मध्वधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

मध्वधिकरणम् ॥८॥

 

मध्वादिष्वसम्भवादनधिकारम् जैमिनिः ॥१३० ॥

 

पूर्वाधिकरणे देवादीनाम् ब्रह्मविद्यायाम् सामान्येनाधिकारोऽस्तीत्युक्तम् । इदानीम् वस्वादिदेवताविशेषाणाम् मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपा-दिपञ्चामृताश्रयादित्योपासनरूपतया अस्याम् विद्यायामधिकारस्सम्भवति नेति विचार्यत इति प्रासङ्गिकी सङ्गतिः ।

 

विचारोपयोगीनि मधुवाक्यानि सङ्ग्रहेण लिख्यन्ते *असौ वा आदित्यो देवमधु*(छान्.३-१-१) असावादित्यो वस्वादीनाम् देवतानामामोदहेतुत्वान्मधु । अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः । मधुत्वोपयोगीनि सम्पादयति *तस्य द्यौरेव तिरश्चीनवम्शः*(छान्.३-१-१) तस्य मधुनो द्युलोक एव आधारभूत-तिर्यक्प्रसारितो वम्श इत्यर्थः । *अन्तरिक्षमपूपः*(छान्.३-१-१) मध्वाश्रयोऽपूपो हि तिरश्चीनवम्शलग्नस्सन् लम्बते, एवमन्तरिक्षमपि द्युलोकलग्नम् लम्बत इव भातीत्यतो मध्वपूपत्वम् । *मरीचयः पुत्राः*(छान्.३-१-१) मरीचिशब्देन मरीचिस्थास्सवित्राकृष्टा भौम्य आप उच्यन्ते । ताः पुत्रा इव पुत्राः भ्रमरबीजभूता मध्वपूपच्छिद्रस्थास्सूक्ष्मकीटा इत्यर्थः । *तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः*(छान्.३-१-२)तस्य आदित्यस्य ये प्राञ्चो रश्मयः ता एव प्राग्दिगवच्छिन्नानि मधुच्छिद्राणीत्यर्थः। *ऋच एव मधुकृतः*      (छान्.३-१-२) । ऋङ्मन्त्रा एव भ्रमराः । *ऋग्वेद एव पुष्पम्*(छान्.३-१-२) ऋग्वेदविहितम् कर्म पुष्पस्थानीयम् । *ता अमृता आपः*(छान्.३-१-२) । ताः -कर्मणि प्रयुक्तसो-माज्यपयोरूपा आपः अग्नौ प्रक्षिप्ताः पाकाभिर्निवृत्ता अत्यन्तरसवत्यो भवन्ति । *ता वा एता ऋच एतमृग्वेदमभ्यतपन्*(छान्.३-१- २,३) । ता वा एता ऋचः ऋङ्मन्त्राः भ्रमरस्थानीयाः पुष्पेभ्यो रसमाददाना भ्रमरा इव एतमृग्वेदम् ऋग्वेदविहितम् कर्म पुष्पस्थानीयम् अभ्यतपन् – अभितापम् कृतवत्य इव । *तस्याभितप्तस्य यशस्तेज इन्द्रियम् वीर्यमन्नाद्यम् रसोऽजायत*(छान्.३-१-३) ऋग्भिर्मन्त्रैः स्तोत्रशस्त्राद्यङ्गभावमुपगतैः क्रियमाणम् कर्म मधुनिर्वर्तकम् सोमाज्यादिरसम् मुञ्चति पुष्पमिव भ्रमरैराचूष्यमाणम् तेन यशस्तेजइन्द्रिय-पाटववीर्यादिलक्षणम् फलमुत्पन्नम् भवतीत्यर्थः । *तद्व्यक्षरत्*   (छान्.३-१-४) तत् – यश आदिलक्षणम् फलम् व्यक्षरत् – विशेषेण अगमत् । *तदादित्य-मभितोऽश्रयत्*(छान्.३-१-४) गत्वा चादित्यमभितः आश्रितवदित्यर्थः । *तद्वा एतद्यदेतदादित्यस्य रोहितम् रूपम्*(छान्.३-१-४) आदित्ये प्रत्यक्षतः

