अर्थान्तरत्वादिव्यपदेशाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

(पे.) अर्थान्तरत्वादिव्यपदेशाधिकरणम् १०

 

पूर्व दहराकाशस्य परब्रह्मत्वसमर्थनाय अल्पश्रुतिपरिहारे कृते तत्प्रसङ्गात् अङ्गुष्ठमात्रस्य परमात्मत्वम् साधितम् तत्प्रसङ्गादागतम् तु अधिकरणत्रयम् । अथ पूर्वप्रकृतदहरविद्याया बुद्धिस्थत्वेन तदनन्तरश्रुतस्य आकाशवाक्यस्य परमात्मपरत्वम् निरूप्यत इति सङ्गतिः ।

 

छान्दोग्ये – *आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतम् स आत्मे*(छान्.८-१४-१)त्यादि श्रूयते । अत्र *नामरूपयोर्निर्वहिते*    (छान्.८-१४-१)ति नामरूपानिर्वोदृत्व श्रवणात् नामरूपानिर्वोदृत्वस्य जीव एव स्वरसत्वात् *एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इति वाक्यप्रतिपाद्यस्य *नामरूपयोर्निर्वहिता ते यदन्तरे*(छान्.८-१४-१)ति वाक्ये प्रत्यभिज्ञानात्, पूर्व निरूढनामरूप एव पश्चाद्विमुक्त इह प्रतिपाद्यते आकाश-शब्दस्यापि यौगिक्या वृत्त्या मुक्तात्मनि सम्भवादित्येवम् पूर्वपक्षे प्राप्त उच्यते –

 

आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥१४२॥

 

आकाशः परम्ब्रह्म, अर्थान्तरत्वादिव्यपदेशात् । *नामरूपयोर्निर्वहिते* (छान्.८-१४-१)ति जीवापेक्षया अर्थान्तरत्वस्य भेदकधर्मस्य व्यपदेशात् । न हि नितराम् वोदृत्वम् निर्वोदृत्वम्, रूढ्या निर्वोदृशब्दस्य

कर्तृत्वाभिधायित्वात्, *ते यदन्तरे*(छान्.८-१२-२)ति नामरूपास्पृष्टत्वकथनाच्च, नामरूपास्पृष्टत्वे सति नामरूपकर्तृत्वस्य बद्धे मुक्ते वाऽसम्भवात् मुक्तस्यापि *जगद्व्यापारवर्जमि*(ब्र.सू.४-४-२७)ति जगद्व्यापारराहित्यस्य प्रतिपादितत्वात् । आदिशब्देन अमृतत्वाभयत्वादीनाम् सङ्ग्रहः ।

 

ननु प्रत्यगात्मनो *अर्थान्तरत्वव्यपदेशादि*ति न वक्तुम् युक्तम् । शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परम्ब्रह्मेति च व्यपदिश्यते । तत्राह –

 

सुषुप्त्युत्क्रान्त्योर्भेदेन ॥१४३

 

वाजसनेयके – *कतम आत्मा योऽयम् विज्ञानमयः प्राणेष्वि*(बृह.६-३-७)ति प्रकृतस्य प्रत्यगात्मनः सुषुप्तावुत्क्रान्तौ च *प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यम् किञ्च न वेद नान्तरमि*(बृह.६-३-२१)ति *प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याती* (बृह.३-३-५)ति च प्राज्ञेन परिष्वङ्गान्वारोहावाम्नायेते | जीवस्यैव शुद्धावस्थस्य परमात्मत्वे परिष्वङ्गान्वारोहौ नोपपद्येयाताम् नह्यभेदे तौ सम्भवतः ।

 

पत्यादिशब्देभ्यः ॥ १४४

 

*सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिः*(बृह.६-४-२२) *स न साधुना कर्मणा भूयान्न् एवासाधुना कनीयान्*(बृह.६-४-२२) । *एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषाम् लोकानामसम्भेदाये*

(बृह.४-४-२२)ति प्रत्यगात्मासम्भावितानाम् पतित्वादिधर्माणाम् श्रवणात् नायमात्मा जीव इति स्थितम् ॥

इति अर्थान्तरत्वादिव्यपदेशाधिकरणम्

इति श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमस्याध्यायस्य तृतीयः पादः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.