।।श्रीः।।
नयमयूखमालिका
।।चतुर्थास्याध्यायस्य द्वितीयः पादः।।
इह पादे विदुषो मूर्धन्यानाड्योत्क्रान्तिरूपमर्चिरादिगत्या ब्रह्मप्राप्ति हेतुत्वेन विद्याफलभूतं चिन्तनीयम्। तत्र मूर्धन्यनाडीप्रवेशपर्यन्तोत्क्रान्तिर्विद्वविदुषोस्साधारणीति सा प्रथं विचार्यते। उपासनास्वर्चिरादिगतिचिन्तायां गत्युपक्रमत्वेन तस्या अपि चिन्तनीयत्वात्।
वाङ्मनसि दर्शनाच्छब्दाच्च।।1।।
अतएव सर्वाण्यनु।।2।।
छान्दोग्ये श्रूयते — ” अस्य सोम्येपुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनःप्राणे प्राणस्तेजसि तेजःपरस्यां देवताया ” मिति। अत्र किं वाचो मनसि सम्पत्तिरुत वागवृत्तिरिति संशय ” सता सोम्ये तदा सम्पन्नो भवती “सत्यत्र सम्पत्तिशब्दस्य लयार्थात्वावगमात् वाचः स्वाप्रकृतौ मनसि स्वरूपलयासम्भवात् अप्रकृतावपि वृत्तिलयस्य इति पूर्वपक्षः। वाग्व्यापारोपरमानन्तरमपि मनःप्रवृत्तिदर्शनात् ” वाङ्मनसि सम्पद्यत ” इति श्रुतेश्च वाचएव मनसि लयः। वाक्छशब्दस्य वृत्तिलक्षणायां कारणाभावात्। लयस्तु वाचऋः व्यापारोपरमपूर्वकमनस्संयोगरूप औपचारिको ग्राह्यः। वृत्तिपक्षेऽपि वाक्प्रकृतिकवृत्तिना मनसि मुख्यलयासम्भवात् वाचि सम्पद्यमानायामन्यान्यपि बाह्येन्द्रियाणि मनसि सम्पद्यते। ” इन्द्रियर्मनसि सम्पद्यमानै ” रिति श्रुत्यन्तरात्।।
सङ्ग्रहकारिका।।
वागिन्द्रियमप्रकृतौ न मनसि सम्पद्यते मुमुक्षूणाम्।
वाङ्मनसीति हि वाक्यं योज्यं वाग्वृत्तिविषयतया।।
वागेव सहान्येन्द्रियमस्मिन्सम्पद्यते दृश्शब्दात्।
सम्पात्तिरिह तु न लयः किं तु वायापाररिहतसंयोगः।।
इति वागधिकरणम्।।
—————————————-
तन्मनः प्राणउत्तरात्।।3।।
मनः प्राण इत्यत्र तु मुख्य एव लयः ” अन्नमयं हि सोम्य मनः आपोमयः प्राण ” इति श्रुत्या मनोऽन्नशब्दोक्तायाः पृथिव्या विकारः, प्राणस्त्वपां विकार इत्युक्तत्वेन मनसः स्वप्रकृतिभावापन्नस्य प्राणप्रकृतिभावपन्नास्वप्सु मुख्यलयसम्भवादिति पूर्वः पक्षः। मनोऽहङ्कारप्रकृतिकं, प्राणवायूराकाशप्रकृतिक इति तयोर्नास्ति कथमपि प्रकृतिविकृतिभावः। तस्मात् ” अन्नमयंही ” त्यादिश्रुतौ मनसोदनीयेन प्राणस्याद्भ्यश्चाप्यायनमात्रं विवक्षितमिति सकलबाह्येन्द्रियसंयुक्तं मनः स्वव्यापारोपरमपूर्वकं प्राणेन संसृज्यत इत्येव तदर्थो ग्राह्यः। मनोवृत्त्युपरमानन्तरमपि हि प्रणवृत्तिर्दृश्यत इति सिद्धान्तः।।
सङ्ग्रहकारिका।।
मनस्तु प्राणे स्याल्लयएव प्रकृतिविकृतितासत्तावत्।
अन्नमयं हि मनश्श्रुतमम्भोविकृतिस्तथा प्राणाः।।
मैवमहंकृतिगगनप्रकृतिकयोरन्नतोयाभ्याम्।
आप्यायनमेव तयोरातस्तत्रापि संयोगः।।
इति मनोऽधिकरणम्।।
——————————————-
