
इति तदधिगमाधिकरणम्।।7।।
—————————————————
इतरस्याप्येवमसंश्लेषः पातेतु।।14।।
पापवत्पुण्यस्यापि विनाशाश्लेषादातिदेशिसी संगतिः। तत्रेयमतिदेशनिवर्तनीयाऽधिका शङ्का। अश्लेषविनाशवचनयोः पापग्रहणात् न पुण्यस्याश्लेषविनाशौ। न च ” न जरा न मृत्यर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त ” इति वचवनान्तरे पाप्मशब्दस्य पुण्यसाधारण्यादन्यत्रापि वेदान्तेषु स्थितः पापवाची शब्दः पुण्यसाधारणः। मुमुक्षुन्प्रत्यनिष्टफलत्वाविशेषादिति वाच्यम्। तथा नियमाभावात्। सर्वे पाप्मान इत्यत्र पाप्मशब्देन गृहीतानामपि जरा मृत्युशोकानां ” अपहतपाप्मा विजरो विमृत्युर्विशोक ” इत्यत्र पृथग्गृहीतत्वात्। एवमिहापि पापशब्दास्य पापमात्रपरत्वोपपत्तेरिति। एवमधिकशंकानिवृत्तिस्तु — वेदान्तेषु क्वचित्क्वचित्पापशब्दास्य पापमात्रपरत्वेऽपि स इह सुकृतसाधारण एव ” न ससुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त ” इति विद्यामाहात्म्यात् एव सुकृतस्यापि निवृत्तिक्षनणात् तस्य मुमुक्षुनिष्टफलत्वन्यायसाम्येन मुमुक्षुशास्त्रप्रामाण्येनचाश्लेषसाधारणत्वादिति। ननु विदुषोऽप्युपासनमिर्वृत्तये वृष्ट्यन्नाद्यादिफलानि पुण्यान्यपेक्षितानि। कथं सर्वेषां पुण्यानां विनाशः। तेषां विद्यानिगुणदृष्टफलानां यावच्छरीरधारणमनुवृत्तानां शरीरपातसमयेऽवशिष्टांशविनाश इति न विरोधः।।
सङ्ग्रहकारिका।।
सुकृतं विहितं हि विद्याया न तदश्लेषलयौ प्रपद्यते।
अत एव तया स्वशब्दतो दुरतस्यैव विशिष्य तौ श्रुतौ।।
विहितमपि तद्विद्याभाजामनिष्टफलत्वतो
दुरुतसदृशं दूरे त्याज्यं परानुभवार्थिनाम् ।
तदुभयपरश्रुत्यन्तस्थं च पाप्मपदादिकं
तदिह नियतं तस्याप्यश्लेषणं सलयं तया।।
वृष्ट्यन्नाद्यादिफलं यत्पुण्यमपेक्षितं विदुषाम्।
यत्र तदवशिष्टं स्याच्छरीरपाते लयस्तस्य
इति इतराधिकरणम्।।
—————————————-
अनारब्धकार्ये एव तु पूर्वे तदवधेः।।15।।
उक्तस्सुकृतदुष्कृतयोर्विद्यया नाशः किमविशेषण उतानारब्धकार्ययोरिति ” सर्वे पाप्मानः प्रदुष्यन्ते तस्य तावदेव चिर ” मिति श्रुतिद्वयविरोधात् संशये सर्वश्रुत्यविरोधादशेषयोः पुण्यपापयोर्विनाशः ” तस्य तावदेव चिर ” मिति श्रुत्युक्तं तदनन्तरदेहधारणं तु कुलानचक्रभ्रमणन्यायेन संस्कारानुवृत्त्या भविष्यतीति पूर्वपक्षः। संस्कारानुवृत्त्याचेत् क्षीणायुषामष्यवनिदुषामपि तया देहधारणं प्रसज्यते। अत्तो देहधारणापर्थे प्रारब्धे सुकृतदुष्कृते विहायान्येषां पुण्यपापानां निद्यया विनाशः। एवं च प्रारब्धवशादेव विदुषामपि सुखदुःखभोगोपपत्तिः।।
सङ्ग्रहकारिका।।
अविशेषण विद्यातस्स्याल्लयः पुण्यपापयोः।
सर्वे पाप्मान इति हि श्रुतिराशक्ष्यते तथाः।।
