[highlight_content]

नयमयूखमालिका – Adhyaya 4 Pada 3

।।श्रीः।।

नयमयूखमालिका

।।चतुर्थाध्यायस्य तृतीय पादः।।

अर्चिरादिना तत्प्रथितेः।।1।।

ब्रह्मप्राप्तिफलो विदुषो मार्ग इह पादे चिन्त्यचे। छान्दोग्ये तावदुपक्रमोसलविद्यायां — ” अर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान्मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसा विद्युतं तत्पुरुषो मानवस्स एनान्ब्रह्यगमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपाद्यमना इमं मानवमावर्त नानर्तन्त ” इति श्रूयते। बृहदारण्यके पञ्चाग्निविदद्यायां — ” तेर्चिषमभइशम्भवन्त्यर्छिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासामुदङ्ङादित्य एति मासेभ्यो जेवलोकं देवलोकोकादीत्यमादित्याद्वेद्युतं वैद्युतात्पुरुषोऽमानच स्स एत्य ब्रह्मलोकान्गमयती ” ति। तत्रैव पुवरन्यथा मार्गः श्रूयते — ” यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुलोकमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य स्वं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहिते यथाळंतेन स ऊर्ध्वआक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुंदुभेः खंतेनसऊर्ध्वआक्रमते स लोकमागच्छत्येशोकमहिमं तस्मिन्वसति शाश्वतीस्ममा ” इति श्रूयते। कौषीतकिनामुपनिषदि — ” स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोक ” मिति मार्गः श्रूयते। तत्र पुनर्दहरविद्यायां — ” अथैतैरेव रश्मिभिरूर्ध्व आक्रमत ” इति श्रूयते। तत्र संशयः। किमर्चिरादिक एकएव मार्ग एताभिः श्रुतिभिः प्रतिपाद्यते उत तस्मादन्योऽपि मार्गः प्रतिपाद्यत इति मार्गानियम इति। अनिययम इति तावत्प्राप्तम्। मार्गपर्वभेदेन च भेदप्रतीतेः। नचोपसंहारेणाबेदोपपादनं युक्तम्। ” यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत ” इत्यवदारणविरोधात्। ” सयावत्क्षिप्येन्मनस्तावदादित्यं गच्छे ” दिति शैध्न्यवचनविरोधात्। भिन्नभिन्नविद्याम्नातानां मार्गपर्वणां ब्रह्मगुणानामिवोपसंहारानपेक्षणाच्चचि प्राप्ते उच्यते। अर्चिरादिनैकेनव मार्गेण विद्वान् गच्छति। तस्यैव सर्वत्र प्रत्यभीज्ञानात्। आवधारणस्यायोगव्यवच्छेदानुवादत्वात्। एकस्य वाक्यस्य रश्मिप्रापणे तदितरव्यवच्छेदे च तात्पर्यायोगात्। शैन्ध्यवचनस्य पितृयाणमार्गापेक्षयोपपत्तेः। ” स यावत्क्षिप्येन्मन ” इत्यस्य केवलमतिशयोक्तिरूपत्वात्। छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायां ” तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धातप उत्युपासत ” इति ” तद्यइत्थंविदुर्येचामी अरण्ये श्रद्धां सत्यमुपासत ” इति च पञ्चाग्निविदामिव विद्यान्तरनिष्ठानामप्यार्चिरादिकस्यैव मार्गस्योपदेशाच्च।।

