श्रीभाष्यम् 01-01-04 समन्वयाधिकरणम्

(साफल्यरूपतात्पर्यलिङ्गसमर्थनपरम्)

श्रीशारीरिकमीमांसाभाष्ये समन्वयाधिकरणम्॥४॥

(अधिकरणार्थः – ब्रह्मणः स्वतः पुरुषार्थतया अन्वयः)

(अवान्तरसङ्गतिः)

यद्यपि प्रमाणान्तरागोचरं ब्रह्म तथापि प्रवृत्तिनिवृत्तिपरत्वाभावेन  सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्क्याह-

४. तत्तु समन्वयात् ॥ १-१-४ ॥

(सूत्रव्याख्यानम्)

प्रसक्ताशङ्कानिवृत्त्यर्थस्तु शब्द:। तत् शास्त्रप्रमाणकत्वं ब्रह्मणस्सम्भवत्येव। कुत:? समन्वयात् – परमपुरुषार्थतयाऽन्वयस्समन्वय:, परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयात्॥

(समन्वयोपपादनम्)

एवमिव समन्वितो ह्यौपिनषद: पदसमुदाय: – यतो वा इमानि भूतानि जायन्ते (तै.भृ.१), सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.१,३), ब्रह्म वा इदमेकमेवाग्र आसीत् (बृ.३.२.११), आत्मा वा इदमेक एवाग्र आसीत् (ऐतरेय.१.१.१), तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.उ.आन.१), एको ह वै नारायण आसीत् (म.उ.१.१), सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१), आनन्दो ब्रह्म (तै.उ.भृ.६) इत्येवमादि:॥

(प्रवृत्तिनिवृत्त्यन्वयस्य प्रामाण्यव्यापकत्वाभावोपपादनम्)

न च व्युत्पत्तिसिद्धपरिनिष्पन्नवस्तुप्रतिपादनसमर्थानां पदसमुदायानामखिलजगदुत्पित्ति- स्थितिविनाशहेतुभूताशेषदोषप्रत्यनीकापरिमितोदारगुणसागरानवधिकातिशयानन्दस्वरूपे ब्रह्मणि समन्वितानां प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपरत्वं स्वविषयावबोधपर्यवसायित्वात्सर्वप्रमाणानाम्। न च प्रयोजनानुगुणा प्रमाणप्रवृत्ति:। प्रयोजनं हि प्रमाणानुगुणम्। न च प्रवृत्तिनिवृत्त्यन्वयविरहिण: प्रयोजनशून्यत्वम्, पुरुषार्थान्वयप्रतीते:। तथा स्वरूपपरेष्वपि पुत्रस्ते जात:, नायं सर्प: इत्यादिषु हर्षभयनिवृत्तिरूपप्रयोजनवत्त्वं दृष्टम्॥

(विस्तरेण पूर्वपक्षावतरणम्)

(तत्र भाट्टमीमांसकानां पूर्वपक्षविधा)

अत्राह – न वेदान्तवाक्यानि ब्रह्म प्रतिपादयन्ति प्रवृत्तिनिवृत्यन्वयविरहिण: शास्त्रस्यानर्थक्यात् ॥

यद्यपि प्रत्यक्षादीनि वस्तुयाथात्म्यावबोधे पर्यवस्यन्ति; तथाऽपि शास्त्रं प्रयोजनपर्यवसाय्येव। न हि लोकवेदयो: प्रयोजनरहितस्य कस्यचिदपि वाक्यस्य प्रयोग उपलब्धचर:। न च किञ्चित् प्रयोजनमनुद्दिश्य वाक्यप्रयोग: श्रवणं वा सम्भवति। तच्च प्रयोजनं प्रवृत्तिनिवृत्तिसाध्येष्टानिष्टप्राप्तिपरिहारात्मकमुपलब्धम् अर्थार्थी राजकुलं गच्छेत् मन्दार्ग्निर्नाम्बु पिबेत्, स्वर्गकामो यजेत (यजुषि.२.५.५), न कलञ्जं भक्षयेत् इत्येवमादिषु ॥

(पूर्वपक्षे सिद्धमात्रव्युत्पत्तिदूषणम्)

यत्पुनस्सिद्धवस्तुपरेष्वपि पुत्रस्ते जात:, नायं सर्पो रज्जुरेषा इत्यादिषु हर्षभयनिवृत्तिरूपपुरुषार्थान्वयो दृष्ट इत्युक्तम्। तत्र किं पुत्रजन्माद्यर्थात्पुरुषार्थावाप्ति:? उत तज्ज्ञानादिति विवेचनीयम्। सतोऽप्यज्ञातस्य अपुरुषार्थत्वेन तज्ज्ञानादिति चेत् – तर्ह्यसत्यप्यर्थे ज्ञानादेव पुरुषार्थस्सिध्यतीत्यर्थपरत्वाभावेन प्रयोजनपर्यवसायिनोऽपि शास्त्रस्य नार्थसद्भावे प्रामाण्यम्। तस्मात्सर्वत्र प्रवृत्तिनित्तिपरत्वेन ज्ञानपरत्वेन वा प्रयोजनपर्यवसानमिति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासम्भवान्न वेदान्ता: परिनिष्पन्नं ब्रह्म प्रतिपादयन्ति॥

(निष्प्रपञ्चीकरणनियोगवादः जरन्मायावादिमतम्)

अत्र कश्चिदाह – वेदान्तवाक्यान्यपि कार्यपरतयैव ब्रह्मणि प्रमाणभावमनुभवन्ति – कथं निष्प्रपञ्चमद्वितीयं ज्ञानैकरसं ब्रह्म अनाद्यविद्यया सप्रपञ्चतया प्रतीयमानं निष्प्रपञ्चं कुर्यादिति ब्रह्मण: प्रपञ्चप्रविलयद्वारेण विधिविषयत्वम् – इति। कोऽसौ द्रष्टृदृश्यरूपप्रपञ्चप्रविलयद्वारेण साध्यज्ञानैकरसब्रह्मविषयो विधि:?। न दृष्टेर्द्रष्टारं पश्ये:।  न मतेर्मन्तारं मन्वीथा:  (बृ.५.अ.ब्रा.२.वा) इत्यादि:। द्रष्टृदृश्यरूपभेदशून्यदृशिमात्रं ब्रह्म कुर्यादित्यर्थ:।  स्वतस्सिद्धस्यापि ब्रह्मणो निष्प्रपञ्चतारूपेण कार्यत्वमविरुद्धम् – इति ॥

(एतन्मतदूषणं प्रधानपूर्वपक्षिणा मीमांसकेन)

तदयुक्तम् – नियोगवाक्यार्थवादिना हि नियोग:, नियोज्यविशेषणम्, विषय: करणम्, इतिकर्तव्यता, प्रयोक्ता च वक्तव्या:॥ तत्र हि नियोज्यविशेषणमनुपादेयम्। तच्च निमित्तं फलमिति द्विधा। अत्र किं नियोज्य विशेषणम् तच्च किं निमित्तं फलं वेति विवेचनीयम्। ब्रह्मस्वरूपयाथात्म्यानुभवश्चेन्नियोज्यविशेषणम्; तर्हि न तन्निमित्तम्, जीवानादिवत् तस्यासिद्धत्वात्। निमित्तत्वे च तस्य नित्यत्वेनापवर्गोत्तरकालमपि जीवनिमित्ताग्निहोत्रादिवत् नित्यतद्विषयानुष्ठानप्रसङ्ग:। नापि फलं, नैयोगिकफलत्वेन स्वर्गादिवदनित्यत्वप्रसङ्गात्॥