परिदृश्यमानम् यद्रोहितरूपम् तत् कर्मनिर्वर्त्ययशस्तेज आदिलक्षणफलरूप-मित्यर्थः । रोहितरूपम् तद्बुद्धिः कर्तव्येति यावत् । *अथ येऽस्य दक्षिणा रश्मय*(छान्.३-२-१) इत्यादिचतुर्भिः पर्यायैः दक्षिणप्रतीच्योदीच्योर्ध्वरश्मीनाम् मधुनाडीत्वम्, यजुस्सामाथर्वाङ्गिरसोपनिषन्मन्त्राणाम् मधुकृत्त्वम् यजुस्सामा-थर्वाङ्गिरसोपनिषत्प्रतिपाद्यकर्मणाम् पुष्पत्वम्, *ता अमृता आप*(छान्.३-२-१) इति कर्मणि प्रयुक्तानां सोमाज्यपयसाम् अत्यन्तरसवत्त्वम् तत्र ऋग्यजुरादि-मन्त्रैः स्तोत्रशस्त्राद्यङ्गभावमुपगतैरभितप्तेभ्यो यजुस्सामादिवेदविहितकर्मरूप-पुष्पेभ्यो भ्रमरैराचूष्यमाणत्वात्पुष्पादिव यशस्तेज इन्द्रियवीर्यान्नाद्यलक्षणरस- रूपाणि फलान्युत्पद्यन्ते । तानि यश आदिलक्षणफलानि *आदित्यमभितो-ऽनस्रयत् । तद्वा एतद्यदेतदादित्यस्य शुक्लम् रूपम् कृष्णम् रूपम् परः-कृष्णम् रूपम् मध्ये क्षोभत इवे*(छान्.३-२,३,४,५)ति वाक्यचतुष्टयेन आदित्ये प्रत्यक्षतः परिदृश्यमानानाम् रोहितशुक्लकृष्णातिशयितकृष्णमध्यक्षोभानाम्

तत्तत्कर्मनिर्वत्ययशस्तेज आदिलक्षणफलरूपत्वबुद्धिः कर्तव्येति प्रतिपाद्यत इति । *ते वा एते रसानाम् रसाः वेदा हि रसास्तेषामेते रसास्तानि वा एतान्य-मृतानाममृतानि वेदाह्यमृतास्तेषामेतान्यमृतानि*(छान्.३-५-४) । लोकसार- भूतऋग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वाद्रोहितादिरूपाणामतिरसत्वम् । तथा वेदेभ्योऽपि इष्टतत्साधनप्रतिपादकतया भोग्यभूततया अमृतेभ्यो रोहितादि-रूपाणाम् तत्प्रतिपाद्यकर्मनिष्पाद्यानाम् अतिभोग्यत्वादमृतादप्यमृतत्वमित्यर्थः ।

 

अयमत्र निर्गळितार्थः – प्रागाद्यूर्ध्वदेशान्तस्स्थितरश्मि-

नाडीतः तत्तद्वेदोक्तकर्मकुसुमेभ्यः तत्तद्वैदिकमन्त्रमधुकरैः आदित्यमण्डल-मानीतानि सोमाज्यपयः प्रभृतिद्रव्यनिष्पन्नानि यशस्तेज इन्द्रियवीर्यान्नाद्यात्म-कानि *रोहितम् शुक्लम् कृष्णम् परः कृष्णम् मध्ये क्षोभत इवेत्युक्तानि

रोहितादीनि पञ्चामृतानि आदित्यमध्वाश्रितानि । एषाम् पञ्चानाममृतानाम् वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वम् तदुपासीनानाम् वसुत्वादिप्राप्तिपूर्वक-ब्रह्मप्राप्तिञ्च प्रतिपादयति – *तद्यत्प्रथमम् तद्वसव उपजीवन्ति अग्निना मुखेन*

