[highlight_content]

उभयलिङ्गाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः 

(पे-२) उभयलिङ्गाधिकरणम् ॥५॥

     सम्सारिजीवस्येव ब्रह्मणोऽपि मनुष्यादिदेहान्तरवस्थित्या तत्प्रयुक्त-सुखदुःखभोक्तृत्वमपि प्रसजेत् । यद्यपि परमात्मनो देहान्तरावस्थिति-प्रयुक्तभोक्तृत्वमाशङ्क्य परितो दह्यमानगृहान्तर्वर्तित्वे देवदत्तयज्ञदत्तयोर-विशिष्टेऽपि तत्स्वामिनस्तदभिमानिनो देवदत्तस्येव यज्ञदत्तस्य तत्कृत-दुःखादर्शनवत् देहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि *तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीती*(मुण्ड.३-१-१)ति श्रुत्यनुसारेण देहाभिमानिजीववन्न परस्य भोक्तृत्वमिति *सम्भोगप्राप्तिरिति चेन्न वैशेष्यादि*(ब्र.सू.१-२-८)ति सूत्रे स्थितम् । तथा स्मृतिपादेऽपि सर्व-स्यापि परमात्मशरीरतया शरीरम् प्रति स्वामित्वमपि परमात्मनो-ऽस्तीति मनुष्यादिशरीरस्वामिनस्तदन्तर्वर्तिनः परमात्मनो भोक्तृत्व-मवर्जनीयमिति जीवेश्वरस्स्वभावाविभाग इति पूर्वपक्षम् प्रापय्य शरीरस्वामित्वेऽपि तदन्तर्वर्तित्वेऽपि नित्याविर्भूतापहतपाप्मत्वादि-गुणकस्य परमात्मनो न भोक्तृत्वप्रसङ्गः । यथा लोके राजशासनानु-वर्तिनाम् तदतिवर्तिनाञ्च राजानुग्रहनिग्रहसुकृतसुखदुःखयोगेऽपि न राज्ञि तत्प्रसक्तिः । एवम् न परमात्मनि शास्तरि न भोक्तृत्वप्रसक्तिरिति *भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवदि*(ब्र.सू.२-१-१४)त्यधिकरणे स्थितम् । तथाऽपि शासकस्यापि राज्ञः स्वेच्छयाऽपि पूयशोणितादिकर्दमिते कारागृहे वसतो दुःखसम्बन्धापरिहारवत्परमात्मनोऽपि स्वेच्छया हेयेषु मनुष्यादिशरीरेषु वसतो दुःरवसम्बन्धोऽपरिहार्यः । ब्राह्मणादिशरीर-स्वामित्वाच्च ब्राह्मणादिशब्दवाच्यत्वावश्यम्भावेन *ब्राह्मणो यजेते*  त्यादिविधि किङ्करत्वावश्यम्भावेन कर्मवश्यत्वादेरप्यवश्य-म्भावादिति पूर्वपक्षे प्राप्ते उच्यते –

न स्थानतोऽपि परस्योभयलिङ्गम् सर्वत्र हि ॥ ३-२-११ ॥

मनुष्यादिदेहस्थानप्रयुक्तम् भोक्तृत्वम् परस्य न सम्भवति । *अपहत-पाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्य-सङ्कल्प*(छान्.८-१-५)इति श्रुत्या सर्वत्र हि विद्यमानम् परब्रह्म हेयप्रत्यनीकत्वकल्याणैकतानत्वरूपोभयलिङ्गयुक्तमेव भवति । अतो न भोक्तृत्वप्रसङ्गः ।

भेदादिति चेन्न प्रत्येकमेतद्वचनात् ॥ ३-२-१२ ॥

यथा जीवस्यापहतपाप्मत्वादिगुणाष्टकयुक्तस्यापि मनुष्यादिदेहयोग-रूपावस्थाभेदाद्भोक्तृत्वम्, एवम् परमात्मनोऽपि किन्न स्यादिति चेन्न । अन्तर्यामिब्रह्मणे *एष त आत्माऽन्तर्याम्यमृत*(बृह.५-७-३) इति अन्तर्यामिणः परस्य ब्रह्मणो नित्याविर्भूतगुणाष्टकत्वलक्षणामृतत्वम् श्रूयते । अतो न जीवसाम्यम् ।

अपि चैवमेके ॥ ३-२-१३ ॥

अपि च एके शाखिनः *तयोरन्यः पिप्पलम् स्वाद्वत्यनश्नन्नन्यो अभिचाकशीती*(मुण्ड.३-१-१)ति जीवपरयोर्भोक्तृत्वाभोक्तृत्वलक्षणम् वैषम्यधीयते ।