आरब्धकार्यमपहाय तयोर्लयस्य यत्तादेव चिरमित्यवधिः श्रुतोऽस्ति।
संस्कारतो यदि शरीरभृतिस्समर्थ्या क्षीणायुषामविदुषामपि सा तदा स्यात्।।
इति अनारब्धकार्याधिकरणम्।।
———————————————-
अग्निहोत्रादितु तत्कार्यायैव तद्दर्शनात्।।16।।
अयोऽन्यपिह्येकेषामुभयोः।।17।।
यदेव विद्ययेति हि।।18।।
इतरस्याप्येलमसंश्लेष इत्यधिकरणे विद्याबलात् सुकृतस्याप्यसंश्सेष उक्तः। अतोऽग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वाविशेषेण फलाश्लेषादनिच्छतोऽननुष्ठानं प्राप्तम्। न हि निष्फलं कश्चिच्चिर्षति। यदि नित्यनेमित्तिकानां फलवत्त्व स्यात्, तदानीमश्लेषवचनमेव निर्विषयं स्यात्, तदनीमश्लेषवचनमेव निर्विषयं स्यात्। तस्य विषयान्तरकल्पनेऽपि तेषां फलमपि न पशामः। नचाप्रायणमहरहरविच्छेदेन विद्यानुवृत्तिस्तत्फलम्। कमर्ण इव विद्याया अप्यनुतिष्ठासामात्रेणाविच्छिन्नानुवृत्तिसिद्धेः। न च विद्यानुवृत्तिप्रतिबन्धकदुरितनिवृततिस्तत्फलम्। विद्याप्राचीनदुरितानां विद्यया विनाशात् विदुषस्तदनन्तरं बुद्धिपूर्वकपापचरणाप्रसक्तेः प्रामादिकस्य योगनिषेवणेन निवृत्त्येक्तेः। यद्यपि नित्यनैमित्तिककानामाश्रमधर्माणां परित्यागो न युज्यत इति प्रत्यवायपरिहारार्थमाश्रमधर्मत्वेन कथञ्चिदनुष्ठानं समर्थ्येत, तथाऽपि विद्यार्थत्वने तेषामनुष्ठानं न सिध्यतीति।।
सिद्धान्तस्तु — विदुषाप्याश्रमधर्मत्वेन ते विद्यार्थ्तवेनाफ्यनुष्ठेयाः विद्यारूपकार्यायैव तदुपदेशात्। नन्वसिद्धस्तदुपदेशः, ” यज्ञेने ” त्यादिश्रुतेर्विद्यादयात्प्राक् तादर्थ्येन विधानार्थतोपपत्तेः, ” स खल्वेदं वर्तय ” न्नित्यादिश्रुतेपराश्रमधर्मानुवृत्तिमात्रविषयत्वोपपत्तेरिति चेन्न। उदयहृतश्रुतिद्वयस्याप्यन्तिमप्रत्ययपर्यन्तविद्य- यर्थकर्मानुवृततविषयत्वस्यापि सम्भवे तथा सङ्कोचकल्पनायोगात्। न च नैष्फलम्। यावद्विद्यानुवृत्त्यनुष्ठेयत्वेन सहितस्य विद्यासहकारिकर्मजातस्य मध्ये बुद्धिपूर्वंत्यागे सत्ययथाशास्त्रानुष्ठानतः प्रत्यवायेन चित्तदोषे हि सति कदाचिद्विद्यानुवर्तायिषा वा विच्छिद्येत। अन्तिमप्रत्ययवनिरोधिनिषिद्धानुष्ठानरुचेर्वोत्पद्यते। अतो दर्शनसमानाकारविद्योदयानन्तरमपि यावज्जीवं व्दयार्थकर्माण्यनुष्ठेयानीति। यद्यग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यार्था विद्योत्पत्तेः प्राचीनं च विद्योदयकाले स्थितं प्रारब्धफलव्यतिरिक्तं सर्वं सुकृतं विद्यया विनष्टं प्रारब्धफलं च सुकृतं भोगेन नाश्यं, तर्हि ” सुहृदस्साधुकृत्या ” मित्यस्य कोविषय इति चेत्। उच्यते — विद्योत्पत्त्यर्थायाः अग्निहोत्रादिसाधुकृत्यायाः विद्योत्पत्तेः प्राचीनायाश्च शाधिकृत्यायाः