श्रीभाष्यम् 01-01-01 जिज्ञासाधिकरणम्

॥ श्रीमते रामानुजाय नम: ॥

श्रीभगवद्रामानुजविरचितं शारीरकमीमांसाभाष्यम्

(प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणम्)

(शास्त्रार्थसूचनगर्भितं मङ्गळाचरणम्, भाष्यप्रणयनप्रयोजनं च)

 अखिल  भुवनजन्मस्थेमभङ्गादिलीले

विनतविविधभूतव्रातरक्षैकदीक्षे।

श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे

भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥१॥

पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृतां

संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम्।

पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिता-

मानीतां तु निजाक्षरैस्सुमनसो भौमा: पिबन्त्वन्वहम् ॥२॥

(शारीरकशास्त्रव्याख्यानप्रतिज्ञा)

भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सञ्चिक्षिपु:, तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते-

(प्रथमं समन्वयाध्याये, आद्ये अयोगव्यवच्छेदपादे सिद्धे व्युत्पत्तिसमर्थनपरम्)

जिज्ञासाधिकरणम् – (1-1-1)

(ब्रह्मैव जिज्ञास्यम्)

१. ओं ॥ अथातो ब्रह्मजिज्ञासा ॥ १-१-१ ॥

(सौत्रपदानामर्थवर्णनम्)

अत्रायमथशब्द: आनन्तर्ये भवति। अतश्शब्दो वृत्तस्य हेतुभावे। अधीतसाङ्ग सशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया संजातमोक्षाभिलाषस्यानन्तस्थिरफल-ब्रह्मजिज्ञासा ह्यनन्तरभाविनी ॥

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्मण इति कर्मणि षष्ठी, कर्तृ कर्मणो: कृति (अष्टा.२.२.६५)  इति विशेषविधानात्। यद्यपि  सम्बन्धसामान्यपरिग्रहेऽपि जिज्ञासाया: कर्मापेक्षत्वेन कर्मार्थत्वसिद्धि:, तथाऽप्याक्षेपत: प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात् कर्मणि षष्ठी गृह्यते । न च प्रतिपदविधाना षष्ठी न समस्यते (अष्टा.२.२.१०.सू.वा) इति कर्मणि षष्ठ्यास्समासनिषेधश्शङ्कनीय:, कृद्योगा च षष्ठी समस्यत, (अष्टा.२.२.५.सू.वा.) इति प्रतिप्रसवसद्भावात् ।  ब्रह्मशब्देन च स्वभावतो निरस्तनिखलदोषोऽनवधिकातिशयासङ्ख्येय-कल्याणगुणगण: पुरुषोत्तमोऽभिधीयते। सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्द: । बृहत्त्वं च स्वरूपेण गुणैश्च यत्रानवधिकातिशयं सोऽस्य मुख्योऽर्थ:; स च सर्वेश्वर एव। अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्त:। तस्मादन्यत्र तद्गुणलेशयोगादौपचारिक:, अनेकार्थकल्पनायोगात्, भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्य:। अतस्सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म ॥

ज्ञातुमिच्छा जिज्ञासा। इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते॥ मीमांसापूर्वभागज्ञातस्य कर्मणोऽलपास्थिरफलत्वादुपरतिनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षय-फलत्वाच्च पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तं भवति। तदाह वृत्तिकार: – वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्र्यं –

(पूर्वोत्तरमीमांसयोः एकशास्त्रता)

संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धि: इति । अत: प्रतिपिपादयिषतार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेद:। मीमांसाशास्त्रम् – अथातो धर्मजिज्ञासा (पूर्व.मी.१.१.१) इत्यारभ्य अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् (ब्र.सू.४.४.२२.) इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि प्रथमं तावत् स्वाध्यायोऽध्येतव्य: (यजुरारण्यके.२.प्र. १५.अनु.) इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते॥

(अध्ययनस्वरूपप्रकारौ)

तच्चाध्ययनं किंरूपं कथं च कर्तव्यमित्यपेक्षायाम् अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयेत् (शतपथब्राह्मणम्) इत्यनेन,

श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि।

युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान्॥                 (मनुस्मृ.४.६५)

इत्यादिव्रतनियमविशेषोपदेशैश्चापेक्षितानि विधीयन्ते॥

एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्य आचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहणफलमध्ययनमित्यवगम्यते॥

(अध्ययनविधिः नियमविधिः)

अध्ययनं च स्वाध्यायसंस्कार:, स्वाध्यायोऽध्येतव्य:  (यजुरारण्यके.२.प्र.१५.अनु.) इति स्वाध्यायस्य कर्मत्वावगमात्। संस्कारो हि नाम कार्यान्तरयोग्यताकरणम्। संस्कार्यत्वं च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाच्च।

एवमध्ययनविधिर्मन्त्रवत् नियमवदक्षराशिग्रहणमात्रे पर्यवस्यति।

(वेदार्थज्ञाने स्वतः प्रवृत्तिः)

अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात्, गृहीतात्स्वाध्यायादवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णय-फलवेदवाक्यविचाररूप-मीमांसाश्रवणे अधीतवेद: पुरषस्स्वयमेव प्रवर्तते। तत्र कर्मविधिस्वरूपे निरूपिते कर्मणां अल्पास्थिरफलत्वं दृष्ट्वा अध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिर-फलापातप्रतीतेः तन्निर्णयफल-वेदान्तवाक्यविचाररूपशारीरक-मीमांसायां अधिकरोति।

(उक्तार्थस्य श्रुतिसिद्धता)

तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं च दर्शयन्ति- तद्यथेह कर्मचितो लोक: क्षीयते, एवमेवामुत्र पुण्यचितो लोक: क्षीयते (छान्दोग्ये.८.१.६) अन्तवदेवास्य तद्भवति (बृ.५.८.१०) न ह्यध्रुवै: प्राप्यते (कठ.२.१०) प्लवा ह्येते अदृढा यज्ञरूपा: (मु.१.२.७) परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृत: कृतेन  तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम्। तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । (मु.१.२.१२-१३) ब्रह्मविदाप्नोति परम्  (तै.आनन्द.२.१अनु.१) न पुनर्मृत्यवे तदेकं पश्यति न पश्यो मृत्युं पश्यति (बृ.७.२६.२) स स्वराड् भवति (छां.७.२५.२) तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते (पु.सू.१७) पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.१.६) – इत्यादीनि॥

(कर्मविचारनैरपेक्ष्यशङ्का-समाधाने)

ननु च – साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वम्, स्वर्गादीनां च क्षयित्वं, ब्रह्मोपासनस्यामृतत्वफलत्वं च ज्ञायत एव। अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्तताम्; किमर्था धर्मविचारापेक्षा? एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम्, साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात्। सत्यम्; आपातप्रतीतिर्विद्यत एव, तथापि न्यायानुगृहीतस्य वाक्यस्य अर्थनिश्चायकत्वादापातप्रतीतोऽप्यर्थस्संशयविपर्ययौ नातिवर्तते; अतस्तन्निर्णयाय वेदान्तवाक्य-विचार: कर्तव्य इति चेत्; तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् ॥

(इति सविमर्शः पूर्वाचार्यसम्मताद्यसूत्राक्षरव्याख्याघट्टः)

लघुपूर्वपक्ष:

(साधनचतुष्टयपूर्ववृत्तत्वप्रतिपादनाय भूमिका)

ननु च – ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम्। न धर्मविचारापेक्षा ब्रह्मजिज्ञासाया:, अधीतवेदान्तस्यानधिगतकर्मणोऽपि वेदान्तवाक्यार्थविचारोपपत्ते:। कर्माङ्गाश्रयाणि उगीथाद्युपासनान्यत्रैव चिन्त्यन्ते; तदनधिगतकर्मणो न शक्यं कर्तुम्, इति चेत् –

(कर्मणो ज्ञानानङ्गत्वम्)

अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य। अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेददर्शन-निमित्तजन्मजरामरणादि-सांसारिकदु:खसागरनिमग्नस्य निखिलदु:खमूलमिथ्याज्ञाननिबर्हाणाय आत्मैकत्वविज्ञानं प्रतिपिपादयिषितम्। अस्य हि भेदावलम्बि कर्मज्ञानं क्वोपयुज्यते? प्रत्युत विरुद्धमेव। उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते। स तु न साक्षात्सङ्गत:। अतो यत्प्रधानं शास्त्रं, तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम्॥

         बाढम्; तदपेक्षितं च कर्मविज्ञानमेव, कर्मसमुच्चितात् ज्ञानादपवर्गश्रुते:। वक्ष्यति च – सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र.सू.३.४.२६) इति। अपेक्षिते च कर्मण्यज्ञाते केन समुच्चय: केन नेति विभागो न शक्यते ज्ञातुम्। अतस्तदेव पूर्ववृत्तम्॥

(कर्मणो मोक्षविरोधित्वम्)

नैतद्युक्तं; सकलविशेषप्रत्यनीकचिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्ते:; अविद्यानिवृत्तिरेव हि मोक्ष:। वर्णाश्रमविशेषसाध्यसाधनेतिकर्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्तिरूप- अज्ञाननिवृत्ते: कथमिव साधनं भवेत्?। श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं, ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति – अन्तवदेवास्य तद्भवति (बृ.५.८.१०), तद्यथेह कर्मचितो लोक: क्षीयते। एवमेवामुत्र पुण्यचितो लोक: क्षीयते (छा.८.१.६), ब्रह्मविदाप्नोति परम् (तै.उ.आन.२.१.१), ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९), तमेव विदत्वाऽतिमृत्युमेति (श्वे.३.८) – इत्याद्या:॥

(ज्ञानकर्मसमुच्चयवादनिरासः)

यदपि चेदमुक्तं  यज्ञादिकर्मापेक्षा विद्येति, तद्वस्तुविरोधात् श्रुत्यक्षरपर्यालोचनया चान्त:करणनैर्मल्यद्वारेण विविदषोत्पत्तावुपयुज्यते, न फलोत्पत्तौ, विविदिषन्ति इति श्रवणात्। विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरङ्गोपायतां श्रुतिरेवाऽह – शान्तो दान्त उपरतस्तितुक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत् – (बृ.६.४.२३) इति॥

(वाक्यजन्यज्ञानात् अविद्यानिवृत्तिः)

तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेषकर्ममृदितकषायस्य विविदिषोत्पत्तौ सत्यां सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१) सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.२.१.१) अयमात्मा ब्रह्म (बृ.६.४.५) तत्त्वमसि (छां.६.८.७) इत्यादिवाक्यजन्यज्ञानादविद्या निवर्तते।

(अविद्यानिवर्तकज्ञानसहकारीणि)

वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि। श्रवणं नाम वेदान्तवाक्यानि आत्मैकत्वविद्या प्रतिपादकानीति तत्त्वदर्शिन आचार्यात् न्याययुक्तार्थग्रहणम्। एवमाचार्योपदिष्टस्य अर्थस्य स्वात्मन्येवमेव युक्तमिति हेतुत: प्रतिष्ठापनं मननम्। एतद्विरोधि अनादिभेदवासना-निरसनाय अस्यैवार्थस्यानवरतभावना निदिध्यासनम्।

(शारीरकपूर्ववृत्तनिगमनम्)

श्रवणादिभिर्निरस्तसमस्तभेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्तयतीत्येवंरूपस्य श्रवणस्यावश्यापेक्षितमेव पूर्ववृत्तं वक्तव्यम्।

तच्च – नित्यानित्यवस्तुविवेक:, शमदमादिसाधनसम्पत्, इहामुत्रफलभोगविराग:, मुमुक्षुत्वं चेत्येतत् साधनचतुष्टयम्। अनेन विना जिज्ञासानुपपत्ते:, अर्थस्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ॥

(बन्ध-तत्कारण-तन्निवर्तकानां निगमनम्)

एतदुक्तं भवति – ब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिकं भेददर्शनमेव बन्धमूलम्। बन्धश्चापारमार्थिक:। स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवर्त्यते। निवर्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्तौ कार्ये वा कर्मणां नोपयोग:। विविदिषायामेव तु कर्मणामुपयोग:। स च पापमूलरजस्तमोनिबर्हाणद्वारेण सत्वविवृद्ध्या भवतीतीममुपयोगमभिप्रेत्य ब्राह्मणा विविदिषन्ति इत्युक्तमिति॥

अत: कर्मज्ञानस्यानुपयोगात् उक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम्।

(इति लघुपूर्वपक्षः)

लघुसिद्धान्त:

(वाक्यार्थज्ञानस्य मोक्षहेतुत्वम् शास्त्र-प्रत्यक्षविरुद्धम्)

अत्रोच्यते – यदुक्तमविद्यानिवृत्तिरेव मोक्ष:; सा च ब्रह्मविज्ञानादेव भवति इति तदभ्युपगम्यते। अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम् – किं वाक्याद्वाक्यार्थज्ञानमात्रम्, उत तन्मूलमुपासनात्मकं ज्ञानम्? – इति; न तावद्वाक्यजन्यं ज्ञानं, तस्य विधानमन्तरेणापि वाक्यादेव सिद्धे:; तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च।

न च वाच्यं – भेदवासनायामनिरस्तायां वाक्यमविद्यानिवर्तकं ज्ञानं न जनयति, जातेऽपि सर्वस्य सहसैव भेदज्ञानानिवृत्तिर्न दोषाय, चन्द्रैकत्वे ज्ञातेऽपि द्विचन्द्रज्ञानानिवृत्तिवत्। अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवति – इति। सत्यां सामग्र्यां ज्ञानानुत्पत्त्यनुपपत्ते:; सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभि: बाधकज्ञानोत्पत्तिदर्शनात् ।

सत्यपि वाक्यार्थज्ञाने अनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम्; भेदज्ञानसामग्र्या अपि वासनाया मिथ्यारूपत्वेन ज्ञानोत्पत्त्यैव निवृत्तत्वात् । ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिदपि नास्या वासनाया निवृत्ति:।

वासनाकार्यं भेदज्ञानं छिन्नमूलमथ चानुवर्तत इति बालिशभाषितम्॥ द्विचन्द्रज्ञानादौ तु बाधकसन्निधावपि मिथ्याज्ञानहेतो: परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वाभावेन अविनष्टत्वात् मिथ्याज्ञानानिवृत्ति: अविरुद्धा। प्रबलप्रमाणबाधितत्वेन भयादिकार्यं तु निवर्तते।

(अद्वैतरीत्या ज्ञानोत्पत्त्यनुपपत्तिः)

अपि च भेदवासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्पत्तिर्न सेत्स्यति; भेदवासनाया अनादिकालोपचितत्वेनापरिमितत्वात्,  तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरसनानुपपत्ते:।

(अपवर्गसाधनीभूतज्ञानस्वरूपम्)

अतो वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यैर्विधित्सितम्। तथा च श्रुतय: – विज्ञाय प्रज्ञां कुर्वीत (बृ.६.४.२१) अनुविद्य विजानाति (छां.८.१२.६) ओमित्येवाऽत्मानं ध्यायथ (मु.२.२.६) निचाय्य तं मृत्युमुखात्प्रमुच्यते (क.१.३.१५) आत्मानमेव लोकमुपासीत (बृ.३.४.१४) आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासतिव्य: (बृ.६.४.६) सोऽन्वेष्टव्यस्स विजिज्ञासतिव्य: (छां.८.७.१) इत्येवमाद्या:॥

(अपवर्गसाधनं च ज्ञानं ध्यानरूपम्)

अत्र निदिध्यासतिव्य: इत्यादिनैकार्थ्यात् अनुविद्य विजानाति, विज्ञाय प्रज्ञां कुर्वीत इत्येवमादिभिर्वाक्यार्थज्ञानं ध्यानोपकारकत्वात् अनुविद्य, विज्ञाय इत्यनूद्य प्रज्ञाङ्कुर्वीत, विजानाति इति ध्यानं विधीयते। श्रोतव्य: इति चानुवाद: स्वाध्यायस्यार्थपरत्वेनाधीतवेद: पुरुष: प्रयोजनवदर्थावबोधित्वदर्शनात्तन्निर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात्। श्रवणप्रतिष्ठार्थत्वान्मननस्य मन्तव्य: इति चानुवाद: । तस्माद्ध्यानमेव विधीयते । वक्ष्यति च आवृत्तिरसकृदुपदेशात् (ब्र.सू.४.१.१) इति।

(ध्यानस्य वेदनोपासनात्मकत्वम्)

तदिदमपवर्गोपायतया विधित्सितं वेदनमुपासनं इत्यवगम्यते विद्युपास्योर्व्यतिकरेण उपक्रमोपसंहारदर्शनात् मनो ब्रह्मेत्युपासीत (छां.३.१८.१) इत्यत्र भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद, (छां.३.१८.५) न स वेद अकृत्स्नो ह्येष: आत्मेत्येवोपासीत, (बृ.३.४.७) यस्तद्वेद यत्स वेद स मयैतदुक्त: (छा.४.१.४) इत्यत्र अनुम एतां भगवो देवतां शाधि यां देवतामुपास्से (छां.४.२.२) इति॥

(ध्यानस्य ध्रुवानुस्मृति-दर्शनरूपता)

ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् ध्रुवा स्मृति:। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष: (छा.७.२६.२) इति ध्रुवायास्स्मृतेरपवर्गोपायत्वश्रवणात्। सा च स्मृतिर्दर्शनसमानाकारा-भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ (मु.२.१.८) इत्यनेनैकार्थ्यात् । एवं च सति आत्मा वा अरे द्रष्टव्य: (बृ.६४.६) इत्यनेन निदिध्यासनस्य दर्शनसमानाकारता विधीयते । भवति च स्मृतेर्भावनाप्रकर्षाद्दर्शनरूपता। वाक्यकारेण एतत्सर्वं प्रपञ्चितम् – वेदनमुपासनं स्यात् तद्विषये श्रवणात् इति। सर्वासूपनिषत्सु मोक्षसाधनतया विहितं वेदनमुपासनमित्युक्तम्। सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवत्  इति पूर्वपक्षं कृत्वा सिद्धं तूपासनशब्दात् इति वेदनमसकृदावृत्तं मोक्षसाधनमिति निर्णीतम् । उपासनं स्याद्ध्रुवानुस्मृते: दर्शनान्निर्वचनाच्च इति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम्॥

सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्ति: ।

(अपवर्गसाधनीभूतस्मृतिगतं वैशिष्ट्यम्)

एवं प्रत्यक्षतापन्नां अपवर्गसाधनभूतां स्मृतिं विशिनष्टि – नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ (मु.३.२.३) इति। अनेन केवलश्रवणमनननिदिध्यासनानां आत्मप्राप्त्यनुपायत्वमुक्त्वा यमेवैष आत्मा वृणुते तेनैव लभ्य इत्युक्तम् । प्रियतम एव हि वरणीयो भवति। यस्यायं निरतिशयप्रियस्स एवास्य प्रियतमो भवति। यथायं प्रियतम आत्मानं प्राप्नोति, तथा स्वयमेव भगवान् प्रयतत इति भगवतैवोक्तम्॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥ (भ.गी.१०.१०) इति, प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय:॥ (भ.गीता.७.१७) इति च॥