सोऽध्यक्षे तदुपगमादिभ्यः।।4।।
प्राणः किं जीवे सम्पद्यते, उत तेजसीते विशये यथाश्रुति तेजस्येव सम्पद्यते. यथा वाङ्मनसि मनश्च प्राण इति पूर्वपक्षः। वाह्यान्द्रियमनस्संयुक्तः प्राणो जीवे सम्पद्यते। ” एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ती” ति तदुपगमश्रवणात् ” तमुत्क्रामन्तं प्राणोऽनुत्क्रामती ” ति सप्राणजीवोत्क्रमणश्रवणात्। ” कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठे प्रतिष्ठास्यामीति स प्राणमसृजते ” ति प्राणस्य जीवेन संयुज्य जीवेन सह तेजसि सम्प्ततिरस्तीति ” प्राणस्तेजसी ” त्यस्यापि न विरोधः।। यमुनाया गङ्गया संयुज्य सागरप्राप्तावपि हि यमुना सागरं प्राप्नोतीति व्यवहियते।।
सङ्ग्रहकारिका।।
प्राणस्तेजसि साक्षात्सम्पद्यत इति यथाश्रुतं युक्तम्।
मैवं तस्य तदानीं जीवोपगमादिकश्रवणात्।।
प्रथमं यदि जीवमितस्तेजसि सम्पद्यते स तत्सहितः।
एवमपि श्रुतिरुचिता यथैव सागरमुपैति यमुनेति।।
इति अध्यक्षाधिकरणम्।।
————————————-
भूतेषु तच्छ्रतेः।।5।।
नैकसमिन्दर्शयतो हि।।6।।
जीवस्युक्तस्य प्राणस्य तेजसि श्रुता सम्पत्तिः किं तेजोमात्रे, उत सर्वेषु भूतेष्विति संशये यथाश्रुति तेजोमात्र इति पूर्वपक्षः। सर्वेषु भूतेषु सम्पद्यते ” पृथिवीमय आपोमयस्तेजोमय ” इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुतेः। न च तेजः प्रभृतिषु क्रमिकसञ्चारेण तदुपपत्तिः। ” तासां त्रिवृतं त्रिवृतमेकैकामकरोत् ” “नानावीर्याः पृथक्भूतास्ततस्ते संहर्तिं विना। नाशक्नुवन्प्रजाः स्त्रःष्टुमसमागम्य कृत्स्नशः।। समेत्यान्योन्यसंयोगं परस्परसमायाः। महदाद्या विशेषान्तह्यण्डमुत्पादयन्ति त ” इति श्रुतिस्मृतिभ्यामेकैकस्य कार्याक्षमतद्वप्रदर्शनात्। अतस्तेजश्शब्दो भूतान्तरसंसृष्टं तेजोऽभिधत्त इति सर्वेषु भूतेषु सम्पत्तिरिति सिद्धान्तः।।
सङ्ग्रहकारिका।।
सा सम्पत्तिस्तेजोमात्रे प्राणस्य जीवसहितस्य।
अन्येष्वपि सा भूतेष्वपेक्ष्यते चेत्क्रमेण साऽप्यस्तु।।
मेवं भूतगणस्य प्रत्येकसमर्थताभावात्।
नैकस्मिन्सा युकता तस्मात्सर्वेषु भूतेषु।।
इति भूताधिकरणम्।।
———————————
समानासृत्युपक्रमादमृतत्वञ्चानुपोष्य।।7।।
तदापीतेस्संसारव्यपदेशात्।।8।।
सूक्ष्मं प्रमाणतश्च तयोपलब्धेः।।9।।
नोपमर्देनातः।।10।।
अस्यैवचोपपत्तेरूष्मा।।11।।
प्रतिषेधादिति चेन्न शारीरात्स्पश्टोह्येकेषाम्।।12।।
