॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः
पराधिकरणम् ॥७॥
परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३-२-३० ॥
वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः *अथ य आत्मा स सेतुर्विधृतिरि*(छान्.८-४-१)ति सेतुत्वश्रवणात् सेतोश्च प्राप्यान्तरप्रापक-त्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकता प्रतीयते न तु स्वयम्प्रा-प्यता । किञ्च *एतम् सेतुम् तीर्त्वे*(छान्.८-४-१)ति तरितव्यत्वाभि-धानेन एतस्य प्राप्यत्वाभावाविष्करणात् वेदान्तेषु *चतुष्पात् ब्रह्म* (छान्.३-१८-१) *षोडशकलमि*(प्रश्न.६-१)त्युन्मानश्रवणान्नेदमपरिमितम् अपरिमितस्योन्मानासम्भवात् । अतो वेदान्तेषु अपरिमितत्वेन प्रतीय-मानमन्यदेवेति प्रतीयते । किञ्च, *अमृतस्य परम् सेतुमि*(श्वेत.६-१९) ति अमृतस्य वस्त्वन्तरस्य प्राप्यप्रापकत्वलक्षणस्सम्बन्धः षष्ठ्या प्रतीयते । न हि स्वस्मिन्नेव प्राप्यप्रापकत्वलक्षणस्सम्बन्धस्सम्भवति । किञ्च, *तेनेदम् पूर्णम् पुरुषेण सर्वमि*(श्वेत.३-९)ति प्रतिपादित-पुरुषादपि *ततो यदुत्तरतरमि*(श्वेत.३-१०)त्यादिभिरधिकस्य निर्देशात् परस्मादपि ब्रह्मणः परमन्यत् व्यपदिश्यते । अत एभ्यो हेतुभ्यः परस्मादपि ब्रह्मणोऽन्यत् परमभ्युपगन्तव्यमिति पूर्वपक्षे प्राप्त उच्यते –
सामान्यात्तु ॥ ३-२-३१ ॥
*अथ य आत्मा स सेतुरि*(छान्.८-४-१)ति व्यपदेशः *एषाम् लोकानामसम्भेदाये*(छान्.८-४-१)ति वाक्यशेषश्रुतासङ्करकारित्व-लक्षणधर्मसामान्यनिबन्धनः । न तु प्राप्यान्तरप्रापकत्वलक्षणधर्म-निबन्धनः । *एतम् सेतुम् तीर्त्वे*(छान्.८-४-१)त्यत्र तरतिश्च प्राप्ति-वचनः *वेदान्तम् तरती*तिवन्नोल्लङ्घनवचनः ।
यदुक्तमुन्मानव्यपदेशादस्य परिमितत्वम् प्रतीयत इति तत्राह –
बुद्ध्यर्थः पादवत् ॥ ३-२-३२ ॥
यथा *मनो ब्रह्मेत्युपासीतेत्यध्यात्मम्*(छान्.३-१८-१) *तदेतच्च-तुष्पाद्ब्रह्मा वाक्पादः प्राणः पादश्चक्षुःपादः श्रोत्रम् पाद इत्यध्यात्ममि* (छान्.३-१८-२)त्यत्र ब्रह्मप्रतीकभूतमन आदौ वागादिपादत्वव्यपदेशोपदेश उपासनार्थ: न तु तात्विकः मनसो वागादिपादत्वासम्भवात् एवमपरि-च्छिन्नस्य ब्रह्मणः *प्राचीदिक्कला प्रतीचीदिक्कला दक्षिणादिक्कला उदीचीदिक्कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नामे* त्युक्तदिगादिलक्षणचतुष्कलपादसम्बन्धासम्भवादुपासनार्थ एव ।
ननु स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानप्रतीतिस्तत्राह –
स्थानविशेषात् प्रकाशादिवत् ॥ ३-२-३३ ॥
यथा प्रकाशाकाशादेरपरिच्छिन्नस्यापि वातायनाद्युपाधिवशेन परिच्छिन्नत्वानुसन्धानम् एवम् इहापि अभिव्यक्तिस्थानभूतप्रागाद्युपाधि-वशेन उन्मितत्वानुसन्धानमुपपद्यते ।
यदुक्तम् *अमृतस्य परम् सेतुमि*(श्वेत.६-१९)ति सम्बन्धव्यपदेशेना-मृताद्भेदोऽवगम्यत इति तत्राह –
उपपत्तेश्च ॥ ३-२-३४ ॥
*यमेवैष वृणुते तेन लभ्य*(कठ.१-२-१३) इति स्वप्राप्तेः स्वयमेव साधनतया जोघुष्यमाणे ब्रह्मणि स्वेनैव प्राप्यप्रापकत्वलक्षणसम्बन्ध-व्यपदेशस्यापि नानुपपत्तिः ।
यदुक्तम् – *ततो यदुत्तरतरमि*(श्वेत.३-१०)ति अधिकम् वस्तु प्रतिपाद्यत इति तत्राह –
तथाऽन्यप्रतिषेधात् ॥ ३-२-३५ ॥
*यस्मात्परन्नापरमस्ती*(श्वेत.३-९)ति पूर्ववाक्ये तदतिरिक्तोत्कृष्ट-वस्तुनो निषेधेन तद्विरुद्धतया *ततो यदुत्तरतरमि*(श्वेत.३-१०)ति अनन्तरवाक्ये तदधिकवस्तूपक्षेपासम्भवात्ततो यदुत्तरतरमि*(श्वेत.३-१०) त्यत्र ततश्शब्दः पूर्वोपपादितस्य पुरुषपारम्यस्य उपसम्हारपरः न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषित वस्त्वन्तरावधित्वप्रतिपादनपरः । यद्वा *तेनेदम् पूर्णमि*(श्वेत.३-९)ति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया प्रधानस्य जगत एव *ततो यदुत्तरतरमि*(श्वेत.३-१०)ति तच्छब्देन ग्रहणम् युक्तम् । यदुक्तम् *परात्परमि*(मुण्ड.३-२-८) ति परभेदो व्यपदिश्यत इति तन्न । *न ह्येतस्मादिति नेत्यन्यत्परम-स्तीति*(बृह.४-३-६) इति नेतिशब्दनिर्दिष्टात् एतस्मात् ब्रह्मणोऽन्यत्पर-न्नास्तीत्यन्यस्य परस्य प्रतिषेधात् । *परात्परम् पुरुषमि*(मुण्ड.३-२-८)ति श्रुतिस्तु *अक्षरात्परत: पर*(मुण्ड.२-१-१) इति अक्षरापेक्षया परस्मात्समष्टिजीवात्परमदृश्यत्वादिगुणकम् प्रकृतम् भूतयोन्यक्षर-पुरुषमेव प्रतिपादयतीत्यर्थः ।.
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३-२-३६ ॥
अनेन ब्रह्मणा सर्वगतत्वम् सर्वस्य जगताम् व्याप्तत्वम् आयाम-शब्दादिभ्योऽवगम्यते । आयामशब्दस्तावत् *तेनेदम् पूर्णम् पुरुषेण सर्वम्*(श्वेत.३-९), अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणः स्थित* (महा.ना.९-५) इत्यादिः । आदिशब्देन *ब्रह्मैवेदम् सर्वमि*(बृह.४-५-१) त्यादयो गृह्यन्ते । अतो न परब्रह्मणोऽन्यत्प्राप्यमस्तीति स्थितम् ॥
इति पराधिकरणम् ॥