अतस्साक्षात्काररूपा स्मृति: स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रिया यस्य, स एव परेणाऽत्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति।

(दर्शनसमानाकारायाः स्मृतेः भक्तिशब्दाभिधेयता)

एवं रूपा ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीयते, उपासनपर्यायत्वाद्भक्तिशब्दस्य । अत एव श्रुतिस्मृतिभिरेवमभिधीयते –

तमेव विदत्वाऽतिमृत्युमेति (श्वे.३.८) तमेवं विद्वानमृत इह भवति ।  नान्य: पन्था अयनाय विद्यते (पुरुषसूक्तं.१७)

नाहं  वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप!॥(भ.गी.११.५३,५४) पुरुषस्स पर: पार्थ! भक्त्या लभ्यस्त्वनन्यया॥ (भ.गी.८.२२) इति॥

(भक्तेः कर्माङ्गकत्वम्)

एवंरूपाया ध्रुवानुस्मृतेस्साधनानि यज्ञादीनि कर्माणीति यज्ञादिश्रुतेरश्ववत् (ब्र.सू.३.४.२६) इत्यभिधास्यते । यद्यपि  विविदषन्तीति यज्ञादयो   विविदषोत्पत्तौ विनियुज्यन्ते, तथाऽपि तस्यैव वेदनस्य ध्यानरूपस्याहरहरनुष्ठीयमानस्य  अभ्यासाधेयातिशयस्य आप्रयाणादनुवर्तमानस्य ब्रह्मप्राप्ति-साधनत्वात्तदुत्पत्तये सर्वाण्याश्रमकर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च – आप्रयाणात्तत्रापि हि दृष्टम् (ब्र.सू.४.१.१२.) अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् (ब्र.स्.४.१.१६) सहकारित्वेन च (ब्र.सू.३.४.३३) इत्यादिषु।

(ध्रुवानुस्मृतेः साधनसप्तकनिष्पाद्यत्वम्)

वाक्यकारश्च ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह – तल्लब्घिर्विवेकविमोकाभ्यास-क्रियाकल्याणानवसादानुद्धर्षेभ्य: संभवान्निर्वचनाच्च (ब्र.न.वा) इति । विवेकादीनां स्वरूपं चाह – जात्याश्रयनिमित्तादुष्टादन्नात् कायशुद्धिर्विवेक: (ब्र.न.वा) इति । अत्र निर्वचनम् – आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृति: (छां.७.२६.२) इति । विमोक: कामानभिष्वङ्ग: (ब्र.न.वा) इति। शान्त उपासीत (छा.३.१४.१) इति निर्वचनम्। आरम्भणसंशीलनं पुन:पुनरभ्यास: (ब्र.न.वा)  इति । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण – सदा तद्भावभावित: (भ.गी.८.६) इति। पञ्चमहायज्ञाद्य-नुष्ठानं शक्तित: क्रिया (ब्र.न.वा) । निर्वचनं क्रियावानेष ब्रह्मविदां वरिष्ठ: (मु.३.१.४) तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.४.२२.) इति च । सत्यार्जवदयादानाहिंसानभिध्या: कल्याणानि (ब्र.न.वा)  इति । निर्वचनं सत्येन लभ्य: (मु.३.१.५) तेषामेवैष विरजो ब्रह्मलोक: (प्र.१.१५.१६) इत्यादि । देशकालवैगुण्यात् शोकवस्त्वाद्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसाद: (ब्र.न.वा) इति, तद्विपर्ययो अनवसाद: (ब्र.न.वा)। निर्वचनं नायमात्मा बलहीनेन लभ्य: (मु.उ.३.४) इति । तद्विपर्ययजा तुष्टिरुद्धर्ष: (ब्र.न.वा)   इति। तद्विपर्ययोऽनुद्धर्ष: (ब्र.न.वा) । अतिसन्तोषश्च विरोधीत्यर्थ:। निर्वर्चनमपि – शान्तो दान्त:ा(बृ.६.४.२३) इति।

(विद्यानिष्पत्तेः आश्रमकर्माविनाभाविता)

एवं नियमयुक्तस्याऽश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति॥ तथा च श्रुत्यन्तरम् – विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥ (ई.११) अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया – कर्मणा, मृत्युं – ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म, तीर्त्वा – अपोह्य, विद्यया – ज्ञानेन, अमृतं – ब्रह्म। अश्नुते – प्राप्नोतीत्यर्थ:। मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरद्विहितं कर्मैव, यथोक्तम् – इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रय:। ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया॥ इति॥ (वि.पु.६.६.१२)

ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतया उभयोरपि पापशब्दाभिधेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधि-रजस्तमोविवृद्धिद्वारेण। पापस्य च ज्ञानोदयविरोधित्वम् – एष एवासाधु कर्मकारयति तं यमधो निनीषति – (कौ.३.६) इति श्रुत्यावगम्यते।

(यथार्थज्ञान-तदावरणयोः सत्त्वादिगुणायत्तता)

रजस्तमसोर्यथार्थज्ञानावरणत्वं, सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादितं – सत्त्वात्सञ्जायते ज्ञानम् (भ.गी.१४.१७) इत्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम्। तन्निरसनं च अनभिसंहितफलेनानुष्ठितेन धर्मेण। तथा च श्रुति: – धर्मेण पापमपनुदति (तै.उ.६.५०) इति।

(कर्ममीमांसायाः ब्रह्ममीमांसापूर्ववृत्तत्वनिगमनम्)

तदेवं ब्रह्मप्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम्। अतोऽपेक्षितकर्मस्वरूपज्ञानं, केवलकर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसावसेयमिति, सैवापेक्षिता ब्रह्मजिज्ञासाया: पूर्ववृत्ता वक्तव्या॥

(साधनचतुष्टयसम्पत्तेः मीमांसाद्वयश्रवणपश्चाद्भावित्वम्)

अपि च नित्यानित्यवस्तुविवेकादयश्च, मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते, फलकरण-इतिकर्तव्यताधिकारिविशेषनिश्चयादृते, कर्मस्वरूपतत्फलस्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात्। एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्य:। स च तार्तीय: । उद्गीथाद्युपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि, ब्रह्मज्ञानापेक्षाणीति, इहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि। तेषां च कर्मस्वरूपाधिगमापेक्षा  सर्वसम्मता ॥

॥ इति लघुसिद्धान्तः  ॥

अथ महापूर्वपक्ष:

(ब्रह्मण एव सत्यत्वम्, तदतिरिक्तसर्वमिथ्यात्वम् च)

यदप्याहु: – अशेषविशेषप्रत्यनीकचिन्मात्रं ब्रह्मैव परमार्थ: तदतिरेकि नानाविधज्ञातृज्ञेय-तत्कृतज्ञानभेदादिसर्वं तस्मिन्नेव परिकल्पितं मिथ्याभूतं –

(निर्विशेषवस्तुनः श्रौतता)

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा: ॥ (मु.१.१.६) सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१.१) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.उ.६.१९) यस्यामतं तस्य मतं मतं यस्य न वेद स:। अविज्ञातं विजानतां विज्ञातमविजानताम् (केन.२.३) न दृष्टेर्द्रष्टारं पश्ये: न मतेर्मन्तारं मन्वीथा: (बृ.५.४.२) आनन्दो ब्रह्म (तै.उ.भृगु.६अनु.) इदं सर्वं यदयमात्मा (बृ.४.४.६) नेह नानाऽस्ति किञ्चन। मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति (बृ.६.४.१९) यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं विजानीयात् (बृ.४.४.१४) वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छा.६.१.४) यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति (तै.उ.आन.७.२) न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हि (ब्र.सू.३.२.११) मायामात्रं तु कार्त्स्न्येन अनभिव्यक्त-स्वरूपत्वात् (ब्र.सू.३.२.३),

(निर्विशेषवस्तुनि पराशरसम्मतिः)

प्रत्यस्यतमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम्॥ (वि.पु.६.७.४३) ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थत:। तमेवार्थस्वरूपेण भ्रान्तिदर्शनत: स्थितम्॥ (वि.पु.१,२,६) परमार्थस्त्वमेवैको नान्योऽस्ति जगत: पते!॥ (वि.पु.१.४.३८) यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव। भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिन:॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धय:। अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे॥ ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर!॥ (वि.पु.१.४-३९,४०,४१) तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शिन:॥ (वि.पु.२.१४.३१) यद्यन्योऽस्ति पर: कोऽपि मत्त: पार्थिवसत्तम!। तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते॥ (वि.पु.२.१३.९०) वेणुरन्ध्रविभेदेन भेदष्षड्जादिसंज्ञित:। अभेदव्यापिनो वायोस्तथाऽसौ परमात्मन:॥ (वि.पु.२.१४.३२) सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टि:॥ (वि.पु.२.१६.२३) विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं क: करिष्यति॥ (वि.पु.६.७.९६) अहमात्मा गुडाकेश! सर्वभूताशयस्थित:। (भ.गी.१०.२०) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत!। (भ.गी.१३.३) न तदस्ति विना यत्स्यान्मया भूतं चराचरम्॥ (भ.गी.१०.९३) इत्यादिभिर्वस्तुस्वरूपोपदेशपरैश्शास्त्रै: निर्विशेषचिन्मात्रं ब्रह्मैव सत्यमन्यत्सर्वं मिथ्या इत्यभिधानात्।

(मिथ्यात्वस्वरूपम्, लक्ष्ये तदन्वयश्च)

मिथ्यात्वं नाम प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवर्त्यत्वम्, यथा रज्जवाद्यधिष्ठानसर्पादे:। दोषवशाद्धि तत्र तत्कल्पनम् । एवं चिन्मात्रवपुषि परे ब्रह्मणि दोषपरिकल्पितमिदं देवतिर्यङ्मनुष्यस्थावरादिभेदं सर्वं जगद्यथावस्थितब्रह्मस्वरूपावबोधबाध्यं मिथ्यारूपम् ।

(अविद्यायाः स्वरूपम्, तत्र श्रुतयश्च)

दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या। अनृतेन हि प्रत्यूढा: (छा.८.३.२) तेषां सत्यानां सतामनृतमपिधानम् (छा.८.३.१) नासदासीन्नो सदासीत्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेतम् (यजु.२अष्ट.८.प्र.९अनु.) मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.४.१०) इन्द्रो मायाभि: पुरुरूप ईयते (बृ.४.५.१९) मम माया दुरत्यया (भ.गी.७.१४) अनादिमायया सुप्तो यदा जीव: प्रबुध्यते (मां.२.२१) इत्यादिभि: निर्विशेषचिन्मात्रं ब्रह्मैवानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्यवगम्यते। यथोक्तम् –

(ब्रह्मातिरिक्तस्य आविद्यकत्वे पौराणिकानि प्रमाणानि)

ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्न तु वस्तुभूत:। ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि॥ यदा तु शुद्धं निजरूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम्। तदा हि सङ्कल्पतरो: फलानि भवन्ति नो वस्तुषु वस्तुभेदा:॥ (वि.पु.२.१२.३९,४०) तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्क्वचित् कदाचिद्द्विज! वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्बहुधाऽभ्युपेतम्॥ ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम्। एकं सदैकं परम: परेश: स वासुदेवो न यतोऽन्यदस्ति॥ (वि.पु.२.१२.४३,४४) सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्। एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते॥ (वि.पु.१.१२.४५)

(अविद्यानिवृत्तिः तद्धेतुश्च)

अस्याश्चाविद्याया निर्विशेषचिन्मात्रब्रह्मात्मैकत्वविज्ञानेन निवृत्तिं वदन्ति – न पुनर्मृत्यवे तदेकं पश्यति, न पश्यो मृत्युं पश्यति (बृ.७.२६.२) यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते-अनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति (तै.आन.७.२) भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया:। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे (मु.२.२.८) ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था: (श्वे.३.८) – इत्याद्याश्श्रुतय:। अत्र मृत्युशब्देनाविद्याऽभिधीयते। यथा सनत्सुजातवचनम् – प्रमादं वै मृत्युमहं ब्रवीमि सदाऽप्रमादममृतत्वं ब्रवीमि (भारत.उद्योपर्व.४१.४) इति।

(निर्विशेषब्रह्मात्मैकत्वविज्ञानं प्रमाणसिद्धम्)

सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.अनु.१) विज्ञानमानन्दं ब्रह्म (बृ.५.९.२८) इत्यादिशोधकवाक्यावसेयनिर्विशेषस्वरूपब्रह्मात्मैकत्वविज्ञानं च – अथ योऽन्यां देवतामुपास्ते-अन्योऽसावन्योऽहमस्मीति न स वेद (बृ.३.४.१०) अकृत्स्नो ह्येष: (बृ.३.४.७) आत्मेत्येवोपासीत (बृ.उ.३.४.७) तत्त्वमसि (छां.उ.६.८.७) त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि (ऐ.आ.४.२) इत्यादिवाक्यसिद्धम्। वक्ष्यति चैतदेव – आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति। तथा च वाक्यकार:- आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्ते: (ब्रह्मनन्दिवाक्यम्) इति । अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिर्युक्ता ॥

(निवर्त्यनिवर्तकभावः सदृष्टान्तः)

ननु च सकलभेदनिवृत्ति: प्रत्यक्षविरुद्धा कथमिव शास्त्रजन्यविज्ञानेन क्रियते? कथं वा रज्जुरेषा न सर्प: इति ज्ञानेन प्रत्यक्षविरुद्धा सर्पनिवृत्ति: क्रियते? तत्र द्वयो: प्रत्यक्षयोर्विरोध:; इह तु प्रत्यक्षमूलस्य शास्त्रस्य प्रत्यक्षस्य चेति चेत्; तुल्ययोर्विरोधे वा कथं बाध्यबाधकभाव:? पूर्वोत्तरयोर्दुष्टकारणजन्यत्वतदभावाभ्याम् – इति चेत्; शास्त्रप्रत्यक्षयोरपि समानमेतत्।

एतदुक्तं भवति – बाध्यबाधकभावे तुल्यत्वसापेक्षत्वनिरपेक्षत्वादि न कारणम्; ज्वालाभेदानुमानेन प्रत्यक्षोपमर्दायोगात् । तत्र हि ज्वालैक्यं प्रत्यक्षेणावगम्यते । एवं च सति द्वयो: प्रमाणयोर्विरोधे यत्संभाव्यमानान्यथासिद्धि, तद्बाध्यम्; अनन्यथासिद्धमनवकाशम् इतरद्बाधकम् – इति सर्वत्र बाध्यबाधकभावनिर्णय: – इति ॥

(सयुक्तिकम् शास्त्रप्राबल्यम्)

तस्मात् अनादिनिधनाविच्छिन्नसम्प्रदायासम्भाव्यमानदोषगन्धानवकाशशास्त्रजन्य-निर्विशेषनित्यशुद्धमुक्तबुद्धस्वप्रकाशचिन्मात्रब्रहह्मात्मभावावबोधेन सम्भाव्यमानदोषसावकाश-प्रत्यक्षादिसिद्धविविधविकल्परूप-बन्धनिवृत्तिर्युक्तैव । सम्भाव्यते च विविधविकल्पभेदप्रपञ्च ग्राहिप्रत्यक्षस्यानादिभेदवासनादिरूपाविद्याख्यो दोष:।

(शास्त्रेषु मोक्षशास्त्रस्य प्राबल्यम्)

ननु अनादिनिधनाविच्छिन्नसम्प्रदायतया निर्दोषस्यापि शास्त्रस्य ज्योतिष्टोमेन स्वर्गकामो यजेत इत्येवमादेर्भेदावलम्बिनो बाध्यत्वं प्रसज्येत। सत्यम्; पूर्वापरापच्छेदे पूर्वशास्त्रवन्मोक्षशास्त्रस्य निरवकाशत्वात्तेन बाध्यत एव । वेदान्तवाक्येष्वपि सगुणब्रह्मोपासनपराणां शास्त्रणामयमेव न्याय:, निर्गुणत्वात्परस्यब्रह्मण:।

(स्वरूपपरेषु सगुणनिर्गुणवाक्येषु बाध्य-बाधकभावचिन्ता)

ननु च – यस्सर्वज्ञस्सर्ववित् (मु.उ.२.२.७) पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च (श्वे.उ.६.८) सत्यकामस्सत्यसङ्कल्प: (छा.उ.८.१.५) इत्यादिब्रह्मस्वरूपप्रतिपादन-पराणां शास्त्राणां कथं बाध्यत्वम्? निर्गुणवाक्यसामर्थ्यात् इति ब्रूम:।

  एतदुक्तं भवति – अस्थूलमनण्वह्रस्वमदीर्घम् (बृ.५अ.८ब्रा.) सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१) निर्गुणम् (आत्मोपनिषत्) निरञ्जनम् (श्वे.उ.६.१९.) – इत्यादिवाक्यानि निरस्तसमस्त-विशेषकूटस्थनित्यचैतन्यम् ब्रह्म – इति प्रतिपादयन्ति इतराणि च सगुणम् । उभयविधवाक्यानां विरोधे तेनैवापच्छेदन्यायेन निगुर्णवाक्यानां गुणापेक्षत्वेन परत्वाद्वलीयस्त्वमिति न किञ्चिदपहीनम् ॥

(सत्यादिवाक्यविचापरः, सामानाधिकरण्यं च)

ननु च – सत्यं ज्ञानमनन्तं ब्रह्म इत्यत्र सत्यज्ञानादयो गुणा: प्रतीयन्ते॥ नेत्युच्यते, सामानाधिकरण्येनैकार्थत्वप्रतीते: । अनेकगुणविशिष्टाभिधानेऽप्येकार्थत्वमविरुद्धम् – इति चेत्; अनभिधानज्ञो देवानां प्रिय:। एकार्थत्वं नाम सर्वपदानामर्थैक्यम्; विशिष्टपदार्थाभिधाने विशेषणभेदेन पदानामर्थभेदोऽवर्जनीय:; ततश्चैकार्थत्वं न सिध्यति। एवं तर्हि सर्वपदानां पर्यायता स्यात्, अविशिष्टार्थ अभिधायित्वात्। एकार्थाभिधायित्वेऽप्यपर्यायत्वमवहितमनाश्शृणु; एकत्वतात्पर्य-निश्चयात् एकस्यैवार्थस्य तत्तत्पदार्थविरोधि-प्रत्यनीकत्वपरत्वेन सर्वपदानामर्थवत्वमेकार्थत्वं अपर्यायता च॥

(सत्यादिवाक्यार्थस्य परिष्कृतं निगमनम्)