कश्चात्र नियोगविषय:? ब्रह्मैवेति चेत् – न, तस्य नित्यत्वेनाभव्यरूपत्वात्, अभावार्थत्वाच्च। निष्प्रपञ्चं ब्रह्म साध्यमिति  चेत् – साध्यत्वेऽपि फलत्वमेव। अभावार्थत्वान्न विधिविषयत्वम्। साध्यत्वञ्च कस्य? किं ब्रह्मण:?, उत प्रपञ्चनिवृत्ते: न तावद्ब्रह्मण:, सिद्धत्वात्,  अनित्यत्वप्रसक्तेश्च। अथ प्रपञ्चनिवृत्ते:, न तर्हि ब्रह्मणस्साध्यत्वम्। प्रपञ्चनिवृत्तिरेव विधिविषय इति चेत् – न, तस्या: फलत्वेन विधिविषयत्वायोगात्। प्रपञ्चनिवृत्तिरेव हि मोक्ष:। स च फलम्। अस्य च नियोगविषयत्वे नियोगात्प्रपञ्चनिवृत्ति:, प्रपञ्चनिवृत्त्या नियोग: इतीतरेतराश्रयत्वम्॥

(प्रकारान्तरेण नियोगवादिमतदूषणम्)

अपि च – किं निवर्तनीय: प्रपञ्चो मिथ्यारूप: सत्यो वा। मिथ्यारूपत्वे ज्ञाननिवर्त्यत्वादेव नियोगेन न किञ्चित्प्रयोजनम्। नियोगस्तु निवर्तकज्ञानमुत्पाद्य तद्द्वारेण प्रपञ्चस्य निवर्तक इति चेत् – तत् स्ववाक्यादेव जातमिति नियोगेन न प्रयोजनम्। वाक्यार्थज्ञानादेव ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्याभूतस्य प्रपञ्चस्य बाधितत्वात् सपरिकरस्य नियोगस्यासिद्धिश्च। प्रपञ्चस्य निवर्त्यत्वे प्रपञ्चनिवर्तको नियोग: किं ब्रह्मस्वरूपमेव, उत तद्व्यतिरिक्त: । यदि ब्रह्मस्वरूपमेव निवर्तकस्य नित्यतया निवर्त्यप्रपञ्चसद्भाव एव न सम्भवति। नित्यत्वेन नियोगस्य विषयानुष्ठानसाध्यत्वं च न घटते। अथ ब्रह्मस्वरूपव्यतिरिक्त:। तस्य कृत्स्नप्रपञ्चनिवृत्तिरूपविषयानुष्ठानसाध्यत्वेन प्रयोक्ता च नष्ट इत्याश्रयाभावादसिद्धि:। प्रपञ्चनिवृत्तिरूपविषयानुष्ठानेनैव ब्रह्मस्वरूपव्यतिरिक्तस्य कृत्स्नस्य निवृत्तत्वात्। न नियोगनिष्पाद्यं मोक्षाख्यं फलम्। किञ्च – प्रपञ्चनिवृत्तेर्नियोगकरणस्य इतिकर्तव्यताऽभावात्, अनुपकृतस्य च करणत्वायोगान्न करणत्वम्। कथम् इतिकर्तव्यताऽभाव इति चेत् – इत्थम् – अस्येतिकर्तव्यता भावरूपा? अभावरूपा? वा। भावरूपा च करणशरीरनिष्पत्तितदनुग्रहकार्यभेदभिन्ना। उभयविधा च न सम्भवति। न हि मुद्गराभिघातादिवत् कृत्स्नस्य प्रपञ्चस्य निवर्तक: कोऽपि दृश्यत इति दृष्टार्था न सम्भवति। नापि निष्पन्नस्य कारणस्य कार्योत्पत्तावनुग्रहस्सम्भवति, अनुग्राहकांशसद्भावेन कृत्स्नप्रपञ्चनिवृत्तिरूपकरणस्वरूपासिद्धे:। ब्रह्मणोऽद्वितीयत्वज्ञानं प्रपञ्चनिवृत्तिरूपकरणशरीरं निष्पादयतीति चेत् तेनैव प्रपञ्चनिवृत्तिरूपो मोक्षस्सिद्ध इति न करणादिनिष्पाद्यम् अवशिष्यत इति पूर्वमेवोक्तम्। अभावरूपत्वे चाभावादेव न करणशरीरं निष्पादयति । नाप्यनुग्राहक:। अतो निष्प्रपञ्चब्रह्मविषयो विधिर्न सम्भवति॥

(ध्याननियोगवादिपक्षोपक्षेपः)

अन्योऽप्याह – यद्यपि वेदान्तवाक्यानां न परिनिष्पन्नब्रह्मस्वरूपपरतया प्रामाण्यम्। तथाऽपि ब्रह्मस्वरूपं  सिध्यत्येव। कुत:? ध्यानविधिसामर्थ्यात्। एवमेव हि समामनन्ति – आत्मा वा अरे द्रष्टव्य: … निदिध्यासतिव्य: (बृ.४.४.५) य आत्मा अपहतपाप्मा सोऽन्वेष्टव्यस्स विजिज्ञासतिव्य: (छा.८.७.१) आत्मेत्येवोपासीत (बृ.३.४.७) आत्मानमेव लोकमुपासीत इति। अत्र ध्यानविषयो हि नियोगस्स्वविषयभूतध्यानं ध्येयैकनिरूपणीयम् इति ध्येयमाक्षिपति। स च ध्येयस्स्ववाक्यनिर्दिष्ट आत्मा। स किंरूप इत्यपेक्षायां तत्स्वरूपविशेषसमर्पणद्वारेण सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१) सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इत्येवमादीनां वाक्यानां ध्यानविधिशेषतया प्रामाण्यम् – इति। विधिविषयभूतध्यानशरीरानुप्रविष्टब्रह्मस्वरूपेऽपि तात्पर्यमस्त्येव। अत: एकमेवाद्वतीयम् (छां.६.२.१) तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो (छा.६.८.७), नेह नानाऽस्ति किञ्चन (कठ.४.११) इत्यादिभिर्ब्रह्मस्वरूपमेकमेव सत्यं तद्व्यतिरिक्तं सर्वं मिथ्येत्यवगम्यते। प्रत्यक्षादिभि: भेदावलम्बिना च कर्मशास्त्रेण भेद: प्रतीयते। भेदाभेदयो: परस्परविरोधे सत्यनाद्यविद्यामूलत्वेनापि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इति निश्चीयते। तत्र ब्रह्मध्याननियोगेन तत्साक्षात्कारफलेन निरस्तसमस्ताविद्याकृतविविधभेदाद्वितीयज्ञानैकरस-ब्रह्मरूपमोक्ष: प्राप्यते॥