एवमुत्क्रान्तिप्रकारो निरूपितः। किमियमुत्क्रान्तिर्विद्वदविदुषोस्समाना, उताविदुष एवेति संशये सत्यविदुष एवेति प्राप्तम्। ” यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुत ” इति श्रुतेरिति। एवं प्राप्ते उच्यते — विदुषोऽपि ” तयोर्ध्वमायन्नमृतत्वमेती ” ति नाडीविशेषरूपप्रवेशरूपग्तयुपक्रमात्प्रागुत्क्रान्तिस्समाना। उत्क्रमणार्थनाडीप्रवेशदशायामेव विद्वदविदुषोर्विशेषः श्रूयते। ” शतञ्टैकाच हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विषअवङ्ङन्या उत्क्रमणे ङवन्ति ” इति। विषअवगिति नाडीविशेषनियमाभाव उच्यते। ” एष आत्मा निषअक्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेब्य ” इति हि श्रुत्यन्तरम्। एवं च अत्रैवामृतत्वोक्तिश्शरीरेन्द्रियसम्बन्धमदग्ध्वैव यदमृतत्वसत्तरपूर्वाघाश्लेषविनाशस्वरूपं तद्विषया ” ब्रह्मसमश्रुत ” इत्यक्तिरप्युपासनाकालभवब्रह्मानुभवरूपब्रह्मप्राप्तिविषया। अवश्यचैवमेवाभ्युपेयम्। अर्चिरादिमार्गेणब्रह्मप्राप्तिपर्यन्तं देहसम्बन्धलक्षणसंसारस्य व्यपदेशात् सूक्ष्मशरीरानुवृत्तश्चन्द्रसंवादरूपप्राणेनावगमाच्च। श्रूयते हि पथइ चन्द्रसंवादो ” येवैकेचासमाल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छती ” त्युपक्तम्य ” एतद्वैस्वर्गस्य लोकस्य द्वारं यस्छन्द्रमाः तं यः प्रत्याह तमतिसृजते अथ य एनं न प्रत्याह वा सिहो वा मत्स्यो वा परस्वान्मा पुरुषोवा अन्योवै तेषु स्थानेषु प्रयाजायते यथाकर्म यथाविद्यं तमागतं पृच्छति कोऽस्तीति तं प्रति ब्रूयादित्यादि। अतो ” यदा सर्वे प्रमुच्यन्त ” इति श्रुतिर्न शरीरन्द्रियरूपबन्धोपरमर्दविषया सूक्ष्मशरीरस्योत्क्रस्य जीवेन गतेश्चन्दरसंवादार्थे तदन्तरप्रतिपत्ताविति सूत्रोक्तन्यायेनावश्यवक्तव्य्तवात्। एवं विदुषोऽपि सूक्ष्मशरीरस्योत्क्रमणसत्त्वादेव तस्योत्क्रमणोन्मुखस्य ” सन्तापयति स्वं देहमापातदलमस्तक ” मिति श्रुतेस्सर्वदेहव्याप्याग्निशिखायाः क्वचिदेवोपसंह्रियमाणत्#ावत्तदूष्मा क्वचिदेवोपलभ्यते। ननु विदुष उत्क्रान्तिर्नसंभवति। यो कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रहम्#ैव सन् ब्रह्माप्येती ” ति तस्योत्क्रान्तिप्रतिषेधात्। न च ” न तस्मात्प्राणा उत्क्रामन्ती ” ति मान्धअयान्दिनपाठात् तस्येति काण्वपाठे सम्बन्धसामान्यविहिता षष्ठी ” नटस्य श्रृणोती ” ति वदपादानार्थेति मुच्यमानान्नविश्लिश्यन्त इति तदर्थ इति वाच्यम्। शाखाद्वयेऽपि तत्पदस्य शरीरपरामर्शितॉत्वात्। बृहदारण्यक एव ” यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः क्रामन्त्याहोने ” त्यार्तभागप्रश्नेनेतिहोवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्माथो मृतश्शेत इति प्राणोत्क्रान्त्यपादानस्याध्मानेन वायुपूरणेन दृतिवदुच्छ्वसनस्य शरीरधर्मस्य कीर्तनात् जीवात्प्राणामामुत्कान्तेरप्रसक्तत्वेन