अपशूद्राधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

अपशूद्राधिकरणम् ॥९॥

 

वस्वादीनामर्थित्वसामर्थ्ययोस्सम्भवात् ब्रह्मविद्यायामधिकारोऽस्तीत्युक्तम्, तर्हि शूद्राणामप्यधिकारस्स्यादिति शङ्कया सङ्गतिः ।

 

छान्दोग्ये सम्वर्गविद्यायाम् रैक्वो जानश्रुतिम् *आजहार इमाश्शूद्रे*(छान्.४-२-५)त्यामन्त्र्य ब्रह्मविद्यामुपदिदेशेति श्रवणात्, विदुरादीनाम् ब्रह्मनिष्ठानामपि दर्शनात्, अग्निविद्यासाध्ययज्ञादिषु अग्निविद्याशून्यानाम् शूद्राणाम् कर्मकाण्डा-पशूद्राधिकरणन्यायेन अधिकारासम्भवेऽपि ब्रह्मोपासने अधिकारस्सम्भवत्येव ।

न च शूद्रस्य ब्रह्मोपासनोपयुक्तज्ञानाभावशङ्कनीयः । इतिहासपुराणादिना तज्ज्ञानसम्भवात् । न चैवम् यज्ञादिष्वपि तथा प्रसङ्गः अग्नयभावात् । *तस्मा-च्छूद्रो यज्ञेऽनवकलृप्त*(तै.यजुःकां.७-१२-२३) इति यज्ञानुष्ठानस्य निषिद्धतया तस्य तदसम्भवेऽपि सम्वर्गविद्यागतशूद्रशब्दामन्त्रणलिङ्गानुग्रहात् ब्रह्मोपास-नाधिकारोऽङ्गीकर्तव्य एवेति पूर्वपक्षे प्राप्त उच्यते –

 

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ १३३॥

 

 

शोचितृत्वप्रवृत्तिनिमित्तकेन शूद्रशब्देन जानश्रुतेः *कम्वर एनमेतत्सन्तम् सयुग्वानमिव रैक्तमात्थे*(छान्.४-१-३)ति हम्सोक्तानादरगर्भवाक्य श्रवणात् तदाद्रवणहेतुभूतादुत्पन्ना शुक् सूच्यते, न चतुर्थवर्णत्वम् । यौगिकार्थस्य प्रकृतस्य मानान्तराविरुद्धस्य ग्रहणसम्भवे मानान्तरविरुद्धस्य रूढ्यर्थस्य अग्राह्यत्वात्, शूद्रस्य ब्रह्मोपासनौपयिकवैदुष्यलक्षणसामर्थ्यासम्भवाच्च न

ब्रह्मविद्यायामधिकारः । वैदिकविधीनाम् अध्ययनविधिलब्धवेदजन्यज्ञानवतः त्रैवर्णिकाधिकारिण आसाद्य निवृत्तानाम् शूद्राधिकारानाक्षेपकत्वादिति न्यायस्य यज्ञोपासनयोरविशेषात् *तस्माच्छूद्रो यज्ञेऽनवक्लृप्त*(तै.यजुःकां.७-१२-२३) इत्यस्य न्यायसिद्धैकदेशानुवादित्वेन तस्य विनिगमकत्वासम्भवात् ।

 

क्षत्रियत्वगतेश्च ॥१३४॥

 

पक्वान्नप्रदत्व क्षत्तृप्रेषणरैक्वकन्याप्रदानादिना जानश्रुतेः क्षत्रियत्वावगतेश्च । एतेषाम् क्षत्रियधर्मत्वस्यैव शास्त्रीयत्वात् ।

 

उत्तरत्र चैत्ररथेन लिङ्गात् ॥१३५॥

 

