समुदायाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:

समुदायाधिकरणम् ॥ ३ ॥

     अतो वैनाशिकत्वपरमाणुकारणवादित्वसाम्यादेव काणादमतप्रतिक्षे-पानन्तरम् बौद्धमतम् प्रतिक्षिप्यते –

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ २-२-१७ ॥

एवम् हि तेषाम् प्रक्रियाविभिन्नस्वभावैः परमाणुभिः पृथिव्यादिभूत-लक्षणस्सङ्घात उत्पद्यते, पृथिव्यादिभिश्च भूतैः शरीरेन्द्रियविषयसङ्घात-लक्षणसमुदाय उत्पद्यत इति । तत्राणुहेतुके पृथिव्यादिभूतात्मकसमुदा- योत्पत्तिर्नोपपद्यते । सर्वेषाम् क्षणिकत्वाभ्युपगमेन यावत्सङ्घातभावापत्ति अवस्थानासम्भवात् ।

इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न
सङ्घातभावानिमित्तत्वात् ॥ २-२-१८ ॥

यद्यपि सर्वे पदार्थाः क्षणिकाः, तथाप्यविद्यादीनामितरेतरकारणत्वा-दुपपद्यते लोकयात्रा । ते चाविद्यादयः – अविद्या सम्स्कारः विज्ञानम् नामरूपम् षडायतनम् स्पर्शः वेदना तृष्णा उपादानम् भवः जातिः जरा मरणम् शोकः परिदेवनम् दुःखम् दुर्मनस्ता इत्येवञ्जातीयकाः इतरेतर-हेतुकाः सौगतसमये अभ्युपगम्यन्ते । अविद्यातः क्षणिककार्यसुखदुःख-शून्येषु स्थायिनित्यसुखवस्तुबुद्धिः । ततो रागद्वेषमोहधर्माधर्मसम्स्काराः । सम्स्कारवशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभो विज्ञानम् । विज्ञान-सम्सर्गाद्गर्भद्रव्यस्य कलिलपेश्याद्याकारेणाभिव्यक्तिर्नामरूपम् । तदभि-व्यक्तिक्रमेण षडिन्द्रियायतनशरीरनिर्वृत्तिष्षडायतनम् । निर्वृत्तशरीरे-न्द्रियस्य गर्भगतविषयेन्द्रियसम्सर्गजम् ज्ञानम् स्पर्शः । तन्निमित्ते सुखदुःखे वेदना | सुखदुःखप्राप्तिपरिहारार्थम् विषयोपादानेच्छा तृष्णा । तया विषयेषु प्रवृत्तिरुपादानम् । ततः क्रमेण गर्भान्निष्क्रमणम् भवः । निर्गतस्य मनुष्यत्वादिजात्यभिमानः जाति: । क्रमभाविनी जरामरणे  प्रसिद्धे । म्रियमाणस्य पुत्रकळत्राद्यभिषङ्गादन्तर्दाहश्शोकः । तदुत्थ: प्रलापः परिदेवना । मरणक्लेशः दुःखम् । मानसदुःखम् दौर्मनस्यम् । एतेषामितरेतरहेतुत्वस्य लोकसिद्धत्वादुपपद्यते लोकयात्रेति चेन्न,  सङ्घातभावानिमित्तत्वात् अस्थिरेषु स्थिरत्वबुद्धिरूपाविद्याश्रयस्य कस्यचित् स्थिरस्य चेतनस्याभावेनाविद्यया भूतोत्पत्तेरसम्भवेन सङ्घात हेतुत्वाभावस्तदवस्थ एव ।

उत्तरोत्पादे च पूर्वनिरोधात् ॥ २-२-१९ ॥

वस्तुतस्तु कालो नास्ति, उदयन्नेव स्वरसभङ्गुरो घटादिः क्षणपरि-कल्पनमात्रनिमित्तम् भवति । स च घटादिस्स्वोदयविनाशपरिकल्पित-क्षणवत्त्वात् क्षणिकोऽपि भवति । वस्तुतस्स्वव्यतिरिक्तक्षणा भावात्स्वय-मेव क्षणो भवति इति हि तेषाम् प्रक्रिया । ततश्च पूर्वघट क्षणस्य उत्तरघटक्षणोत्पत्तिकाले असतस्तद्धेतुत्वम् न सम्भवति । असतोऽपि हेतुत्वेऽप्यतिप्रसङ्गात् ।