तत्प्रतिषेधानुपपत्तेश्च। अतो विदुषश्शरीरदुत्क्रान्त्यभावादर्चिरादिगतिश्चन्धरसंवादस्सरुकगृतदुष्कृतविधूननमित्येतत्सर्वं सत्यलोकप्राप्त्यर्थविद्याविशेषफलं न तु मुक्त्यर्थब्रह्मविद्याफलमिति नेतव्यम्। ब्रह्मविदो मरणकाले क्वाचित्कोष्मदर्शनं तु तेजश्शब्दोक्तस्य सूक्ष्मदेहस्य परदेवतासम्पत्तेः प्राचीनत्वेनोपपद्यत इति चेदुच्यते। आर्तभागप्रश्ने शरीरादुत्क्रान्तिर्न प्रतिषिध्यते किं तु शरीरादेव तत्रोत्क्रान्तिप्रतिषेधस्याविद्वाद्विषयत्वेन अविदुषः प्राणीनां शरीरादुत्क्रान्तेः प्रतिषेद्धुमशक्यात्वत्। अविद्वद्विषयत्वं कथमवसीयत इति चेत्,उतरस्दर्भात्। उत्तरसंदर्भे ” यत्रास्य पुरुषस्यमृतस्याग्निंवागप्येति वातं प्राणश्चक्षुरीदित्यं मनश्चन्द्रंदिशश्क्षत्रं पृथइवीं शरीरमाकशमात्मैषधीर्लोमानि वनस्पतीन् केशा अप्सुसोहितं च रेतश्च निधीयते क्वायं तदापुरुषो भवती” त्यार्तबागप्रश्ने याज्ञवल्क्येनार्तभागेन च रहलि सम्मन्त्रणेन पुण्यपापरूपं करम तदाश्रयत्वेन निश्चितमिति तदनन्तरसन्दर्भे श्रुत्यैवप्रतिपादनात्। चतत्र हि श्रूयते ” तौहोत्क्रम्य मन्त्रयांचक्राते तौहयदूच्यतिः अथ यत्प्रशशंसतुः पुण्योवैपुण्येन कर्मणा भवति पापः पापेनेति ” ति। न च ” अपपुनर्मृत्युंजयती ” ति पूर्ववाक्ये ससारसंतरणरूपं फलमुच्यते तेन प्रकृतिविद्वद्विषयमुत्क्रान्तिप्रकतिषेधस्यावसीयत इति वाच्यम्। ” अग्निर्वै मृत्युस्सोपामन्न ” मित्यपामग्न्यन्नत्वोपासनामुक्त्वा हि तस्य फलं ” अपपुनर्मृत्युञ्जीयती ” त्युपच्यते। तस्मादग्निजयएवात्र मृत्युजयो न संसारतरणं जीवात्प्राणानामुक्रान्तिपप्रसक्ता न प्रतिषेध्येति चेत् न। विद्वद्विषये ” तस्य तावदेव चिर “; मिति शरीरवियोगकालएव विश्लेष इति शङ्कारूपप्रसक्तिसत्त्वात्। एवं प्रसक्त्या विशिष्य विदुषो जावीत्प्राणानामुत्क्रान्तिप्रतिषेधेनाविदुषस्तर्हि जीवात्प्राणानामुत्क्रान्तिरस्तिमित्यविद्वद्विषयेऽपि शङ्कारूपप्रसक्तिसत्त्वाच्च। तस्मादस्ति विदुषोऽप्युत्क्रान्तिः। स्मर्यते च तस्य मूर्थन्ययाड्योत्करान्तिः ” ऊर्ध्वमेकस्स्थितस्तेषां भित्वा सूर्यमण्डसम्। ब्रह्मलोकमतिक्रम्यतेन याति परां गति ” मिति नाडीविसेषाणां मध्ये यस्सरूर्यमण्डसं भित्वोर्ध्वं स्थइतः तेन मूर्द्धसम्ब्धइनाडीविशेषाणानां मध्येऽपि सूर्यमण्डलपर्यन्तप्रसृतिनाडीविशेषण ब्रह्मलोकातीतिं परमं पदं प्राप्नोतीत्यर्थः। तस्य याज्ञवल्क्यवचनस्योदाहरणेन ” चक्षुषो वा मूर्ध्नोवे ” त्यविद्वद्विषये मूर्धग्रहणं मूर्धसम्बन्धिनाड्यन्तरविषयमित्यपि सूचितम्।।
संग्रहकारिका।।
उत्क्रान्तिर्नास्ति विदुषां तत्रैवामृतताश्रुतेः।
