[highlight_content]

नयमयूखमालिका – Adhyaya 4 Pada 4

।।श्रीः।।

नयमयूखमालिका

चतुर्धाध्यायस्य चतुर्थः पादः।।

विदुषां ब्रह्मप्राप्तिफला गतिरुक्ता। ब्रह्मप्राप्तानां तेषामैश्वर्यप्रकारः चिन्त्यते—-

संपद्याविर्भावः स्वेन सब्दात्।।1।।

मुक्तःप्रतिज्ञानात्।।2।।

आत्मा प्रकरणात्।।3।।

” परं ज्योतिरपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत ” इत्यत्र देवादिरूपवत्साध्यरुपेणाभिनिष्पत्तिर्विवक्षिता उत स्वाभाविकरूपेणाविर्भाव इति अभिनिष्पत्तिस्वेनशब्दाभ्यां रूपस्याभिनिष्पद्यत्वायोगात्। तस्य सुषुप्त्यादिषु पुरुषार्थत्वादर्शनात् स्वेन शब्दास्यार्थसिद्धस्वीयत्वानुवादकतोपपत्तेरिति पूर्वपक्षः। स्वतस्सिद्धस्याप्यनादिकर्मबन्धरूपादिकर्मबन्धरूपाविद्यातिरोहितस्य तन्निवृत्त्याभिव्याक्तिरूपेण साध्यत्वसम्भावत् अबहतिविद्यायामुपपादितत्वात्। ” यथा न क्रियते ज्योत्स्ना मलप्रक्षाळनान्मणेः। दोषप्रहाणान्नज्ञानमात्मनः क्रियेत तथा।। यथोदपादखननात्क्रियतेन जलाम्बरम्। सदेव नीयते व्यक्तिमसतस्सम्भवः कुतः।। तथा हेयगुणध्वंसादवबोधादयो गुणाः। प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ” इति शौनकस्मरणाच्च। ज्ञानानन्दादिरूपस्य कर्मबन्धक्षयेसति विकासरूपावनिर्भावो न स्वरूपत उत्पत्तिः। तथासति स्वेनविशेषणानर्क्यपत्त्या येन रूपेणाभिनिष्पद्यते तस् स्वीयताया अर्थसिद्धत्वेन स्वेन शब्दस्यासाध्यात्वपरताया वक्तव्यत्वाच्चेति सिद्धान्तः।।

सङ्ग्रहकारिका।।

आगन्तुकं किञ्चिदुपैति रूपं मुक्तोऽभिनिष्पत्तदिवचोऽनुरोधात्।

स्वरूपमात्रे पूरुषार्थतायास्सुषुप्तिदृष्टेमुपलम्भनाच्च।।

त्रिविदगतवन्मुक्तस्यागन्तुकत्ववितर्कणां

न हि विषहते रूपेस्वेनेति तस्य विशेषणम्।

अपि तदभिष्पत्तिर्युक्तैव बन्धविधूनना

द्विकसति हि तज्ञ्ज्ञानानन्दादि संकुचितं तदा।।

इति सम्पद्याविर्भावाधिकरणम्।।

—————————————–

अविभागेन दृष्टत्वात्।।4।।

किमयं ब्रह्मप्राप्तो विद्वान् स्वात्मानां ब्रह्मणः पृथग्भूतमनुभवति, उत तदविभक्तिमिति साम्यसाहितपरमसाम्यक्षुतिभ्यां तत्त्वमस्यादिक्षुतिभिश्च संशये ” सोऽश्नुते सर्वान्कामान्सह। ब्रह्मणा विपश्चिते “ति, ” निरञ्जनः साम्युपैती ” ति च मुक्तस्य ब्रह्मणा सह साहित्यपरमासाम्यश्रवणात् पृथग्भूतमेवानुभवति। नत्वविभक्तम्। अविभागस्यातिविरोधादिति पूर्वपक्षः।।