एतदुक्तं भवति । लक्षणत: प्रतिपत्तव्यं ब्रह्म सकलेतरपदार्थविरोधिरूपम्। तद्विरोधिरूपं सर्वमनेन पदत्रयेण फलतो व्युदस्यते। तत्र सत्यपदं विकारास्पदत्वेनासत्याद्वस्तुनो व्यावृत्तब्रह्मपरम्। ज्ञानपदं चान्याधीनप्रकाशजडरूपाद्वस्तुनो व्यावृत्तपरम्। अनन्तपदं च देशत: कालतो वस्तुतश्च परिच्छिन्नात् व्यावृत्तपरम्। न च व्यावृत्तिर्भावरूपोऽभावरूपो वा धर्म:। अपि तु सकलेतरविरोधि ब्रह्मैव। यथा शौक्ल्यादे: कार्ष्ण्यादिव्यावृत्तिस्तत्पदार्थस्वरूपमेव, न धर्मान्तरम्। एवमेकस्यैव वस्तुनस्सकलेतरविरोध्याकारतामवगमयदर्थवत्तरमेकार्थमपर्यायं च पदत्रयम्॥

(ब्रह्मणः निर्विशेषत्वस्थापनम्, कारणवाक्यैकार्थ्यवर्णनं च)

तस्मादेकमेव ब्रह्म स्वयंज्योतिर्निर्धूतनिखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रतिपादने सत्येव सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छां.६.२.१) – इत्यादिभिरैकार्थ्यम्।

(ब्रह्मलक्षणवाक्यस्य अखण्डैकरसवस्तुप्रतिपादकत्वम्)

यतो वा इमानि भूतानि जायन्ते (तै.भृगु.१.अनु.) सदेव सोम्येदमग्र आसीत् (छां.६.२.१) आत्मा वा इदमेक एवाग्र आसीत् (ऐ.१.१.१) इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मण: स्वरूपमिदमुच्यते – सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इति। तत्र सर्वशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु सजातीयविजातीयव्यावृत्तमद्वतीयं ब्रह्मावगतम्। जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपादयिषितं स्वरूपं तदविरोधेन वक्तव्यम्। अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते। अन्यथा निरञ्जनम् (श्वे.६.१९) निर्गुणम् (आत्मोपनिषत्) इत्यादिभिश्च विरोध:। अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति।

(लक्षणाया दोषत्वादोषत्वविचारः)

ननु च सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापनपरत्वे लक्षणा स्यात्। नैष दोष:, अभिधानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात्। सामानाधिकरण्यस्य ह्यैक्य एव तात्पर्यमिति सर्वसम्मतम्।

ननु च – सर्वपदानां लक्षणा न दृष्टचरी। तत: किम्? वाक्यतात्पर्याविरोधे सत्येकस्यापि न दृष्टा । समभिव्याहृतपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एकस्येव लक्षणा न दोषाय। तथा च शास्त्रस्थैरभ्युपगम्यते ॥

(सर्वपदलक्षणाया अप्यदोषत्ववर्णनं प्राभाकरैः)

कार्यवाक्यार्थवादिभि: लौकिकवाक्येषु सर्वेषां पदानां लक्षणा समाश्रीयते। अपूर्वकार्य एव लिङादेर्मुख्यवृत्तत्वात् लिङादिभि: क्रियाकार्यं लक्षणया प्रतिपाद्यते। कार्यान्वितस्वार्थाभिधायिनां चेतरेषां पदानामपूर्वकार्यान्वित एव मुख्यार्थ इति क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकमेव । अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणाऽपि न दोष:। अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ता: प्रमाणम्॥

(शास्त्रप्रत्यक्षयोः अविरोधः)

प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम्। सति च विरोधे बलीयस्त्वं वक्तव्यम्। विरोध एव न दृश्यते, निर्विशेषसन्मात्रब्रह्मग्राहित्वात्प्रत्यक्षस्य। ननु च – घटोऽस्ति पटोऽस्ति इति नानाकारवस्तुविषयं प्रत्यक्षं कथमिव सन्मात्रग्राहीत्युच्यते। विलक्षणग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहिकविज्ञानवदेकव्यवहारहेतुतैव स्यात्। सत्यम्; तथैवात्र विविच्यते। कथं?

(प्रत्यक्षस्य सन्मात्रग्राहित्वसमर्थनम्)

घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवह्रियते; न च द्वयोरपि व्यवहारयो: प्रत्यक्षमूलत्वं संभवति, तयोर्भिन्नकालज्ञानफलत्वात्, प्रत्यक्षज्ञानस्य चैकक्षणवर्तित्वात्। तत्र स्वरूपं वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम्। भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरणसव्यपेक्षत्वादेव स्वरूपविषयत्व- मवश्याश्रयणीयमिति न भेद: प्रत्यक्षेण गृह्यते। अतो भ्रान्तिमूल एव भेदव्यवहार:॥

(भेदस्य दुर्निरूपत्वम्)

किञ्च भेदो नाम कश्चित्पदार्थो न्यायविद्भिर्निरूपयितुं न शक्यते। भेदस्तावन्न वस्तुस्वरूपम्, वस्तुस्वरूपे गृहीते स्वरूपव्यहारवत्सर्वस्माद्भेदव्यवहारप्रसक्ते:। न च वाच्यं – स्वरूपे गृहीतेऽपि भिन्न इति व्यवहारस्य प्रतियोगिस्मरणसव्यपेक्षत्वात्, तत्स्मरणाभावेन तदानीमेव न भेदव्यवहार: – इति। स्वरूपमात्रभेदवादिनो हि प्रतियोग्यपेक्षा च नोत्प्रेक्षितुं क्षमा, स्वरूपभेदयोस्स्वरूपत्वाविशेषात्। यथा स्वरूपव्यवहारो न प्रतियोग्यपेक्ष:, भेदव्यवहारोऽपि तथैव स्यात्। हस्त: कर: इतिवत् घटो भिन्न इति पर्यायत्वं च स्यात्। नापि धर्म:; धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीय:, अन्यथा स्वरूपमेव स्यात्। भेदे च तस्यापि भेदस्तद्धर्मस्तस्यापीत्यनवस्था। किञ्च जात्यादिविशष्टवस्तुग्रहणे सति भेदग्रहणम्, भेदग्रहणे सति जात्यादिविशिष्टवस्तुग्रहणमित्यन्योन्याश्रयणम्। अतो भेदस्य दुर्निरूपत्वात्सन्मात्रस्यैव प्रकाशकं प्रत्यक्षम्॥

(अनुवर्तमानं सन्मात्रं परमार्थः)

किञ्च घटोऽस्ति पटोऽस्ति घटोऽनुभूयते पटोऽनुभूयते इति सर्वे पदार्थास्सत्तानुभूतिघटिता एव दृश्यन्ते। अत्र सर्वासु प्रतिपत्तिषु सन्मात्रमनुवर्तमानं दृश्यत इति तदेव परमार्थ:।

(आश्रमकर्माविनाभाविता)

विशेषास्तु व्यावर्तमानतया अपरमार्था:, रज्जुसर्पादिवत्। यथा रज्जुरधिष्ठानतयाऽनुवर्तमाना परमार्था सती; व्यावर्तमानास्सर्पभूदलनाम्बुधारादयोऽपरमार्था:।

(अबाधितत्व-बाधितत्वयोः प्रयोजकोपाधिता)

ननु च रज्जुसर्पादौ रज्जुरियं न सर्प: इत्यादि रज्ज्वाद्यधिष्ठानयाथार्थ्यज्ञानेन बाधितत्वात्सर्पादेरपारमार्थ्यम्, न व्यावर्तमानत्वात्। रज्ज्वादेरपि पारमार्थ्यं नानुवर्तमानतया, किंत्वबाधितत्वात्। अत्र तु घटादीनामबाधितानां कथमपारमार्थ्यम्?

उच्यते, घटादौ दृष्टा व्यावृत्तिस्सा किंरूपेति विवेचनीयम्। किं घटोऽस्तीत्यत्र पटाद्यभाव:? सिद्धं तर्हि घटोऽस्तीत्यनेन पटादीनां बाधितत्वम्। अतो बाधफलभूता विषयनिवृत्तिर्व्यावृत्ति:। सा व्यावर्तमानानामपारमार्थ्यं साधयति। रज्जुवत् सन्मात्रमबाधितमनुवर्तते। तस्मात्सन्मात्रातिरेकि सर्वमपरमार्थ:। प्रयोगश्च भवति – सत्परमार्थ:, अनुवर्तमानत्वात्, रज्जुसर्पादौ रज्ज्वादिवत्। घटादयोऽपरमार्था:, व्यावर्तमानत्वात्, रज्ज्वद्यधिष्ठानसर्पादिवत् – इति।

(सत्-अनुभूत्योः ऐक्यम्, अनुभूतेः स्वतस्सिद्धता च)

एवं सत्यनुवर्तमानाऽनुभूतिरेव परमार्थः; सैव सती॥

ननु च सन्मात्रमनुभूतेर्विषयतया ततो भिन्नम्। नैवम्; भेदो हि प्रत्यक्षाविषयत्वाद्दुर्निरूपत्वाच्च पुरस्तादेव निरस्त:। अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवीमनुसरति। तस्मात्सत् अनुभूतिरेव।

सा च स्वतस्सिद्धा, अनुभूतित्वात्। अन्यतस्सिद्धौ घटादिवदननुभूतित्वप्रसङ्ग:।

(अनुभूतेः अनुभूत्यन्तरानपेक्षा)

किञ्च अनुभवापेक्षा चानुभूतेर्न शक्या कल्पयितुं, सत्तयैव प्रकाशमानत्वात्। न ह्यनुभूतिर्वर्तमाना घटादिवदप्रकाशा दृश्यते, येन परायत्तप्रकाशाऽभ्युपगम्येत॥

(अनुभूतेः ज्ञाततानुमेयत्ववादः)

अथैवं मनुषे – उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासते घटोऽनुभूयते इति। न हि कश्चित् घटोऽयम् इति जानन् तदानीमेवाविषयभूतामनिदम्भावामनुभूतिमप्यनुभवति। तस्माद्घटादिप्रकाशनिष्पत्तौ चक्षुरादिकरणसन्निकर्षवदनुभूतेस्सद्भाव एव हेतु:। तदनन्तरमर्थगतकादाचित्कप्रकाशातिशय-लिङ्गेनानुभूतिरनुमीयते।

(अनुभूतेः जडत्वशङ्कापरिहारौ)

एवं तर्ह्यनुभूतेरजडाया अर्थवज्जडत्वमापद्यत इति चेत्; किमिदमजडत्वं नाम? न तावत्स्वसत्ताया: प्रकाशाव्यभिचार:, सुखादिष्वपि तत्सम्भवात्; न हि कदाचिदपि सुखादयस्सन्तो नोपलभ्यन्ते; अतोऽनुभूतिस्स्वयमेव नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गुल्यग्रस्य स्वात्मस्पर्शवदशक्यत्वादिति॥

(अनुभूतेः ज्ञाततानुमेयत्वनिरासः)

तदिदमनाकिलतानुभवविभवस्य स्वमतिविजृम्भितम्, अनुभूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादिवदनुपलब्धे:; उभयाभ्युपेतानुभूत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्यधर्मकल्पना-नुपपत्तेश्च। अतो नानुभूतिरनुमीयते। नापि ज्ञानान्तरसिद्धा। अपि तु सर्वं साधयन्त्यनुभूतिस्स्वयमेव सिद्ध्यति। प्रयोगश्च – अनुभूतिरनन्याधीनस्वधर्मव्यवहारा स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात्; यस्स्वसम्बन्धादर्थान्तरे यद्धर्मव्यवहारहेतुस्स तयोस्स्वस्मिन्ननन्याधीनो दृष्ट:; यथा रूपादिश्चाक्षुषत्वादौ। रूपादिर्हि पृथिव्यादौ स्वसम्बन्धाच्चाक्षुषत्वादि जनयन् स्वस्मिन् न रूपादिसम्बन्धाधीनश्चाक्षुषत्वादौ। अतोऽनुभूतिरात्मन: प्रकाशमानत्वे प्रकाशत इति व्यवहारे च स्वयमेव हेतु:॥

(अनुभूतेः नित्यता, तत्प्रागभावासिद्धिश्च)

सेयं स्वयंप्रकाशाऽनुभूतिर्नित्या च, प्रागभावाद्यभावात्। तदभावश्च स्वतस्सिद्धत्वादेव। न ह्यनुभूतेस्स्वतस्सिद्धाया: प्रागभावस्स्वतोऽन्यतो वाऽवगन्तुं शक्यते। अनुभूतिस्स्वाभावमवगमयन्ती, सती तावन्नावगमयति। तस्यास्सत्त्वे विरोधादेव तदभावो नास्तीति कथं सा स्वाभावमवगमयति? एवमसत्यपि  नावगमयति; अनुभूतिस्स्वयमसती स्वाभावे कथं प्रमाणं भवेत्? नाप्यन्यतोऽवगन्तुं शक्यते, अनुभूतेरनन्यगोचरत्वात्। अस्या: प्रागभावं साधयत् प्रमाणम् अनुभूतिरियम् इति विषयीकृत्य तदभावं साधयेत्; स्वतस्सिद्धत्वेन इयमिति विषयीकारानर्हात्वात्, न तत्प्रागभावोऽन्यत: शक्यावगम:।

(अनुभूतौ भावविकाराणां असम्बन्धः)

अतोऽस्या: प्रागभावाभावादुत्पत्तिर्न शक्यते वक्तुमित्युत्पत्तिप्रतिसम्बद्धाश्चान्येऽपि भावविकारास्तस्या न सन्ति॥

(अनुभूतिः न नाना)

अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते, व्यापकविरुद्धोपलब्धे: ॥ न ह्यनुत्पन्नं नानाभूतं दृष्टम्। भेदादीनामनुभाव्यत्वेन च रूपादेरिवानुभूतिधर्मत्वं न सम्भवति। अतोऽनुभूते: अनुभवस्वरूपत्वादेवान्योऽपि कश्चिदनुभाव्यो नास्या धर्म:  ॥

(संविदेव आत्मा)

यतो निर्धूतनिखिलभेदा संवित् अत एव नास्यास्स्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति स्वप्रकाशरूपा सैवाऽत्मा, अजडत्वाच्च। अनात्मत्वव्याप्तं जडत्वं संविदि व्यावर्तमानमनात्मत्वमपि हि संविदो व्यावर्तयति।

(ज्ञातृत्वं नात्मार्थः)

ननु च – अहं जानामीति ज्ञातृता प्रतीतिसिद्धा। नैवम्; सा भ्रान्तिसिद्धा, रजततेव शुक्तिशकलस्य, अनुभूतेस्स्वात्मनि कर्तृत्वायोगात्। अतो मनुष्योऽहमित्यत्यन्तबहिर्भूतमनुष्यत्वादि-विशष्टपिण्डात्माभिमानवत् ज्ञातृत्वमप्यध्यस्तम्। ज्ञातृत्वं हि ज्ञानक्रियाकर्तृत्वम्। तच्च विक्रियात्मकं जडं विकारिद्रव्याहंकारग्रन्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव संभवति। दृश्यधीनसिद्धित्वादेव रूपादेरिव कर्तृत्वादेर्नात्मधर्मत्वम्।

(आत्मनः अहम्प्रत्ययागोचरता)

सुषुप्तिमूर्च्छादावहंप्रत्ययापायेऽपि आत्मानुभवदर्शनेन नाऽत्मनोऽहंप्रत्ययगोचरत्वम्। कर्तृत्वेऽहंप्रत्ययगोचरत्वे चाऽत्मनोऽभ्युपगम्यमाने देहस्येव जडत्वपराक्त्वानात्मत्वादिप्रसङ्गो दुष्परिहर:। अहंप्रत्ययगोचरात् कर्तृतया प्रसिद्धाद्देहात्तत्क्रियाफलस्वर्गादेर्भोक्तुरात्मनोऽन्यत्वं प्रामाणिकानां प्रसिद्धमेव। तथाऽहमर्थात् ज्ञातुरपि विलक्षणस्साक्षी प्रत्यागात्मेति प्रतिपत्तव्यम्।

(अनुभूतिः अहंकाराभिव्यङ्ग्या)

एवमविक्रियानुभवस्वरूपस्यैवाभिव्यञ्जको जडोऽप्यहंकारस्स्वाश्रयतया तमभिव्यनक्ति । आत्मस्थतयाऽभिव्यङ्ग्याभिव्यञ्जनमभिव्यञ्जकानां स्वभाव:। दर्पणजलखण्डादिर्हि मुखचन्द्रबिम्बगोत्वादिकमात्मस्थतयाऽभिव्यनक्ति । तत्कृतोऽयं जानाम्यहम् इति भ्रम:।

(अभिव्यङ्ग्येनापि स्वाभिव्यङ्गयस्य अभिव्यञ्जनम्)

स्वप्रकाशाया: अनुभूते: कथमिव तदभिव्यङ्ग्यजडरूपाहङ्कारेणाभिव्यङ्ग्यत्वमिति मा वोच:, रविकरनिकराभिव्यङ्ग्यकरतलस्य तदभिव्यञ्जकत्वदर्शनात्; जालकरन्ध्रनिष्क्रान्तद्युमणिकिरणानां तदभिव्यङ्ग्येनापि करतलेन स्फुटतरप्रकाशो हि दृष्टचरः  ॥

(आत्मनः अनुभवमात्रता, न अनुभाव्यता)

यतोऽहं जानामीति ज्ञाताऽयमहमर्थ: चिन्मात्रात्मनो न पारमार्थिको धर्म:; अत एव सुषुप्तिमुक्त्योर्नान्वेति। तत्र ह्यहमर्थोल्लेखविगमेन स्वाभाविकानुभवमात्ररूपेणाऽत्माऽवभासते। अत एव सुप्तोत्थित: कदाचिन्मामप्यहं न ज्ञातवानिति परामृशति। तस्मात्परमार्थतो निरस्तसमस्त-भेदविकल्प निर्विशेषचिन्मात्रैकरसकूटस्थनित्यसंविदेव भ्रान्त्या ज्ञातृज्ञेयज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूताविद्यानिबर्हाणाय नित्यशुद्धबुद्धमुक्त-स्वभावब्रह्मात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते – इति॥

(इति महापूर्वपक्षः)

(महासिद्धान्तः)

(परोक्तानां उपायोपेयनिवर्त्यानां प्रमाणतर्काभासमूलत्वमनादरणीयता च)

तदिदमौपिनषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणामनादि पापवासनादूषिताशेषशेमुषी-काणां अनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणवृत्ततदितिकर्तव्यतारूप-समीचीन-न्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति, न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणवृत्त-याथात्म्यविद्भिरनादरणीयम्॥

(निर्विशेषस्य वस्तुनः प्रमाणतः असिद्धिः)