 न च वाक्याद्वाक्यार्थज्ञानमात्रेण ब्रह्मभावसिद्धि:, अनुपलब्धे:; विविधभेददर्शनानुवृत्तेश्च। तथा च सति श्रवणादिविधानमनर्थकं स्यात्॥

(मायावादिकृतः ध्याननियोगवादिपक्षप्रतिक्षेपः)

अथोच्येत – रज्जुरेषा न सर्प: इत्युपदेशेन सर्पभयनिवृत्तिदर्शनात् रज्जुसर्पवत् बन्धस्य च मिथ्यारूपत्वेन ज्ञानबाध्यतया तस्य वाक्यजन्यज्ञानेनैव निवृत्तिर्युक्ता; न नियोगेन। नियोगसाध्यत्वे मोक्षस्यानित्यत्वं स्यात्, स्वर्गादिवत् । मोक्षस्य नित्यत्वं हि सर्ववादिसम्प्रतिपन्नम्।

(नियोगस्य विपरीतफलप्रदत्वम्)

किञ्च धर्माधर्मयो: फलहेतुत्वं स्वफलानुभवानुगुणशरीरोत्पादनद्वारेणेति ब्रह्मादिस्थावरान्त-चतुर्विधशरीरसम्बन्धरूप-संसारफलत्वमवर्जनीयम्। तस्मान्न धर्मसाध्यो मोक्ष:। तथा च श्रुति: न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत: (छा.८.१२.१) इत्यशरीरत्वरूपे  मोक्षे धर्माधर्मसाध्यप्रियाप्रियविरहश्रवणात्, न धर्मसाध्यमशरीरत्वमिति विज्ञायते। न च नियोगविशेषसाध्य-फलविशेषवत् ध्याननियोगसाध्यमशरीरत्वम्, अशरीरत्वस्य स्वरूपत्वेन असाध्यत्वात्। यथाऽऽहु: श्रुतय: – अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति (कठ.१.२.२२), अप्राणो ह्यमनाश्शुभ्र: (मुण्ड.२.१.२.), असङ्गो ह्ययं पुरुष: (बृ.६.३.१५) इत्याद्या:। अतोऽशरीरत्वरूपो मोक्षो नित्य इति न धर्मसाध्य:। तथा च श्रुति:- अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद (कठ.१.२.१४) इति॥

(मुखान्तरेण मोक्षस्य नियोगसाध्यत्वदूषणम्)

अपि च – उत्पत्तिप्राप्तिविकृतिसंस्कृतिरूपेण चतुर्विधं हि साध्यत्वं मोक्षस्य न सम्भवति। न तावदुत्पाद्य:, मोक्षस्य ब्रह्मस्वरूपत्वेन नित्यत्वात्। नापि प्राप्य:, आत्मस्वरूपत्वेन ब्रह्मणो नित्यप्राप्तत्वात्। नापि विकार्य:, दध्यादिवदनित्यत्वप्रसङ्गादेव। नापि संस्कार्य:; संस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति। न तावद्दोषापनयनेन, नित्यशुद्धत्वाद्ब्रह्मण:। नाप्यतिशयाधानेन, अनाधेयातिशयस्वरूपत्वात्। नित्यनिर्विकारत्वेन स्वाश्रयाया: पराश्रयायाश्च क्रियाया  अविषयतया न निर्घर्षणेनाऽदर्शादिवदपि संस्कार्यत्वम्। न च देहस्थया स्नानादिक्रियया आत्मा संस्क्रियते; किं त्वविद्यागृहीतस्तत्सङ्गतोऽहङ्कर्ता। तत्फलानुभवोऽपि तस्यैव। न चाहङ्कर्तैवाऽत्मा, तत्साक्षित्वात्। तथा च मन्त्रवर्ण:- तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो  अभिचाकशीति (मुण्ड.३.१.१) इति; आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण: (कठ.३.४), एको देवस्सर्वभूतेषु गूढ: सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षस्सर्वभूताधिवास: साक्षी चेता केवलो निर्गुणश्च । (श्वे.६.अ.११), सपर्यगाच्छुक्रमकायमब्रणमस्नाविरं  शुद्धमपापविद्धम्। (ईश.८) इति च। अविद्यागृहीतादहङ्कर्तुरात्मस्वरूपमनाधेयातिशयं नित्यशुद्धं निर्विकारं निष्कृष्यते। तस्मादात्मस्वरूपत्वेन न साध्यो मोक्ष:॥

(ज्ञानवैयर्थ्यशङ्कापरिहारौ)

यद्येवं किं वाक्यार्थज्ञानेन क्रियत इति चेत् – मोक्षप्रतिबन्धनिवृत्तिमात्रमिति ब्रूम:। तथा च श्रुतय:- त्वं हि न: पिता योऽस्माकमविद्याया: परं पारं तारयसि (प्रश्न ६.८) इति, श्रुतं ह्येवमेव भगवद्दृशेभ्यस्तरति शोकमात्मविदिति, सोऽहं भगवश्शोचामि । तं मा भगवान् शोकस्य पारं तारयतु (छां.७.१.३), तस्मै मृदितकषायाय तमस: पारं दर्शयति भगवान् सनत्कुमार: (छा.७.२६.२) इत्याद्या:। तस्मान्नित्यस्यैव मोक्षस्य प्रतिबन्धनिवृत्तिर्वाक्यार्थज्ञानेन क्रियते। निवृत्तिस्तु साध्याऽपि प्रध्वंसाभावरूपा न विनश्यति। ब्रह्म वेद ब्रह्मैव भवति (मुण्ड.३.२.९), तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) इत्यादिवचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयन्नियोगव्यवधानं प्रतिरुणद्धि। न च विदिक्रिया कर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेश: उभयविधकर्मत्वप्रतिषेधात्। अन्यदेवतद्विदितादथो अविदितादधि (केन.१.ख.३), येनेदं  सर्वं विजानाति तत्केन विजानीयात् इति। (बृ.४.४.१४), तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते (केन.उ.1-5) इति च॥

 न चैतावता शास्त्रस्य न्Ћिर्वषयत्वम्,  अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य। न हीदन्तया ब्रह्म विषयीकरोति शास्त्रम्;  अपि तु  अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयदविद्याकल्पितज्ञानज्ञातृज्ञेयविभागं निवर्तयति। तथा च शास्त्रं – न दृष्टेर्द्रष्टारं पश्ये: (बृ.५.४.२) इत्येवमादि  ॥

(ज्ञानादेव बन्धनिवृत्त्यभ्युपगमे शास्त्रप्रत्यक्षविरोधशङ्का-परिहारौ)