सिद्धान्तस्तु– अविभक्तमनुभवति। परब्रह्मप्राप्तया निवृत्त्वमस्यादिस्वात्मनो यथावस्थितस्य स्वेन दृष्टत्वात्। स्वात्मस्वरूपं हि तत्त्वमस्यादि श्रुतिभिः परमात्मनः तच्छरीरतया तत्प्रकारभूतमिति प्रतिपादितम्। तस्मादविबागेन ततप्रकारतयैवानुभवति। साहित्यश्रुतिस्तु कर्तृसाम्यं कर्मसाम्यं वा प्रतिपादयन्ती न प्रकारप्रकारिभावोऽपि न परमसाम्येन विरुध्यते। ब्रह्मानन्दानुभवादिगुणैः परमसाम्यस्यप्रकारप्रकारिभावेऽपि सत्त्वात्। न च सर्वैरपि गुणैस्सर्वात्मना साम्यं विवक्षितत्। तथा सति व्यावर्तकधर्माभावेनाभेदापत्तेः। एतेन मुक्तौ परमसाम्यश्रवणात् प्रकारप्रकारिभावश्रुतिर्बद्धावस्थाविषयेत्यपीतिपूर्वपक्ष्याशयो निरस्तः। सर्वात्मना साम्यासम्भवात्। तुलाधृतयोः स्वर्णशिलाशकल्योः परमसाम्योक्ताविवं विवक्षितांशे अत्यन्तसाम्यसत्त्वात्।।

सङ्ग्रहकारिका।।

अनुभवति स्वात्मानं मुक्तः परमात्मनः पृथग्भूतम्।

साहित्यसाम्यविषयश्रुत्यनुसारेण तत्क्रतुन्यायात्।।

एवं सति प्रकारप्रकारिभावादिवैधर्म्यम्।

बद्धावस्थामात्रेण तु मुक्तौ परमसाम्यसम्पत्तेः।।

मैवं तत्त्वमसीत्याद्यपरिमितश्रुतिमितार्थतत्वस्य।

दृष्टत्वात्स्वं ब्रह्माविभक्तमनुभवति तत्प्रकारतया।।

प्रकारभुतस्यापि स्योत्साहित्यं भोगक्रर्मणि।

अन्यथैव भवेत्साम्यं तेन तस्य विवक्षितम्।।

इति अविभागाधिकरणम्।।

———————————————–

ब्राह्मेण जामिनिरूपन्यालसादिभ्यः।।5।।

चितित्मात्रेण तदात्मकत्वादित्यौडुलोमिः।।6।।

एवमप्युपन्यासात्पूर्वश्रावादविरोधं बादरायणः।।7।।

ब्रह्मप्राप्तस्य स्वरूपाविर्भाव उक्तः। सकेनस्वरूपेणाविर्भाव इति श्रुतिद्वैध्याद्विचार्यते। तत्र विज्ञानमात्ररूपेणेति तावत्पप्राप्तम्। ” स यथा सैन्धवखिल्योनन्तरोबाह्यः कृत्स्नो रसघनएवं वा अरेऽयमात्मानन्तरोबाह्यः कृत्स्नः प्रात्रानधन एवे ” ति तस्य विज्ञानमात्रत्वश्रवणादपहतपात्मत्वादिश्रवणं मनश्शरीरदर्मपाप्मत्वाद्यनाश्रयत्वपरम्। सत्यकामत्वसत्यसङ्ल्पत्वश्रवणं संसारदशायां कदाचित्कस्य सत्यकात्वादिपरमिति। एवं प्राप्तउच्यते– ब्राह्मेण दहरविद्यायां ब्रह्मणि श्रुतेनापहतपाप्मादिगुणजातेनायमाविर्भावः प्रजापतिविद्यां जीवेऽपि तदुपन्यासान्मुक्तवेव जक्षणादिश्रुतेश्च। न प्रज्ञानघनएवेत्यवधारणविरोधः। न हन तेन विज्ञानातिरिक्तरूपनिषेधः क्रियते। किं तु बाह्याभ्यन्तरभेदं विना सर्वत्र स्वप्रकाशबोधरूपत्वमुच्यते। तत्र दृष्टान्तानुगुण्यात्। न हि दृष्टान्ते सैन्धवशकले सर्वत्र प्रदेशे लवणरसव्याप्तिं विना रूपस्पर्शादिव्यावर्तनेऽपि तात्पर्यमस्ति। त्वगादिप्रदेशभेदेन चूतफलादेरिव प्रदेशभेदेन नानारसत्वं नास्तीत्येतावदेव हि तत्र विवक्षितम्। अत्र श्रुतिद्वयानुरोधात् कर्मबन्धरूपादिविद्याक्षये सत्यपहतपाप्मत्वनादिगुणजातेन विकसितज्ञानस्वरूपेणचायमाविर्भाव इति युक्तम्।।