सङ्ग्रहकारिका।।

भिन्ना मार्गा विदुषामाम्नातास्तत्र तत्र विद्यायाम्।

विद्यारूपगुणभेदात्तत्तत्पूर्वक्रमान्यत्वात्।।

सर्वोऽर्चिरादिको मार्गोऽयं प्रत्यभिज्ञानात्।

तत्सत्त्वेऽपि त सर्वाविद्या नैका गुणानन्यात्।।

इति अर्चिराद्यधिकरणम्।।

———————————–

वायुमब्दादविशेषविशेषाभ्याम्।।2।।

अर्चिरादिनैकेनैव मार्गेण सर्वे विद्वांसो गच्छन्तीत्युक्तम्।। तस्मिन्मार्गे छान्दोगा मासादित्ययोरन्तराळे देवलोकमधीयते। ” मासेभ्यस्संवत्सरं संवत्सरादादित्य ” मिति। वाजसनेयिनस्तु तयोरन्तराळे देवलोकमधईयते। ” मासेभ्यो देवलोकं देवलोकादादित्य ” मिति। मार्गैक्यात्तावुभावपि उभयत्रोपसंहार्यौ। तयोः पञ्चम्यभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि मासानन्तरं लसंवत्सरो निवेशनीयः। अहरापूर्यमाणपक्षमासानामुत्तरोत्तरमधिककालाना- मुत्तरोत्तरपर्वभावदर्शनेननोदगयनरूपषण्मासानन्तरं निवेशनौचित्यात्। अतस्संवत्लरादूर्ध्वं देवलोक इति निश्चीयते। अत्र च वाजसनेयिनो ” यदा वै परुषोऽस्माल्लोकत्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छती ” त्यादित्यात्पूर्वं वायुमधीयते। कौषितकिनस्तु ” स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक ” मित्यग्निलोकशब्दनिरिदिशष्टादर्चिषः परं वायुमधीयते। तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां ” तेनोर्ध्व आक्रमते स आदित्यमागच्छती ” त्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयसाऽऽदित्यात्पूर्वं निवेशः। एवं संवत्सरादूर्ध्वमादित्यात्पूर्वं वायुदेवलोकयोः प्राप्ताविदं चिन्त्यते। किं वायुदेवलोकौ भिन्नाविति तौ यथेष्टक्रमेण विद्वान् गच्छति। उताभिन्नाविति संवत्सरादुर्ध्वं वायुं सन्तं देवलोकं गच्छतीति। किं युक्तम्। भिन्नार्थत्वप्रसिद्धेरूर्ध्वशब्देन पञ्चम्याचोभयोरपि संवत्सरादित्यान्तराळे श्रुतिक्रमेण प्राप्तेव विशेषाभावाच्च यथेष्टं गच्छति। न च ” यो।डयं पवते एष देवानां ग्रह ” इति श्रवणान्न वायुदेवलोकौ भिन्नाविति वाच्यम्। ” संवत्सरः स्रव्गो लोक ” इत्यर्थवादान्तरश्रवणात् संवस्तर एव देवलोक इत्यपि कल्पनासम्भवेन मासादित्ययोर्मध्ये संवस्तरदेवलोकौ निवेशनीयौ उत देवलोकवायु इत्यत्र विनिगमाभावप्रसङ्गादिति। एवं प्राप्ते उच्यते। संवस्तरादूर्ध्व विद्वान्वायुं गच्छति। देवलोकशब्देन देवानां लोकि इत्यविशेषणोक्तस्य ” स वायुमागच्छती ” ति विशइषअय वायुरूपेण विधानात् ” वायुरेव हि देवानां लोकः योऽयं पवत ” इति श्रवणात्। न च ” संवत्सरः स्वर्गो लोक ” इतिवत्तदर्थमादमात्रं दिव्यानां विमानानां वायुपाशधृतत्वेन वायोः स्तम्भादिवत् देवगृहान्तर्भावोपपतत्त्या स्वारथपरत्वसम्भवात्।।