न च ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम्, स्वभावप्रवृत्तसकलेतरविकल्प-विमुखीकरणद्वारेण वाक्यार्थावगतिहेतुत्वात्तेषाम्। न च ज्ञानमात्रात् बन्धनिवृत्तिर्न दृष्टेति वाच्यम्, बन्धस्य मिथ्यारूपत्वेन ज्ञानोत्तरकालं स्थित्यनुपपत्ते:। अत एव न शरीरपातादूर्ध्वमेव बन्धनिवृत्तिरिति वक्तुं युक्तम्। न हि मिथ्यारूपसर्पभयनिवृत्ति: रज्जुयाथात्म्यज्ञानातिरेकेण सर्पविनाशमपेक्षते। यदि शरीरसम्बन्ध: पारमार्थिक: तदा हि तद्विनाशापेक्षा। स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिक:। यस्य तु बन्धो न निवृत्त:, तस्य ज्ञानमेव न जातमित्यवगम्यते, ज्ञानकार्यादर्शनात्। तस्मात् शरीरस्थितिर्भवतु वा मा वा, वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ। अतो न ध्याननियोगसाध्यो मोक्ष इति न ध्यानविधिशेषतया ब्रह्मणस्सिद्धि:।  अपि तु सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१), तत्वमसि (छा.६.८.७), अयमात्मा ब्रह्म (मांडू.१.२) इति तत्परेणैव पदसमुदायेन  सिध्यतीति॥

(उक्तार्थस्य ध्याननियोगवादिकृतं दूषणम्)

तदयुक्तं, वाक्यार्थज्ञानमात्राद्बन्धनिवृत्त्यनुपपत्ते:। यद्यपि मिथ्यारूपो बन्धो ज्ञानबाध्य:। तथाऽपि बन्धस्यापरोक्षत्वात् न परोक्षरूपेणवाक्यार्थज्ञानेन स बाध्यते, रज्ज्वादावपरोक्षसर्पप्रतीतौ वर्तमानायां नायं सर्पो रज्जुरेषा इत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण भयानिवृत्तिदर्शनात्। आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्षनिमित्तप्रवृतिहेतुत्वेन ॥

(तत्र शब्दस्य अपरोक्षज्ञानहेतुतादूषणम्)

तथा हि – रज्जुसर्पदर्शनभयात् परावृत्त: पुरुषो नायं सर्पो रज्जुरेषा इत्याप्तोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तस्तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्तते। न च शब्द  एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम्, तस्यानिन्द्रियत्वात्। ज्ञानसामग्रीष्विन्द्रयाण्येव ह्यपरोक्षसाधनानि। न चास्यानभिसंहितफलकर्मानुष्ठानमृदितकषायस्य श्रवणमनननिदिध्यासनविमुखीकृतबाह्यविषयस्य पुरुषस्य वाक्यमेवापरोक्षज्ञानं जनयति, निवृत्तप्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्रीविशेषाणामिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् ॥

(ध्यानस्य वाक्यार्थज्ञानोपायत्वदूषणम्)

न च ध्यानस्य वाक्यर्थज्ञानोपायता, इतरेतराश्रयत्वात् – वाक्यार्थज्ञाने जाते  तद्विषयध्यानम्, ध्याने निर्वृत्ते वाक्यार्थज्ञानम् – इति। न च ध्यानवाक्यार्थज्ञानयोर्भिन्नविषयत्वम्, तथा सति ध्यानस्य वाक्यार्थज्ञानोपायता न स्यात्। न ह्यन्यद्ध्यानमन्यौन्मुख्यमुत्पादयति। ज्ञातार्थस्मृतिसन्ततिरूपस्य ध्यानस्य वाक्यार्थज्ञानपूर्वकत्वमवर्जनीयम्, ध्येयब्रह्मविषयज्ञानस्य हेत्वन्तरासंभवात्। । न च ध्यानमूलं ज्ञानं वाक्यान्तरजन्यम् निवर्तकज्ञानं तत्त्वमस्यादिवाक्यजन्यमिति युक्तम्। ध्यानमूलमिदं वाक्यान्तरजन्यं ज्ञानं तत्वमस्यादिवाक्यजन्यज्ञानेनेनैकविषयम्, भिन्नविषयं वा । एकविषयत्वे तदेवेतरेतराश्रयत्वम्। भिन्नविषयत्वे ध्यानेन तदौन्मुख्यापादनासंभव:। किञ्च ध्यानस्य ध्येयध्यात्राद्यनेकप्रपञ्चापेक्षत्वात् निष्प्रपञ्चब्रह्मात्मैकत्व-विषयवाक्यार्थज्ञानोत्पत्तौ दृष्टद्वारेण नोपयोग इति वाक्यार्थज्ञानमात्रादविद्यानिवृत्तिं वदत: श्रवणमनननिदिध्यासनविधीनामानर्थक्यमेव॥

(अनेन जीवन्मुक्तिनिराससिद्ध्युपपादनम्)

यतो वाक्यादापरोक्ष्यज्ञानासम्भवाद्वाक्यार्थज्ञानेनाविद्या न निवर्तते, तत एव जीवन्मुक्तिरपि दूरोत्सारिता। का चेयं जीवन्मुक्ति:? सशरीरस्यैव मोक्ष इति चेत् – माता मे वन्ध्या इतिवदसङ्गतार्थं वच:, यतस्सशरीरत्वं बन्ध: अशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुपपादितम्। अथ सशरीरत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्यय: तस्य सशरीरत्वनिवृत्तिरिति। न, मिथ्येति प्रत्ययेन सशरीरत्वं निवृत्तं चेत् – कथं सशरीरस्य मुक्ति:?। अजीवतोऽपि मुक्तिस्सशरीरत्वमिथ्याप्रतिभासनिवृत्तिरेवेति कोऽयं जीवन्मुक्तिरिति विशेष:। अथ सशरीरत्वप्रतिभासो बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते, स जीवन्मुक्त इति चेत् न, ब्रह्मव्यतिरिक्तसकलवस्तुविषयत्वाद्बाधकज्ञानस्य। कारणभूताविद्याकर्मादिदोषस्सशरीरत्व-प्रतिभासेन सह तेनैव बाधित इति बाधितानुवृत्तिर्न शक्यते वक्तुम्। द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य बाधकज्ञानभूतचन्द्रैकत्वज्ञान-विषयत्वेनाबाधितत्वात् द्विचन्द्र-प्रतिभासानुवृत्तिः युक्ता ॥

(जीवन्मुक्तेः श्रुतिविरुद्धत्वोपपादनम्)

किञ्च तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छां.६.१४.२) इति सद्विद्यानिष्ठस्य शरीरपातमात्रमपेक्षते मोक्ष इति वदन्तीयं श्रुति: जीवन्मुक्तिं वारयति ॥

(जीवन्मुक्तेः स्मृतिविरुद्धता)

सैषा जीवन्मुक्तिरापस्तम्बेनापि निरस्ता – …वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत्, (आप.धर्म.सू.२.९.२१.१३) बुद्धे क्षेमप्रापणं (आप.धर्म.सू.२.९.२१.१४) तच्छास्त्रैर्विप्रतिषिद्धम्  (आप.धर्म.सू.२.९.२१.१५), बुद्धे चेत् क्षेमप्रापणमिहैव न दु:खमुपलभेत (आप.धर्म.सू.२.९.२१.१६), एतेन परं व्याख्यातम् ((आप.धर्म.सू.२.९.२१.१७) इति। अनेन ज्ञानमात्रान्मोक्षश्च निरस्त:। अतस्सकलभेदनिवृत्तिरूपा मुक्तिर्जीवतो न संभवति॥