सङ्ग्रहकारिका।।

ब्राह्मेणविर्भावं गुणाषअटेनाह मुक्तस्य।

जैमिनिरथौडुलोमिस्तमाह विज्ञानमात्रतया।।

उभयविधश्रुतिदृष्टेरुभयातमतयेति सिद्धान्तः।

विज्ञानमात्रतात्विह कार्त्स्न्येन स्वप्रकाशत्वम्।।

सा मुक्तस्याम्नाता निवर्तिका नेतरगुणानाम्।

सैन्धवखिल्यस्य यथा रसघनताधवलतादीनाम्।।

इति बाह्याधिकरणम्।।

——————————————————

संकल्पादेव तच्छØतेः।।8।।

अतएवचाननन्याधिपतिः।।9।।

रसघन एवेत्यवधारणं न प्रमाणन्तरसिद्धस्य रूपादेरिव सङ्कल्पादेवेत्यवधारणं न लोकसिद्धस्य व्यापारान्तरस्य निवर्तकमिति शङ्कया सङगतिः। प्रजापतिविद्यायां ” जक्षत्क्रीजन्रममाणः स्त्रीभिर्वा यानैर्वे ” त्यादिना प्रतिपादिता ब्रह्मसम्पन्नस्य स्त्र्यादिप्राप्तिः किं सङ्कल्पमात्रसाध्या उत व्यापारान्तरसापेक्षेति संशये जीवसङ्कल्पानां सिद्धसङ्कल्पतया प्रसिद्धेषु सार्वभौमीदिष्वभिमतार्थनिष्पादने व्यापारान्तरापेक्षैव तस्य स्त्र्यादिप्राप्तिरिति। एवंप्राप्त उच्यते- सङ्कल्पमात्रसाध्या मुक्तस्य स्त्र्यादिप्राप्तिः। ” स यदि पितृलोककामो भवति सङ्कल्पादेवस्य पितरस्समुत्तिष्ठन्ति स यदि स्त्रीलोककामो भवति सङ्कल्पादे स्त्रियस्समुत्तिष्ठन्ती” त्यीदिसावधारणश्रुतेः, ” प्रज्ञानघनएवे ” ति वदिहावधारणविरोधिश्रुत्यन्तराभावच्च। न च मुक्तस्यापि जीवत्वाविशेषाद्राजादिवत् कदाचिन्मोघसङ्कल्पताप्रसङ्गः स्वरसाद्भवतीति। तस्याकर्मवश्यत्वरूपानन्याधिपतिश्रवणात्।।

सङ्ग्रहकारिका।।

कर्माधीनत्वाच्च कदाचितद्सङ्कल्पमोघतायाः।

मुक्तानां ज्ञात्यादिप्राप्तिर्यत्नान्तरापेक्षा।।

सङ्कल्पमात्रसाध्यं राज्ञामपि न क्वचिद्दृष्टम्।

सङकल्पादेवेति ह्यवधारणबाधइकाश्रुतिर्नास्ति।।

तस्मात्सर्वेश्वरवत्तेषां सङ्कल्पामात्रजा सृष्टिः।।

इति सङ्कल्पादिकरणम्।।

——————————————————

अश्रावंबादिराह ह्येवम्।।10।।

श्रावं जैमिनिर्विकल्पामननात्।।11।।

द्वदशाहवदुङयविधं बादरायणोऽतः।।12।।

तन्वभावे सन्ध्यवदुपपत्तेः।।13।।

भावे जाग्रद्वत्।.14।।

प्रदीपवदावेशस्तथा हि दर्शयति।।15।।

स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि।।16।।

किं मुक्तस्य देहेन्द्रियाणि सन्ति उत न सन्ति। अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये सति न सन्त्येन। “न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वावसन्तं न प्रियाप्रिये स्पृशत “इति ह्याह श्रुतिः। अत एव तस्य शरीरात्समुत्थानमनन्तरमेव वदति “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाये ” त्यादिना। न च मुक्तस् स्वशरीरसृषअटौ तदर्थपित्रादिसृष्टौवाऽपेक्शा स्यात्। तदा तस्य ब्रह्मानुभवादन्यपरत्वं ब्रह्मणो निरतिशयभोग्यत्वहानिश्च प्रसज्येत। ” स एकधा भवति त्रिधा भवती ” त्याद्या#्मनानंत्वर्थवादमात्रम्। अणोर्जीवस्य युगपदनेकदेहव्याप्त्ययोगादिति पूर्वपक्षः।