नतस्य प्राणा इति च तदुत्क्रान्तेर्निषेधनात्।।
मैवमस्त्येव तेषामप्येषा श्रुतिशु वञ्चिता।
आगत्युपक्रमात्तेषां समानाचेतरैरसा।।
कर्महाणरूपात्र तेषाममृतता श्रुता।
देहबन्धदग्ध्वैव ब्रह्माप्तिरब्रह्माचिंतनम्।।
न तु तदुभयं मुख्यं ब्रह्मर्चिरादिपथेन हि
स्थितिमदुपरि प्राप्तं तत्रैव बन्धविधूननम्।
तदवधिवपूस्सूक्ष्मं येनेन्दुसंवदनादिकं
विपुषि विदुषः क्वाचित्कोष्मा च यस्य विनिष्क्रमे।।
प्राणोत्क्रान्तिनिषेधनं न वपुषः कित्वात्मनः प्रस्तुतात्
ब्रह्माविद्विषयार्तबागविहितप्रश्नोत्तरे तद्यथा।
षष्ठीचात्र वजत्यपेक्षितमपादनत्वमेवात्मनः
किञ्चात्र स्फुटमामनन्ति वचने माध्यन्दिनाः पञ्चमीम्।।
प्राणोत्क्रातिनिषेधो विदुषोऽविदुषश्च वर्ण्यत जीवात्।
देहवियोग तेषामपि शङ्केरन्नतो वियोगमिति।।
इति आसृत्युपक्रमाधिकरण्।।
—————————————
तानि परे तथाह्याह।।13।।
सकरणग्रामस्सप्राणश्शरीरेन्द्रियाध्यक्षो जीव उत्क्रान्तौ भूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्। सैषा सम्पत्तिर्विदुषओ विद्यत इत्याशङ्क्य परिहृतं च। तानि जीवपरिष्वक्तानि, भूतसूक्ष्माणि किं यथाकर्म यथाविधं च जीवेन सह स्वकार्याय गच्छन्ती, उत परमात्मनि सम्पद्यन्त इति चिन्त्यते। ननु ” तेजः परस्यां देवतीया ” मिति चतुर्थवाक्यार्थचिन्तेयम्। सा प्राणस्तेजसीत्यन्तवाक्यत्रयार्थविषयाधिकरणत्रयानन्तरमेव कर्तुमुचिता। चतुर्थावक्यार्थस्याप्युत्क्रान्तिविषयस्य गत्युपक्रमात्प्राचीनत्वात्। एवं सप्रकारोत्क्रान्तिविचारानन्तरमेव सेयुमुत्क्रान्तिर्विदुषोऽपि समानेति ” समानाचासृत्युपक्रमा ” दित्यधिकरणेन निरूपणीयम्। सत्यम्। उक्तभंग्यां प्राक्स्ङ्गत्या तस्यास्याधिकरणस्यात्राप्यस्तीत्याक्षेपिकी सङ्गतिः। ब्रह्मविदामुत्क्रान्तिपूर्विका गतिरस्तीति पूर्वाधिकरणोक्तमयुक्तम्। ” तेज परस्यां देवताया ” मिति वागादिमनः प्राणसहितस्य सूक्ष्मदेहस्य सर्वप्रकृतिभूतपरब्रह्मणि स्वरूपेणैव लयप्रतिपादनात् देहेन्द्रियादिरहितस्य चन्द्रसंवादाद्यसम्भवेन तद्युक्ताया अर्चिरादिगतेरन्यविषयस्यावश्यव्यक्तत्वादिति। अत्रैवं पूर्वपक्षः। मध्ये परमात्मासम्पत्तौ सुखदुःखोपभोगरूपकार्यादर्शनात्तदुपभोगरूपकार्यानुगुण्येन यथाकर्म यथाविद्यं गच्छन्ति। तेजः परस्यामिति तु परमात्मनस्सर्ववस्तु साधारणं धारकत्वमनुद्यतइति।।
सिद्धान्तस्तु– प्रकृतानि भूतसूक्ष्माणि परमात्मनि सम्पद्यन्ते। तेजः परस्यां देवतायामितिह्याह श्रुतिः। श्रुतोपपत्तयं च फलं परमात्मनि सम्पत्त्या सुषुप्तिप्रळययोरिव विश्रमहेतुस्ततत्संर्गविशेषस्त्रैकसधिगम्यः। एवं ” तेजः परस्यान्देवताया ” मित्यस्यापूर्वार्थपरत्वसम्भवात् न सर्ववस्तुसाधारणधारकतानुवादकत्वं कल्पनीयमिति।।