अन्या अपि विदुषा कृता देहधारणार्था वृष्ट्यन्नाद्यादिफलस्साधुकृत्यास्ततत्र या प्रबलकर्मान्तरप्रतिबन्धात् प्रागभुक्तफलाऽस्ति सा तस्या विषयः। विद्यारहितकर्मणां प्रबलकर्मान्तरप्रितबन्धसम्भवस्य ” यदेव विद्यया करोती ” ति श्रुत्याऽवगतत्वादिति। अत्रेदं विचार्यते। — ” इतरस्याप्येवमसमसश्लेषः पाते ” त्विति सूत्रे वृष्ट्यान्नाद्यादिफलायाः साधुकृत्यायाः भुक्तफलावशिष्टायाशरीरपातसमये विनाश उक्तः कथं तस्यास्सुहृतद्गामित्वनुच्यते। अथ विदुषि फलाजनकत्वेमेव तत्र तन्नाशो विवक्षितः, तर्हि विद्योदयकाले पुण्यान्तरनाशोऽपि तथैव वक्तुं शक्य इति विदूषास्सर्वस्या अपि साधुकृत्यायास्सुहृद्गामित्वे वक्तुं शक्ये किमिति ” सुहृदस्साधिकृत्या ” मित्यस्य वृष्ट्यन्नाद्यादिफलसाधइकृत्यामात्रविष्यत्वेन सङ्कोचः क्रियते। अपि च ” द्विषन्तः पापकृत्या “; मित्यस्य कं विषयं दृष्ट्वा “सुहृदस्साधु ” मित्यस्यैव विषयविशेषनिर्धारणं क्रियते। विद्योत्पत्त्यनन्तर भावनी पापकृत्या तस्य विषयः स्यादिति चेत् न। तस्यामप्यश्लेषवचनसत्त्वासाम्यात्। यदि तत्राश्लेषवचनं विदुषि फलाजनकत्वमात्रार्थकमित्यध्यवसायः, तर्हि विदुषि साधुकृत्याया अशअलेषवचनमपि तथैवेत्यध्यवसितुं शक्यत्वात् विशिष्टसाधुकृत्यायाः गत्युक्तिर्नापोक्षिता। गतिरपि प्रबलकर्मातपरप्रतिबद्धफलैव साधुकृत्येति न सङ्कोचनीयम्। तदप्रतिबद्धफलाया अपि साधुकृत्यायास्सम्भवात्। यस्य विद्याप्रतिबन्धकदुरितान्यल्पानि तद्भूयस्त्वशङ्काया तन्निवत्त्यर्थमनुष्ठितानि कर्माणि भूयांसि तत्र प्रारब्धप्रतिबन्धकविघ्नाधिकसंख्यानि मङ्गळानीच कारीरिवददत्तफलान्यवशिष्यन्ते उपासकस्य वीतरागत्वेऽपि भ्रमात्तदभ्युदयेच्छया पुत्रादिभिरनुष्ठइतानि तटाकरामप्रतिष्ठादीन्यपि हि सम्भाव्यन्ते। अपि च तदधिगमाधिकरणे विनाशाश्लेषशास्त्रयोरभुक्तकर्माक्षयशास्त्रेण विरोधसमाधानार्थे तयोस्तस्य च भिन्नविषयत्वसमर्थनावसरे विनाशशास्त्रं विदुषइ प्राचीनकर्मणां फलजननसामर्थ्यविनाशशकिं्त अश्लेषशास्त्रं विदुषि फलजननसामर्थ्योत्पत्तिप्रितबन्धशकिं्त च प्रतिपादयतीत्युक्तम्। तत्र स्वरूपविनाशः स्वरूपाश्लेषश्चोक्तः। तत एवावगतेऽर्थे पुनः साधुकृत्यायाः विषयप्रश्नस्य कोऽवकाशः। तस्मात्सर्वमिदमनुपपन्नमिति। अत्रेदं -प्राचीनसाधुकृत्याया अपि कश्चिन्मन्येत विनाष्टायास्तस्यास्सुहृत्संक्र- मणशास्त्रविषयत्वं नास्तीति तदाशयमनुरुध्य सुहृस्तंक्रमणवाक्ये विषयप्रश्नः तदाशयमनुरुध्यैव साधइकृत्यान्तराणां वनासेऽप्यन्ततो विद्वद्देहधारणार्थत्वेनानुवृत्ता वृष्ट्यादिफलासाधुकृत्यास्ततीति तद्विषयत्वोक्तिः। एवमेव सुकृतान्तरसद्भावेऽपि तद्विषयतानिक्तिः। एवं