सङ्ग्रहकारिका।।

श्रुत्यैव संवत्सरदेवलोकयोर्मासेभ्य ऊर्ध्व झटिति प्रसक्तयोः।

संवत्सरो माससमन्वयाद्भवेदादौ तदूर्ध्व निविशेतचेतरः।।

तत्रैव मारुतोऽपि प्राप्नोत्यूर्ध्वपदरूपया श्रुत्या।

कौषीतकिनामर्चिस्समनन्तरपाठतो बलीयस्या।।

तयोर्न पूर्वोत्तरस्तानियामकं ततो यथेष्टं विनिवेशनं भवेत्।

तदेव वोकोह्यविसेषमीरितस्सवायुरेवात्र मितस्तथा श्रुतेः।।

श्रुतमपि देवगृहत्वं वायोरिव तत्पुर्वमब्दस्यापि।

स्तुतदरेव तद्यथार्थं विमाननिवहस्य वायुपाशधृतत्वात्।।

इति वाय्वधिकरणम्।।

——————————————————

तटितोऽधिवरुणस्सम्बन्धात्।।3।।

कौषीतकिनां ” स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छती ” त्यादिश्रवणे अग्निलोकशब्दस्यार्चिःपर्यायत्वेन प्राथम्यवविगीतम्। तत्र तदनन्तरष्ठितस्य वायोस्संवत्सरादूर्ध्व निवेश उक्तः। आदित्यास्यापि तत्र वरुणानन्तरपठितस्य पाठक्रममबाधेन देवनलोकदादित्यमिति वाजसनेकोक्तश्रुतिक्रमाद्देवलोकशब्दाभिहितात् वायोरुपरि निवेशस्सिद्धः। वरुणेन्द्रप्रजापतिषु चिन्ता– किं तेषां वायोरूर्ध्वं निवेशः उत विद्युत ऊर्ध्वमिति वायोरुर्ध्वमिति तावत्प्राप्तम्। अन्यत्र क्वाप्यवकाशाभावात्। अर्चिरादिविद्युत्पर्यन्तानां सर्वेषामपि श्रौतक्रमवत्त्वात्तदनन्तरममानवपुरुषस्यैव ब्रह्मप्रापयितृत्वश्रवणाच्च। ततश्च सर्वत्रावकाशाभावेन तेषां निवेशाप्राप्तौ तदुपदेशावैयर्थ्यायावश्यं क्व न श्रौतक्रमे बाधनीये ” स वायुलोकं स वरुणलोक ” मिति पाठक्रमेण वायोरनन्तरं वरुणो निवेशनीयः। क्रमिबाधात् क्रमबाधस्य न्याय्यत्वात्। एवं वाय्वादित्ययोश्क्षौतक्रमबाधे सति इन्द्रप्रजापती अपि वरुणानन्तरं निवेशनीयाविति। एवं प्राप्त उच्यते– वरुणस्तावद्विद्युत ऊर्ध्वं निवेशनीयः। सम्बन्धात् विद्युत उपरि सनीरनीरदर्शनेन नीराधिपतेर्वरूणस्य तत उपरिभावौचित्यात् तदनन्तरभिन्द्रप्रजाप्योर्निवेशः परिशेषात्, ” आगन्तुकानामन्ते निवेश ” इति न्यायाच्च। अमानवपुरुषस्य ब्रह्मप्रापकत्वं वरुणादिव्यवधानेन तत्साहित्येनवोपपद्यत इति न विरोधः।।