तथा हि निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्, सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम्। यस्तु स्वानुभवसिद्धमिति स्वगोष्ठीनिष्ठस्समय:, सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्त: इदमहमदर्शम् इति केनिचिद्विशेषेण विशिष्टविषयत्वात् सर्वेषामनुभवानाम् ॥

(निर्विशेषत्वव्यवस्थापकत्वाभिमतयुक्तैः आभासता)

सविशेषोऽप्यनुभूयमानोऽनुभव: केनचिद्युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणः सत्तातिरेकिभिः स्वासाधारणैस्स्वभावविशेषैर्निष्क्रष्टव्य इति निष्कर्षहेतुभूतै: सत्तातिरेकिभि: स्वासाधारणैस्स्वभावविशेषैस्सविशेष एवावतिष्ठते। अत:कैश्चिद्विशेषैर्विशष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति, न क्वचिन्निर्विशेषवस्तुसिद्धि:।

(निर्विशेषत्वानुमानस्य बाधित्वम्)

धियो हि धीत्वं स्वप्रकाशता च ज्ञातुर्विषयप्रकाशन-स्वभावतयोपलब्धे: । स्वापमदमूर्च्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्याम:।

स्वाभ्युपगताश्च नित्यत्वादयो हि अनेके विशेषाः सन्त्येव । ते च न वस्तुमात्रमिति शक्योपपादना:, वस्तुमात्राभ्युपगमे सत्यपि  विधाभेदविवाददर्शनात् स्वाभिमततद्विधाभेदैश्च स्वमतोपपादनात्। अत: प्रामाणिकविशेषैर्विशिष्टमेव वस्त्विति वक्तव्यम्॥

(निर्विशेषत्वं वस्तुनि न शब्दगम्यम्)

शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्ते:। प्रकृतिप्रत्यययोगेन हि पदत्वम्। प्रकृतिप्रत्ययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम्। पदभेदश्चार्थभेदनिबन्धन:। पदसंघातरूपस्य वाक्यस्यानेकपदार्थसंसर्गविशेषाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनासामर्थ्यात्, न निर्विशेषवस्तुनि शब्द: प्रमाणम्।

(निर्विशेषत्वं न प्रत्यक्षगम्यम्)

प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदभिन्नस्य न निर्विशेषवस्तुनि प्रमाणभाव:। सविकल्पकं जात्याद्यनेकपदार्थविशिष्टविषयत्वादेव सविशेषविषयम्। निर्विकल्पकमपि सविशेषविषयमेव, सविकल्पके स्वस्मिन्ननुभूतपदार्थविशिष्टप्रतिसंधानहेतुत्वात्।

(निर्विकल्पकसविकल्पकयोः निष्कृष्टं स्वरूपम्)

निर्विकल्पकं नाम केनचिद्विशेषेणवियुक्तस्य ग्रहणम्, न सर्वविशेषरहितस्य, तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च।

केनचिद्विशेषेण इदमित्थमिति हि सर्वा प्रतीतिरुपजायते, त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात्। अतो निर्विकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम्। द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते ॥

(उक्तविविक्ताकारस्य समर्थनम्)

तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते। द्वितीयादिपिण्डग्रहणेषु एवानुवृत्तिप्रतीति:। प्रथमप्रतीत्यनुसंहितवस्तुसंस्थानरूपगोत्वादे: अनुवृत्तिधर्मविशिष्टत्वं द्वितीयादि-पिण्डग्रहणावसेयमिति, द्वितीयादिग्रहणस्य सविकल्पकत्वम्। सास्नादिवस्तुसंस्थानरूपगोत्वादेः अनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यत इति, प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम्, न पुनस्संस्थानरूपजात्यादेरग्रहणात्। संस्थानरूपजात्यादे: अप्यैन्द्रियिकत्वाविशेषात्, संस्थानेन विना संस्थानिन: प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस्त्वित्थमिति गृह्यते।

     अतो द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत्संस्थानवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव। अत: प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम्॥

(भेदाभेदवादिनिरासः)

अत एव सर्वत्र भिन्नाभिन्नत्वमपि निरस्तम्। इदमित्थमिति प्रतीताविदमित्थंभावयोरैक्यं कथमिव प्रत्येतुं शक्यते। तत्रेत्थंभावस्सास्नादिसंस्थानविशेष:, तद्विशेष्यं द्रव्यमिदमंश इत्यनयोरैक्यं प्रतीतिपराहतमेव। तथाहि – प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते। व्यावृत्तिश्च गोत्वादिसंस्थानविशेषविशिष्टतयेत्थमिति प्रतीते:। सर्वत्र विशेषणविशेष्यभावप्रतिपत्तौ तयोरत्यन्तभेद: प्रतीत्यैव सुव्यक्त:। तत्र दण्डकुण्डलादय: पृथक्संस्थानसंस्थिता: स्वनिष्ठाश्च कदाचित्क्वचिद्- द्रव्यान्तरविशेषणतयाऽवतिष्ठन्ते। गोत्वादयस्तु द्रव्यसंस्थानतयैव पदार्थभूताः सन्तो द्रव्यविशेषणतया अवस्थिता:। उभयत्र विशेषणविशेष्यभावस्समान:। तत एव तयोर्भेदप्रतिपत्तिश्च। इयांस्तु विशेष: पृथक् स्थितिप्रतिपत्तियोग्या दण्डादय:, गोत्वादयस्तु नियमेन तदनर्हा इति। अतो वस्तुविरोध: प्रतीतिपराहत इति प्रतीतिप्रकारनिह्नवादेवोच्यते। प्रतीतिप्रकारो हि इदमित्थमित्येव सर्वसम्मत:। तदेतत्सूत्रकारेण नैकस्मिन्नसम्भवात् (ब्र.सू.२.२.३१) इति सुव्यक्तमुपपादितम्॥

(निर्विशेषस्य प्रमाणाविषयत्वनिगमनम्)

अत: प्रत्यक्षस्य सविशेषविषयत्वेन प्रत्यक्षादिदृष्टसम्बन्धविशिष्टविषयत्वादनुमानमपि सविशेषविषयमेव। प्रमाणसङ्ख्याविवादेऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धि:। वस्तुगतस्वभावविशेषैस्तदेव वस्तु निर्विशेषमिति वदन् जननीवन्ध्यात्वप्रतिज्ञायामिव स्ववाग्विरोधमपि न जानाति।

(प्रत्यक्षस्य सन्मात्रग्राहिता निर्युक्तिकी)

यत्तु प्रत्यक्षं सन्मात्रग्राहित्वेन न भेदिवषयम्, भेदश्च विकल्पासहत्वाद्दुर्निरूप: – इत्युक्तम्, तदपि जात्यादिविशष्टस्यैव वस्तुन: प्रत्यक्षविषयत्वाज्जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनस्स्वस्य च भेदव्यवहारहेतुत्वाच्च दूरोत्सारितम्। संवेदनवद्रूपादिवच्च परत्र व्यवहारविशेषहेतोस्स्वस्मिन्नपि तद्व्यवहारहेतुत्वं युष्माभिरभ्युपेतं भेदस्यापि सम्भवत्येव।

अत एव च नानवस्थाऽन्योन्याश्रयणं च। एकक्षणवर्तित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूपतत्संस्थानरूपगोत्वादेर्गृहीतत्वात् क्षणान्तरग्राह्यं न किञ्चिदिह तिष्ठति॥

(प्रत्यक्षस्य सन्मात्रग्राहितायां प्रतिपत्ति-व्यवहार-शब्दविरोधाः)

अपि च सन्मात्रग्राहित्वे घटोऽस्ति, पटोऽस्ति इति विशिष्टविषया प्रतीतिर्विरुध्यते। यदि च सन्मात्रातिरेकिवस्तुसंस्थानरूपजात्यादिलक्षणो भेद: प्रत्यक्षेण न गृहीत: किमित्यश्वार्थी महिषदर्शने निवर्तते।  सर्वासु प्रतिपत्तिषु सन्मात्रमेव विषयश्चेत्, तत्तत्प्रतिपत्तिविषयसहचारिणस्सर्वे शब्दा एकैकप्रतिपत्तिषु किमिति न स्मर्यन्ते?

(सन्मात्रग्रहणे प्रतीत्यवान्तरजातिविरोधः)

किञ्च, अश्वे हस्तिनि च संवेदनयोरेकविषयत्वेन उपरितनस्य गृहीतग्राहित्वाद्विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात्। प्रतिसंवेदनं विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थविषयत्वमेवाभ्युपगतं भवति। सर्वेषां संवेदनानामेकविषयतायामेकेनैव संवेदनेन अशेषग्रहणादन्धबधिराद्यभावश्च प्रसज्येत।

(करणव्यवस्थार्थं विषयभेदोपपादनम्)

न च चक्षुषा सन्मात्रं गृह्यते, तस्य रूपरूपिरूपैकार्थ- समवेतपदार्थग्राहित्वात्। नापि त्वचा, स्पर्शवद्वस्तुविषयत्वात्। श्रोत्रादीन्यपि न सन्मात्रविषयाणि; किन्तु शब्दरसगन्धलक्षणविशेष-विषयाण्येव। अतस्सन्मात्रस्य ग्राहकं न किञ्चिदिह दृश्यते ॥

(सन्मात्रग्राहित्वे शास्त्रानुत्थानम्)

निर्विशेषसन्मात्रस्य च प्रत्यक्षेणैव ग्रहणे तद्विषयागमस्य प्राप्तविषयत्वेनानुवादकत्वमेव स्यात्। सन्मात्रब्रह्मण: प्रमेयभावश्च। ततो जडत्वनाशित्वादयस्त्वयैवोक्ता:। अतो वस्तुसंस्थानरूपजात्यादिलक्षणभेदविशष्टमेव प्रत्यक्षम् ॥

(संस्थानमेव जातिः भेदश्च)

संस्थानातिरेकिणोऽनेकेष्वेकाकारबुद्धिबोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्यवहारो-पपत्ते:। अतिरेकवादेऽपि संस्थानस्य संप्रतिपन्नत्वाच्च संस्थानमेव जाति:। संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसंधेयम्; जातिग्रहणेनैव भिन्न इति व्यवहारसंभवात्, पदार्थान्तरादर्शनात्, अर्थान्तरवादिनाऽपि अभ्युपगतत्वाच्च गोत्वादिरेव भेद:।

(भेदव्यवहारस्य प्रतियोगिसापेक्षत्वोपपत्तिः)

ननु च – जात्यादिरेव भेदश्चेत्तस्मिन् गृहीते तद्व्यवहारवद्भेदव्यहारस्यात्। सत्यम्, भेदश्च व्यवह्रियत एव, गोत्वादिव्यवहारात् । गोत्वादिरेव हि सकलेतरव्यावृत्तिः, गोत्वादौ गृहीते सकलेतरसजातीयबुद्धिव्यवहारयोर्निवृत्ते:। भेदग्रहणेनैव ह्यभेदनिवृत्ति:। अयमस्माद्भिन्न: इति तु व्यवहारे प्रतियोगिनिर्देशस्य तदपेक्षत्वात् प्रतियोग्यपेक्षया भिन्न इति व्यवहार इत्युक्तम्।

(पारमार्थ्यापारमार्थ्यसाधकानुमानदूषणम्)

यत्पुनर्घटादीनां विशेषाणां व्यावर्तमानत्वेनापारमार्थ्यमुक्तम्, तदनालोचितबाध्यबाधकभाव-व्यावृत्त्यनुवृत्तिविशेषस्य भ्रान्तिपरिकल्पितम्॥

           द्वयोर्ज्ञानयोर्विरोधे हि बाध्यबाधकभाव:। बाधितस्यैव व्यावृत्ति:। अत्र घटपटादिषु देशकालभेदेन विरोध एव नास्ति। यस्मिन् देशे यस्मिन् काले यस्य सद्भाव: प्रतिपन्न:; तस्मिन्देशे तस्मिन्काले तस्याभाव: प्रतिपन्नश्चेत्; तत्र विरोधात् बलवतो बाधकत्वं बाधितस्य च निवृत्ति:; देशान्तरकालान्तरसंबन्धितयाऽनुभूतस्यान्यदेशकालयोरभाव प्रतीतौ (प्रतिपत्तौ) न विरोध इति कथमत्र बाध्यबाधकभाव:। अन्यत्र निवृत्तस्यान्यत्र निवृत्तिर्वा कथमुच्यते, रज्जुसर्पादिषु तु तद्देशकालसम्बन्धितयैवाभावप्रतीते:, विरोधो बाधकत्वं व्यावृत्तिश्चेति देशकालान्तरव्यावर्तमानत्वं (देशकालान्तरदृष्टस्य देशान्तरकालान्तरव्यावर्तमानत्वं) – मिथ्यात्वव्याप्तं न दृष्टमिति न व्यावर्तमानत्वमात्रमपारमार्थ्यहेतु:॥

            यत्तु अनुवर्तमानत्वात्सत्परमार्थ: – इति,  तत्सिद्धमेवेति न साधनमर्हाति। अतो न सन्मात्रमेव वस्तु॥

(सदनुभूत्योः नानात्वम्)

अनुभूतिसद्विशेषयोश्च विषयविषयिभावेन भेदस्य प्रत्यक्षसिद्धत्वादबाधितत्वाच्च अनुभूतिरेव सतीत्येतदपि निरस्तम्॥

(अनुभूतेः स्वयंप्रकाशत्वपरिमितिः)

यत्त्वनुभूतेस्स्वयंप्रकाशत्वमुक्तम्,  तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव; न तु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति, परानुभवस्य हानोपादानादिलिङ्गकानुमानज्ञानविषयत्वात्, स्वानुभवस्याप्यतीतस्य अज्ञासिषम् इति ज्ञानविषयत्वदर्शनाच्च। अतोऽनुभूतिश्चेत्  स्वतस्सिद्धेति वक्तुं न शक्यते॥

(अनुभूतित्वानुभाव्यत्वयोरविरोधः)

अनुभूतेरनुभाव्यत्वे, अननुभूतित्वमित्यपि दुरुक्तम्; स्वगतातीतानुभवानां परगतानुभवानां चानुभाव्यत्वेनाननुभूतित्वप्रसङ्गात्। परानुभवानुमानानभ्युपगमे च शब्दार्थसम्बन्धग्रहणाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्ग:। आचार्यस्य ज्ञानवत्त्वमनुमाय तदुपसत्तिश्च क्रियते; सा च नोपपद्यते।

(वेद्यत्वानुभूतित्वयोः न व्याप्तिः)

न चान्यविषयत्वेऽननुभूतित्वम्। अनुभूतित्वं नाम वर्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वम्, स्वसत्तयैव स्वविषयसाधनत्वं वा। ते चानुभवान्तरानुभाव्यत्वेऽपि स्वानुभवसिद्धे  नापगच्छत इति नानुभूतित्वमपगच्छेत्। घटादेस्त्वननुभूतित्वमेतत्स्वभावविरहात्; नानुभाव्यत्वात्। तथाऽनुभूतेरननुभाव्यत्वेऽपि, अननुभूतित्वप्रसङ्गो दुर्वार:; गगनकुसुमादेरननुभाव्यस्य अननुभूतित्वात्॥

गगनकुसुमादेरननुभूतितत्वमसत्त्वप्रयुक्तम्, नाननुभाव्यत्वप्रयुक्तम् इति चेत्, एवं तर्हि घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्, नानुभाव्यत्वमित्यास्थीयताम् ॥

अनुभूतेरनुभाव्यत्वे, अज्ञानाविरोधित्वमपि तस्या: घटादेरिव प्रसज्यत इति चेत्; अननुभाव्यत्वेऽपि गगनकुसुमादेरिवाज्ञानाविरोधित्वमपि प्रसज्यत एव। अतोऽनुभाव्यत्वे अननुभूतित्वम् इत्युपहास्यम्॥

(संविदः पराभिमतनित्यत्वनिरासः)

यत्तु संविदस्स्वतस्सिद्धाया: प्रागभावाद्यभावादुत्पत्तिर्निरस्यते, तदन्धस्य जात्यन्धेन यष्टि: प्रदीयते। प्रागभावस्य ग्राहकाभावादभावो न शक्यते वक्तुम्; अनुभूत्यैव ग्रहणात्।

     कथमनुभूतिस्सती तदानीमेव स्वाभावं विरुद्धमवगमयतीति चेत्; न ह्यनुभूतिस्स्वसमकालवर्तिनमेव विषयीकरोतीत्यस्ति नियम:; अतीतानागतयोरविषयत्वप्रसङ्गात्॥

(ग्राह्यविशेषस्यापि अनुभूतियौगपद्यानियमः)

अथ मन्यसे अनुभूतिप्रागभावादेस्सिद्ध्यतस्तत्समकालभावनियमोऽस्तीति; किं त्वया क्वचिदेवं दृष्टम्? येन नियमं ब्रवीषि। हन्त तर्हि तत एव दर्शनात् प्रागभावादिस्सिद्ध इति न तदपह्नव:। तत्प्रागभावं च तत्समकालवर्तिनमनुन्मत्त: को ब्रवीति। इन्द्रियजन्मन: प्रत्यक्षस्य ह्येष स्वभावनियम: यत्स्वसमकालवर्तिन: पदार्थस्य ग्राहकत्वम्; न सर्वेषां ज्ञानानां प्रमाणानां च; स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोऽपि ग्रहणदर्शनात्।

(प्रमाणाप्रमाणज्ञानयोर्वैषम्यम्)

अत एव च प्रमाणस्य प्रमेयाविनाभाव: – न हि प्रमाणस्य स्वसमकालवर्तिना अविनाभावः अर्थसम्बन्ध:; अपि तु यद्देशकालादिसम्बन्धितया योऽर्थोऽवभासते, तस्य तथाविधाकारमिथ्यात्व-प्रत्यनीकता। अत इदमपि निरस्तं स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे स्मृतिदर्शनात् इति॥

(संवित्प्रागभावे प्रमाणाभावनिरसनम्)

अथोच्येत – न तावत्संवित्प्रागभाव: प्रस्यक्षावसेय:, अवर्तमानत्वात्। न च प्रमाणान्तरावसेय: लिङ्गाद्यभावात्। न हि संवित्प्रागभावव्याप्तमिह  लिङ्गमुपलभ्यते । न चाऽगमस्तावत्तद्विषयो दृष्टचर:। अतस्तत्प्रागभाव: प्रमाणाभावादेव न सेत्स्यति – इति; यद्येवं  स्वतस्सद्धत्वविभवं परित्यज्य प्रमाणाभावेऽवरूढश्चेत्, योग्यानुपलध्यैवाभावस्समर्थित इत्युपशाम्यतु भवान्॥

(ज्ञाननित्यत्वसाधनम्)

किञ्च – प्रत्यक्षज्ञानं स्वविषयं घटादिकं स्वसत्ताकाले सन्तं साधयत्तस्य न सर्वदा सत्तामवगमयद्दृश्यत इति घटादे: पूर्वोत्तरकालसत्ता न प्रतीयते। तदप्रतीतिश्च संवेदनस्य कालपरिच्छिन्नतया प्रतीते:। घटादिविषयमेव संवेदनं स्वयं कालानविच्छन्नं प्रतीतं चेत्, संवेदनविषयो घटादिरपि कालानवच्छिन्न: प्रतीयेतेति नित्यस्स्यात्। नित्यं चेत्संवेदनं स्वतस्सिद्धं नित्यमित्येव प्रतीयेत। न च तथा प्रतीयते।

एवमनुमानादिसंविदोऽपि कालानविच्छन्ना: प्रतीताश्चेत्, स्वविषयानपि कालानवच्छिन्नान् प्रकाशयन्तीति ते च सर्वे कालानवच्छिन्ना नित्यास्स्यु:, संविदनुरूपत्वाद्विविषयाणाम्।

(निर्विषयानुभवनित्यत्वपक्षदूषणम्)

न च निर्विषया काचित्संविदस्ति, अनुपलब्धे: । विषयप्रकाशनतयैवोपलब्धेरेव हि संविदस्स्वयंप्रकाशता समर्थिता, संविदो विषयप्रकाशनता-स्वभावविरहे सति स्वंयप्रकाशत्वासिद्धे:, अनुभूते: अनुभवान्तराननुभाव्यत्वाच्च संविदस्त्तुच्छतैव स्यात्  ॥

(स्वापादिषु अनुभूतेः अस्फुरणम्)

न च स्वापमदमूर्च्छादिषु सर्वविषयशून्या केवलैव संवित्परिस्फुरतीति वाच्यम्; योग्यानुपलब्धिपराहतत्वात्। तास्वपि दशास्वनुभूतिरनुभूता चेत्, तस्या: प्रबोधसमयेऽनुसंधानं स्यात् न च तदस्ति॥

(अस्मरणनियमः अनुभवाभावसाधकः)

नन्वभूतस्य पदार्थस्य स्मरणनियमो न दृष्टचर:। अतस्स्मरणाभाव: कथमनुभवाभावं साधयेत्?