सम्वर्गाविद्यासम्बन्धिनोऽभिप्रतारिनाम्नः चित्ररथवम्शस्य क्षत्रियस्य तादृशेन ब्राह्मणेन शौनकेन कापेयेन साहचर्यदर्शनात् इहापि सम्वर्गाविद्यासम्बन्धी रैक्वेन ब्राह्मणेन सहचरितजानश्रुतिरपि क्षत्रिय एवेत्यवसीयते । ननु अभिप्रतारिणः क्षत्रियत्वम् कुतोऽवसीयत इति चेत्, चैत्ररथवम्श्यत्वात् । न च तदपि कुतोऽव-सितमिति वाच्यम् कापेययाज्यत्वलिङ्गात् । न च कापेययाज्यत्वे चित्ररथ-वम्श्यत्वम् कुत्त इति वाच्यम् *एतेन वै चित्ररथम् कापेया अयाजयन्नि*(ताण्डय. २-१२-५)ति छन्दोगब्राह्मणे चित्ररथस्य कापेययाज्यत्व श्रवणात् । ननु अभिप्र-तारिणः कापेययाज्यत्वम् कुतोऽवसीयते *शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिम् परिविष्यमाणौ ब्रह्मचारी बिभिक्ष*(छान्.४-३-५) इति एकपङ्क्त्यु-पवेशमात्रस्य श्रवणात् नानादेशादागतानाम् परस्परसम्बन्धशून्यानामपि एकपङ्क्युपवेशसम्भवात् । अस्तु वा कथञ्चिद्याज्ययाजकभावः तावता छन्दोगब्राह्मणे चित्ररथस्य कापेययाज्यत्वश्रवणेन चित्ररथत्वमेव सिद्ध्येत् । न तु तद्वम्श्यत्वमिति चेत्, उच्यते – कापेयाभिप्रतारिणोः क्लृप्तसम्बन्धयोरेक

पङ्क्त्युपवेशस्य युक्तत्वात्, कापेयानाम् चित्ररथवम्श्यानाम् च याज्ययाजक-भावसम्बन्धस्य अन्यत्र प्रसिद्धत्वात्, अभिप्रतार्यपि कापेययाज्यचित्ररथवम्श्य इत्येव अवसीयते । न च कापेययाज्यतया चित्ररथत्वमेवास्त्विति शङ्क्यम् । अभिप्रतारिसंज्ञावरुद्धे चित्ररथसंज्ञानिवेशासम्भवान्नायम् चित्ररथः अपि तु तद्वम्श्यः, समानान्वयानाम् याज्ययाजकभावस्य लोकवेदप्रसिद्धत्वात् । न च

कापेययाज्यस्य चित्ररथस्य क्षत्रियत्वे किम् प्रमाणमिति वाच्यम् । *एतेन वै चित्ररथम् कापेया अयाजन्स्तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायत*(ताण्डय.२-१२-५) इति चित्ररथोत्पन्नस्य क्षत्रियत्वावेदनात्, ततश्चोत्तरत्र ब्राह्मणक्षत्रिययो-श्शौनकाभिप्रतारिणोस्सम्वर्गविद्यासम्बन्ध श्रवणात्, इहापि तद्विद्यासम्बन्धिनोः रैक्वजानश्रुत्योः ब्राह्मणक्षत्रियत्वमवसीयते ॥

 

सम्स्कारपरामर्शात्तदभावाभिलापाच्च ॥ १३६

 

ब्रह्मविद्योपदेशप्रदेशेषु *उप त्वा नेष्ये न सत्यादगा इति तम् होपनिन्ये*     (छान्.४-४-५) *अधीहि भगव इति होपससाद सनत्कुमारम् नारदः*(छान्.७-१-१) *समित्पाणयो भगवन्तम् पिप्पलादमुपसन्ना*  इति सम्स्कारः परा- मृश्यते । शूद्रस्य सम्स्काराभावोऽभिलप्यते *शूद्रश्चतुर्थो वर्ण एकजातिः*(गौत. धर्म सू.१०-९) न शूद्रे पातकम् किञ्चिन्न च सम्स्कारमर्हती*(मनु.१०-१२-६)ति ॥

 

तदभावनिर्धारणे प्रवृत्तेः ॥ १३७

 

शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशाय प्रवृत्तिर्दृश्यते । *नैतदब्राह्मणो विवक्तुमर्हति समिधम् सोम्य आहर उपत्वानेष्ये न सत्यादगा*(छान्.४-४-५) इति ॥

 

श्रवणाध्ययनार्थप्रतिषेधात् ॥ १३८

 

*पद्यु ह वा एतच्छमशानम् यच्छूद्रः तस्माच्छूद्रसमीपे नाध्येतव्यमि*  ति शूद्रस्य वेदश्रवणप्रतिषेधेन तदध्ययनतदर्थानुष्ठान-योस्सुतराम् प्रतिषेधात् ।

 

स्मृतेश्च ॥ १३९

 