(ध्याननियोगस्यैवेष्टार्थसाधकत्वम्)

तस्माद्ध्याननियोगेन ब्रह्मापरोक्षज्ञानफलेनैव बन्धनिवृत्ति:। न च नियोगसाध्यत्वे मोक्षस्यानित्यत्वप्रसक्ति:, प्रतिबन्धनिवृत्तिमात्रस्यैव साध्यत्वात्। किञ्च – न नियोगेन साक्षात् बन्धनिवृत्ति: क्रियते; किन्तु निष्प्रपञ्चज्ञानैकरसब्रह्मापरोक्ष्यज्ञानेन। नियोगस्तु तदापरोक्ष्यज्ञानं जनयति।

कथं नियोगस्य ज्ञानोत्पत्तिहेतुत्वमिति चेत् – कथं वा भवतोऽनभिसंहितफलानां कर्मणां वेदनोत्पत्तिहेतुत्वम्? मनोनैर्मल्यद्वारेणेति चेत् – ममापि तथैव। मम तु निर्मले मनसि शास्त्रेण ज्ञानमुत्पाद्यते। तव तु नियोगेन मनसि निर्मले ज्ञानसामग्री वक्तव्येति चेत् ध्याननियोगनिर्मलं मन एव साधनमिति ब्रूम:। केनावगम्यत इति चेत् – भवतो वा कर्मभिर्मनो निर्मलं भवति, निर्मले मनसि श्रवणमनननिदिध्यासनैस्सकलेतरविषयविमुखस्यैव शास्त्रं निवर्तकज्ञानमुत्पादयतीति केनावगम्यते? विविदिषन्ति यज्ञेन दानेन तपसाना शकेन (बृ.६.४.२२), श्रोतव्यो मन्तव्यो निदिध्यासितव्य: (बृ.६.५.६), ब्रह्म वेद ब्रह्मैव भवति (मुण्ड.३.२.९) इत्यादिभिश्शास्त्रैरिति चेत् ममापि (बृ.६.५.६) श्रोतव्यो मन्तव्यो निदध्यासितव्य:, ब्रह्मविदाप्नोति परम् (तै.आ.१), न चक्षुषा गृह्यते नापि वाचा (मुण्ड.३.१.८), मनसा तु विशुद्धेन (व्यासस्मृति:), हृदा मनीषा मनसाभिक्लृप्त: (तै.ना) इत्यादिभिश्शास्त्रैर्ध्याननियोगेन मनो निर्मलं भवति, निर्मलं च मनो ब्रह्मापरोक्षज्ञानं जनयतीत्यवगम्यते – इति निरवद्यम्॥

(ब्रह्मणः उपास्यत्वनिषेधशङ्कापरिहारौ)

नेदं यदिदमुपासते (कैन.१.५) इत्युपास्यत्वं प्रतिषिद्धमिति चेत् नैवम्, नात्र ब्रह्मण: उपास्यत्वं प्रतिषिध्यते;  अपि तु ब्रह्मणो जगद्वैरूप्यं प्रतिपाद्यते। यदिदं जगदुपासते प्राणिन: नेदं ब्रह्म; तदेव ब्रह्म त्वं विद्धि; यद्वाचाऽनभ्युदितं येन वागभ्युद्यते इति वाक्यार्थ:। अन्यथा तदेव ब्रह्म त्वं विद्धि इति विरुध्यते। ध्यानविधिवैयर्थ्यं च स्यात्। अतो ब्रह्मसाक्षात्कारफलेन ध्यानयोगेनैवापरमार्थभूतस्य कृत्स्नस्य द्रष्टृदृश्यादिप्रपञ्चरूपबन्धस्य निवृत्ति:॥

(ध्याननियोगवादिकृतः भास्कराभिमतभेदाभेदानुवादपूर्वकः तन्निरासः)

यदपि कैश्चिदुक्तम् – भेदाभेदयोर्विरोधो न विद्यते – इति, तदयुक्तम्, न हि शीतोष्णतम:प्रकाशादिवद्भेदाभेदावेकस्मिन्वस्तुनि संङ्गच्छेते। अथोच्येत – सर्वं हि वस्तुजातं प्रतीतिव्यवस्थाप्यम्। सर्वं च भिन्नाभिन्नं प्रतीयते। कारणात्मना जात्यात्मना चाभिन्नम्। कार्यात्मना व्यक्त्यात्मना च भिन्नम्। छायातपादिषु विरोधस्सहानवस्थानलक्षणो भिन्नाधारत्वरूपश्च। कार्यकारणयोर्जातिव्यक्त्योश्च तदुभयमपि नोपलभ्यते। प्रत्युत एकमेव वस्तु द्विरूपं प्रतीयते; यथा मृदयं घट:, खण्डो गौ:, मुण्डो गौ: इति। न चैकरूपं किञ्चिदपि वस्तु लोके  दृष्टचरम्। न च तृणादेर्ज्वलनादिवदभेदो भेदोपमर्दी दृश्यत इति न वस्तुविरोध:; मृत्सुवर्णगवाश्वाद्यात्मनाऽवस्थितस्यैव घटमुकुटखण्डबडवाद्यात्मना चावस्थानात्। न चाभिन्नस्य भिन्नस्य च वस्तुनोऽभेदो भेदश्च एक एवाकार इतीश्वराज्ञा। प्रतीतत्वादैकरूप्यं चेत् प्रतीतत्वादेव भिन्नाभिन्नत्वमिति द्वैरूप्यमप्यभ्युपगम्यताम्। न हि विस्फारिताक्ष: पुरुषो घटशरावखण्डमुण्डादिषु वस्तुषूपलभ्यमानेषु इयं मृत्, अयं घट:, इदं गोत्वम्, इयं व्यक्ति: इति विवेक्तुं शक्नोति।  अपि तु मृदयं घट:, खण्डो गौ: इत्येव प्रत्येति। अनुवृत्तिबुद्धिबोध्यं कारणमाकृतिश्च, व्यावृत्तिबुद्धिबोध्यं कार्यं व्यक्तिश्चेति विविनक्तीति चेत् – नैवम्, विविक्ताकारानुपलब्धे:। न हि सुसूक्ष्ममपि निरीक्षमाणै: इदमनुवर्तमानम्, इदं च व्यावर्तमानम् इति पुरोऽवस्थिते वस्तुन्याकारभेद उपलभ्यते। यथा संप्रतिपन्नैक्ये कार्ये विशेषे चैकत्वबुद्धिरुपजायते; तथैव सकारणे ससामान्ये चैकत्वबुद्धिरविशिष्टोपजायते। एवमेव देशत: कालतश्चाकारतश्च अत्यन्तविलक्षणेष्वपि वस्तुषु तदेवेदमिति प्रत्यभिज्ञा जायते। अतो द्व्यात्मकमेव वस्तु प्रतीयत इति कार्यकारणयोर्जातिव्यक्त्योश्चात्यन्तभेदोपपादनं प्रतीतिपराहतम् ॥