सिद्धान्तस्तु– मुक्तस्येच्छया शरीरिणि सन्ति न सन्ति च श्रुतिद्वयानुरोधात्। यथा ” द्वादशाहमृद्धिकमा उपेयुः, द्वदशाहेन प्रजाकामं यदये ” दिति श्रुतिद्वयदर्शनात् द्वदशाहश्चसत्राहीनोभयात्मकः। ननु विदेहावस्थायां कथं कामभोगः तदभावे कथं विदेहावस्थेच्छा। यदि मनोमात्रेण तदा भोगः तदा कदाऽपि देहापेक्षा न स्यादिति चेत् उच्यते। देहाभावे स्वप्नइवासूक्ष्मभोगः। तद्भावे जागररूपस्पष्टस्थूलभोगः। यदा मुक्तस्य शरीराद्युपकरणानि सन्ति तदा तानि तस्य सत्यसंकल्पत्वेऽपि तेनैव सृष्टानीति नास्ति नियमः। कदाचित् स्वप्न इव सर्वेश्वरसृषअटैः पितृलोकादिभिर्लीलारसं भुङ्क्ते कदाचिज्जागरइव स्वसृष्टैस्सर्वेश्रवसृष्टैश्च पित्राद्युपकरणैलीलारसं भुङ्क्ते। सर्वेशअवरो लीलर्थं दशरथवसुदेवादिपितृलोकादिकमात्मनस्सृष्ट्वा तैर्मनुष्यधर्मलीलादिकं यथा भुङ्क्ते, तथा मुक्तानामपि स्वलीलायै स्वपितृलोकादिकं स्वयमेव सृजन्तीति विशेषः। न चैतावता मुक्तस्य ब्रह्मानुभवादन्यपरत्वप्रसङ्गः। न हि ते स्वभोगलांपट्येन पित्राद्युपरकणादि सृजन्ति। किन्तु सविभूतिकब्रह्मानुभावार्थं ब्रह्मविभूतिविशेषतयैव सृजन्ति। नन्वेवं सतियदाकभूतिकब्रह्मानुभूतावुत्कर्षापकर्षो स्यातामितिचेत्। नैषदोषः। सर्वस्यापि मुक्तस्य स्वसृष्टपरसृष्टातीतिनागतसकल विभूतिविशिष्टब्रह्मानुभूत्यङ्गीकारात्। नचाणोर्जीवस्य युगपदनेकदेहाधिष्ठानासंभवः। संसारदशायं सर्वाङागीणसुखानुभवोपपादकैकैदेहव्याप्तियोग्यस्येव मुक्तिदशायमनेकदेहव्याप्तियोग्यस्य धर्मज्ञानविकासस्य सद्भावात्। “बालाग्रशतभागस्य शतधाकल्पितस्य च। भागो जीवस्सविज्ञेयस्यचानन्त्याय कल्पत” इति मुक्तौ धर्मज्ञानविकासेनापरिच्छेदरूपानन्त्श्रवणात्। ननु “प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेदनान्तर”मिति श्रुत्या मुक्तस्य ज्ञानाभाव उच्यते। कथं तस्य ज्ञानविकासस्सार्वज्ञ्यञ्चोपेयते। नैषदोषः। तस्याः श्रुतेस्सुषुप्तिमरणान्यतरावस्थाविषयस्वात्। तयोरेवहि ज्ञानाभावः प्रसिद्धः। “नाहखल्वयमेव संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवती”ति सुषुप्तौ एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ती”ति मरणे। मुक्तौतु सार्वज्ञ्यं स्पष्टमेवोच्यते– “सर्वं हपश्यः पश्यति सर्वमाप्नोति सर्वश” इति। तस्मानुमुक्ताः स्वेच्छया सदेहा विदेहाश्च भवन्तीति सिद्धम्।

