चमसाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥

चमसाधिकरणम् ॥२॥

पूर्वत्र रूपकवाक्ये शरीरश्रवणात् अव्यक्तम् शरीरम् न तन्त्रसिद्धा प्रकृतिरित्युक्तम् तर्हि तदश्रवणात् अजा तन्त्रसिद्धा प्रकृतिस्स्यादिति प्रत्यवस्थानात्सङ्गतिः ।

श्वेताश्वतरे –

*अजामेकाम् लोहितशुक्लकृष्णाम् बह्वीः प्रजास्सृजमानाम् सरूपाः । अजो होको जुष्माणोऽनुशेते जहात्येनाम् भुक्तभोगामजोऽन्यः ॥*(श्वेत.४-५)

अस्यार्थः – तेजो(मुण्ड.३-१-१) बन्नलक्षणविकारगतलोहितशुक्ल-कृष्णरूपयुक्ताम् स्वसमानरूपविविधभूतभौतिकस्रष्ट्रीम् उत्पत्ति-रहिताम् काञ्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्र अहम् बुद्ध्या सेवमानः तामनुसृत्य शेते तिष्ठति । अपरो विद्वान् कञ्चित्का-लम् भुक्त्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः ।

ननु अस्मिन्नजामन्त्रे स्वरसतः एतावानर्थः प्रतीयते । काञ्चि-च्छागीम् त्रिवर्णाम् सरूपबहुसर्गकरीम् एकः छागः प्रीयमाणोऽनु-वर्तते, अन्यस्तामुपभुक्ताम् त्यजतीति कथम् भवदुक्तप्रकृतिरूपार्थग्रहणम् । यदि च अध्यात्मशास्त्रे लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानम् कर्तव्यमिति तर्हि *द्वासुपर्णा*(मुण्ड.३-१-१) इति मन्त्रे वृक्ष-सुपर्णपिप्पलशब्दैः शरीरजीवकर्मफलानाम् गौण्या वृत्त्या ग्रहणवत्
*गौरनाद्यन्तवती*(मान्त्रिकोपनिषत्-१)त्यत्र गोशब्देन गोण्या वृत्त्या प्रकृतिग्रहणवत् इहापि अजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणम् युक्तम् न तु यौगिकार्थग्रहणम् । रूढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्ब- ल्यस्य प्रोद्गात्रधिकरणे स्थितत्वात् । इतरथा *प्रैतु होतुश्वमसः प्रोद्गातृ-णामि*(जै.मी.सू.३-४६) त्यत्रापि यौगिक्या वृत्त्या उद्गात्रादीनाम् चतुर्णाम् ग्रहणम् स्यादिति चेन्न, मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणम् युज्यते । उपपद्यते च अजाशब्दे यौगिकार्थस्य मुख्यस्य ग्रहणम् । न चैवम् प्रोद्गातॄन्यायविरोधः । तत्र हि पाशन्यायेन बहुत्वाविवक्षा नास्ति प्रोद्गातृ-शब्दयौगिकार्थ-बहुत्वस्य सम्भवात् । *अदितिःपाशानि*(मैत्रायिणी सम्हिता.४-१४-४)त्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य बन्धन-साधनस्य असम्भवाद्बहुत्वाविवक्षा । इह तु तत्सम्भवान्ना-विवक्षा इत्येवम् तदधिकरणस्थितिः । न तु रूढिपूर्वकलक्षणापेक्षायोगस्य जघन्यत्वमित्यपि । नन्वेवम् सुब्रह्मण्यस्यापि गानकारितया योगार्थ- त्वात्तस्यापि ग्रहणप्रसङ्ग इति चेन्न । तस्य सदसि स्थित्यभावेन तत्साधारण्याभावात् मीमाम्सकैकदेशिभिः तत्साधारण्यस्य अभ्युपे-तत्वाच्च । ततश्च यौगिकार्थस्य मुख्यस्याजाशब्दार्थस्य सम्भवे पररीत्या छागत्वरूपणम् गौणवृत्त्याश्रयणाञ्च न युक्तम् । *गौरनाद्यन्तवती* (मान्त्रिकोपनिषत्)त्यत्र गोशब्दे यौगिकार्थास्फुरणात् *सर्वकामदुघाम्* (मान्त्रिकोपनिषत्) इति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकशब्दान्तर समभिव्याहारासम्भवाच्च यौगिकार्थ एव ग्राह्यः । किञ्च इह रूढ्यर्थ-ग्रहणे समभिव्याहृतानाम् *बह्वीः प्रजास्सृजमानाम्* (श्वेत.४-५) इत्या-दीनाम् सङ्कोचस्स्यात् । छाग्याः प्रकृतिवत् सकलप्रजासष्टृत्वासम्भवात् । सकलप्रजासर्गकरप्रकृत्या-मल्पप्रजासर्गकरच्छागत्वकल्पनस्य विच्छि-त्तिविशेषा हेतुत्वात् । नचैवम् *आत्मानम् रथिनम् विद्धी*( कठ.१-३-३) त्यत्र आत्मशरीरादौ रथिरथत्वादिकल्पनमपि न विच्छित्तिविशेषजनकम् स्यादिति वाच्यम् । तत्र रूप्यरूपकवाचिपदद्वय श्रवणबलेन वशीकार्य-ताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते । प्रकृते च रूप्यरूपकवा-चिपदद्वया श्रवणात् तद्वदत्र उपयोगाभावाच्च न च्छागत्वपरिकल्पनम् । *द्वा सुपर्णे*(मुण्ड.३-१-१)ति मन्त्रे वृक्षादिशब्दैः योगवृत्त्या अर्थग्रहणम् युक्तम् समासोक्त्या अर्थान्तर-स्फूर्त्या विच्छित्तिविशेषोऽस्तीति एताव-न्मात्रम् । यदि च न वृक्षादि- शब्दे यौगिकार्थस्फुरणम्, तर्हि *गौरना-द्यन्तवती*(मान्त्रिकोपनिषत्) तिवदस्तु प्रकृते तु अजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेः योग एव ग्राह्यः अनेन प्रकृतिस्वरूपम् बद्धमुक्तस्वरूपञ्चोक्तम् ।