(शङ्कापूर्वकं भेदाभेदपक्षस्थिरीकरणम्)

अथोच्येत – मृदयं घट:, खण्डो गौ: इतिवत् देवोऽहं, मनुष्योऽहम् इति सामानाधिकरण्येनैक्यप्रतीतेरात्मशरीरयोरपि भिन्नाभिन्नत्वं स्यात्; अत इदं भेदाभेदोपपादनं निजसदननिहितहुतवहज्वालायत इति, तदिदमनाकलितभेदाभेद- साधनसामानाधिकरण्य-तदर्थयाथात्म्यावबोधविलसतिम्। तथा हि अबाधित एव प्रत्यय: सर्वत्रार्थं व्यवस्थापयति। देवाद्यात्माभिमानस्तु आत्मयाथात्म्यगोचरैस्सर्वै: प्रमाणैर्बाध्यमानो रज्जुसर्पादिबुद्धिवत् न आत्मशरीरयोरभेदं साधयति। खण्डो गौ:, मुण्डो गौ: इति सामानाधिकरण्यस्य न केनिचित्क्वचिद्बाधो दृश्यते। तस्मान्नातिप्रसङ्ग: ॥

(जीवब्रह्मणोः भेदाभेदप्रतिपादनम्)

अत एव जीवोऽपि ब्रह्मणो नात्यन्तभिन्न:।  अपि तु ब्रह्मांशत्वेन भिन्नाभिन्न:। तत्राभेद एव स्वाभाविक:, भेदस्त्वौपाधिक: कथमवगम्यत इति चेत्? तत्त्वमसि (छा.६.८.७) नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिभिश्श्रुतिभि: ब्रह्मेमे द्यावापृथिवी (अथर्वब्रह्मसूक्तं) इति प्रकृत्य ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उत। स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान् (अथर्वब्रह्मसूक्तं) इत्याथर्वणिकानां संहितोपिनषिदि ब्रह्मसूक्ते अभेदश्रवणाच्च। नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१९), ज्ञाज्ञौ द्वावजावीशनीशाै (श्वे.५.१२), क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्ट: (श्वे.५.१२), प्रधानक्षेत्रज्ञपतिर्गुणेश: संसारमोक्षस्थितिबन्धहेतु: (श्वे.६.१६), स कारणं करणाधिपाधिप: (श्वे.६.९), तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो  अभिचाकशीति (श्वे.४.६), य आत्मनि तिष्ठन् (बृ.५.७.२२), प्राज्ञेनाऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद…, प्राज्ञेनाऽत्मनाऽन्वारूढ: उत्सर्जन्याति (बृ.६.३.२१,३५), तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) इत्यादिभिर्भेदश्रवणाच्च, जीवपरयोर्भेदाभेदाववश्याश्रयणीयौ, तत्र ब्रह्म वेद ब्रह्मैव भवति (मुण्ड.३.२.९) इत्यादिभिर्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापत्तिव्यपदेशात्। यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ.४.४.१४) इति तदानीं भेदेनेश्वरदर्शननिषेधाच्चाभेदस्स्वाभाविक इत्यवगम्यते।

(मुक्तौ भेददर्शनस्य श्रौतत्वशङ्कापरिहारौ)

ननु च सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (तै.आ.१) इति सह श्रुत्या तदानीमपि भेद: प्रतीयते वक्ष्यति च  जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च (ब्र.सू.४.४.१७) भोगमात्रसाम्यलिङ्गाच्च (ब्र.सू.४.४.२१) इति। नैतदेवम् नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात्। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.अन.१.) इति सर्वै: कामैस्सह ब्रह्माश्नुते – सर्वगुणान्वितं ब्रह्माश्नुत इत्युक्तं भवति। अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मण: प्रसज्येत। जगद्व्यापारवर्जम् इत्यत्र मुक्तस्य भेदेनावस्थाने सत्यैश्वर्यस्य न्यूनताप्रसङ्गो वक्ष्यते अन्यथा संपद्याविर्भावस्स्वेनशब्दात् (ब्र.सू.४.४.१) इत्यादिभिर्विरोधात्। तस्मादभेद एव स्वाभाविक:। भेदस्तु जीवानां परस्मात् ब्रह्मण: परस्परं च बुद्धीन्द्रियदेहोपाधिकृत:। यद्यपि ब्रह्म निरवयवं सर्वगतं च; तथाऽप्याकाश इव घटादिना बुद्ध्याद्युपाधिना ब्रह्मण्यपि भेदस्संभवत्येव। न च भिन्ने ब्रह्मणि बुद्ध्याद्युपाधिसंयोग:, बुद्ध्याद्युपाधिसंयोगाद्ब्रह्मणि भेद इतीतरेतराश्रयत्वम्; उपाधेस्तत्संयोगस्य च कर्मकृतत्वात् तत्प्रवाहस्य चानादित्वात्। एतदुक्तं भवति – पूर्वकर्मसंबद्धाज्जीवात् स्वसंबद्ध एवोपाधिरुत्पद्यते तद्युक्तात्कर्म। एवं बीजाङ्कुरन्यायेन कर्मोपाधिसंबन्धस्यानादित्वान्न दोष: – इति। अतो जीवानां परस्परं ब्रह्मणा चाभेदवत् भेदोऽपि स्वाभाविक:, भेदस्त्वौपाधिक: । उपाधीनां पुन: परस्परं ब्रह्मणा चाभेदवत् भेदोऽपि स्वाभाविक: । उपाधीनामुपाध्यन्तराभावात्, तदभ्युपगमेऽनवस्थानाच्च  अतो जीवकर्मानुरूपं ब्रह्मणो भिन्नाभिन्नस्वभावा एवोपाधय उत्पद्यन्ते – इति॥

(ध्याननियोगवादिकृतं भेदाभेददूषणम्)