सङ्ग्रहकारिका।।
जीवयुक्तानि भूतानि गच्छन्त्येव यथाफलम्।
सम्पद्यन्ते फलाभावान्नमध्ये परमात्मनि।।
तेजः परस्यामिति तु सर्वसाधारणीं विभोः।
आधारतामनुवदत्येषामन्यत्र गच्छताम्।।
मैवं तेजः परस्यामित्युक्तसाफल्यसिद्धये।
स्वीकार्या तत्र सम्पत्तिस्सुप्तिप्रलययोरिव।।
इति परसम्पत्त्यधिकरणम्।।
——————————————-
अविभागो वचनात्।।14।।
सेयं परमात्मनि सम्पत्तिः प्राकृतप्रलयवत् कारणापत्तिरूपाऽस्तु। परमात्मनः सर्वनप्रकृतित्वेन मनादिदेवैषम्यादिति प्राप्त उच्यते। पृथग्व्यवहारानर्हसंसर्गरूपविभागमात्रमेव। ” तेजः परस्या “मित्यत्रापि सम्पद्यत इत्यस्यानुषङ्गात्स्य प्राक्संर्गविश्षाचित्वाक्लृप्तेः। इहानुषक्तस्येहार्थभेदे प्रमाणाभावात्। प्राकृतप्रलयानन्तरं महासर्गादाविव पुनस्सृष्ट्यवचनाच्च।।
सङ्ग्रहकारिका।।
सेयं सम्पत्तिस्स्याल्लय एव प्रकृतिगामित्वात्।
पूर्ववदेव तदर्थकसम्पद्यनुषङ्गतो भवेदेषः।।
इति अविभागाधिकरणम्।।
—————————————-
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधइकया।।16।।
एवं विद्वदविदुषोस्समानउत्क्रान्तिप्रकार उक्तः। गत्युपक्रमे विदुषो मूर्धन्यनाड्योत्क्रनान्तिनियमरूपो विशेष उच्यते। अत्र मूर्धन्यया ब्रह्मनाड्यैव विदुषो गतिर्नान्येषां तथा गतिरिति नियन्तुं न शक्यते। नाडीनामुत्क्रमणक्लेशक्षुभितहृदयेन जीवेन विवेक्तुमशक्य्तवात्। न च विद्यानुष्ठानकाले स्वयमीदृक्प्रदेशस्थितयैतादृश्या नाड्या निष्क्रम्य ब्रह्म प्राप्नवानीत्यनुस्न्धानाभ्यासपाडवात् स्वनिष्क्रमनाडीपरिज्ञानं भवेत्, उत्क्रमणक्लेशस्य ब्रह्माणि विश्रमणेन शान्त्या विवेचनकौशलमपि भवेदिति वाच्यम्। तथाऽपिल घनसन्तमसावृतहृदयापवरकगतस्य निरन्तरानेकसूक्ष्मतमनाडीसहस्रेषु स्वनिष्क्रमणनाढ्या विवेक्तुमश्क्यात्वात् तस्मात् ” तयोर्ध्वमाय ” न्निति श्रुतिः कदाचिद्यादृच्छिकं विदुषो मूर्धन्यनाड्या निष्क्रमणं तस्याः स्तुत्यर्थमनुवदतीति पूर्वः पक्षः।
सिद्धान्तस्तु — शताधिकया मूर्धन्यनाड्यैव विद्वानूत्क्रामति नान्य इति नियमस्सम्भवत्येव। “तयोर्ध्वमायन्नि”ति श्रुतेः पाक्षिकानुवादत्वकल्पनाऽयोगात् । न च नाडीनां दुर्दर्शत्वम्। ” तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामण काले हृदयस्याग्रप्रकाशश्रवणाद्विदुषो विद्यासामर्थ्यस्य विद्यानुष्ठानकाले तचछेषगतिचिन्तनाभ्यासस्य विद्याराधइतपरमपुरुषप्रसादस्यचाधकस्य सत्त्वाच्च।।
सङ्ग्रहकारिका।।
नाड्यो दुर्दर्शाइति विदुषो न ब्रह्मनाडिकानियमः।
यादृच्छिकतद्गमनानुवादियत्तत्तयोर्ध्वमिति मैवम्।।
विद्याराधितभगवदनुग्रहविभावितद्वारः।
