सन्ध्याधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः 

सन्ध्याधिकरणम् ॥१॥

 

सन्ध्ये सृष्टिराह हि ॥ ३-२-१ ॥

 

*न तत्र रथा न रथयोगा*(बृह.६-३-१०) इति वाक्ये सन्ध्ये स्वप्न-स्थाने जीवकर्तृकैव सृष्टिराम्नायते । *स हि कर्ते*(बृह.६-३-१०)ति स्वप्नदृशम् प्राक् प्रस्तुतम् जीवमेव स इति शब्देन परामृश्य तस्य कर्तृत्वम् श्रुतिराह हि ।

निर्मातारञ्चैके पुत्रादयश्च ॥ ३-२-२ ॥

 

एके शाखिन: *य एष सुप्तेषु जागर्ति कामम् कामम् पुरुषो निर्मिमाण*(कठ.२-५-८) इति कामानाम् निर्मातारम् जीवमामनन्ति । अत्र कामशब्देन काम्यमानाः पुत्रादयो वर्ण्यन्ते । पूर्वम् हि *सर्वान् कामान् छन्दतः प्रार्थयस्व शतायुषः पुत्रपौत्रान्वृणीष्वे*(कठ.१-१-२२)ति पुत्रादयो हि कामाः प्रकृताः । अतो जीव एवात्र कर्तृत्वेनाभिधीयते । न च जीवस्य कथमीदृशम् सृष्टिसामर्थ्यमिति वाच्यम् । प्रजापतिवाक्ये जीवस्यापि सत्यसङ्कल्पत्वादेराम्नानात् । न च तत्सम्सारदशायाम् तिरोहितमिति वाच्यम् मुक्ताविव स्वप्नदशायामाविर्भावादिति द्वाभ्याम् सूत्राभ्याम् पूर्वपक्षे प्राप्त उच्यते –

मायामात्रम् तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३-२-३ ॥

 

तुशब्दः पक्षम् व्यावर्तयति । मायाशब्दो ह्याश्चर्यत्वम् प्रवृत्तिनिमि-त्तीकृत्य भगवत्सङ्कल्पवाची ।*माया वयुनम् ज्ञानमि*(वेदनिघण्टुः धर्मवर्गः२२)ति निघण्टुपाठाच्च मायाशब्दो ज्ञानरूपसङ्कल्पवचनः । मायामात्रम् भगवत्सङ्कल्पमात्रसृष्टम् । न तु जीवसृष्टमित्यर्थः । तत्र हेतुः कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति। जीवस्य सत्यसङ्कल्पत्वादि-ब्राह्मरूपस्य प्रजापतिवाक्योदितस्य सम्सारदशायाम् सर्वात्मनाऽनभि-व्यक्तत्वात् न तस्य कर्तृत्वसम्भावनाऽपि । *स हि कर्ते*(बृह.६-३-१०) ति हिशब्देन प्रसिद्धस्यैव कर्तृतया निर्देशात् । स्वप्नदृश एव कर्तृत्वे स्वाहितचोरव्याघ्रादेस्सृष्टिर्नोपपद्यते । *इमान् स्वाप्नान्पदार्थानस्रक्ष्यामि* ति प्रतिसन्धानप्रसङ्गाच्च । *कामम् कामम् पुरुषो निर्मिमाण*(कठ. २-५-८) इत्यत्र *तदेव शुक्रम् तद्ब्रह्मे*(वेदनिघण्टुः धर्मवर्गः२२)त्युक्त्या तस्य वचनस्य ब्रह्मविषयत्वाच्च न जीवस्य स्रष्टृत्वम् ॥
ननु स्वाभाविकस्यापहतपाप्मत्वादेस्सत्यसङ्कल्पत्वपर्यन्तस्यानभि-

व्यक्तिः किन्नि बन्धनेत्यत्राह –

पराभिध्यानात्तु तिरोहितम् ततो ह्यस्य बन्धविपर्ययौ ॥ ३-२-४ ॥

 

पराभिध्यानात् परमात्मसङ्कल्पात् तत्तिरोहितम् भवति । तत्सङ्क-ल्पादेव हि अस्य जीवस्य बन्धो मोक्षश्च । *यदा ह्येवैष एतस्मिन्न-दृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयम् प्रतिष्ठाम् विन्दते । अथ सोऽभयम् गतो भवति । यदाह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति*(तै.आन.२-७) *एषह्येवानन्दयाती*(तै.आन.७)ति श्रवणात् ।

देहयोगाद्वा सोऽपि ॥ ३-२-५ ॥

 

सोऽपि तिरोभावः सृष्टिकाले देहयोगद्वारेण वा भवति प्रळयकाले सूक्ष्माचिच्छक्तियोगद्वारेण वा भवतीत्यर्थः ।

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ३-२-

स्वाप्नार्थो हि शुभाशुभसूचक: *यदा कर्मसु काम्येषु स्त्रियम् स्वप्नेषु पश्यति । समृद्धिम् तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने*(छान्.५-२-९) *स्वप्ने पुरुषम् कृष्णम् कृष्णदन्तम् पश्यति स एनम् हन्ती* ति श्रुतेः । आचक्षते च स्वप्नाध्यायविदस्तथा । ततश्च यदीयम् स्वप्न-सृष्टिर्जीवकर्तृका तर्हि शुभसूचकानेव सृष्ट्वा पश्येत् नाशुभसूचकान् । अतः न जीवकर्तृकेयम् सृष्टिरित्युभयलिङ्गपादे स्थितम् ।
यदत्र परैरुच्यते स्वप्नसृष्टेस्सत्यत्वे रथादिसृष्टिवदादित्यादेरपि सृष्ट्यभ्युपगमे जाग्रद्दृशावत् स्वप्नेऽपि ज्योतिरन्तरव्यतिकरसत्त्वात् स्वप्रकाशत्वस्य दुर्विवेचता स्यात् । अतः स्वप्नदृष्टानाम् सत्यत्वम् प्रकरणविरुद्धमिति, तदसत् । परमतेऽपि, मनसः प्रकाशकस्य सत्त्वेन स्वप्ने स्वयम्ज्योतिष्ट्वसाधनमसङ्गतमेव हि स्यात् । तस्माल्लोक-प्रसिद्धादित्याद्यभावेऽपि स्वकीयज्ञानेन भासकत्वात् स्वयम्ज्योतिष्ट्व-मस्तीत्यत्रैवास्याः श्रुतेस्तात्पर्यमिति सिद्धम् ॥

इति सन्ध्याधिकरणम् ॥१॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.