अत्रोच्यते – अद्वितीयसच्चिदानन्दब्रह्मध्यानविषयविधिपरं वेदान्तवाक्यजातमिति वेदान्तवाक्यैरभेद: प्रतीयते। भेदावलम्बिभि: कर्मशास्त्रै: प्रत्यक्षादिभिश्च भेद: प्रतीयते। भेदाभेदयो: परस्परविरोधात् अनाद्यविद्यामूलतयाऽपि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इत्युक्तम्। तत्र यदुक्तं – भेदोभेदयोरुभयोरपि प्रतीतिसिद्धत्वान्न विरोध इति। तदयुक्तम्, कस्माच्चित्कस्यचिद्विलक्षणत्वं हि तस्मात्तस्य भेद:।  तद्विपरीतत्वं चाभेद:। तयोस्तथाभावातथाभावरूपयोरेकत्र सम्भवमनुन्मत्त: को ब्रवीति? कारणात्मना जात्यात्मना चाभेद:, कार्यात्मना व्यक्त्यात्मना च भेद: इत्याकारभेदादविरोध इति चेत् – न, विकल्पासहत्वात्। आकारभेदादविरोधं वदत: किमेकस्मिन्नाकारे भेद:, आकारान्तरे चाभेद: – इत्यभिप्राय:?; उताकारद्वययोगिवस्तुगतावुभावपीति? पूर्वस्मिन् कल्पे व्यक्तिगतो भेद:, जातिगतश्चाभेद इति नैकस्य द्व्यात्मकता। जातिर्व्यक्तिरिति चैकमेव वस्त्विति चेत् – तर्ह्याकारभेदादविरोध: परित्यक्त: स्यात्। एकस्मिंश्च विलक्षणत्वतद्विपर्ययौ विरुद्धावित्युक्तम्। द्वितीये तु कल्पे अन्योन्यविलक्षणमाकारद्वयम्, अप्रतिपन्नं च तदाश्रयभूतं वस्त्विति तृतीयाभ्युपगमेऽपि त्रयाणामन्योन्यवैलक्षण्यमेवोपपादितं स्यात्;     न पुनरभेद:। आकारद्वयनिरुह्यमाणाविरोधं तदाश्रयभूते वस्तुनि भिन्नाभिन्नत्वमिति चेत् स्वस्माद्विलक्षणं स्वाश्रयमाकारद्वयं स्वस्मिन्विरुद्धधर्मद्वयसमावेशनिर्वाहकं कथं भवेत्?।  अविलक्षणं तु कथंतराम्? आकारद्वयतद्वतोश्च द्व्यात्मकत्वाभ्युपगमे निर्वाहकान्तरापेक्षयाऽनवस्था स्यात्। न च सम्प्रतिपन्नैक्यव्यक्तिप्रतीतिवत् ससामान्येऽपि वस्तुन्येकरूपा प्रतीतिरुपजायते,  यत: इदमित्थम् इति सर्वत्र प्रकारप्रकारतयैव सर्वा प्रतीति:। तत्र प्रकारांशो जाति: प्रकार्यंशो व्यक्तिरिति नैकाकारा प्रतीति:।

(लौकिके वस्तुनीव वैदिकेऽपि भेदाभेदयोः विरुद्धता)

अत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वं न सम्भवति। तस्मादभेदस्यानन्यथा सिद्धशास्त्रमूलत्वात् अनाद्यविद्यामूल एव भेदप्रत्यय:। नन्वेवं ब्रह्मण एवाज्ञत्वं तन्मूलाश्च  जन्मजरामरणादयो दोषा: प्रादु:ष्यु:। ततश्च यस्सर्वज्ञस्सर्ववित् (मुण्ड.१.१.९), एष आत्माऽपहतपाप्मा (छा.८.१.५) इत्यादीनि शास्त्राणि बाध्येरन्। नैवम् – अज्ञानादिदोषाणामपरमार्थत्वात्। भवतस्तूपाधिब्रह्मव्यतिरिक्तं वस्त्वन्तरमनभ्युगच्छतो ब्रह्मण्येवोपाधिसंसर्गस्तत्कृताश्च जीवत्वाज्ञत्वादयो दोषा: परमार्थत एव भवेयु:। न हि ब्रह्मणि निरवयवे अच्छेद्ये सम्बध्यमाना उपाधयस्तच्छित्वा भित्वा वा सम्बध्यन्ते।  अपि तु ब्रह्मस्वरूपे संयुज्य तस्मिन्नेव स्वकार्याणि कुर्वन्ति ॥

(ब्रह्मणः उपहितानुपहितांशभेदेन सदोषत्वनिर्दोषत्वोपपादनम्)

यदि मन्वीत – उपाध्युपहितं ब्रह्म जीव:। स चाणुपरिमाण:। अणुत्वं चावच्छेदकस्य मनसोऽणुत्वात्। स चावच्छेदोऽनादि: एवमुपाध्युपहितेंशे सम्बध्यमाना दोषा: अनुपहिते परे ब्रह्मणि न सम्बध्यन्त – इति। अयं प्रष्टव्य: किमुपाधिना छिन्नो ब्रह्मखण्डोऽणुरूपो जीव:? उताच्छिन्न एवाणुरूपोपाधिसंयुक्तो ब्रह्मप्रदेशविशेष:? उतोपाधिसंयुक्तं ब्रह्मस्वरूपम्?। अथोपाधिसंयुक्तं चेतनान्तरम्?। अथोपाधिरेव? इति। अच्छेद्यत्वाद्ब्रह्मण: प्रथम: कल्पो न कल्पते। आदिमत्त्वं च जीवस्य स्यात्। एकस्य सतो द्वैधीकरणं हि च्छेदनम्। द्वितीये तु कल्पे ब्रह्मण एव प्रदेशविशेषे उपाधिसम्बन्धादौपाधिकास्सर्वे दोषास्तस्यैव स्यु:। उपाधौ गच्छत्युपाधिना स्वसंयुक्तब्रह्मप्रदेशाकर्षणायोगादनुक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदात् क्षणेक्षणे बन्धमोक्षौ च स्याताम्। आकर्षणे चाच्छिन्नत्वात् कृत्स्नस्य ब्रह्मण: आकर्षणं स्यात्। निरंशस्य व्यापिन: आकर्षणं न सम्भवतीति चेत् तर्हि उपाधिरेव गच्छतीति पूर्वोक्त एव दोष: स्यात्।  अच्छिन्नब्रह्मप्रदेशेषु सर्वोपाधिसंसर्गे सर्वेषां च जीवानां ब्रह्मण एव प्रदेशत्वेनैकत्वेन प्रतिसन्धानं न स्यात्। प्रदेशभेदादप्रतिसन्धाने चैकस्यापि स्वोपाधौ गच्छति प्रतिसन्धानं न स्यात्। तृतीये तु कल्पे ब्रह्मस्वरूपस्यैवोपाधिसम्बन्धेन जीवत्वापातात् तदतिरिक्तानुपहितब्रह्मासिद्धि: स्यात्। सर्वेषु च देहेष्वेक एव जीव: स्यात्। तुरीये तु कल्पे ब्रह्मणोऽन्य एव जीव इति जीवभेदस्यौपाधिकत्वं परित्यक्तं स्यात्। चरमे चार्वाकपक्ष एव परिगृहीत: स्यात् ॥

(भेदाभेददूषणोपसंहारः)

तस्मादभेदशास्त्रबलेन कृत्स्नस्य भेदस्याविद्यामूलत्वमेवाभ्युपगन्तव्यम्। अत: प्रवृत्तिनिवृत्तिप्रयोजनपरतयैव शास्त्रस्य प्रामाण्येऽपि ध्यानविधिशेषतया वेदान्तवाक्यानां ब्रह्मस्वरूपे प्रामाण्यमुपपन्नम् – इति॥

(मीमांसककृतं ध्याननियोगवादिदूषणम्)