  उच्यते,निखिलसंस्कारतिरस्कृतिकरदेहविगमादिप्रबलहेतुविरहेऽप्यस्मरणनियमः अनुभवाभावम् एव साधयति ॥

   न केवलमस्मरणिनयमादनुभवाभाव:; सुप्तोत्थितस्य इयन्तं कालं न किञ्चदहमज्ञासिषम् इति प्रत्यवमर्शेनैव सिद्धे:। न च सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहादहंकार-विगमाद्वा इति शक्यते वक्तुम्, अर्थान्तराननुभवस्यार्थान्तराभावस्य चानुभूतार्थान्तरास्मरण-हेतुत्वाभावात्। तास्वपि दशास्वहमर्थोऽनुवर्तत इति च वक्ष्यते॥

(पूर्वोक्तार्थव्याघातशङ्कापरिहारौ)

ननु स्वापादिदशास्वपि सविशेषोऽनुभवोऽस्तीति पूर्वमुक्तम्। सत्यमुक्तम्; स त्वात्मानुभव:।    स च सविशेष एवेति स्थापयिष्यते। इह तु सकलविषयविरहिणी निराश्रया च संविन्निषिध्यते। केवलैव संवित् आत्मानुभव इति चेत् सा च साश्रयेति ह्युपपादयिष्यते।

(उक्तार्थनिगमनम्)

अतोऽनुभूतिस्सती स्वयं स्वप्रागभावं न साधयतीति प्रागभावासिद्धिर्न शक्यते वक्तुम्। अनुभूतेरनुभाव्यत्वसम्भवोपपादनेन अन्यतोऽप्यसिद्धिर्निरस्ता। तस्मान्न प्रागभावाद्यसिद्ध्या संविदोऽनुत्पत्तिरुपपत्तिमती ॥

(संविदः उत्पत्तेरभावात् तत्कृतविकारस्याप्यभावः इत्येतद्दूषणम्)

यदप्यस्या अनुत्पत्त्या विकारान्तरनिरसनम्; तदप्यनुपपन्नम्, प्रागभावे व्यभिचारात् । तस्य हि जन्माभावेऽपि विनाशो दृश्यते। भावेष्विति विशेषणे तर्ककुशलताऽऽविष्कृता भवति। तथा च भवदभिमताऽविद्याऽनुत्पन्नैव विविधविकारास्पदं तत्त्वज्ञानोदयादन्तवती चेति तस्यामनैकान्त्यम्।   तद्विकारास्सर्वे मिथ्याभूता इति चेत्; किं भवत: परमार्थभूतोऽप्यस्ति विकार:? येनैतद्विशेषणं अर्थवद्भवति। न ह्यसावभ्युपगम्यते॥

(अज्ञच्वस्य नानात्वाभावव्याप्यतादूषणम्)

यदपि – अनुभूतिरजत्वात्स्वस्मिन्विभागं न सहते इति। तदपि नोपपद्यते, अजस्यैवाऽत्मनो देहेन्द्रियादिभ्यो विभक्तत्वादनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याश्रयणीयत्वात्। स विभागो मिथ्यारूप इति चेत्; जन्मप्रतिबद्ध: पारमार्थिकविभाग: किं क्वचिद्दृष्टस्त्वया?। अविद्याया आत्मन: परमार्थतो विभागाभावे वस्तुतो ह्यविद्यैव स्यादात्मा। अबाधितप्रतिपत्तिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदाच्छेदनभेदवत्॥

(दृशित्व-दृश्यत्वहेतुकानुमानदूषणम्)

यदपि – नास्या दृशेर्दृशिस्वरूपाया दृश्य: कश्चिदपि धर्मोऽस्ति; दृश्यत्वादेव तेषां न दृशिधर्मत्वम् इति च। तदपि स्वाभ्युपगतै: प्रमाणसिद्धैर्नित्यत्वस्वयंप्रकाशत्वादिधर्मैरुभयं अनैकान्तिकम्। न च ते संवेदनमात्रम्, स्वरूपभेदात्। स्वसत्तयैव स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम्। स्वयंप्रकाशता तु स्वसत्तयैव स्वाश्रयाय प्रकाशमानता। प्रकाशश्च  चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम्।

सर्वकालवर्तमानत्वं हि नित्यत्वम्। एकत्वमेकसंख्यावच्छेद इति। तेषां जडत्वाद्यभावरूपतायामपि तथाभूतैरपि चैतन्यधर्मभूतैस्तैरनैकान्त्यमपरिहार्यम्। संविदि तु स्वरूपातिरेकेण जडत्वादिप्रत्यनीकत्वमित्यभावरूपो भावरूपो वा धर्मो नाभ्युपेतश्चेत्; तत्तिन्नषेधोक्त्या किमपि नोक्तं भवेत्॥

(संविदः आत्मत्वनिराकोपक्रमः)

अपि च संवित्सिद्ध्यति वा न वा?। सिद्ध्यति चेत्; सधर्मता स्यात्। न चेत्; तुच्छता, गगनकुसुमादिवत्। सिद्धिरेव संविदिति चेत्; कस्य कं प्रतीति वक्तव्यम्; यदि न कस्यचित्किञ्चित्प्रति; सा तर्हि न सिद्धि:। सिद्धिर्हि पुत्रत्वमिव कस्यचित्किञ्चित्प्रति भवति। आत्मन इति चेत्; कोऽयमात्मा? ननु संविदेवेत्युक्तम्। सत्यमुक्तम्; दुरुक्तं तु तत्। तथाहि; कस्यचित्पुरुषस्य किञ्चिदर्थजातं प्रति सिद्धिरूपा तत्सम्बन्धिनी सा संवित्स्वयं कथमिवाऽत्मभावमनुभवेत्?॥

(संविदः अनात्मत्वनिष्कर्षणम्)

एतदुक्तं भवति – अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुण्यापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषो घटमहं जानामीममर्थमवगच्छामि पटमहं संवेद्मि इति सर्वेषामात्मसाक्षिक: प्रसिद्ध:। एतत्स्वभावतया हि तस्यास्स्वयंप्रकाशता भवताऽप्युपपादिता। अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत्कर्तृत्वमपि दुर्घटमिति॥

(स्थिरत्वास्थिरत्वे अपि संविदनात्मत्वसाधके)

तथाहि; अस्य कर्तुस्स्थिरत्वं कर्तृधर्मस्य संवेदनाख्यस्य सुखदु:खादेरिवोत्पत्तिस्थिति-निरोधाश्च प्रत्यक्षमीक्ष्यन्ते। कर्तृस्थैर्यं तावत् स एवायमर्थ: पूर्वं मयाऽनुभूत: इति प्रत्यभिज्ञाप्रत्यक्षसिद्धम्। अहं जानामि, अहमज्ञासिषं, ज्ञातुरेव ममेदानीं ज्ञानं नष्टम् इति च संविदुत्पत्त्यादय: प्रत्यक्षसिद्धा इति कुतस्तदैक्यम्। एवं क्षणभङ्गिन्यास्संविद आत्मत्वाभ्युपगमे पूर्वेद्युर्दृष्टमपरेद्यु: इदहमदर्शम् इति प्रत्यभिज्ञा च न घटते; अन्येनानुभूतस्य न ह्यन्येन प्रत्यभिज्ञानसम्भव:॥

(संविदः स्थिरत्वेऽपि अनात्मता)

किञ्च अनुभूतेरात्मत्वाभ्युपगमे तस्या: नित्यत्वेऽपि प्रतिसन्धानासम्भवस्तदवस्थ:।  प्रतिसन्धानं हि पूर्वापरकालस्थायिनमनुभवितारमुपस्थापयति; नानुभूतिमात्रम्। अहमेवेदं पूर्वमप्यन्वभूवमिति। भवतोऽप्यनुभूतेर्न ह्यनुभवितृत्वमिष्टम्।

(क्रियायाः अकर्तृत्वात् संविदः अनात्मत्वम्)

अनुभूतिरनुभूतिमात्रमेव। संविन्नाम काचिन्निराश्रया निर्विषया वाऽत्यन्तानुपलब्धेर्न सम्भवतीत्युक्तम्। उभयाभ्युपेता  संविदेवाऽत्मेत्युपलब्धिपराहतम्। अनुभूतिमात्रमेव परमार्थ इति निष्कर्षकहेत्वाभासाश्च निराकृता:॥

(आत्मनः अहमर्थत्वं प्रत्यक्त्वाबाधकम्)

ननु च अहं जानामि इत्यस्मत्प्रत्यये योऽनिदमंश: प्रकाशैकरसश्चित्पदार्थस्स आत्मा। तस्मिंस्तद्बलनिर्भासिततया युष्मदर्थलक्षणोऽहं जानामीति सिध्यन्नहमर्थश्चिन्मात्रातिरेकी युष्मदर्थ एव। नैतदेवम्, अहं जानामि इति धर्मधर्मितया प्रत्यक्षप्रतीतिविरोधादेव॥

(प्रत्यक्त्वात् अहमर्थ एवात्मा)

किञ्च

अहमर्थो न चेदात्मा प्रत्यक्त्वं नाऽत्मनो भवेत्।

अहं बुद्ध्या परागर्थात् प्रत्यगर्थो हि भिद्यते॥

(मुमुक्षोः अभिसन्धिः)

निरस्ताखिलदु:खोऽहमनन्तानन्दभाक् स्वराट्।

भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते॥

(शास्त्रप्रामाण्यान्यथानुपपत्त्या अहमर्थ आत्मा)

अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति।

अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धत:॥

मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता।

इति तत्प्राप्तये यत्न: कस्यापि न भविष्यति॥

स्वसम्बन्धितया ह्यस्यास्सत्ता विज्ञप्तितादि च।

स्वसम्बन्धवियोगे तु ज्ञप्तिरेव न सिद्ध्यति॥

छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत्।

अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम्॥

विज्ञातारमरे (बृ.४.४.१४) केन जानात्येवेति च श्रुति:।

एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ (भ.गी.१३.१) इति च स्मृति:॥

नाऽत्मा श्रुते: (ब्र.सू.२.३.१८) इत्यारभ्य सूत्रकारोऽपि वक्ष्यति।

ज्ञोऽत एव (ब्र.सू.२.३.१९) इत्यतो नाऽत्मा ज्ञप्तिमात्रमिति स्थितम्॥

(युष्मदस्मदर्थयोः ऐक्यं व्याहतम्)

अहं प्रत्ययसिद्धो ह्यस्मदर्थ:; युष्मत्प्रत्ययविषयो युष्मदर्थ:। तत्राहं जानामीति सिद्धो ज्ञाता युष्मदर्थ इति वचनं जननी मे वन्ध्येतिवद्व्याहतार्थं च। न चासौ ज्ञाताऽहमर्थोऽन्याधीनप्रकाश: स्वयंप्रकाशत्वात्। चैतन्यस्वभावता हि स्वयंप्रकाशता। य: प्रकाशस्वभाव:; सोऽनन्याधीनप्रकाश: दीपवत्।

(दीपस्य स्वयंप्रकाशताभङ्गपरिहारौ)

न हि दीपादेस्स्वप्रभाबलनिर्भासितत्वेनाप्रकाशत्वमन्याधीनप्रकाशत्वं च। किं तर्हि? दीपस्स्वयंप्रकाशस्वभावस्स्वयमेव प्रकाशते; अन्यानपि प्रकाशयति प्रभया॥

(धर्म-धर्मिणोः द्वयोरपि ज्ञानरूपता)

एतदुक्तं भवति – यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रूपेणावतिष्ठते। यद्यपि प्रभा प्रभावद्द्रव्यगुणभूता तथाऽपि तेजोद्रव्यमेव, न शौक्ल्यादिवद्गुण:। स्वाश्रयादन्यत्रापि वर्तमानत्वाद्रूपवत्त्वाच्च शौक्ल्यादिवैधर्म्यात्; प्रकाशवत्त्वाच्च तेजोद्रव्यमेव; नार्थान्तरम्। प्रकाशवत्त्वञ्च स्वस्वरूपस्यान्येषां च प्रकाशकत्वात्।

अस्यास्तु गुणत्वव्यवहारो नित्यतदाश्रयत्वतच्छेषत्वनिबन्धन:॥ न चाऽश्रयावयवा एव विशीर्णा: प्रचरन्त: प्रभेत्युच्यन्ते; मणिद्युमिणप्रभृतीनां विनाशप्रसङ्गात्॥

   दीपेऽप्यवयविप्रतिपत्ति: कदाचिदपि न स्यात्। नहि विशरणस्वभावावयवा दीपाश्चतुरङ्गुलमात्रं नियमेन पिण्डीभूता ऊर्ध्वमुद्गम्य तत: पश्चाद्युगपदेव तिर्यगूर्ध्वमधश्चैकरूपा विशीर्णा: प्रचरन्तीति शक्यं वक्तुम् । अतस्सप्रभाका एव दीपा: प्रतिक्षणमुत्पन्ना विनश्यन्तीति पुष्कलकारणक्रमोपनिपातात् तद्विनाशे विनाशाच्चावगम्यते। प्रभायास्स्वाश्रयसमीपे प्रकाशाधिक्यमौष्ण्याधिक्यमित्याद्युपलब्धिव्यवस्थाप्यम् अग्न्यादीनामौष्ण्यादिवत्। एवमात्मा चिद्रूप एव चैतन्यगुण इति।

(चिद्रूपता स्वयंप्रकाशतारूपा)

चिद्रूपता हि स्वयंप्रकाशता॥ तथाहि श्रुतय: – स यथा सैन्धवघनोऽनन्तरोऽबाह्य: कृत्स्नो रसघन एव, एवं वा अरेऽयमात्माऽनन्तरोऽबाह्य: कृत्स्न: प्रज्ञानघन एव (बृ.उ.६.४.१३), विज्ञानघन एव (बृ.उ.४.४.१२), अत्रायं पुरुषस्स्वयंज्योतिर्भवति (बृ.उ.६.३.९), न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते (बृ.उ.६.३.१०), अथ यो वेदेदं जिघ्राणीति स आत्मा (बृ.उ.६.३.३०), कतम आत्मा योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष: (छा.उ.८.१२.४), एष हि द्रष्टा श्रोता रसियता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष: (बृ.६.३.७), विज्ञातारमरे केन विजानीयात् (प्रश्न.उ.४.प्रश्न), जानात्येवायं पुरुष:, न पश्यो मृत्युं पश्यति न रोगं नोत दु:खताम् स उत्तम: पुरुष: (छा.७.२६.२), नोपजनं स्मरन्निदं शरीरम् (छा.उ.८.१२.३), एवमेवास्य परिद्रष्टुरिमाष्षोडशकला: पुरुषायणा: पुरुषं प्राप्यास्तंगच्छन्ति (प्र.उ.६.५) तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमय: (तै.आन.४.१) इत्याद्या:। वक्ष्यति च ज्ञोऽतएव (ब्र.सू.२.३.१९) इति॥ अतस्स्वयंप्रकाशोऽयमात्मा ज्ञातैव, न प्रकाशमात्रम् ॥

(संविदः अनात्मत्वोपपादकाः तर्काः)

प्रकाशत्वादेव कस्यचिदेव भवेत्प्रकाश:, दीपादिप्रकाशवत्। तस्मान्नाऽत्मा भवितुमर्हाति संवित्। संविदनुभूतिज्ञानादिशब्दास्सम्बन्धिशब्दा इति च शब्दार्थविद:। न हि लोकवेदयोर्जानातीत्यादेरकर्मकस्याकर्तृकस्य च प्रयोगो दृष्टचर:॥

(संविदात्मत्वे अजडत्वं न हेतुः)

यच्चोक्तमजडत्वात्संविदेवाऽत्मेति; तत्रेदं प्रष्टव्यम्, अजडत्वमिति किमभिप्रेतम्? स्वसत्ताप्रयुक्तप्रकाशत्वमिति चेत्; तथा सति दीपादिष्वनैकान्त्यम्। संविदतिरिक्तप्रकाश-धर्मानभ्युपगमेनासिद्धिर्विरोधश्च। अव्यभिचरितप्रकाशसत्ताकत्वमपि सुखादिषु व्यभिचारान्निरस्तम्॥

यद्युच्येत –  सुखादिरव्यभिचरितप्रकाशोऽप्यन्यस्मै प्रकाशमानतया घटादिवज्ज्डत्वेन अनाऽत्मा – इति। ज्ञानं न किं स्वस्मै प्रकाशते? तदपि ह्यन्यस्यैवाहमर्थस्य ज्ञातुरवभासते, अहं सुखीतिवज्जानाम्यहमिति। अतस्स्वस्मै प्रकाशमानत्वरूपमजडत्वं संविद्यसिद्धम् । तस्मात् स्वात्मानं प्रति स्वसत्तयैव सिद्ध्यन्नजडोऽहमर्थ एवाऽत्मा ॥

(ज्ञानस्य प्रकाशरूपतायां हेतुः)

ज्ञानस्यापि प्रकाशता तत्संबन्धायत्ता। तत्कृतमेव हि ज्ञानस्य सुखादेरिव स्वाश्रयचेतनं प्रति प्रकटत्वमितरं प्रत्यप्रकटत्वं च। अतो न ज्ञप्तिमात्रमात्मा, अपि तु ज्ञातैवाहमर्थ:॥

(अहमर्थः न भ्रान्तिसिद्धः)

अथ यदुक्तम् – अनुभूति: परमार्थतो निर्विषया निराश्रया च सती भ्रान्त्या ज्ञातृतयाऽवभासते, रजततयेव शुक्ति: निरधिष्ठानभ्रमानुपपत्ते: इति। तदयुक्तम्; तथा सत्यनुभवसामानाधिकरण्येनानुभविताऽहमर्थ: प्रतीयेत, अनुभूतिरहम् इति पुरोऽवस्थितभास्वरद्रव्याकारतया रजतादिरिव। अत्र तु पृथगवभासमानैवेयमनुभूतिरर्थान्तरमहमर्थं विशिनष्टि, दण्ड इव देवदत्तम्। तथा हि अनुभवाभ्यहम् इति प्रतीति:। तदेवमस्मदर्थमनुभूतिविशिष्टं  प्रकाशयन्ननुभवाम्यहमिति प्रत्ययो दण्डमात्रे दण्डी देवदत्त: इति प्रत्ययवद्विशेषणभूतानुभूति-मात्रावलम्बन: कथमिव प्रतिज्ञायेत?