निष्क्रामति मूर्धगया नाड्येत्युपपद्यते नियमः।।
इति तदोकोऽधिकरणम्।।
——————————————–
रश्म्य्नुसारी।।17।।
विदोषो ह-यात् ब्रह्मनाड्या निर्गतस्यादित्यरश्मीननुसृत्य तन्मण्डलगतिः श्रूयते। ” यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत ” इति। अतो रश्मिभिरेवेत्यवधारणमुपपद्यते नवेति संशये नोपपद्यते। निशिमृतस्यादित्यरश्म्यनुरणासम्भावत् निशास्वनुभूयमानस्यष्मण आग्नेयत्वेनाप्युपपत्तेः। ज्योतिषप्रक्रियया चन्द्रमण्डल्परविष्टास्सूर्यरश्म्य एव चन्द्रकिरणा इत्यङ्गीकारेऽपि दर्शादिरीत्रिषु तेषामप्यभावात्। न च निशि मृतस्य विदुषो मूर्धन्यनाड्या निष्क्रान्तस्य यावदुदयं सूर्यरश्मिप्रतीक्षणेन ऊर्ध्वगतिर्वाच्या। रयावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदि ” ति शैध्न्यवचनविरोधात्। तस्माद्रश्मिवाक्यं पाक्षिकानुवादकमित्येव वाच्यमिति।।
सिद्धान्तस्तु — निश्यपि विद्वान्सूर्यरश्म्यनूसारी गच्छित। ग्रीष्मेदिवा सौरातपोष्मप्रकर्षेस्त्येव निशइ सिकतादीषूष्मदर्शनेन तस्य सूर्यरश्मिसम्बन्धित्वावगत्या रात्रावपि तत्सत्त्वावगमात्। एवं च रश्मिवाक्यमप्यर्थवद्भवतीति।।
सङ्ग्रहकारिका।।
रश्म्यनुसारि न गमनं नियतं रजनीषू तदभावात्।
श्रुतिरेतैरेवेति तु पाक्षइकमनुवदति तल्लाभम्।।
एवं सत्यवधारणमनर्थकत्वं प्रपद्यते।
तसक्मान्नियतं रजनिष्वपि ते सन्त्युष्मदर्शनाल्लिंगात्।।
इति रश्म्यनुसाराधिकरणम्।।
——————————————
निशिनेतिचेन्न सम्भन्धस्य यावद्देहभावित्वादर्शयतिच।।18
विदुषो निशिमृतस्य ब्रह्मप्राप्तिरस्ति नवेति चिन्त्यते। नास्त्येव। ” दिवा च शुक्लपक्षश्च उत्त्रायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हित ” मिति निशामरणस्य निन्दितत्वात्। निन्दितेन च परमपुरुषार्थप्राप्त्ययगादिति प्राप्त उच्यते। विदुषो निशि मृतस्यापि ब्रह्मप्राप्तिर्भवत्येव। न तु निशामरणनिन्दया गर्हितगतिप्राप्तिः। कर्मसम्बन्धस्य विद्यादेहावसानत्वेन बन्धहेत्वाभावात्। अनारब्धकार्याणां प्राचीनकर्मणां विद्यया विनाशादुत्तकर्मणामश्लेषात् प्रारब्धकार्यस्य कर्मणश्चरमदेहावधित्वात् निशामरणं दृश्यते, तेषां तदा प्रबलप्राचीनदुष्कृतकर्मणां फलोन्मुखता फलबलात्कल्पनीया।।
सङ्ग्रहकारिका।।
रात्रौ मृतिश्चेन्नास्त्येव ब्रह्माप्तिस्सा हि गर्हिता।
मैवं कर्माभिसम्भन्धे कथं देहावधूनना।।
इति निशाधिकरणम्।।
——————————————-
अतश्चायनेऽपि दक्षिणे।।19।।
योगिनः प्रतिस्मर्यते स्मार्तेचैते।।20।।