(छान्.३-६-१) । अग्निमुखा वसवो रोहितरूपलक्षणम् प्रथमममृतमुपजीवन्ति । उपजीवनम् न भक्षणम् नापि पानमित्याह – *न वै देवा अश्नन्ति न पिबन्ति*

(छान्.३-६-१) । पुनः कथमुपजीवनमित्यत्राह – *एतदेवामृतम् दृष्ट्वा तृप्यन्ति*

(छान्.३-६-१) । यशस्तेज आदिलक्षणम् रोहितरूपम् सर्वैः करणैः उपलभ्य तृप्यन्तीत्यर्थः । *त एतदेव रूपमभिसम्विशन्ति*(छान्.३-६-२) एतदेव रूपम् अभिलक्ष्य अनुभूयेति यावत् । सम्विशन्ति भोगानन्तरम् उदासीना भव-न्तीत्यर्थः । *एतस्माद्रूपादुद्यन्ति*(छान्.३-६-२) एतद्रूपानुभवमुद्दिश्य उद्यन्ति

– सोत्साहाभवन्तीत्यर्थः । *स य एतदेवममृतम् वेद*(छान्.३-६-३) एवम् – अनेन प्रकारेण वसुतृप्त्याधायकदर्शनगोचरत्वलक्षणवसूपजीव्यत्वादिना रोहितामृतम् यो वेदेत्यर्थः । *वसूनामेवैको भूत्वे*(छान्.३-६-३)ति । तत्क्रतुन्यायेन सः तदुपा-सीनोऽपि वसुत्वम् प्राप्य तथैव भवतीत्यर्थः । *अथ यद्द्वितीयममृतम् तद्रुद्रा

उपजीवन्ती*(छान्.३-७-१)त्यादिपर्यायाणाम् रुद्रादित्यमरुत्साध्यगण –भोग्यत्व-प्रतिपादकानाम् एवमेवार्थोऽवगन्तव्यः ।

 

ननु अस्या मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपादिपञ्चामृताश्रयादित्यो-पासनरूपतया अस्याम् विद्यायाम् वस्वादीनाम् नाधिकारस्सम्भवति । उपास्यो-पासकभावस्य एकस्मिन्नसम्भवात् । नह्येकस्यैव प्रीणनीयत्वम् प्रीमयितृत्वञ्च सम्भवति । *वसूनामेवैको भूत्वे*(छान्.३-६-३)त्यादिना वसुत्वादिप्राप्तेरेव मधुविद्याफलत्वेन वस्वादीनामेव सताम् वस्वादित्यप्राप्तिकामनाया असम्भवेन

अर्थित्वाद्यसम्भवात् ।

 

ज्योतिषि भावाच्च ॥१३१॥

 

*तम् देवा ज्योतिषाम् ज्योतिरायुर्होपासतेऽमृतमि*(छान्.बृह.४-४-१६)ति परब्रह्मव्यतिरिक्तस्य देवोपास्यत्वनिषेधेन ज्योतिश्शब्दिते ब्रह्मण्येव उपासन-सम्भवावगमाच्च इति प्राप्तेऽभिधीयते –

 

भावन्तु बादरायणोऽस्ति हि ॥१३२॥

 