(ज्ञातृत्वं मिथ्येत्येतत् निर्युक्तिकम्)

यदप्युक्तम् स्थूलोऽहमित्यादिदेहात्माभिमानवत एव ज्ञातृत्वप्रतिभासनात् ज्ञातृत्वमपि मिथ्या – इति। तदयुक्तम्; आत्मतया अभिमताया अनुभूतेरपि मिथ्यात्वं स्यात्, तद्वत एव प्रतीते:। सकलेतरोपमर्दितत्त्वज्ञानाबाधितत्वेनानुभूतेर्न मिथ्यात्वमिति चेत्, हन्तैवं सति तदबाधादेव ज्ञातृत्वमपि न मिथ्या।

(ज्ञातृत्वस्य विक्रियात्मकत्वानुवादः)

यदप्युक्तम् – अविक्रियस्यऽत्मनो ज्ञानक्रियाकर्तृत्वरूपं ज्ञातृत्वं न संभवति। अतो ज्ञातृत्वं विक्रियात्मकं जडं विकारास्पदाव्यक्तपरिणामाहङ्कारग्रन्थिस्थमिति न ज्ञातृत्वमात्मन:, अपि त्वन्त:करणरूपस्याहङ्कारस्य । कर्तृत्वादिर्हि रूपादिवद्दृश्यधर्म:; कर्तृत्वेऽहंप्रत्ययगोचरत्वे चात्मनोऽभ्युपगम्यमाने देहस्येवानात्मत्वपराक्त्वजडत्वादि प्रसङ्गश्चेति ॥

(अनूदितार्थदूषणम्)

नैतदुपपद्यते- देहस्येवाचेतनत्वप्रकृतिपरिणामत्वदृश्यत्वपराक्त्वपरार्थत्वादियोगात् अन्त:-करणरूपस्य अहङ्कारस्य, चेतनासाधारणस्वभावत्वाच्च ज्ञातृत्वस्य॥

 एतदुक्तं भवति यथा देहादिर्दृश्यत्वपराक्त्वादिहेतुभिस्तत्प्रत्यनीकद्रष्टृत्वप्रत्यक्त्वादेर्विविच्यते, एवमन्त:करणरूपाहङ्कारोऽपि तद्द्रव्यत्वादेव तैरेव हेतुभिस्तस्माद्विविच्यते – इति।

अतो विरोधादेव न ज्ञातृत्वमहङ्कारस्य, दृशित्ववत्। यथा दृशित्वं तत्कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वमपि न तत्कर्मणोऽभ्युगन्तव्यम्॥

(ज्ञातृत्वं न विक्रियात्मकम्)

न च ज्ञातृत्वं विक्रियात्मकम्, ज्ञातृत्वं हि ज्ञानगुणाश्रयत्वम्। ज्ञानं चास्य नित्यस्य स्वाभाविकधर्मत्वेन नित्यम्। नित्यत्वं चाऽत्मनो नात्मा श्रुते: (ब्र.सू.२.३.१८) इत्यादिषु वक्ष्यति। ज्ञोऽत एव (ब्र.सू.२.३.१९) इत्यत्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकिमिति वक्ष्यति। अस्य ज्ञानस्वरूपस्यैव मणिप्रभृतीनां प्रभाश्रयत्वमिव ज्ञानाश्रयत्वमप्यविरुद्धमित्युक्तम्।

(स्वभावतो ज्ञानवानपि न सर्वज्ञो जीवः)

स्वयमपरिच्छिन्नमेव ज्ञानं सङ्कोचविकासार्हामित्युपपादयिष्याम: ॥ अतः क्षेत्रज्ञावस्थायां कर्मणा सङ्कुचितस्वरूपं तत्तत्कर्मानुगुणं तरतमभावेन वर्तते । तच्च इन्द्रियद्वारेण व्यवस्थितम् । तमिमम् इन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्य उदयास्तमयव्यपदेशः प्रवर्तते ।

(आत्मनः ज्ञानसङ्कोचविकासात्मकविकारित्वसम्मतिः)

 ज्ञानप्रसरे तु कर्तृत्वं अस्त्येव । तच्च न स्वाभाविकम्, अपि तु कर्मकृतमिति, अविक्रियस्वरूप एव आत्मा । एवं रूपविक्रियात्मकं ज्ञातृत्वं ज्ञानस्वरूपस्यात्मनः एव इति न कदाचिदपि जडस्य अहंकारस्य ज्ञातृत्वसम्भवः  ॥

(चिच्छायापत्त्या ज्ञातृत्वनिर्वाहनिरासः)

जडस्वरूपस्यापि अहङ्कारस्य चित्संनिधानेन तच्छायापत्त्या तत्सम्भव इति चेत्; केयं चिच्छायापत्ति:? किमहङ्कारच्छायापत्तिस्संविद:? उत संविच्छायापत्तिरहङ्कारस्य?॥

न तावत्संविद:, संविदो ज्ञातृत्वानभ्युपगमात्। नाप्यहङ्कारस्य, उक्तरीत्या तस्य  जडस्य ज्ञातृत्वायोगात्,  द्वयोरप्यचाक्षुषत्वाच्च, न ह्यचाक्षुषाणां छाया दृष्टा॥

(चित्संपर्केण ज्ञातृत्वनिर्वाहनिरासः)

अथ – अग्निसंपर्कादय:पिण्डौष्ण्यवच्चित्संपर्काज्ज्ञातृत्वोपलब्धि: – इति चेत्, नैतत्, संविदि वस्तुतो ज्ञातृत्वानभ्युपगमादेव न तत्संपर्कादहङ्कारे ज्ञातृत्वं तदुपलब्धिर्वा । अहंकारस्य त्वचेतनस्य ज्ञातृत्वासम्भवादेव सुतरां न तत्संपर्कात्संविदि ज्ञातृत्वं तदुपलब्धिर्वा॥

(अभिव्यक्तिपक्षस्य दूषणम्)

यदप्युक्तम् – उभयत्र न वस्तुतो ज्ञातृत्वमस्ति। अहङ्कारस्त्वनुभूतेरभिव्यञ्जक:            स्वात्मस्थामेव अनुभूतिमभिव्यनक्ति, आदर्शादिवत्, इति। तदयुक्तम्, आत्मनस्स्वयंज्योतिषो जडस्वरूपाहङ्काराभिव्यङ्ग्यत्वायोगात्॥ तदुक्तं –

शान्ताङ्गार इवाऽदित्यमहङ्कारो जडात्मक:।

स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत्॥ (आत्मसिद्धि:) इति

स्वयंप्रकाशानुभवाधीनसिद्धयो हि सर्वे पदार्था:। तत्र तदायत्तप्रकाशोऽचित् अहङ्कार: अनुदितानस्तमितस्वरूपप्रकाशमशेषार्थसिद्धिहेतुभूतमनुभवमभिव्यनक्तीत्यात्मविद: परिहसन्ति।

(उक्तव्यङ्क्तृव्यङ्ग्यभावः तयोर्मिथोऽनुपपन्नः)

किञ्च अहङ्कारानुभवयोस्स्वभावविरोधादनुभूतेरननुभूतित्वप्रसङ्गाच्च न व्यङ्क्तृव्यङ्ग्य-भाव:। यथोक्तं-

व्यङ्क्तृव्यङ्ग्यत्वमन्योन्यं न च स्यात्प्रातिकूल्यत:।

व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे॥ (आत्मसिद्धि:) इति॥

न च रविकरनिकराणां स्वाभिव्यङ्ग्यकरतलाभिव्यङ्ग्यत्ववत्संविदभिव्यङ्ग्याहङ्कार-अभिव्यङ्ग्यत्वं संविदस्साधीय:, तत्रापि रविकरनिकराणां करतलाभिव्यङ्ग्यत्वाभावात् । करतलप्रतिहतगतयो हि रश्मयो बहुलास्स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्बाहुल्यमात्रहेतुत्वात् करतलस्य नाभिव्यञ्जकत्वम्॥

(अभिव्यक्तिकल्पानां दूषणम्)

किंचास्य संवित्स्वरूपस्य आत्मनोऽहंकारनिर्वर्त्या अभिव्यक्ति: किंरूपा। न तावदुत्पत्ति:,  स्वतस्सिद्धतयाऽनन्योत्पाद्यत्वाभ्युपगमात्। नापि तत्प्रकाशनम्, तस्यानुभवान्तराननुभाव्यत्वात्।

तत एव च न तदनुभवसाधनानुग्रह:। स हि द्विधा; ज्ञेयस्येन्द्रियसंबन्धहेतुत्वेन वा, यथा जातिर्निजमुखादिग्रहणे व्यक्तिदर्पणादीनां नयनादीन्द्रियसंबन्धहेतुत्वेन; बोद्धृगतकल्मषापनयनेन वा, यथा परतत्त्वावबोधनसाधनस्य शास्त्रस्य शमदमादिना। यथोक्तम् – करणानामभूतित्वान्न तत्संबन्धहेतुता । – (आत्मसिद्धि:) इति॥

(अनुभूतेः अनुभाव्यत्वमभ्युपगम्य अनुग्रहपक्षदूषणम्)

किंञ्च अनुभूतेरनुभाव्यत्वाभ्युपगमेऽप्यहमर्थेन न तदनुभवसाधनानुग्रह: सुवच:; स ह्यनुभाव्यानुभवोत्पत्तिप्रतिबन्धनिरसनेन भवेत्। यथा रूपादिग्रहणोत्पत्तिनिरोधिसंतमसनिरसनेन चक्षुषो दीपादिना। न चेह तथाविधं निरसनीयं सम्भाव्यते। न तावत्संविदात्मगतं तज्ज्ञानोत्पत्तिनिरोधि किञ्चिचदप्यहंकारापनेयमस्ति। अस्ति ह्यज्ञानमिति चेत्; न,  अज्ञानस्याहंकारापनोद्यत्वानभ्युपगमात्। ज्ञानमेव ह्यज्ञानस्य निवर्तकम्  ॥

(अज्ञानस्य संविदाश्रयत्वाभावः)

न च संविदाश्रयत्वमज्ञानस्य सम्भवति; ज्ञानसमानाश्रयत्वात् तत्समानविषयत्वाच्च ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हाति; यथा ज्ञानाश्रयत्वप्रसक्तिशून्यत्वेन घटादेर्नाज्ञानाश्रयत्वम्। तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात्  ॥

(संविदाश्रितत्वमभ्युपगम्याऽपि दूषणम्)

संविदोऽज्ञानाश्रयत्वाभ्युपगमेऽपि आत्मतयाऽभ्युपगतायास्तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न तद्गताज्ञाननिवृत्ति:। ज्ञानं हि स्वविषय एवाज्ञानं निवर्तयति, यथा रज्ज्वादौ। अतो न केनापि कदाचित्संविदाश्रयमज्ञानमुच्छिद्येत।

(अज्ञानं न अनिर्वचनीयम्, नापि ज्ञानप्रागभावः)

अस्य च सदसदनिर्वचनीयस्याज्ञानस्य स्वरूपमेव दुर्निरूपमित्युपरिष्टाद्वक्ष्यते। ज्ञानप्रागभावरूपस्य चाज्ञानस्य ज्ञानोत्पत्तिविरोधित्वाभावेन न तन्निरसनेन तज्ज्ञानसाधनानुग्रह:। अतो न केनापि प्रकारेणाहङ्कारेणानुभूतेरभिव्यक्ति:।

(स्वात्मस्थतया अभिव्यक्तेः दूषणम्)

न च स्वाश्रयतयाऽभिव्यङ्ग्याभिव्यञ्जनमभिव्यञ्जकानां स्वभाव:, प्रदीपादिष्वदर्शनात्, यथावस्थितपदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य च। तच्च स्वत: प्रामाण्यन्यायसिद्धम्। न च दर्पणादिर्मुखादेरिभव्यञ्जक:, अपि तु चाक्षुषतेज:प्रतिफलनरूपदोषहेतु:। तद्दोषकृतश्च तत्रान्यथावभास:। अभिव्यञ्जकस्त्वालोकादिरेव। न चेह तथाहङ्कारेण संविदि स्वप्रकाशायां तादृशदोषापादनं संभवति। व्यक्तेस्तु जातिराकार इति तदाश्रयतया प्रतीति:; न तु व्यक्तिव्यङ्ग्यत्वात्।

अतोऽन्त:करणभूताहङ्कारस्थतया संविदुपलब्धेर्वस्तुतो दोषतो वा न किञ्चिदिह कारणमिति नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वा। तस्मात्स्वत एव ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रम् अहंभावविगमे तु ज्ञप्तेरपि न प्रत्यक्त्वसिद्धिरित्युक्तम्॥

(सुप्तौ अहमर्थस्य अविशदस्फुरणम्)

तमोगुणाभिभवात् परागर्थानुभवाभावाच्च अहमर्थस्य विविक्तस्फुटप्रतिभासाभावेऽप्याप्रबोधात् अहमित्येकाकारेणाऽत्मनस्स्फुरणात्सुषुप्तावपि नाहंभावविगम:। भवदभिमताया अनुभूतेरपि तथैव प्रथेति वक्तव्यम्।

(स्वपक्षे प्रमाणानुरोधः, परपक्षे तदननुरोधश्च)

न हि सुषुप्तोत्थित: कश्चिदहंभाववियुक्तार्थान्तरप्रत्यनीकाकारा ज्ञप्तिरहमज्ञानसाक्षितया अवतिष्ठत इत्येवंविधां स्वापसमकालामनुभूतिं परामृशति । एवं हि सुप्तोत्थितस्य परामर्श:, सुखमहमस्वाप्समिति । अनेन प्रत्यवमर्शेन तदानीमप्यहमर्थस्यैवाऽत्मनस्सुखित्वं ज्ञातृत्वं  च ज्ञायते॥

(उक्ते परामर्शे परोक्तायाः अन्यासिद्धेः परिहारः)

न च वाच्यं, यथेदानीं सुखं भवति; तथा तदानीमस्वाप्समित्येषा प्रतिपत्तिरिति; अतद्रूपत्वात्प्रतिपत्ते:। न चाहमर्थस्याऽत्मनोऽस्थिरत्वेन तदानीमहमर्थस्य सुखित्वानुसन्धानानुपपत्ति:। यतस्सुषुप्तिदशाया: प्रागनुभूतं वस्तु सुप्तोत्थितो मयेदं कृतं, मयेदमनुभूतं अहमेतदवोचम् इति परामृशति।

(अहमर्थाननुभवसाधकनिषेधसामान्यविषयपरामर्शमादाय शङ्कासमाधाने)

एतावन्तं कालं न किञ्चिदहमज्ञासिषम् इति च परामृशतीति चेत्, तत: किम्? न किञ्चिदिति कृत्स्नप्रतिषेध इति चेत्; न, नाहमवेदिषम् इति वेदितुरहमर्थस्यैवानुवृत्ते: वेद्यविषयो हि स प्रतिषेध:। न किञ्चिदिति निषेधस्य कृत्स्नविषयत्वे भवदभिमता अनुभूतिरपि प्रतिषिद्धा स्यात्।

(अनुभूतेः न निषेधः, किन्तु तदनुवृत्तेः, इत्याशङ्कापरिहारौ)

सुषुप्तिसमये त्वनुसन्धीयमानमहमर्थमात्मनं ज्ञातारमहमिति परामृश्य न किञ्चिदवेदिषमिति वेदने तस्य प्रतिषिध्यमाने तस्मिन्काले निषिध्यमानाया वित्तेस्सिद्धिमनुवर्तमानस्य ज्ञातुरहमर्थस्य चासिद्धिमनेनैव न किञ्चिदहमवेदिषम् इति परामर्शेन साधयंस्तमिममर्थं देवानामेव साधयतु॥

(निषेधविशेषविषयपरामर्शमादाय शङ्कासमाधाने)

मामप्यहं न ज्ञातवान् इति अहमर्थस्यापि तदानीमननुसन्धानं प्रतीयत इति चेत्; स्वानुभवस्ववचनयोर्विरोधमपि न जानन्ति भवन्त:। अहं मां न ज्ञातवान् इति ह्यनुभववचने। मामिति किं निषिध्यत इति चेत्; साधु पृष्टं भवता। तदुच्यते, अहमर्थस्य ज्ञातुरनुवृत्ते: न स्वरूपं निषिध्यते; अपि तु प्रबोधसमयेऽनुसन्धीयमानस्याहमर्थस्य वर्णाश्रमादिविशिष्टता।

(अहम् माम् इति पदयोः विशिष्टविथयता)

अहं मां न ज्ञातवान् इत्युक्ते विषयो विवेचनीय:। जागरितावस्थानुसंहितजात्यादि-विशिष्टोऽस्मदर्थो मामित्यंशस्य विषय:। स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानश्च अहमर्थोऽहमित्यंशस्य विषय:। अत्र सुप्तोऽहमीदृशोऽहमिति च मामपि न ज्ञातवानहमित्येव खल्वनुभवप्रकार:॥

(उक्तांशस्य परमतेन उपपादन्)