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २-२-२० ॥

असत्यपि कारणे कार्यस्योत्पत्तौ *अधिपतिसहकार्यालम्बनसमनन्तर-प्रत्ययाश्चत्वारश्चित्तचैत्तोत्पत्तिहेतव*  इति बौद्धानाम् प्रतिज्ञाया उपरोध प्रसङ्गः । अधिपतिः – इन्द्रियम् तद्धि विज्ञानस्य रूपादिषु पञ्चसु एकैकमात्रविषयकत्वनियामकम् नियामकश्च लोके अधिपति-रित्युच्यते । सहकारि – आलोकादिकम् । आलम्बनम् – घटादिर्विषयः । समनन्तरप्रत्ययः – पूर्वज्ञानम् । एतैश्चतुर्भिर्हेतुभिश्चित्तशब्दितस्य  ज्ञानस्य चैत्तशब्दितानाम् चित्ताभिन्नसुखादीनाञ्च उत्पत्तिरिति हि तेषाम् प्रतिज्ञा । सा प्रतिज्ञा हीयेत यदि पूर्वक्षणवृत्तित्वम् विषयस्य न स्यात् तदा कारणत्वम् हीयते । उत्तरक्षणवृत्तित्वाभावे च वर्तमानत्वग्राहिप्रत्य-क्षविषयत्वम् न स्यात् । अतः क्षणद्वयवर्तित्वमभ्युपेतव्यमिति क्षणिक-त्वविरोध: । यद्येतद्दोषपरिजिहीर्षया कारणघटक्षणस्यापि कार्यघटक्षणो-त्पत्तिदशायाम् सत्त्वमभ्युपगम्यते तदा घटक्षणद्वययौगपद्यप्रसङ्ग इत्यर्थः ।

प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २-२-२१ ॥

बुद्धाः सर्वस्य वस्तुनो निरन्वयो नाश इति वदन्ति । स च द्विविधः स्थूलस्सूक्ष्मश्च । मुद्गरपाताद्यनन्तरम् सर्वैरुपलभ्यमानो घटादीनाम् विनाशस्स्थूलः स प्रतिसङ्ख्यानिरोध इत्युच्यते । प्रतिसङ्ख्या – विषयसत्वप्रतिकूला तदसत्वग्राहिणी लौकिकानाम् बुद्धिः तद्विषयो निरोध इत्यवयवार्थान्वयात् । तद्विपरीतो निरोधः अप्रतिसङ्ख्यानिरोधः स च सूक्ष्मः । लौकिकबुध्ययोग्यो बौद्धैः युक्त्या साध्यमानः प्रतिक्षणविनाशः । तयोरुभयोरसम्भवः । कुतः अविच्छेदात् । पिण्डघटकपालादिरूपेण स्थितस्य द्रव्यस्य स्वरूपविच्छेदाभावात् । न च द्रव्यानुवृत्तौ *विनष्टो घट* इत्यादिप्रतीतेर्निर्विषयत्वापत्तिः । अवस्थान्तरापत्तिविषयत्वसम्भवात् ।