अधिकारस्य सद्भावम् बादरायण आचार्यो मन्यते अस्ति हि तेषामप्यर्थि-त्वादिसम्भव इति । अस्यायमाशयः – नहीयम् विद्या वस्वादित्यादिमात्रपर्य-वसिता, अपि तु तच्छरीरकपरमात्मपर्यन्ता । वस्वादीनामेव सताम् स्वान्तर्यामि-परमात्मोपासनम् सम्भवत्येव । न च उपास्यप्रतिपादकवस्वादिशब्दानाम् ब्रह्मपर्यन्तत्वे प्रमाणाभाव: । उपसम्हारे *य एतामेव ब्रह्मोपनिषदम् वेदे*(छान्. ३-११-३)ति श्रवणात्, वस्वादीनामेव सताम् कल्पान्तरे वसुत्वादिप्राप्तिपूर्वक-ब्रह्मप्राप्तेरुद्देश्यत्वसम्भवाच्च । लोके पुत्रिणामेव सताम् जन्मान्तरेऽपि पुत्रित्वेप्साय दर्शनात् । ननु वस्वादिपञ्चगणोपजीव्यरोहितादिपञ्चरू- पात्मकपञ्चामृताश्रयादित्यमधूपासनत्वान् मधुविद्यायाः तस्याञ्च विद्यायाम् आदित्यस्यैवोपास्यतया आदित्यस्य तद्विद्याधिकारासम्भवेऽपि वस्वादीनाम् कथमनधिकारशङ्का । नह्यस्याम् विद्यायाम् वस्वादीनामुपास्यत्वम्, अपि तु तद्भोग्यादित्यस्यैव । न हि स्वोपासनवत् स्वोपजीव्यत्वेन अन्यस्योपासनम् विरुद्धम् तथा सति उपासनामात्रोच्छेदप्रसङ्गात् । सर्वेष्वप्युपासनेषु  उपास्य-गतस्वोपजीव्यत्वस्वसेव्यत्वस्वाधारत्वस्वान्तर्यामि त्वादीनामनुसन्धेयत्वात् । ततश्च वसूनामेव सताम्स्वोपजीव्यपञ्चामृताश्रयात्यविषयमधुविद्यानुष्ठानसम्भ-वात् कुतोऽनधिकारप्राप्तेः चेत् उच्यते – *वसूनामेवैको भूत्वे*(छान्.३-६-३) त्यादिना वसुत्वादिप्राप्तेः फलत्वकीर्तनेन मधुविद्यायाम् त त्क्रतुन्यायेन वस्वादीनामुपास्यत्वस्य अभ्युपगन्तव्यत्वात्। *अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेते*(छान्.३-११-१) त्यादिना आदित्यान्तरात्मतयाऽवस्थितम् कारणावस्थम् ब्रह्मोपास्यमुपदिश्यत इति कार्यावस्थोपासनदशायाम् आदित्यवत् वस्वादीनाम् च तुल्यत्वस्य भाषितत्वाच्च । मधुविद्याया आदित्योपासनत्वपञ्चामृतोपासनत्वरूपाकारत्रयत्वान्न पूर्वपक्षोत्थित्यनुपपत्ति-रिति द्रष्टव्यम् । ननु वस्ववस्थस्य ब्रह्मण उपास्यत्वसम्भवेऽपि *तद्वसव उपजीवन्ती*(छान्.३-६-१)ति निर्दिष्टोमुपजीवितृत्वलक्षणम् भोक्तृत्वम् न ब्रह्मणस्सम्भवतीति चेन्न । उपजीवितृत्वस्यापि सद्वारकतया तत्र सम्भवात् । नन्वेवम् *तद्वसव उपजीवन्ती* त्यत्र वसुशब्दस्य तदन्तर्यामिपरत्वे *वसूनामेवैको भूत्वे*   (छान्.३-६-३)त्यत्रापि वसुशब्दस्य ब्रह्मपरत्वम् स्यात् न च तद्युक्तम् । न हि उपासकस्य जीवस्य कल्पान्तरे वसत्वप्राप्तिलक्षण सम्सारदशायाम् वस्वाद्यवस्थब्रह्मभावोक्तिस्सङ्गच्छत इति चेन्न*वसूनामेवैको भूत्वे*(छान्. ३-६-३)त्यत्र यथाश्रुते बाधकाभावेन ब्रह्मपरत्वे बाधकसम्भवेन च यथाश्रुतार्थस्यैवोपपन्नत्वादित्यलमतिचर्चया ॥

 

इति मध्वधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.