सङ्ग्रहकारिका।।

वरुणाद्या निविशेरन्मध्ये वायोश्च भानोश्च।

अन्यत्रापि निवेशे श्रौतः कश्चित्क्रमो बाध्यः।।

इत्युपरि निवेशे भवति स एनानिति श्रुतेर्बाधः।

उपदिष्टानां तेषां क्वचिन्निवेश्च वक्तव्यः।।

तस्माद्वायोरूर्ध्व वरुणस्स्यात्त पठितत्वात्।

तदनन्तरमितरावपि वाय्वादित्यक्रमस्य भग्नत्वात्।।

मैवं विद्युत उपरि श्रौतक्रमबाधितस्य वरुणस्य।

सम्बन्धाद्विनिवेशस्तदुपर्यवशिष्टयोर्यथापाठम्।।

वैद्युतपुरुषस्य न हि व्यवधिवहीनमश्रुतं गमयतितृत्वम्।

तेन स एनामिति श्रुतेर्विहाधस्य शङ्काऽस्ति।।

इति वरुणाधिकरणम्।।

———————————————————-

आतिवाहिकास्तल्लिङ्गात्।।4।।

वैद्युतेनैव ततस्तच्छØतेः।।5।।

अर्चिरादीनां क्रमो निरूप्तः। तेषां स्वरूपं चिन्त्यते। किमर्चिरादयो मार्गचिह्नभूताः, उत बोगभूमयः, अथवा विदुषामतिवोढार इति तत्र वननदीपर्वतादिमार्गचिह्नोपदेशकलौकिकवाक्यच्छायापन्नवाक्यबोध्यत्वत्। अथवा भोगभूमयः एत एव लोकः। ” यदहोरात्राण्यर्धमासा ऋतवस्संवत्सरा ” इत्यहरादीनां लोकत्ववचनात्, कौषीतकिशाखायामग्निलोकमागच्छतीति लोकशब्दश्रवणाच्च। नत्वतिवोढारः। अमानवपुरुषस्यैव विशिष्यातिवोढृत्वश्रवणाच्चेति। विद्युतनन्तरममानवपुरुषस्यातिवोढृत्वेन वरुणादीनामतिवोढृत्वासम्भावाच्चेति। एवं प्राप्ते उच्यते– विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः एतेऽर्चिरादयः। ” स एनान्ब्रह्म गमयती ” त्यमानवपुरुषस्य श्रूयमाणो यः प्राप्यप्रापकभावसम्न्धः स एव पूर्वेष्विर्चिरीदिष्वपि लसम्बन्धइत्यवगमात् सामान्यतो निर्दिष्टस्य सम्बन्धस्य विशे,पर्यवसानापेक्षत्वात्। नचाचेतनानामातिवाहिकत्वानुपपत्तिः, अर्चिरादीनां तदभिमानिदेवतापरत्वात्। यद्येते सर्वेऽप्यानितिवाहिकाः तदा कथं विद्युतनन्तरं श्रुतानामिन्द्रादीनामातिवाहिकत्वोपपत्तिः। तत्रामानवपुरुशस्यैवातिवाहिकत्वश्रवणदितिचेन्मैवम्। तत्र वरुणादीनामपि तदनुग्राहकत्वेनातिवाहिककोट्यन्तर्भावोपपत्तेः।।