ननु अत्र अजाशब्देन अकार्यत्वप्रतिपादनात् *सृजमानामि*(श्वेत.४-५) ति कर्त्रर्थशानचा स्वातन्त्र्य लक्षणकर्तृत्वप्रतीतेः अब्रह्मात्मिकैव प्रकृति-रनेन मन्त्रेण अभिधीयतामिति पूर्वपक्षे प्राप्ते अभिधीयते –

चमसवदविशेषात् ॥ १-४-८ ॥

*अर्वाग्बिल श्वमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितम् विश्व-रूपमि*(बृह.४-२-३)ति ऊर्ध्वबिलतिर्यग्बुध्न प्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य सद्भाववत् इह अस्वतन्त्र-प्रकृतिव्यावर्तकस्य स्वतन्त्रप्रकृतिप्रतिपादकस्य वाक्यशेषस्य अभावेन स्वतन्त्रा प्रकृतिरिह अभिधीयत इति निर्णयासम्भवात् ब्रह्मात्मकत्वेऽपि जनिराहित्यस्य उपपत्तेः परतन्त्रेऽपि तक्षादौ *तक्षति काष्ठमि*ति कर्त्रर्थ-प्रत्ययदर्शनेन तावन्मात्रेणापि अपरतन्त्रप्रकृतित्वनिश्चयासम्भवात् ॥

ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् सन्देह एव स्यात्तत्राह –

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ १-४-९

*अथ यदतः परो दिवो ज्योतिरि*(छान्.३-१३-७)ति । ज्योतिरुपक्रमा – ब्रह्मात्मिकेत्यर्थः । ब्रह्मात्मिकैव अजा इह मन्त्रे ग्राह्या । *देवात्म-शक्तिम् स्वगुणैर्निगूढामि*(श्वे.१-३)ति ब्रह्मात्मिकाया एव अजायाः प्रतिपा-दितत्वात् । तैत्तिरीये – *अणोरणीयानि*(तै.महा.ना.१-१२)ति ब्रह्म प्रस्तुत्य *सप्त प्राणाः प्रभवन्ति तस्मादि*(तै.महा.ना.१-१२)ति प्राणोपलक्षितप्रपञ्चो- त्पत्तिमभिधाय निर्विकारस्य ब्रह्मणोऽपरिणामितया सकलप्रयञ्चोपादा- नत्वम् न सम्भवतीति शङ्कानिवारणाय तैत्तिरीये पठितस्य मन्त्रस्य सद्ब्रह्मात्मप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाच्च ब्रह्मात्मिकैव प्रकृतिरजामन्त्रप्रतिपाद्या ।

ननु आकाशादीनाम् ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेनैव ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासम्भवेन ब्रह्मात्मकत्वासम्भव इत्याशङ्क्याह ।

कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १-४-१० ॥

कल्पना सृष्टिः । *धाता यथापूर्वमकल्पयदि*(तै.महा.ना.१-१३)ति प्रयोगदर्शनात् *अस्मान्मायी सृजते विश्वमेतदि*(श्वेत.१-४-९)ति माया- शब्दितप्रकृतेः ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनादित्यर्थः । प्रकृतेरब्रह्मा-त्मकत्वे च तस्याः *अस्मान्मायी सृजत*(श्वेत.१-४-९)इति प्रतिपादित-ब्रह्मोपादानतानिर्वाहकत्वाभावात् तस्या ब्रह्मात्मकत्वम् सिद्धम् । अपृथ-क्सिद्धाधारतामात्रेणाप्यात्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्म- कत्वम् सम्भवत्येवेति ब्रह्मात्मकत्वमविरुद्धम् । मध्वादिवत् – अत्र मधु-शब्देन *असौ वा आदित्यो देवमध्वि*(छान्.३-१-१)ति निर्दिष्ट आदित्य उच्यते आदित्यवदित्यर्थः । यथाऽऽदित्यस्य *अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेते*(छान्.३-११-१)ति अकार्यतया श्रुतस्यैव *य आदित्ये तिष्ठन्नि*(बृह.५-७-९)त्यादिना ब्रह्मात्मकत्वञ्च, एवमनादेरपि उपपद्यते ब्रह्मात्मकत्वमिति न विरोधः ॥

इति चमसाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.