किञ्च, सुषुप्तावात्माऽज्ञानसाक्षित्वेनाऽस्त इति हि भवदीया प्रक्रिया। साक्षित्वं च साक्षाज्ज्ञातृत्वमेव। न ह्यजानतस्साक्षित्त्वम्। ज्ञातैव हि लोकवेदयोस्साक्षीति व्यपदिश्यते; न ज्ञानमात्रम्। स्मरति च भगवान् पाणिनि:  साक्षाद्द्रष्टरि संज्ञायाम् (अष्टा.५.२.९१) इति साक्षाज्ज्ञातर्येव साक्षिशब्दम्। स चायं साक्षी जानामीति प्रतीयमानोऽस्मदर्थ एवेति कुतस्तदानीमहमर्थो न प्रतीयेत । आत्मने स्वयमवभासमानोऽहमित्येवावभासत  इति स्वापाद्यवस्थास्वप्यात्मा प्रकाशमानोऽहमित्येवावभासत इति सिद्धम्॥

(मुक्तौ अहमर्थानुवृत्तेः अनूद्य दूषणम्)

यत्तु – मोक्षदशायामहमर्थो नानुवर्तते – इति; तदपेशलम्। तथा सत्यात्मनाश एवापवर्ग: प्रकारान्तरेण प्रतिज्ञात: स्यात्। न चाहमर्थो धर्ममात्रम्; येन  तद्विगमेऽप्यविद्यानिवृत्ताविव स्वरूपमवतिष्ठते। प्रत्युत स्वरूपमेवाहमर्थ आत्मन:। ज्ञानं तु तस्य धर्म: अहं जानामि, ज्ञानं मे जातम् इति चाहमर्थधर्मतया ज्ञानप्रतीतेरेव॥

(श्रुत्यर्थापत्त्या उक्तार्थसमर्थनम्)

अपि च य: परमार्थतो भ्रान्त्या वाऽऽध्यात्मिकादिदु:खैर्दु:खितया स्वात्मानमनुसन्धत्ते अहं दु:खी  इति। सर्वमेतद्दु:खजातमपुनर्भवमपोह्य कथमहमनाकुलस्स्वस्थो भवेयम् इत्युत्पन्नमोक्ष-रागः स एव तत्साधने प्रवर्तते। स साधनानुष्ठानेन यद्यहमेव न भविष्यामीत्यवगच्छेत्; अपसर्पेदेवासौ मोक्षकथाप्रस्तावात्। ततश्चाधिकारिविरहादेव सर्वं मोक्षशास्त्रमप्रमाणं स्यात्। अहमुपलक्षितं प्रकाशमात्रमपवर्गेऽवतिष्ठत  इति चेत्; किमनेन? मयि नष्टेऽपि किमपि प्रकाशमात्रमपवर्गेऽवतिष्ठत इति मत्वा न हि कश्चित् बुद्धिपूर्वकारी प्रयतते। अतोऽहमर्थस्यैव ज्ञातृतया सिद्ध्यत: प्रत्यगात्मत्वम्।

(उक्तार्थे अनुमानम्)

स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात्, यो य: स्वस्मै प्रकाशते स सर्वोऽहमित्येव प्रकाशते यथा तथावभासमानत्वेनोभयवादिसम्मतस्संसार्यात्मा। य: पुनरहमिति न चकास्ति; नासौ स्वस्मै प्रकाशते, यथा घटादि:। स्वस्मै प्रकाशते चायं मुक्तात्मा; तस्मादहमित्येव प्रकाशते॥

(उक्तानुमाने हेतोः साध्यविशेषविरुद्धत्वाशङ्कापरिहारौ)

न चाहमिति प्रकाशमानत्वेन तस्याज्ञत्वसंसारित्वादिप्रसङ्ग:। मोक्षविरोधात्, अज्ञत्वाद्यहेतुत्वाच्चाहंप्रत्ययस्य। अज्ञानं नाम स्वरूपाज्ञानमन्यथा ज्ञानं विपरीतज्ञानं वा। अहिमत्येवाऽत्मनस्स्वरूपमिति स्वरूपज्ञानरूपोऽहंप्रत्ययो नाज्ञत्वमापादयति, कुतस्संसारित्वम्। अपि तु  तद्विरोधित्वान्नाशयत्येव।

(निवृत्ताविद्यानामपि अहम्प्रत्ययः)

ब्रह्मात्मभावापरोक्ष्यनिर्धूतनिरवशेषाविद्यानामपि वामदेवादीनामहमित्येव आत्मानुभवदर्शनाच्च। श्रूयते हि – तद्धैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृ.३.४.१०) इति, अहमेक: प्रथममासं वर्तामि च भविष्यामि च (अथर्व.शि.उ.९.खण्डे) इत्यादि।

(ब्रह्मणोऽप्यहं प्रत्ययः श्रुतिस्मृतिषु)

सकलेतराज्ञानविरोधिन: सच्छब्दप्रत्ययमात्रभाज: परस्य ब्रह्मणो व्यवहारोऽप्येवमेव हन्ताहमिमास्तिस्रो देवता: (छा.६.३.२), बहु स्यां प्रजायेय (तै.आन.६.२), स ईक्षत लोकान्नु सृजा इति; (ऐत १.१.१), तथा यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम:। अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: (भ.गी.१५.१८), अहमात्मा गुडाकेश (भ.गी. १०.२०), न त्वेवाहं जातु नासम् (भ.गी. २.१२), अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा (भ.गी.७.६), अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (भ.गी.१०.८), तेषामहं समुद्धर्ता मृत्युसंसारसागरात् (भ.गी.१२.७), अहं बीजप्रद: पिता (भ.गी.१४.४), वेदाहं समतीतानि – (भ.गी.७.२६) इत्यादिषु॥

(उक्तार्थे गीतोक्तिविरोधशङ्कापरिहारौ)

यद्यहमित्येवात्मन: स्वरूपम्, कथं तर्ह्यहङ्कारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते । महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च (भ.गीता.१३.५) इति। उच्यते, स्वरूपोपदेशेषु सर्वेष्वहमित्येवोपदेशात् तथैवात्मस्वरूपप्रतिपत्तेश्चाहमित्येव प्रत्यगात्मनस्स्वरूपम्। अव्यक्तपरिणामभेदस्य अहंकारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते। स त्वनात्मनि देहेऽहंभावकरणहेतुत्वेन अहंकार इत्युच्यते। अस्य त्वहंकारशब्दस्य अभूततद्भावेऽर्थे च्विप्रत्ययमुत्पाद्य व्युत्पत्तिर्द्रष्टव्या। अयमेव त्वहंकार: उत्कृष्टजनावमानहेतुर्गर्वापरनामा शास्त्रेषु बहुशो हेयतया प्रतिपाद्यते। तस्माद्बाधकापेताऽहंबुद्धिस्साक्षादात्मगोचरैव। शरीरगोचरा त्वहं बुद्धिरविद्यैव। यथोक्तं भगवता पराशरेण श्रूयतां चाप्यविद्याया: स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या (वि.पु.६.७.१०.११) – इति ।

(अहमर्थात्मत्वोपसंहारः)

यदि ज्ञप्तिमात्रमेवाऽत्मा, तदाऽनात्मन्यात्माभिमाने शरीरे ज्ञप्तिमात्र-प्रतिभासस्स्यात्, न ज्ञातृत्वप्रतिभास:। तस्माज्ज्ञाताऽहमर्थ एवाऽऽत्मा तदुक्तम् –

अत: प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात्।

अविद्यायोगतश्चाऽत्मा ज्ञाताऽहमिति भासते॥ इति॥

तथा च

   देहेन्द्रियमन: प्राणधीभ्योऽन्योऽनन्यसाधन:।

नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी॥ (आत्मसिद्धौ) इति।

अनन्यसाधन: – स्वप्रकाश:। व्यापी – अतिसूक्ष्मतया सर्वाचेतनान्त:प्रवेशनस्वभाव:॥

(शास्त्रप्रत्यक्षविरोधे शास्त्रप्राबल्यस्यानूद्यनिरासः)

यदुक्तम् –  दोषमूलत्वेनान्यथासिद्धिसम्भावनया सकलभेदावलम्बिप्रत्यक्षस्य शास्त्रबाध्यत्वम् – इति॥

कोऽयं दोष इति वक्तव्यम्, यन्मूलतया प्रत्यक्षस्यान्यथासिद्धि:। अनादिभेदवासनैव हि दोष इति चेत्; भेदवासनायास्तिमिरादिवद्यथावस्थितवस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्वम्?  अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेत्; न, अन्योन्याश्रयणात्, शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासानाया दोषत्वनिश्चय:, भेदवासनाया दोषत्वनिश्चये सति शास्त्रस्य निरस्तनिखिलविशेषवस्तु- बोधित्वनिश्चय इति। किञ्च, यदि भेदवासनामूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम्; शास्त्रमपि तन्मूलत्वेन तथैव स्यात्।

अथोच्येत – दोषमूलत्वेऽपि शास्त्रस्य प्रत्यक्षावगतसकलभेदनिरसनज्ञानहेतुत्वेन परत्वात्तत्प्रत्यक्षस्य बाधकम् – इति। तन्न, दोषमूलत्वे ज्ञाते सति परत्वमकिञ्चित्करम्। रज्जुसर्पज्ञाननिमित्तभये सति भ्रान्तोऽयमिति परिज्ञातेन केनचित् नायं सर्पो मा भैषी: इत्युक्तेऽपि भयानिवृत्तिदर्शनात्। शास्त्रस्य च दोषमूलत्वं श्रवणवेलायामेव ज्ञातम्। श्रवणावगतनिखिलभेदोपमर्दिब्रह्मात्मैकत्वविज्ञानाभ्यासरूपत्वान्मननादे:॥

अपि च इदं शास्त्रम्, एतच्चासम्भाव्यमानदोषम्, प्रत्यक्षं तु सम्भाव्यमानदोषमिति केनावगतं त्वया? न तावत्स्वतस्सिद्धा निर्धूतनिखिलविशेषाऽनुभूतिरिममर्थमवगमयति, तस्यास्सर्वविषयविरक्तत्वात्, शास्त्रपक्षपातविरहाच्च। नाप्यैन्द्रियिकं प्रत्यक्षम्, दोषमूलत्वेन विपरीतार्थत्वात्। तन्मूलत्वादेव नान्यान्यपि प्रमाणानि। अतस्स्वपक्षसाधनप्रमाणानभ्युपगमान्न स्वाभिमतार्थसिद्धि:॥

ननु व्यावहारिकप्रमाणप्रमेयव्यवहारोऽस्माकप्यस्त्येव, कोऽयं व्यावहारिको नाम? आपातप्रतीतिसिद्धो युक्तिभिर्निरूपितो न तथाऽवस्थित इति चेत्, किं तेन प्रयोजनम्? प्रमाणतया प्रतिपन्नेऽपि यौक्तिकबाधादेव प्रमाणकार्याभावात्। अथोच्येत – शास्त्रप्रत्यक्षयो: द्वयोरप्यविद्यामूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदद्वितीयब्रह्मण: पश्चात्तनबाधादर्शनेन निर्विशेषानुभूतिमात्रं ब्रह्मैव परमार्थ: – इति। तदयुक्तम्, अबाधितस्यापि दोषमूलस्यापारमार्थ्यनिश्चयात्।

एतदुक्तं भवति – यथा सकलेतरकाचादिदोषरहितपुरुषान्तरागोचरगिरिगुहासु वसतस्तैमिरिकजनस्य अज्ञातस्वतिमिरस्य सर्वस्य तिमिरदोषाविशेषेण द्विचन्द्रज्ञानमविशिष्टं जायते। न तत्र बाधकप्रत्ययोऽस्तीति न तन्मिथ्या न भवतीति  तद्विषयभूतं द्विचन्द्रत्वमपि मिथ्यैव। दोषो ह्ययथार्थज्ञानहेतु:। तथा ब्रह्मज्ञानमविद्यामूलत्वेन बाधकज्ञानरहितमपि स्वविषयेण ब्रह्मणा सह मिथ्यैव – इति।

(शास्त्रस्याविद्यामूलत्वाभ्युपगमे दोषप्रसञ्जनम्)

भवन्ति चात्र प्रयोगा:, विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञानविषयत्वात्, प्रपञ्चवत्। ब्रह्म मिथ्या, ज्ञानविषयत्वात्, प्रपञ्चवत्। ब्रह्म मिथ्या, असत्यहेतुजन्यज्ञानविषयत्वात्, प्रपञ्चवदेव।

(असत्यात् सत्यप्रतिपत्तिनिदर्शनैः प्रत्यक्षात् शास्त्रप्राबल्योक्तेः दूषणम्)

न च वाच्यं स्वाप्नस्य हस्त्यादिविज्ञानस्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतुभाववत् अविद्यामूलत्वेनासत्यस्यापि शास्त्रस्य परमार्थभूतब्रह्मविषयप्रतिपत्तिहेतुभावो न विरुद्ध:  – इति, स्वाप्नज्ञानस्यासत्यत्वाभावात्। तत्र हि विषयाणामेव मिथ्यात्वम्; तेषामेव हि बाधो दृश्यते; न ज्ञानस्य, न हि मया स्वप्नवेलायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचिदपि प्रत्ययो जायते। दर्शनं तु विद्यते, अर्था न सन्तीति हि बाधकप्रत्यय:। मायाविनो मन्त्रौषधादिप्रभवं मायामयं ज्ञानं सत्यमेव प्रीतेर्भयस्य च हेतु: तत्रापि ज्ञानस्याबाधितत्वात्। विषयेन्द्रियादिदोषजन्यं रज्ज्वादौ सर्पादिविज्ञानं सत्यमेव, भयादिहेतु:। सत्यैवादष्टेऽपि स्वात्मनि सर्पसन्निधानाद्दष्टबुद्धि:, सत्यैव शङ्काविषबुद्धिर्मरणहेतुभूता। वस्तुभूत एव जलादौ मुखादिप्रतिभासो वस्तुभूतमुखगतविशेषनिश्चय हेतु:। एषां संवेदनानामुत्पत्तिमत्त्वादर्थक्रियाकारित्वाच्च सत्यत्वमवसीयते।

(ज्ञानसत्यत्वं विषयसत्यताव्याप्तमिति, तन्निवृत्त्या तन्निवृत्तिरिति शङ्का, तत्परिहारश्च)

हस्त्यादीनाम्, अभावेऽपि कथं तद्बुद्धय: सत्या भवन्तीति चेत्, नैतत्, बुद्धीनां सालम्बनत्वमात्रनियमात्।

अर्थस्य प्रतिभासमानत्वमेव ह्यालम्बनत्वेऽपेक्षितम्; प्रतिभासमानता चास्त्येव दोषवशात्। स तु बाधितोऽसत्य इत्यवसीयते। अबाधिता हि बुद्धिस्सत्यैवेत्युक्तम्॥

रेखया वर्णप्रतिपत्तावपि नासत्यात्सत्यबुद्धि:, रेखायास्सत्यत्वात् ॥

(असत्यात् सत्यबुद्धेः आपाद्यनिरासः)

ननु वर्णात्मना प्रतिपन्ना रेखा वर्णबुद्धिहेतु:। वर्णात्मता त्वसत्या। नैवम्, वर्णात्मताया असत्याया उपायत्वायोगात्। असतो निरुपाख्यस्य ह्युपायत्वं न दृष्टमनुपपन्नं च। अथ तस्यां वर्णबुद्धेरुपायत्वम्; एवं तर्ह्यसत्यात्सत्यबुद्धिर्न स्याद्बुद्धेस्सत्यत्वादेव। उपायोपेययोरेकत्व-प्रसक्तेश्च, उभयोर्वर्णबुद्धित्वाविशेषात्। रेखाया अविद्यमानवर्णात्मनोपायत्वे चैकस्यामेव रेखायामविद्यमानसर्ववर्णात्मकत्वस्य सुलभत्वादेकरेखादर्शनात्सर्ववर्णप्रतिपत्तिस्स्यात्। अथ पिण्डविशेषे देवदत्तादिशब्दसंकेतवत् चक्षुर्ग्राह्यरेखाविशेषे श्रोत्रग्राह्यवर्णविशेषसंकेतवशाद्रेखाविशेषो वर्णविशेषबुद्धिहेतुरिति। हन्त तर्हि सत्यादेव सत्यप्रतिपत्ति:; रेखायास्संकेतस्य च सत्यत्वात्, रेखागवयादपि सत्यगवयबुद्धिस्सादृश्यनिबन्धना, सादृश्यं च सत्यमेव॥

(स्फोटवादावलम्बि उदाहरणमादाय शङ्कापरिहारौ)

न चैकरूपस्य शब्दस्य नादविशेषेणार्थभेदबुद्धिहेतुत्वेऽप्यसत्यात्सत्यप्रतिपत्ति:, नानानादाभिव्यक्तस्यैकस्यैव शब्दस्य तत्तन्नादाभिव्यङ्ग्यस्वरूपेणार्थविशेषैस्सह संबन्धग्रहणवशादर्थभेदबुद्ध्युत्पत्तिहेतुत्वात्। शब्दस्यैकरूपत्वमपि न साधीय:, गकारादेर्बोधकस्यैव श्रोत्रग्राह्यत्वेन शब्दत्वात्। अतोऽसत्याच्छास्त्रात्सत्यब्रह्मविषय-प्रतिपत्तिर्दुरुपपादा॥

(शास्त्रेषु असत्यता न अत्यन्तासत्यत्वरूपा, किन्तु विलक्षणा इत्याशङ्कापरिहारौ)

ननु न शास्त्रस्य गगनकुसुमवदसत्यत्वम्; प्रागद्वैतज्ञानात्सद्बुद्धिबोध्यत्वात्। उत्पन्ने तत्त्वज्ञाने ह्यसत्यत्वं शास्त्रस्य। न तदा शास्त्रं निरस्तनिखिलभेदचिन्मात्रब्रह्मज्ञानोपाय:। यदोपायस्तदा अस्त्येव शास्त्रम्, अस्तीति बुद्धे:। नैवम्; असति शास्त्रे, अस्ति शास्त्रमिति बुद्धेर्मिथ्यात्वात्। तत: किम्? इदं तत:; मिथ्याभूतशास्त्रजन्यज्ञानस्य मिथ्यात्वेन  तद्विषयस्यापि ब्रह्मणो मिथ्यात्वम्; यथा धूमबुद्ध्या गृहीतबाष्पजन्याग्निज्ञानस्य मिथ्यात्वेन  तद्विषयस्याग्नेरपि मिथ्यात्वम्। पश्चात्तनबाधादर्शनञ्चासिद्धम्; शून्यमेव तत्त्वमितिवाक्येन तस्यापि बाधदर्शनात्। तत्तु भ्रान्तिमूलमिति चेत्, एतदपि भ्रान्तिमूलमिति त्वयैवोक्तम्। पाश्चत्त्यबाधादर्शनं तु तस्यैवेत्यलमप्रतिष्ठितकुतर्कपरिहसनेन॥

श्रुतिघट्ट:

(निर्विशेषपरतया पराभिमतानां श्रुतीनामपि स्वरसतया सविशेषपरताप्रतिपादनम्)