सङ्ग्रहकारिका।।

मार्गचिह्नानि विदुषां पठिता येऽर्चिरादयः।

सर्वत्र लोकशब्दाद्वा भवेयुर्भोगभूमयः।।

वर्ण्यते ह्यतिवोढृत्वं वैद्युतस्योपसंहृतौ।

ततस्सएव सम्बन्धः पूर्वेषामपि सिध्यति।।

इति आतिवाहिकाधिकरणम।

———————————————–

कार्यं बादरिरस्य गत्युपपत्तेः।।6।।

विशेषितत्वाच्च।।7।।

सामीप्यात्तु तद्वयपदेशः।।8।।

कार्यात्यये तदध्यक्षणे सहातः परमभेधानात्।।9।।

स्मृतेश्च।।10।।

परं जैमिनिर्मुख्यत्नात्।।11।।

दर्शनाच्च।।12

कार्ये प्रत्यभिसन्धिः।।13।।

अप्रतीकालसम्बनान्नयतीति बादरायण उभयथा दोषात्तत्क्रतुश्च।।14।।

विशेषञ्च दर्शयति।।15।।

गमयतृनिरूपणानन्तरं गन्तृरूपणमिति सङ्गतिः। किमययर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उतः परंब्रह्मोपासरीनानथ परंब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मतयोपासीनांश्चेति संशये कार्यमुपासीनान्नयति। कार्यं हिरण्यगर्भमूपासीनस्यैव गत्युपपत्तेः। न हि परिपूर्णं परं ब्रह्मोपासीनस्य तत्प्राप्तये देशानन्तरगतिरुपपद्यते। नित्यप्राप्तत्वात्। परब्रह्मविषयाविद्यानिवृत्तिमात्रस्य परविद्याकार्यात्वात्। ” पुरुषो मानव एत्य ब्रह्मलोकान्गमयती ” ति, ” प्रजापतेस्सभां वेश्म प्रपद्य ” इति च बहुवचनान्तेन लोकशब्देन लोकविशेषेषु तत्रापि प्रजापतिशब्दवाच्यबबहिरण्यगर्भसभायां वर्तमानं हिरण्यगर्भमूपासीनानेव नयतीति विशेषितत्वाच्च। ” स एनान्ब्रह्म गमयती ” ति तस्मिन्नपुंसकवलिंगब्रह्मशब्दस्तु तस्य परब्रह्मप्रथमापत्येत्वेन तत्सन्निकृष्टत्वादुपपद्यते। अर्चरादिना हिरण्यगर्भं प्राप्तस्य ” तयोर्ध्वमायन्नमृतत्वमेती ” इमं मानवमावर्तं नावर्तन्त ” इतिचामृतत्वा पुनरावृत्त्युक्तिः कार्यब्रह्मवोकात्यये तदध्यक्षेण हिरण्यगर्भेणावसिताधिकारेण सह कार्यब्रह्मलोकात्परस्य परब्रह्मलोकस्य प्राप्तिविषयत्वेनोपपद्यते। ” वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयश्शुद्धसत्वाः। ते ब्रह्मलोके तु परान्तकाले परमृतात्परिमुच्यन्ति सर्वे ” इति श्रुत्या ” ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पद ” मिति स्मृत्याच्च च तथैव प्रतिपादनात्। अथवा परंब्रह्मोपासीनानेव नयति। ” स एनान्ब्रह्म मगयती ” ति ब्रह्मशब्दस्य तत्र मुख्यत्वात्, परब्रह्मणस्सर्वगतत्वेऽपि विदुषस्तल्लोकविशेषंप्राप्तस्यैव कर्मतद्वासनादिबन्धनिवृत्तिरिति पर्यङ्कविद्यादिशास्त्रैरवगमात्, ” अस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणानिष्पद्यत ” इत्यर्चिरादिनाल गतस्य परब्रह्मप्राप्तिश्रवणाच्च। न च ” प्रजापतेस्सभां वेश्म प्रपद्य ” इति विद्वदभिसन्धिप्रतिपादनात्कार्यब्रह्माप्तिश्शङ्कनीया। तत्रैव ” धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी ” ति मन्त्रे ” अकृतं ब्रह्मलोक ” मिति विशेषितत्वेन तदुनुरोधात् प्रजापतिशब्दस्य योगेन परमपुरुषपरत्वोपपत्तेः। एवं प्रप्ते उच्यते — कार्यमूसीनानेव नयतीतिवा परमीपासीनानेव नयतीति वा न नियमः। उभयथापि दोषात्। कार्यमूसीनान्नयतीति पक्षे “परं ज्योतिरुपसंपद्ये “त्यादिकाः श्रुतयः प्रकुप्येयुः। परमेवोपासीनान्नयतीति पक्षे “तद्य इत्थं विदु “रिति श्रुतिः प्रकुप्येत्। सा हि श्रुतिः ब्रह्मात्मकत्वेन जीवमूपासीनानामप्यर्चिरादिगतिं प्रतिक्तिभंग्या शरीररूपाचिद्वियुक्तजीवस्वरूपोपासनाविधानस्य ब्रह्माग्निविदां ब्रह्मप्राप्त्ययोगात्। नचैवमपि तदयोगस्तुल्यः, “आत्मेतितुमपगच्छन्ती “त्याधिकरणे ब्रह्मणो जीवं प्रत्यात्मत्वेनानुसन्दधानस्यैव ब्रह्मप्राप्तिसराधनत्वोक्तेरिति वाच्यम्। ब्रह्मात्मकत्वेन जीवानुसन्धानेऽपि ब्रह्मणो जीवं प्रत्यात्मत्वानुसन्धानाक्षतेः लक्ष्मणपूर्वज इत्यतो रामानुज इत्यस्येव विशेषणविशेष्यभावमात्रं हि तत्र भिद्यते। तस्मात् हिरण्यगर्भादिजीवमेव य उपासते केवलमचिद्वस्तु चिद्वस्तु ये वा ब्रह्मदृष्ट्योपासते न तान्प्रतीकालंबनान्नयति अर्चिरादिको गणः। अपि तु परंब्रह्म जीवविशेष्यत्वेन तद्विशेषणत्वेन वा य उपासते तानेव नयति । अत एव ” यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवती ” त्यादिका श्रुतिर्नामादिप्रतीकमुपासीनानां ब्रह्मप्राप्त्यर्थर्चिरादिगत्यनपेक्षं पिरमितफलविशेषं दर्शयतीति। अनया हि श्रुत्या देवमनुष्यादि नाम यावत्सञ्चरति तावत्पर्यन्तमेव नाम ब्रह्मेति प्रतीकालम्बनानां यथाकामं सञ्चार उच्यते। तेन यत्र ” तथा विद्वान्नामरूपाद्विमुक्त ” इति श्रुतिसिद्धो देवादिनामरूपविमोक्षः तत्र सञ्चारो नास्तीति ज्ञाप्यते। ” वेदान्तविज्ञानसुनिश्चितार्था ” इति मन्त्रस्तु हिरण्यगर्भोपासनयाऽर्चिरादिना हिरण्यगर्भं प्राप्तस्य तेन सह ब्रह्मप्राप्ति न प्रतिपादयति। किं तु हिरण्यगर्भोपासनया तल्लोकं प्राप्तस्य तत्रैव कृतब्रह्मोपासनस्य स्वदेहावसाने ब्रह्मप्राप्तिम्। तस्यह्ययमर्थः – श्रवणमननादिभिर्निश्चितवेदान्तार्थतत्वा जितेन्द्रियाः पुरुषधौरेयाः परब्रह्मण्येव लोके वर्तमानान्तन्निष्ठास्सन्तः परस्य चरमदेहस्यान्तकाले अवसाने परामृतात् परब्रह्मणस्सकाशात् तस्यैव प्रसादात् मुच्यन्त इति। तस्मादप्रतिकालम्बनानेव नयतीति सिद्धम्।।