उभयथा च दोषात् ॥ २-२-२२ ॥

बौद्धाः किलैवम् वर्णयन्ति – प्रतिसङ्ख्यानिरोधः, अप्रतिसङ्ख्यानिरोधः, आकाशश्चेति एतत् त्रयम् वस्तु निरुपाख्यम् तुच्छम्, अन्यत्तु क्षणिक-मुत्पाद्यमिति मन्यन्ते । तत्र पूर्वोत्पन्नस्य घटक्षणस्य तदानीमेव निरुद्धत्वप्राप्त्या निरोधादेव कार्यघट क्षणस्योत्पत्तिरिति यदभ्युपगम्यते तत्र तुच्छादुत्पत्त्यसम्भवस्तावदेको दोषः । तुच्छादुत्पत्त्यभ्युपगमे हि तुच्छस्य निर्विशेषत्वेन कारणविशेषकृतः कार्यविशेष इति व्यवस्थाया अभावात् घटक्षणानन्तरम् सर्वस्य जगत उत्पत्तिस्स्यात् तथा तुच्छा-दुत्पद्यमानम् कार्यमपि तुच्छमेवोत्पद्येत न तु सद्रूपम् कारणानुसारित्वात् कार्यस्येत्यपरो दोष इत्यर्थः ।

आकाशे चाविशेषात् ॥ २-२-२३ ॥

*घटोऽयम्* *पटोऽय*मिति प्रत्यक्षप्रमितिवत् *कूपोऽसौ रन्ध्र-मेतत्खग इह पतती*(तत्वमुक्ताकलापः १-४२)त्यादि प्रत्यक्षस्या-विशेषेणाकाशम् निरुपाख्यतुच्छम् घटादिकम् क्षणिकम् तुच्छमित्यत्र प्रमाणाभावात् । न चेह ‘*श्येनः पतती*त्यादि प्रतीतेरालोक एव विषयोऽस्त्विति वाच्यम् । *इहालोक* *इहान्धकार* इत्यालोकान्ध-काराधारत्वेन प्रतीतस्यालोकरूपत्वाभावात् ।

अनुस्मृतेश्च ॥ २-२-२४ ॥

*तदेवेदमि*ति प्रत्यभिज्ञावशात् स्थिरत्वस्यैवाभ्युपगमेन क्षणिक-त्वासम्भवादित्यर्थः ।

नासतो दृष्टत्वात् ॥ २-२-२५ ॥

यदुच्यते सौत्रान्तिकैः ज्ञानगतैर्नीलाद्याकारैर्बाह्यार्थगतास्तेऽनुमीयन्ते। यद्यपि नीलादिज्ञानमपरोक्षतयाऽनुभूयते इन्द्रियव्यापारानुविधायी च भवति तथापि यदिन्द्रियसन्निकृष्टेन येनार्थेन यत् ज्ञानम् जायते न तज्ज्ञानम् तद्विषयकम् । किन्तु स्वयमप्यर्थवन्नीलाद्याकारम् भवतीति तत्ज्ञानम् स्वप्रकाशतया स्वात्मानम् विषयीकुर्वत् स्वगतम् नीलाद्या-कारमपि विषयीकरोति । अतो न नीलादिज्ञानस्यापरोक्ष्यानुभवविरोधः । न वा इन्द्रियव्यापारानुविधानविरोधः । नीलाद्यर्थिनो बहिः – प्रवृत्तिस्तु नापरोक्षज्ञानात् । किम् तु तदनन्तरभाविन आनुमानिकज्ञानात् । यथा वायुनिषेवणार्थिना शाखाचलनम् दृष्ट्वा वृक्षमूले प्रवृत्तिः न चाक्षुषशाखा-चलनज्ञानात् किन्तु तल्लिगंकवाय्वनुमानादिति तन्न सम्भवति । क्षणिकस्य विषयस्यापरोक्षज्ञानकाले असतोऽपरोक्षज्ञानहेतुत्वादर्शनात् सत एव जपाकु सुमादेस्स्वाकारार्पणहेतुत्वेऽपि असतस्तददर्शनेन असतो विषयस्य ज्ञाने स्वाकारार्पणाक्षमत्वात् ।

उदासीनानामपि चैवम् सिद्धिः ॥ २-२-२६ ॥

तत्काले असत एव उत्पादकत्वे उदासीनानामनुद्युञ्जानानाम् पुरुषाणाम् उद्युञ्जानपुरुषवत् सर्वकार्यसिद्धिस्स्यात् । उद्युञ्जानानुद्युञ्जा-नयोस्तत्काला सत्त्वाविशेषादिति सौत्रान्तिकमतम् तुच्छमेव ॥

इति समुदायाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.