तदप्ययुक्तम् – ध्यानविधिशेषत्वेऽपि वेदान्तवाक्यानामर्थसत्यत्वे प्रामाण्यायोगात्। एतदुक्तं भवति – ब्रह्मस्वरूपगोचराणि वाक्यानि किं ध्यानविधिनैकवाक्यतामापन्नानि ब्रह्मस्वरूपे प्रामाण्यं प्रतिपद्यन्ते; उत स्वतन्त्राण्येव? एकवाक्यत्वे ध्यानविधिपरत्वेन ब्रह्मस्वरूपे तात्पर्यं न सम्भवति। भिन्नवाक्यत्वे प्रवृत्तिनिवृत्तिप्रयोजनविरहादनवबोधकत्वमेव। न च वाच्यम् ध्यानं नाम स्मृतिसन्ततिरूपम्। तच्च स्मर्तव्यैकनिरूपणीयमिति ध्यानविधेस्स्मर्तव्य विशेषाकाङक्षायां इदं सर्व यदयमात्मा (बृ.४.४.६), ब्रह्म सर्वानुभू: (बृ.४.५.१९), सत्यं ज्ञानमनन्तं ब्रह्म (तै.आनं.१) इत्यादीनि स्वरूपतद्विशेषादीनि समर्पयन्ति। तेनैकवाक्यतामापन्नान्यर्थसद्भावे प्रमाणम् इति; ध्यानविधेस्स्मर्तव्यविशेषापेक्षत्वेऽपि नाम ब्रह्म (छां.७.१.५) इत्यादि दृष्टिविधिवदसत्येनाप्यर्थविशेषेण ध्याननिर्वृत्त्युपपत्ते: ध्येयसत्यत्वानपेक्षणात् ॥

(उक्तार्थसङ्ग्रहपूर्वकं पूर्वपक्षोपसंहारः)

अतो वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिप्रयोजनविधुरत्वाद्ध्यानविधिशेषत्वेऽपि ध्येयविशेषस्वरूप-समर्पणमात्रपर्यवसानात्, स्वातन्त्र्येऽपि बालातुराद्युपच्छन्दनवाक्यवत् ज्ञानमात्रेणैव पुरुषार्थपर्यन्ततासिद्धेश्च परिनिष्पन्नवस्तुसत्यतागोचरत्वाभावात् ब्रह्मणश्शास्त्रप्रमाणकत्वं न सम्भवतीति प्राप्तम् ॥

(विशिष्टाद्वैतिनां सिद्धान्तारम्भः, तत्र सूत्रार्थः)

तत्र प्रतिपाद्यते – ततु समन्वयात् इति। समन्वय: – सम्यगन्वय: पुरुषार्थतयाऽन्वय इत्यर्थ:। परमपुरुषार्थभूतस्यानवधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयाऽन्वयात् तत् शास्त्रप्रमाणकत्वं  सिध्यत्येवेत्यर्थ: ॥

(अप्रामाण्यशङ्कापरिहारः)

निरस्तनिखिलदोषनिरतिशयानन्दस्वरूपतया परमप्राप्यं ब्रह्म बोधयन्वेदान्तवाक्यगण: प्रवृत्तिनिवृत्तिपरताविरहान्न प्रयोजनपर्यवसायीति व्रुवाणो राजकुलवासिन: पुरुषस्य कौलेयककुलाननुप्रवेशेन प्रयोजनशून्यतां ब्रूते ॥

एतदुक्तं भवति – अनादिकर्मरूपाविद्यावेष्टनतिरोहितपरावरतत्त्वयाथात्म्यस्वस्वरूपावबोधानां देवासुरगन्धर्वसिद्धविद्याधरकिन्नरकिम्पुरुषयक्षराक्षसपिशाचमनुजपशुशकुनिसरीसृपवृक्षगुल्मलतादूर्वादीनां स्त्रीपुन्नपंसकभेदभिन्नानां क्षेत्रज्ञानां व्यवस्थितधारकपोषकभोग्यविशेषाणां मुक्तानां स्वस्य चाविशेषेणानुभवसम्भवे स्वरूपगुणविभवचेष्टितैरनवधिकातिशयानन्दजननं परं ब्रह्मास्तीति बोधयदेव वाक्यं प्रयोजनपर्यवसायि। प्रवृत्तिनिवृत्तिनिष्ठं तु यावत्पुरुषार्थान्वयबोधं न प्रयोजनपर्यवसायि ॥

(ध्यानविध्यानर्थक्यपरिहारः)

एवं भूतं परं ब्रह्म कथं प्राप्यत इत्यपेक्षायां ब्रह्मविदाप्नोतिपरम् (तै.आनं.१), आत्मानमेव लोकमुपासीत (बृ.३.४.१५) इति वेदनादिशब्दैरुपासनं ब्रह्मप्राप्त्युपायतया विधीयते। यथा स्ववेश्मनि निधिरस्ति इति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने च प्रयतते। यथा च – कश्चिद्राजकुमारो बालक्रीडासक्तो नरेन्द्रभवनान्निष्कान्तो मार्गाद्भ्रष्टो नष्ट इति राज्ञा विज्ञातस्स्वयं चाज्ञातपितृक: केनचिद्द्विजवर्येण वर्धितोऽधिगतवेदशास्त्रष्षोडशवर्षस्सर्वकल्याण-गुणाकरस्तिष्ठन् पिता ते सर्वलोकाधिपति: गाम्भीर्यौदार्यवात्सल्यसौशील्यशौर्यवीर्य-पराक्रमादिगुणसम्पन्नस्त्वामेव नष्टं पुत्रं दिदृक्षु: पुरवरे तिष्ठति इति केनिचदभियुक्ततमेन प्रयुक्तं वाक्यं शृणोति चेत् – तदानीमेव अहं तावत् जीवत: पुत्र:, मत्पिता च सर्वसम्पत्समृद्ध: इति निरतिशयहर्षसमन्वितो भवति। राजा च स्वपुत्रं जीवन्तमरोगमतिमनोहरदर्शनं विदितसकलवेद्यं श्रुत्वाऽवाप्तसमस्तपुरुषार्थो भवति। पश्चात्तदुपादाने च प्रयतते। पश्चात्तावुभौ सङ्गच्छेते च इति।

यत्पुन: – परिनिष्पन्नवस्तुगोचरस्य वाक्यस्य तज्ज्ञानमात्रेणापि पुरुषार्थपर्यवसानात् बालातुराद्युपच्छन्दनवाक्यवन्नार्थसद्भावे प्रामाण्यमिति, तदसत् – अर्थसद्भावाभावे निश्चिते ज्ञातोऽप्यर्थ: पुरुषार्थाय न भवति। बालातुरादीनामप्यर्थसद्भावभ्रान्त्या  हर्षाद्युत्पत्ति:। तेषामेव तस्मिन्नेव ज्ञाने विद्यमाने यद्यर्थाभावनिश्चयो जायेत; ततस्तदानीमेव हर्षादयो निवर्तेरन्। औपनिषदेष्वपि वाक्येषु ब्रह्मास्तित्वतात्पर्याभावनिश्चये ब्रह्मज्ञाने सत्यपि पुरुषार्थपर्यवसानं न स्यात्। अत: यतो वा इमानि भूतानि जायन्ते (तै.भृगु.१.१) इत्यादिवाक्यं निखिलजगदेककारणं निरस्तनिखिलदोषगन्धं सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाकरमनवधिकातिशयानन्दं ब्रह्मास्तीति बोधयतीति सिद्धम्॥४॥

इति श्रीशारीरकमीमांसाभाष्ये समन्वयाधिकरणम् ॥ ४ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.