सङ्ग्रहकारिका।।

ब्रह्माणमुपासीनान्गमयत्येषोऽर्चिरादिगणः।

तस्य परिच्छिन्नत्वाद्गत्वा प्राप्यत्वमुपपन्नम्।।

न ब्रह्मोपासीनान्व्यापित्वेनेह तत्प्राप्तेः।

गमनस्य व्यर्थत्वादित्येवं वादरिर्मेन।।

ब्रह्मैवोपासीनान्गमयति तत्र खलु तत्पदं मुख्यम्।

तल्लोकविशेषस्थं गत्वा प्राप्यमिति जैमिनिर्मेन।।

ब्रह्मतदुपासते ये ये च ब्रह्मात्मकं जीवम्।

तानुभयानपि गमयति दोषात्पक्षद्वयेऽपि पूर्वोक्ते।।

बादरिमतेऽर्चिरादिप्राप्यं ब्रह्म श्रुतं विरुध्ये।।

जैमिनिमतेर्चिरादिः पञ्चाग्निविदां श्रुतो न लभ्येत।।

ये वा हिरण्यगर्भं येवा मनआद्युपासते ब्रह्म धिया।

केवलमथवाविधइतस्तस्मात्सर्वान्ननयतिप्रतीकदृशस्ते।।

विशेषणं विशेष्यंवा कृत्वा ब्रह्मनिजात्मनः।

उपासीनान्गमयतीत्येवं सिद्धान्तपद्धतिः।।

इति कार्याधिकरणम्।।

।।इति श्रीमद्भारद्वाजकुलधइकौस्तुभ श्रूमदद्वैतविद्याचार्य श्रीविश्वजिद्याजिश्रीररङ्गराध्वरिवरसुनोरप्पयदीक्षितस्य कृतौ चतुरमतसारे नयनमुखमीलिकाख्ये द्वितदीयपरिच्छेदे चतुर्थस्याध्यायस्य तृतीयः पादः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.