*अथ हास्य वेदमुपश्रृण्वतस्त्रपुजतुभ्याम् श्रोत्रप्रपूरणमुदाहरणे जिह्वाच्छेदः धारणे शरीरभेद*(गौत.धर्म सू.२-१२-३) इति स्मृत्या च श्रवणादिकम् शूद्रस्य प्रतिषिद्धम् अतो न ब्रह्मविद्यायाम् शूद्रस्याधिकारः । विदुरादयस्तु भवान्त- राधिगतज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चेदृशजन्मेति तेषाम् ब्रह्मनिष्ठत्वम् । ननु शूद्राणाम् ब्रह्मोपासनानधिकारे श्रीपाञ्चरात्राद्यागमोक्त-तान्त्रिकमन्त्रानुसन्धानपूर्वकब्रह्मोपासने अधिकारो न स्यात् । नारदस्य शूद्र-जन्मनि महर्षिवचनादनुष्ठितमच्युतोपासनमप्यप्रामाणिकम् स्यादितिचेत् – न

हि ब्रह्मोपासने शूद्रस्य अनधिकारम् ब्रूमः अपितु सम्वर्गविद्यादिषु वैदिकेषू-पासनेषु । अतो नात्र तद्दोषशङ्कावकाशः ।

 

ननु *सम्बन्धादेवमन्यत्रापी*(ब्र.सू.३-३-२०)त्यधिकरणे व्याहृतिविद्याया अध्यात्माधिदेवस्थानभेदेन भेदस्य प्रतिपादितत्वात् सम्वर्गविद्याया अपि अध्यात्मादिस्थानभेदेन भेदः स्यात् । न चेष्टापत्तिः, *अनु म एताम् भगवो देवताम् शाधि याम् देवतामुपास्स*(छान्.४-२-२)इति ब्रह्मविद्यामात्रार्थिने जान श्रुतये विद्याद्वयोपदेशस्य अयुक्तत्वादिति चेन्मैवम्, व्याहृतिविद्यायाम् *य एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन्नि*(बृह.५-५-२)त्यत्रेव वायौ प्राणे इत्येवम् वायुप्राणयोस्स्थानत्वेन निर्देशाभावात् स्थानभेदप्रयुक्त-विद्याभेदाप्रसक्ते: *याम् देवतामुपास्स*(छान्.४-२-२) इति रैक्कोपास्यदेवतो-पासनप्रकारे पृष्टे रैक्वोपास्यसम्वर्गस्य देवतात्मलक्षणस्थानभेदेन उपासना- द्वयसम्भवमभिप्रेत्य उपासनद्वयोपेदेशे दोषाभावाच्च । न च *विकल्पोऽविशिष्ट-

फलत्वादि*(ब्र.सू.३-३-४७)ति न्यायेन रैक्वस्य विद्याद्वयानुष्ठानाभावात् स्वानुष्ठी-यमानविद्यामात्रोपदेश एव युक्तः नाधिक इति वाच्यम् अप्रयोजकत्वात् । परोपदेशे स्वावगतेरेव प्रयोजकत्वेन स्वानुष्ठानस्य अप्रयोजकत्वमिति स्थितम् ।

 

ननु सम्वर्गविद्यायाः कथम् ब्रह्मविद्यात्वम्? किम् तु वायुप्राणोपासन-रूपत्वम् *वायुर्वाव सम्वर्गः, वायुर्ह्ये वैतान् सर्वान् सम्वृदङ्क्ते*(छान्.४-३-२), प्राणो वाव सम्वर्गः, प्राणो ह्येवैतान् सर्वान् सम्वृङ्क्ते*(छान्.४-३-३), तौ वा एतौ द्वौ सम्वर्गो*(छान्.४-३-४) सम्वर्जनम् सङ्ग्रहणम् एकीकृत्य ग्रहण-मित्यर्थः । सम्वर्जनगुणयोगाद्वायुरेव सम्वर्गः । सम्वर्गत्वगुणको वायुरुपास्य इति यावत् एवम् प्राणवाक्यस्याप्यर्थः । एवञ्च शूद्रस्य ब्रह्मविद्यायामनधिकारात् एतद्विद्याप्रश्नवाक्यगतशूद्रपदस्य रूढिम् परित्यज्य अवयवार्थाश्रयणमनुप-पन्नमिति चेत् । उपक्रमे *कृताय विजितायाधरेऽयास्सम्यन्ति एवमेनम् सर्वम् तदभिसमेती*(छान्.४-१-५)त्यादिवाक्ये सम्वर्गविद्यानिष्ठरैक्वप्रभावे सर्वेषामन्तर्भाववर्णनेन सम्वर्गविद्याया ब्रह्मविद्यात्वावश्यम्भावात् । ननु

*अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिम् परिविष्यमाणौ ब्रह्मचारी बिभिक्षे*(छान्.४-३-५) । कपिगोत्रम् शुनकपुत्रम् च कक्षसेन- सुतमभिप्रतारिनामानञ्च तौ द्वौ पाचकैः भोजनायोपविष्टौ सम्वर्गनिष्ठो ब्रह्मचारी दुरभिमानी भिक्षितवान् । *तस्मा उ ह न ददतुः*(छान्.४-३-५) । ब्रह्मचारी

यद्वक्ष्यति तच्छ्रोष्याव इति बुद्ध्या भिक्षाम् न दत्तवन्तौ । *स होवाच महात्मन-श्चतुरो देव एकः कस्स जगार भुवनस्य गोपाः । तम् कापेय नाभिपश्यन्ति मर्त्याः*(छान्.४-३-६) महात्मनः अधिदेवताध्यात्मभेदेन

अग्न्यादित्यचन्द्रजलरूपान् वाक्चक्षुः श्रोत्रमनोरूपाम्श्च अत एव चतुरः – चतुस्सङ्ख्याकान् देवान् सर्वलोकस्य गोप्ता स एक एव वायुप्राणरूपी कः प्रजापतिः जगार – सम्हृतवान् मर्त्याः – मरण धर्माणः अविद्यामोहितास्सन्तः तन्न जानन्तीत्यर्थः । *यस्मै वा एतदन्नम् तस्मा एतन्न दत्तमिति*(छान्.४-३-६) जगत्सर्वम् यस्य सम्वर्गस्य प्रजापतेरन्नम् तस्मै भिक्षमाणाय मह्यम् न दत्तमिति तम् निन्दितवानित्यर्थः । एवमनयाप्याख्यायिकया कशब्दितप्रजापतिवायुरूपत्वम् सम्वर्गस्यावगतमिति चेन्न । तस्यामेव

आख्यायिकायाम् इतराविनाश्यत्वे सति सर्वसम्प्रतिपन्नमहामहिमशालित्व-सर्वदेवनियन्तृत्वब्रह्मादि सकलप्रजोत्पादकत्वहिरण्यदम्ष्ट्रत्वाद्युपलक्षित-नरसिम्हविग्रहवत्त्वादिप्रतिपादनात्, *इति वै वयम् ब्रह्मचारिन्नेदमुपास्मह*

(छान्.४-३-७) इति कशब्दितप्रजापत्यात्मकसम्वर्गप्रत्याख्यानाच्च परमात्म-रूपत्वम् सम्वर्गस्य सिद्धम् । उक्तार्थप्रतिपादकवाक्यानि लिख्यन्ते *तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय*(छान्.४-३-७) तत् – ब्रह्मचारिणा उक्तम् प्रतिमन्वानः – मनसा आलोचयन् प्रत्येयाय – प्रत्यागत्योवाच । *आत्मा

देवानाम् जनिता प्रजानाम् हिरण्यदग्ग्म्ष्ट्रो बभसोऽनसूरिः । महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयम् ब्रह्मचारिन्नेदमुपास्महे दत्ताऽस्मै भिक्षामि*(छान्.४-३-७)ति । देवानामात्मा – नियन्ता प्रजानामुत्पादकः हिरण्यदम्ष्ट्रः- कमनीयदम्ष्ट्रायुक्तः हिरण्यविदारकदम्ष्ट्रा युक्त इति वा, बभसः – भक्षणशीलः असुरसम्हारक इतियावत् असूरिर्न भवतीत्यनसूरिः विपश्चिदिति यावत् अस्य श्रीनृसिम्हस्य परमात्मनः महिमानम् महान्तमाहुः यत् स्वयमन्यैरनाश्यमानः अनन्नम् वागादिकम् अत्तिनाशयति । एवम्भूतः परमात्मैव सम्वर्गः न त्वदुक्तः प्रजापतिरित्यर्थः । अतो वयम् न त्वदुक्तप्रजापतिरूपम् सम्वर्गमुपास्महे अपि तु परमात्मानमेव । अतस्त्वम् सम्वर्गम् न यथावज्जानासीत्युक्त्वा अस्मै भिक्षाम् प्रयच्छतेति परिचारकानाहतुरित्यर्थः । अनेन सम्वर्गविद्याया वायुप्राणशरीरकपरमात्मपरत्वमाविष्कृतमित्यर्थः ।

 

इति अपशूद्राधिकरणम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.