सति ” द्विषन्तः पापकृत्या ” मित्यस्यापि यद्यपि गतिप्रश्नतदुत्तराभ्यां भाव्यं तुल्यन्यायत्वात्, तथाऽपि तस्य विदुषा प्रमादेन कृतं प्रमादेनानवकाशेन वा यदकृतयोगनिषवणरूपप्रायश्चितं दुष्कृतं तद्विषयो भविष्यतीति न्यायसाम्येनोन्नेतुं शक्यत्वात्त्दनुक्तिः। तदधिगमाधिकरणोक्तसुहृद्विशत्संक्रमणशास्त्रविषयसद्भावेऽपि यथाश्रुतविनाशशास्त्रार्थश्रद्धासुतटस्थशङ्कानुरोधादेवं प्रश्नत्तरे इति सर्वमवदातम्।।
सङ्ग्रहकारिका।।
न श्लिष्यति चेत्सुकृं न कार्यमेवाग्निहोत्रादि।
विदुषामेवं विद्यावेशद्यार्थे तदहरहः कार्यम्।।
यत्तु विदुषा कृतं स्याद्धृष्ट्यारोग्यादिसिद्धये कर्म।
प्रबलप्रतिबद्धफलं तस्यैवसुहृद्गतेरुक्तिः।।
इति अग्निहोत्राद्यधिकरणम्।।
————————————–
भोगनत्वितरे क्षपयित्वा सम्पद्यते।।19।।
आरब्धकार्ययोः पुण्यपापयोः भोगनैव विनाशः, न तु विद्ययेत्युक्तम्। ते किं विद्यायोनिशरीरावसान एवेति नियमः, उत शरीरान्तरावसानेऽपीत्यनियम इति संशये विद्यायोनिशरीरावसान एव ” धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी ” ति ” तस्य तावदेव चिरं यावन्नविमोक्ष्य ” इति च शरीरमात्रावाधिश्रवणादिति पूरवपक्षः। प्रारब्धस्यैकदेहमात्रभोग्यत्वे तथा#ेव, अनेकदेहभाग्यत्वे तु तदवसाने पुण्यपापे इति तदनन्तरब्रह्मसम्पत्तिः। ” धूत्वा शरीर ” मित्येकवचनं न विवक्षितम्। ” विधूय पाप ” मिति तत्रैव दर्शनात्। ” तस्य तावदेवे ” ति श्रुतौ ” यावन्नविमोक्ष्य ” इति प्रारब्धकर्ममोक्ष एवोक्तः न तु विद्यायोनिशरीरमोक्षः। तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलञ्च पुण्यपापरूपं सर्वं कर्म विद्यामाहात्म्याद्विदुषिस्वस्वफलाजनकं भवति। विद्यारम्भोत्तरकालमनुष्ठितं च्च विद्यार्थकर्मव्यतिरिक्तं सर्वं तत्र फलजननासमर्थं भवति तदिदं विदुषऋ पुण्यपापं सर्वं कर्म विदुषः सुहृद्द्विषतोस्संक्रामति। प्रारब्धंत्वेकेनानेकेन वा देहेन भुक्तं क्षीयते। तदनन्तरं ब्रह्मसम्पत्तरिति सर्वं निरवद्यम्।।
सङ्ग्रहकारिका।।
यस्मिन्देहे विद्याजनि स्तदवसान एव मुक्तिस्स्यात्।
धूत्वा शरीरमिति यद्यावन्नविमोक्ष्य इति च यदधीतम्।।
तस्मिन्नन्यस्मिन्वा यस्मिन्निश्शेषतामेति।
प्रारब्धं फलभोगैस्तद्देहान्ते भवेन्मुक्तिः।।
धूत्वा शरीरमित्येकवचनं न विवक्षितम्।
प्रारब्धस्य विमोक्षश्च विमोक्ष्य इति कीर्तिताः।।
इति इतरक्षपणाधिकरणम्।।
—————————————–
इति श्रीमद्भारद्वाजकुलजलधिकौलस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरिवरसुनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयुखमालिकाख्ये द्वितीयपरिच्छेदे चतुर्थस्याध्यायस्य प्रथमः पादः।।