सङ्ग्रहकारिका।।

अपवर्गं प्राप्तानां न सन्ति देहास्तथाश्रवणात्।

सङ्कल्पात्पित्रादेस्सृष्ट्युक्त्याऽपि च न तत्सिद्धिः।।

देहे पित्रादौ वा भवन्त्यपेक्षाजुषौ यदि ते।

तेषा ब्रह्मनुभवानदन्यपरत्वं प्रसज्यते।।

ब्रह्मणि च भोग्यताय निरतिशयत्वं प्रहीयेत।

सन्ति न सन्ति च देहाः स्वकीयसङ्कल्पभेदतस्तेषाम्।।

पित्राद्युपकरणैस्सह सृजन्ति तान्नस्वभोगरसतस्ते।

भगवल्लीलान्तर्गतिमालोच्य सृजन्ति किं तु यथा।।

यत्तस्य दशरथादिस्रष्टुर्लीलेद्दशी द्दष्टा।

अणवोऽपि जीवदीपाश्चैतन्यैस्स्वप्रभारूपैः।।

युगपत्सृष्टान्देहान्बहूनपि व्याप्नुवन्ति तदा।

चैतन्यानि हि मुक्तौ प्राक्सकुचितानि कर्मगणैः।

संकोचकप्रहाणाव्द्याप्तिं यान्तीति सिद्धान्तः।

इति अभावाधिकरणम्।।5।।

——————————————

जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च।।17।।

प्रत्यक्षोपदेशान्नितिचेन्नाधिकारिकमण्डलस्थोक्तेः।।18।।

विकारावर्ति तथा हि स्थितिमाह।।19।।

दर्शयतश्चैवं प्रत्यक्षानुमाने।।20।।

भोगमात्रसाम्यलिंगाच्च।।21।।

अनावत्तिश्शब्दादनावृत्तिश्शब्दात्।।22।।

तदिदं मुक्तस्यैश्वर्यं सर्वेश्वरस्येव जगव्द्यापारसहितं उत तद्वर्जमिति संशये परमसाम्यश्रुतेर्जगव्द्यापारसहि- तमिति प्राप्तम्। न च सृष्चिनियमनादि प्रकरणेषु सर्वेष्वरस्यैव प्रकृतत्वात् मुक्तानामसन्निहितत्वाच्च तस्यैव सृष्ट्यादिव्यापारो न मुक्तानामिति वाच्यम्। श्येनप्रकरणे श्येनवदिषोरसन्निहितत्वेऽपि “समानमितरच्छ्येनेने”ति साम्यवचनात्तदीयवैशेषिकाङ्गानामिषाविव मुक्तानामीश्वरसाम्यवचनात्तदीयसृष्ट्यादिव्यापाराणां तेषु सिध्युपपत्तेः। “इमॉल्लोकान्कामान्नी कामरूप्यनुञ्चर”न्निति मुक्तानां लोकसञ्चारश्रवणात् ताद्दशसञ्चारस्य तत्तल्लोकगतवस्तुनियमनादिलीलार्थत्वाच्च। न च तत्तल्लोकगतफलभोगार्थं तत्स्यादिति वाच्यम्। ब्रह्मानन्दमनुभवतोऽपि विषयान्तरलिप्सया सञ्चारभ्युपगमे तस्य निरतिशयत्वभङ्गापत्तेः। न च मुक्तानां जगत्सृष्ट्यादिसत्त्वे सर्वथा सर्वेश्वरसाम्यापत्ते- “न तत्समश्चाभ्यधिकश्च द्दश्यत” इति श्रुतिविरोधः स्यात्। अतः साम्यं केनचिदेव रूपान्तरेणेति कंकोचनीयमिति वाच्यम्। साम्यश्रुतिविरोधात्तन्निषिधश्रुतिरेव संसारिषु ब्रह्मसाम्यनिषेधविषयेति संकोचोपपत्तेः। अधिकारवाक्यावगतफलविरोधेन “को हि तद्वेद यद्यमुष्मिल्लोकेऽस्ति वा नवेती”यस्येव “परमं साम्यमुपैती”ति फववाक्यविरोधेन साम्यश्रुतेरन्यथा नयनौचित्याच्च। “कारणन्तु ध्येय” इति श्रुतेर्जगत्कारमत्वविशिष्टब्रह्मोपासनस्य तत्क्रतुन्यायेन सृष्ट्यादिवर्जमेव मुक्तैश्वर्यं। जगत्कारणत्वस्य ब्रह्मलक्षणत्वश्रुत्वा जगत्स्रष्टुरेकत्वश्रुत्या च विरोधात्। तस्माद्यथाप्रकरणं सर्वेश्वरसाधारणं निखिलजगव्द्यापारः नत्वसन्निहितमुक्तसाधारणं। सर्वलोकसञ्चारोऽपि न नियमनार्थः। किं तु तत्तल्लोकगतभोगप्राप्त्यर्थः। “कामान्नीकामरूपी”ति विशेषणात्। न च मुक्तस्य जन्मवृध्द्यादिविकारवत् क्षुद्रभोगलिप्सया लोकपरिभ्रमणे तद्भोग्यब्रह्मानन्दस्य निरतिशयत्वहानिः। न हि संसारिवत् मुक्तस्य तत्तल्लोकभोगानुभवो लौकिकसुखतयेष्यते। किं तु मविभूतिकब्रह्मानन्दानुप्रविष्टतया। तत्क्रतुन्यायस्त्वसाधारणोपास्यधर्मातिरिक्तविषयः। जगत्कारणत्वन्तु लक्ष्मीपतित्वादिवदसाधारणं “तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” “अपएव ससर्जादौ तासु वीर्यमपासृज”दित्यादित्यादिश्रुतिस्मृतिभ्यां तथैव प्रतिपादनात्। अतः परमसाम्यश्रवणं सविभूतिकब्रह्मानन्दानुभव- रूपभोगसाम्यमात्रविषयम्। “सोऽश्नुते सर्वान्कामान्सह ब्रह्मण विपश्चिते”ति तन्मात्रश्रवणलिङ्गात्। एवं ब्रह्मासाधारणं जगव्द्यापारं मुक्तास्सत्यसंकल्पा अपि कथमाशसेरन्। ते च तेषां सत्यसंकल्पत्वादिगुणाश्च मुक्तावपि भगवत्परतन्त्रा इति हि “तस्य च नित्यत्वा”दिति द्वितीयाध्यायसूत्रेण प्रतिपादितम्। मुक्तानां सत्यसंकल्पताऽपि भगवत्परिचरणोपयोगिस्वदेहपित्राद्युपकरणसृष्टिमात्रविषयेति सर्वेश्वरस्य भगवतः पुरुषोत्तमस्यैव जगत्सृष्ट्यादिव्यापारः।।