निशि मृतस्य विदुषो ब्रह्मप्राप्तिहेतुनैव दक्षिणायनमृतस्यापि तस्य सा सिद्धा। अतिदेशाधिकरणस्यास्येयमधिका शङ्का ” य एवंविद्वानुदमयने प्रमीयते देवानामेव महिमानं दत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं सलोकतामाप्नोती ” ति तैत्तिरीयाणामुपनिषदि श्रूयते। तेन विदुषोऽपि दक्षिणायनमृतस्य चन्द्रं प्राप्य पित्र्यभोगाननुभूय ” यावत्सम्पातनुषित्वे ” ति शास्त्रानुसारेण पुनरावृत्तिर्वविक्षिततेत्यवसीयते। तत्र पुरुषविद्यावसाने पूर्वानूवाकविहितब्रह्मविद्यावत एव हि उत्तरदक्षिणायनमरण्योः फलविशेष उक्तः। सत्यम्। तत्र ब्रह्मप्राप्तिरेव प्रितपिपादयिषिता ” ब्रह्मणो महिमानमाप्नोती ” ति वाक्यशेषात्। तस्मात् तत्रोत्तरायणमृतस्यादित्यलोके दिव्यभोगो दक्षिणायनमृत्सय पित्र्यभोगश्च मार्गे विश्रान्तिहेतुत्वेन विवक्षित इति योजनीयम्। अन्यथा विदुष उत्तरायणमृतस्यापि ब्रह्मप्राप्तिर्नास्तीति ततस्सिद्धिप्रसङ्गात्। ननु विदुषो मुमूर्षून्प्रति पुनकावृत्तिमावृत्तिमा- वृत्तिञ्चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ। अग्निर्ज्योतिरहश्शुक्लस्षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।। धूमो रात्रिस्तथा कृष्णष्णण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।। शुक्लकृष्णे गतीह्येते जगतश्शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते। पुनः ” इति। अतो दक्षिणायनमृतस्य न ब्रह्मप्राप्तः। अत एव भीष्मस्योत्तरायणप्रतीक्षणमुक्तं भारत इति चेत्। उच्यते। नात्र मुमूर्षुन्प्रति मरणकालविशेषः स्मर्यते। किं तु योगानिष्ठैः स्मर्तव्यदेवयानपितृयाणाख्ये गती स्मर्यते। तथाह्युपसंहार ” नैते सृती पार्थजानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योग्ययुक्तो भवार्जुने ” ति। ” अग्निर्ज्योतिः, धूमो रात्रिरि ” ति च श्लोकाभ्यां देवयानपितृयानगती प्रत्यभिज्ञायेते। भीष्मस्य तु योगप्रभावात् स्वपितृप्रसादप्रभावाच्च प्राप्तं स्वच्छन्दमरणं ख्यापयितुमुत्तरायणप्रतीक्षणम्। तस्माद्विदुषो दक्षिणायनमृतस्यापि ब्रह्मप्राप्तिस्तीति सिद्धम्।।
सङ्ग्रहकारिका।।
न तथाऽपि दक्षिणायनं मृतस्य सा तस्य चन्द्रसायुज्योक्तेः।
भीष्मस्य ब्रह्मविदोऽप्युदगयनागमनिरीक्षणस्याप्युक्तेः।।
मैवं तस्यापि स्यात्पूर्वोक्ताद्बन्धहेत्वभावादेव।
तस्यैन्दवसायुज्यं कालविशेषात्पथीन्द्रुतः पूजाप्तिः।।
अत एव वाक्यशेषे ब्रह्मप्राप्तिस्तत्र वर्ण्यते तस्य।
भीष्मस्य तत्प्रतीक्षा माहात्म्यख्यापनायैव।।
इति दक्षिणायमनाधिकणम्।।
———————————-
इति श्रीमद्भारद्वाजकुलजलधिकास्तौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरवरसुनोरप्यदीक्षितस्य कृतौ चतुर्मतसारे नयनमुखमालिकाख्ये द्वितीयपिरच्छेदे चतुर्थाध्यायस्य द्वितीय पादः।।