अरूपवदेव हि तत्प्रधानत्वात् ॥ ३-२-१४ ॥

सर्वशरीर्यपि ब्रह्म अरूपवदेव अशरीरितुल्यमेव *आकाशो ह वै नाम-रूपयो र्निर्वहिता ते यदन्तरे*(छान्.८-१४-२)ति नामरूपकार्यास्पृष्टत्वे सति नामरूपनिर्वोढृत्वस्य प्रतिपादनेन मनुष्यादिनामरूपसम्बन्ध-कृतकार्यस्य तत्राप्रसक्तेः । अतस्सर्वत्र विद्यमानमपि ब्रह्मोभयलिङ्गमेव ।
ननु ब्रह्मणः कल्याणगुणा न सन्ति *अथात आदेशो नेति नेती*(बृह. ४-३-६)ति प्रतिषेधादिति चेत् तत्राह ।

प्रकाशवच्चावैयर्थ्यात् ॥ ३-२-१५ ॥

यथा *सत्यम् ज्ञानमनन्तम् ब्रह्मे*(तै.आन.१-१)ति श्रुत्यवैयर्थ्याय ज्ञानादिरूपत्वमभ्युपगम्यते एवम् *सत्यकामस्सत्यसङ्कल्प*(छान्.८-२-६) इत्यादिश्रुत्यवैयर्थ्याय कल्याणगुणगणोऽप्यभ्युपगन्तव्यः ।

ननु *सत्यम् ज्ञानमि*(तै.आन.१-१)ति ज्ञानस्वरूपत्वप्रतिपादनादेव ज्ञानस्य गुणाश्रयत्वासम्भवादर्थाद्गुणा निषिद्धा इति चेत्तत्राह –

आह च तन्मात्रम् ॥ ३-२-१६ ॥

*सत्यम् ज्ञानमि*(तै.आन.१-१)ति श्रुतिर्ब्रह्मणो ज्ञानरूपतामात्रम् प्रतिपादयति न गुणाश्रयताम् प्रतिषेधति । तेजोरूपस्य सूर्यस्य प्रभारूप-तेजोऽन्तराश्रयत्ववत् ज्ञानरूपस्यापि ब्रह्मणः सार्वज्ञ्याद्याश्रयत्व-मुपपद्यते ।

दर्शयति चाथो अपि स्मर्यते ॥ ३-२-१७ ॥

दर्शयति च वेदान्तगण: *निष्कलम् निष्क्रियम् शान्तम् निरवद्यम् निरञ्जनम्*(श्वेत.६-१९) *पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाचे*(श्वेत.६-८)ति ब्रह्मण उभयलिङ्गत्वम् । स्मर्यते च *यो मामजमनादिञ्च वेत्ति लोकमहेश्वरमि*(गी.१०-३)त्यादिभिः ।

अत एव चोपमा सूर्यकादिवत् ॥ ३-२-१८ ॥

यत एवम् तत्तत्स्थानस्थितस्यापि तद्दोषास्पृष्टत्वम् अत एव *आकाशमेकम् हि यथा घटादिषु पृथग्भवेत् । तथाऽऽत्मैकोऽप्यनेकस्थो जलाधारेष्विवाम्शुमान् ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदि*(अमृतबिन्दुः याज्ञवल्क्यस्मृतिः प्रायश्चित्तकाम् अध्यात्मप्रकरणम्.१४४) ति जलगतसूर्यप्रतिबिम्बादि-वदिति दृष्टान्तो युज्यते ।

अम्बुवदग्रहणात्तु न तथात्वम् ॥ ३-२-१९ ॥

तुशब्दश्लोद्यम् द्योतयति । अम्बुवदिति सप्तम्यन्ताद्वतिः । परमात्मनो न तथात्वम्, सूर्यप्रतिबिम्बादिसाम्यम् न सम्भवतीत्यर्थः । कुतः? अम्बुवदग्रहणात् अम्बुनि यथा प्रतिबिम्बो गृह्यते न तथा हि परमात्मा गृह्यते । तत्र हि अजलस्थमेव प्रतिबिम्बम् जलस्थमिव गृह्यते अतस्तत्र तद्गतदोषासम्स्पर्शो युज्यते । प्रकृते च विकारान्तर्वर्तिन ब्रह्मणि तद्गत-दोषासम्स्पर्शो न युज्यते वक्तुम् ।

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्
दर्शनाच्च ॥३-२-२०॥

विकारान्तर्भावप्रयुक्तविकारगतवृद्धिह्रासादिभाक्त्वलक्षणो यो दोष: स नापतति । तद्गततया प्रतीयमानस्यापि तद्गतदोषास्पृष्टत्वाम्शे आकाशसूर्यरूपदृष्टान्तद्वयसामञ्जस्यसम्भवात् *सिम्ह इव माणवक* इत्यादौ विवक्षितकार्याम्श एव दृष्टान्तत्वदर्शनाच्च, न सर्वथा साम्यम् दृष्टान्तदार्ष्टान्तिकयोरपेक्षितमिति भावः ।
ननु *द्वे वाव ब्रह्मणो रूप*(बृह.४-३-१) इति प्रकृतस्य मूर्तामूर्तात्मक-प्रपञ्चस्य *यथा माहारजनम् वास*(बृह.४-३-६) इत्यादिनोपक्षिप्तस्या-कारविशेषस्य च, *अथात आदेशो नेति नेती*(बृह.४-३-६)ति प्रतिषेधात् निर्विशेषमेव ब्रह्म अतो नोभयलिङ्गत्वमिति तत्राह –