सङ्ग्रहकारिका।।

ऐश्वर्यं मुक्तिभाजामपिनिखिलजगव्द्यापृतिव्यापकं स्या-

दाम्राता ब्रह्मणा यत्परमसद्दशता सत्यसंकल्पता च।

कामान्नीकारूपी सकलभुनसञ्चारशाली स्वराडि-

त्यादिष्टे यत्ततोपि स्फुटमिह चगतान्तादधीन्यप्रतीतिः।।

मैवं ब्रह्मप्रकरणगतास्सृष्टिसंहारमुख्याः

सम्बध्यन्ते कथमपि न तैस्सन्निधानप्रसङ्गे।

तत्तल्लोकप्रथितविषयाभोगभोगैकभावं

नैवाचष्टे नियमपितृतां लोकसञ्चारसूक्तिः।।

हेयाअपि मुक्तानां विकारलोकस्थिता भृशं भोगाः।

ब्रह्मविभूतितया स्युर्भोग्यास्सविभूतिकं तदनुभवति।।

मुक्तानां या सत्यसंकल्पतोक्ता तत्संकल्पाधीनसत्तैव साऽपि।

तेचान्ये ये तद्गुणास्सर्व एतेऽप्यापद्यन्ते सर्वदा तादधीन्यम्।।

एवं मुक्तावप्यचिद्वस्तु तुल्यं जीवास्सर्वे शेषतैकस्वभावाः।

इति जगव्द्यापारवर्जाधिकरणम्।।6।।

————————————————–

इति श्रीमद्भारद्वजाकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि-श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे चतुर्थस्याध्यायस्य चतुर्थः पादः।।

——————————–

इति हयवदनपरब्रह्मणे नमः।।

————–

।।चतुर्थाध्यायश्च समाप्तः।।

—————————

नयमयूखमालिका समाप्ता ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.