 

प्रकृतैतावत्त्वम् हि प्रतिषेधति ततो ब्रवीति च भूयः॥३-२-२१॥

प्रकृतैः *द्वे वाव ब्रह्मणो रूपे*(बृह.४-३-१, मैत्रा.५-३) इत्यादिना प्रतिपादितैः रूपैर्ब्रह्मणो यदेतावत्त्वम् परिच्छिन्नत्वम् लक्षणो यः प्रकारः तम् इतिशब्देन परामृश्य नेति नेतीति निषेधति । न तु स्वरूपेण ब्रह्म सम्बन्धिरूपम् निषेधति । न हि श्रुतिः स्वयमेव मानान्तराप्राप्तम् मूर्ता-मूर्तात्मकप्रपञ्चरूपत्वम् ब्रह्मणः प्रतिपाद्य स्वयमेव निषेधतीति युज्यते वक्तुम्, *प्रक्षाळनाद्धि पङ्कस्य दूरादस्पर्शनम् वरमि*ति न्यायात् । अत एव निषेधानन्तरमपि ब्रह्मणो भूयो गुणजातम् ब्रवीति श्रुतिः । *न ह्येत-स्मादिति नेत्यन्यत्परमस्ती*(बृह.४-७-६)ति स्वरूपतो गुणतश्च सर्वो-त्कृष्टत्वम् प्रतिपाद्यते । *अथ नामधेयम् सत्यस्य सत्यमि*(बृह.४-३-६)ति नामधेयरूप गुणवत्ता च प्रतिपाद्यते । अत: *नेति नेती*(बृह.४-३-६)ति प्रकृतैतावत्त्वामात्रस्य निषेधः ॥

तदव्यक्तमाह हि ॥ ३-२-२२ ॥

तद – ब्रह्म अव्यक्तम् मानान्तरागम्यमिति श्रुतिराह *न चक्षुषा गृह्यते नापि वाचे*(मुण्ड.३-१-८)ति । ततश्च मानान्तरागम्यस्य श्रुत्येकसम-धिगम्यस्य ब्रह्मस्वरूपस्य वा मूर्तामूर्तात्मकप्रपञ्चशरीरकत्वस्य वा न निषेधो युक्तः ।

अपि सम्राधने प्रत्यक्षानुमानाभ्याम् ॥ ३-२-२३ ॥

सम्राधनम् – सम्यक्प्रीणनम् । भक्तिरूपापन्ननिदिध्यासनम् ।  तस्मिन् सत्येव साक्षात्कारः नान्यथेति *ततस्तु तम् पश्यते निष्कळम् ध्यायमानः*(मुण्ड.३-१-८) *नाहम् वेदैर्न तपसा न दानेन न चेज्यया । भक्त्या त्वनन्यया शक्य अहमेवम् विधोऽर्जुने*(गी.११-५३)ति श्रुति-स्मृतिभ्यामवगम्यते ।

प्रकाशादिवच्चावैशेष्यम् प्रकाशश्च कर्मण्यभ्यासात् ॥ ३-२-२४ ॥

निदिध्यासनजन्यसाक्षात्कारदशायाञ्च ब्रह्मस्वरूपभूतानन्दज्ञानादि-तुल्यतया *अहम् मनुरभवम् सूर्यश्चे*(बृह.३-४-१०)ति ब्रह्मशरीरभूतमनु-सूर्यादिप्रपञ्चस्यापि तत्त्वविद्भिर्वामदेवादिभिस्साक्षात्क्रियमाणत्वात् ब्रह्मस्वरूपवत्तच्छरीरभूतमूर्तामूर्तात्मकप्रपञ्चस्याप्यबाधितत्वम् सिद्धम् । ब्रह्मस्वरूपप्रकाशश्च कथम् भवतीत्याकांक्षायामाह – प्रकाशश्च कर्मण्य-भ्यासादिति । सम्राधनात्मके ध्यानरूपे कर्मण्यभ्यासात् प्रकाशो भवति *ध्याननिर्मथनाभ्यासाद्देवम् पश्येन्निगूढवदि’*(श्वे.१-१-६)ति श्रुत्युक्तेरिति भावः ।

अतोऽनन्तेन तथा हि लिङ्गम् ॥ ३-२-२५ ॥

अतः उक्तैर्हेतुभिरनन्तेन कल्याणगुणेन विशिष्टम् ब्रह्म । तथाहि सत्येव उभयलिङ्गम् ब्रह्म उपपन्नम् भवतीत्यर्थः ॥

इति उभयलिङ्गाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.