यदुक्तम् वेदान्तवाक्यानि निर्विशेषज्ञानैकरसवस्तुमात्रप्रतिपादनपराणि, सदेव सोम्येदमग्र आसीत् इत्येवमादीनि – इति तदयुक्तम्, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनमुखेन सच्छब्दवाच्यस्य परस्य ब्रह्मणो जगदुपादानत्वम्, जगिन्निमत्तत्वम्, सर्वज्ञता, सर्वशक्तियोग:, सत्यसङ्कल्पत्वम्, सर्वान्तरत्वम्, सर्वाधारत्वम्, सर्वनियमनमित्याद्यनेककल्याणगुणविशिष्टताम्, कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य, एवंभूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युपदेशाय प्रवृत्तत्वात्प्रकरणस्य। प्रपञ्चितश्चायमर्थो वेदार्थसंग्रहे। अत्राप्यारम्भणाधिकरणे निपुणतरमुपपादियष्यते॥

(परविद्यायास्सविशेषत्वव्यवस्थापनम्)

अथ परा यया तदक्षरम् (मु.१.१.५) इत्यत्रापि प्राकृतान् हेयगुणान् प्रतिषिध्य नित्यत्वविभुत्वसूक्ष्मत्वसर्वगतत्वाव्ययत्वभूतयोनित्वसार्वज्ञ्यादिकल्याणगुणयोगऊ परस्य ब्रह्मण: प्रतिपादित:॥

(शोधकवाक्यान्तर्गतसत्यादिवाक्यानां सविशेषपरता)

सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आ.1-1) इत्यत्रापि सामानाधिकरण्यस्यानेकविशेषणविशष्ट- एकार्थाभिधानव्युत्पत्त्या न निर्विशेषवस्तुसिद्धि:। प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तित्वं हि सामानाधिकरण्यम्। तत्र सत्यज्ञानादि-पदमुख्यार्थैर्गुणैस्तत्तद्गुणविरोध्याकारप्रत्यनीकाकारैर्वा एकस्मिन्नेवार्थे पदानां प्रवृत्तौ निमित्तभेदोऽवश्याश्रयणीय:। इयांस्तु विशेष: – एकस्मिन् पक्षे पदानां मुख्यार्थता; अपरस्मिंश्च तेषां लक्षणा। न चाज्ञानादीनां प्रत्यनीकता वस्तुस्वरूपमेव, एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यात्। तथा सति सामानाधिकरण्यासिद्धिश्च, एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्तभेदानाश्रयणात्। न च, एकस्यैवार्थस्य विशेषणभेदेन विशिष्टताभेदादनेकार्थत्वं पदानां सामानाधिकरण्यविरोधि; एकस्यैव वस्तुनोऽनेकविशेषणविशिष्टता-प्रतिपादनपरत्वात्सामानाधिकरण्यस्य, भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम् (कैयटे वृद्ध्याह्निके) इति हि शाब्दिका:।

(कारणवाक्यैकार्थ्यात् श्रुतीनां निर्विशेषपरताया अनूद्य निरासः)

यदुक्तम्, एकमेवाद्वितीयम् इत्यत्राद्वितीयपदं गुणतोऽपि, सद्वितीयतां न सहते; अतस्सर्वशाखा-प्रत्ययन्यायेन कारणवाक्यानामद्वितीयवस्तुप्रतिपादनपरत्वमभ्युपगमनीयम्; कारणतयोपलिक्षतस्याद्वितीयस्य ब्रह्मणो लक्षणमिदमुच्यते सत्यं ज्ञानमनन्तं ब्रह्म इति। अतो लिलक्षयिषितं ब्रह्म निर्गुणमेव; अन्यथा निर्गुणम् (मन्त्रिकोपनिषत्) निरञ्जनम् (श्वे.६.१९) इत्यादिभिर्विरोधश्च – इति तदनुपपन्नं; जगदुपादानस्य ब्रह्मणस्स्वव्यतिरिक्ताधिष्ठात्रन्तर-निवारणेन विचित्रशक्तियोगप्रतिपादनपरत्वादद्वितीयपदस्य। तथैव विचित्रशक्तियोगमेवावगमयति – तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.३) इत्यादि। अविशेषेणाद्वितीयमित्युक्ते निमित्तान्तरमात्रनिषेध: कथं ज्ञायत इति चेत्, सिसृक्षोर्ब्रह्मण उपादानकारणत्वं सदेव सोम्येदमग्र आसीदेकमेव इति प्रतिपादितम्। कार्योत्पत्तिस्वाभाव्येन बुद्धिस्थं निमित्तान्तरमिति तदेवाद्वितीयपदेन निषिद्ध्यत इत्यवगम्यते। सर्वनिषेधे हि स्वाभ्युपगतास्सिषाधायिषिता नित्यत्वादयश्च निषिद्धास्स्यु: ॥

(सर्वशाखाप्रत्ययन्यायस्य निर्विशेषवादविपरीतत्वम्)

सर्वशाखाप्रत्ययन्यायश्चात्र भवतो विपरीतफल:, सर्वशाखासु कारणान्वयिना सर्वज्ञत्वादीनां गुणानामत्रोपसंहारहेतुत्वात्। अत: कारणवाक्यस्वभावादपि  सत्यं ज्ञानमनन्तं ब्रह्म इत्यनेन सविशेषमेव प्रतिपाद्यत इति विज्ञायते॥

(शोधकवाक्यान्तरैकार्थ्यस्य निर्विशेषपरत्वज्ञापकतानिरासः)

न च निर्गुणवाक्यविरोध:, प्राकृतहेयगुणविषयत्वात्तेषां निर्गुणं, निरञ्जनं, निष्कलं, निष्क्रियं, शान्तम् इत्यादीनाम्। ज्ञानमात्रस्वरूपवादिन्योऽपि श्रुतयो ब्रह्मणो ज्ञानस्वरूपतामभिदधति; न तावता निर्विशेषज्ञानमात्रमेव तत्त्वम्, ज्ञातुरेव ज्ञानस्वरूपत्वात्। ज्ञानस्वरूपस्यैव तस्य ज्ञानाश्रयत्वं मणिद्युमणिदीपादिवद्युक्तमेवेत्युक्तम्। ज्ञातृत्वमेव हि सर्वाश्श्रुतयो वदन्ति यस्सर्वज्ञस्सर्ववित् (मु.१.१.९) तदैक्षत सेयं देवतैक्षत (छा.६.३.२), स ईक्षत लोकान्नु सृजा इति (ऐ.११), नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (कठ.२.५.१३), ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.१.९), तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्।  पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् (श्वे.६.७), न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यिधकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८), एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकाम: सत्यसङ्कल्प: – (छा.८.१.५) – इत्याद्याश्श्रुतयो ज्ञातृत्वप्रमुखान् कल्याणगुणान् ज्ञानस्वरूपस्यैव ब्रह्मणस्स्वाभाविकान्वदन्ति, समस्तहेयरहिततां च ॥

(श्रुत्यैव सगुण-निर्गुणवाक्ययोः विषयविभागसिद्धिः)

निर्गुणवाक्यानां सगुणवाक्यानां च विषयं अपहतपाप्मा  इत्यादि अपिपास इत्यन्तेन हेयगुणान् प्रतिषिद्ध्य सत्यकामस्सत्यसङ्कल्प: इति ब्रह्मण: कल्याणगुणान्विदधतीयं श्रुतिरेव विविनक्तीति सगुणनिर्गुणवाक्ययोर्विरोधाभावादन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयम्॥

(श्रुत्या ब्रह्मणि वाङ्मनोनिवृत्तिज्ञापनात् निर्विशेषसिद्धिः इत्यस्य निरासः)

भीषाऽस्माद्वात: पवते (तै.आन.८.१) इत्यादिना ब्रह्मगुणानारभ्य ते ये शतम् (तै.आन.८.१) इत्यनुक्रमेण क्षेत्रज्ञानन्दातिशयमुक्त्वा यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् (तै.आन.९.१) इति ब्रह्मण: कल्याणगुणानन्त्यमत्यादरेण वदतीयं श्रुति:॥

(स्ववाक्यैकदेशेनापि ब्रह्मणः सविशेषता)

सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.आन.१.२) इति ब्रह्मवेदनफलमवगमयद्वाक्यं परस्य विपिश्चतो ब्रह्मणो गुणानन्त्यं ब्रवीति। विपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते। काम्यन्त इति कामा: – कल्याणगुणा:। ब्रह्मणा सह तद्गुणान् सर्वानश्नुत इत्यर्थ:। दहरविद्यायां तस्मिन्यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इतिवद्गुणप्राधान्यं वक्तुं सहशब्द:। फलोपासनयो: प्रकारैक्यम् यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति (छा.३.१४.१) इति श्रुत्यैव सिद्धम्॥

(ज्ञेयत्वनिषेधपरश्रुत्या निर्विशेषतासिद्धिरित्यस्य निरासः)

यस्यामतं तस्य मतम् …… अविज्ञातं विजानताम् (केन.२.३) इति ब्रह्मणो ज्ञानाविषयत्वमुक्तम् चेत्; ब्रह्मविदाप्नोति परम् (तै.१.१) ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इति ज्ञानान्मोक्षोपदेशो न स्यात्। असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदु: (तै.आन.६.११) इति ब्रह्मविषयज्ञानासद्भावसद्भावाभ्यात्मनाशमात्मसत्तां च वदति। अतो ब्रह्मविषयवेदनमेवापवर्गोपायं सर्वाश्श्रुतयो विदधति ॥

(उपासनात्मकज्ञानाविषयत्वपक्षदूषणम्)

ज्ञानं चोपासनात्मकम्। उपास्यञ्च ब्रह्म सगुणमित्युक्तम्।

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह (तै.आन.९.१) इति ब्रह्मणोऽनन्तस्य अपरिच्छिन्नगुणस्य वाङ्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्मैतावदिति ब्रह्मपरिच्छेद-ज्ञानवतां ब्रह्माविज्ञातममतमित्युक्तम्, अपिरिच्छिन्नत्वाद्ब्रह्मण:। अन्यथा यस्यामतं तस्य मतम्, विज्ञातमविजानताम् इति मतत्वविज्ञातत्ववचनं तत्रैव विरुध्यते॥

(ज्ञातृत्वनिषेधशङ्कापरिहारः)

यतु – न दृष्टेर्द्रष्टारं – न मतेर्मन्तारम् (बृ.५.४.उ) इति श्रुतिर्दृष्टेर्मतेर्व्यतिरिक्तं द्रष्टारं मन्तारं च प्रतिषेधति – इति; तदागन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा न तथाऽऽत्मानं पश्ये:, न मन्वीथा:; अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्येरित्यभिदधातीति परिहृतम्। अथवा दृष्टेर्द्रष्टारं मतेर्मन्तारं जीवात्मानं प्रतिषिध्य सर्वभूतान्तरात्मानं परमात्मानमेवोपास्वेति वाक्यार्थ:; अन्यथा विज्ञातारमरे केन विजानीयात् (बृ.४.४.१४) इत्यादिज्ञातृत्वश्रुतिविरोधश्च॥

आनन्दत्वानन्दित्वयोरविरोधत्वभेदतन्निषेधश्रुतीनामविरोधत्वसमर्थनम्

(आर्थगुणनिषेधान्तरपरिहारः)

आनन्दो ब्रह्म (तै.भृ.६.१) इति आनन्दमात्रमेव ब्रह्मस्वरूपं प्रतीयत इति यदुक्तम् – तज्ज्ञानाश्रयस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम्। ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यते। विज्ञानमानन्दं ब्रह्म (बृ.५.९.२८) इत्यानन्दरूपमेव ज्ञानं ब्रह्मेत्यर्थ:। अत एव भवतामेकरसता। अस्य ज्ञानस्वरूपस्यैव ज्ञातृत्वमपि श्रुतिशतसमधिगतमित्युक्तम्। तद्वदेव स एको ब्रह्मण आनन्द: (तै.आन.८.४), आनन्दं ब्रह्मणो विद्वान् (तै.आन.९.१) इति व्यतिरेकनिर्देशाच्च नाऽनन्दमात्रं ब्रह्म; अपि त्वानन्दि। ज्ञातृत्वमेव ह्यानन्दित्वम्॥

(भेदनिषेदपरतया शङ्कितानां श्रुतीनां समीचीना योजना)

यदिदमुक्तम् यत्र हि द्वैतमिव भवति (बृ.४.४.१४), नेह नानाऽस्ति किञ्चन (बृ.६.४.१९), मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति,  यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ.४.४.१४) इति भेदनिषेधो बहुधा दृश्यत इति; तत्कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात्, तत्प्रत्यनीकनानात्वं प्रतिषिद्ध्यते। न पुन: बहु स्यां प्रजायेय इति बहुभवनसङ्कल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत इति परिहृतम्। नानात्वनिषेधादियमपरमार्थविषयेति चेत्; न, प्रत्यक्षादिसकलप्रमाणानवगतं नानात्वं दुरारोहं ब्रह्मण: प्रतिपाद्य तदेव बाध्यत इत्युपहास्यमिदम्॥

यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति (तै.आन.७.२), इति ब्रह्मणि नानात्वं पश्यतो भयप्राप्तिरिति यदुक्तम्; तदसत् सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत (छा.३.१४.१) इति तन्नानात्वानुसन्धानस्य शान्तिहेतुत्वोपदेशात्। तथा हि सर्वस्य जगतस्तदुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वानुसंधानेनात्र शान्तिर्विधीयते। अतो यथावस्थितदेवतिर्यङ्मनुष्यस्थावरादिभेदभिन्नं जगत् ब्रह्मात्मकमित्यनुसंधानस्य शान्तिहेतुतया अभयप्राप्ति-हेतुत्वेन न भयहेतुत्व प्रसङ्ग:। एवं तर्हि अथ तस्य भयं भवति इति किमुच्यते; इदमुच्यते, यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते।  अथ सोऽभयं गतो भवति (तै.आन.७.२) इत्युभयप्राप्तिहेतुत्वेन ब्रह्मणि या प्रतिष्ठाऽभिहिता; तस्या विच्छेदे भयं भवतीति। यथोक्तं महर्षिभि: –

यन्मुहूर्तं क्षणां वाऽपि वासुदेवो न चिन्त्यते।

सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया॥ – (ग.पु.पूर्व.ख.२.२२.२२)

इत्यादि। ब्रह्मणि प्रतिष्ठाया अन्तरमवकाशो विच्छेद एव॥

(गीतोक्तिविरोधशङ्कापरिहारौ)

यदुक्तम् न स्थानतोऽपि (ब्र.सू.३.३.११) इति सर्वविशेषरहितं ब्रह्मेति च वक्ष्यतीति;  तन्न सविशेषं ब्रह्मेत्येव हि तत्र वक्ष्यति। माया मात्रं तु (ब्र.सू.३.३.३) इति च स्वाप्नानामप्यर्थानां जागिरतावस्थानुभूतपदार्थवैधर्म्येण मायामात्रत्वमुच्यत इति जागरितावस्थानुभूतानामिव पारमार्थिकत्वमेव वक्ष्यति॥

अथ स्मृतिपुराणघट्ट:

(स्मृतिपुराणयोरपि सविशेषपरत्वम्)

स्मृतिपुराणयोरपि निर्विशेषज्ञानमात्रमेव परमार्थोऽन्यदपारमार्थिकम् इति प्रतीयत इति यदभिहितं तदसत् –

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्॥    (भ.गी.१०.३ )

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित:॥

न च मत्स्थानि भूतानि पश्य मे योगमैश्चरम्।

भूतभृन्न च भूतस्थो ममाऽत्मा भूतभावन:॥      (भ.गी.९.अ.४-५)

अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा॥

मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥     (भ.गी.७.६-७)

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्॥           (भ.गी.१०अ.४२)

उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर:॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम:।

अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम:॥       (भ.गी.१५.१७,१८)

स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीत:॥

अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले॥

समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतसर्ग:।

इच्छागृहीताभिमतोरुदेहस्संसाधिताशेषजगद्धितोऽसौ॥

तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशि:।

पर: पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे॥

स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूप: प्रकटस्वरूप:।

सर्वेश्वरस्सर्वदृक्सर्ववेत्ता समस्तशक्ति: परमेश्वराख्य:॥

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम्।

संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्।     (वि.पु.६.५.८३,८४,८५,८६,८७)

शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।

मैत्रेय भगवच्छब्दस्सर्वकारणकारणे॥

सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वित:।

नेता गमियता स्रष्टा गकारार्थस्तथा मुने॥

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रिय:।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा॥

वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि।

स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्यय:॥        (वि.पु.६.५९.७२,७३,७४,७५)

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषत:।

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभि:॥       (वि.पु.६ं.५.७९)

एवमेष महाशब्दो मैत्रेय भगवानिति।

परमब्रह्मभूतस्य वासुदेवस्य नान्यग:॥

तत्र पूज्यपदार्थोक्ति: परिभाषासमन्वित:।

शब्दोऽयं नोपचारेण ह्यन्यत्र ह्युपचारत:॥       (वि.पु.६.५.७६,७७)

समस्ताश्शक्तायश्चैता नृप यत्र प्रतिष्ठिता:।

तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्।

समस्तशक्तिरूपाणि तत्करोति जनेश्वर।

देवतिर्यङ्मनुष्याख्याश्चेष्टावन्ति स्वलीलया।

जगतामुपकाराय न सा कर्मनिमित्तजा।

चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका॥     (वि.पु.६.७.७०,७१,७२)

एवं प्रकारममलं नित्यं व्यापकमक्षयम्।

समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्॥       (वि.पु.१ं.२२.५३)

पर: पराणां परम: परमात्माऽऽत्संस्थित:।

रूपवर्णादिनिर्देशविशेषणविवर्जित: ॥

अपक्ष्यविनाशाभ्यां परिणामर्द्धिजन्मभि:।

वर्जितश्शक्यते वक्तुं यस्सदाऽस्तीति केवलम्॥

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यत:।

ततस्स वासुदेवेति विद्वद्भि: परिपठ्यते ॥      (वि.पु.१.२.१०,११,१२)

तद्ब्रह्म परमं नित्यमजमक्षरमव्ययम्।

एकस्वरूपं च सदा हेयाभावाच्च निर्मलम्॥

तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्य रूपवत्।

तथा पुरुषरूपेण कालरूपेण च स्थितम्॥        (विष्णु.पु.१.२.१३,१४)

प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी।

पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि॥

परमात्मा च सर्वेषामाधार: परमेश्वर:।

विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥      (वि.पु.६.४.३९,४०)

द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च।

क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते॥

अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत्।

एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा॥

परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत्॥       (वि.पु.१.२२.५५,५६,५७)

विष्णुशक्ति: परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा।

अविद्या कर्मसंज्ञाऽन्या तृतीयाशक्तिरिष्यते॥

यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा।

संसारतापानखिलानवाप्नोत्यतिसन्ततान्॥

तया तिरोहितत्वाच्च शक्ति: क्षेत्रज्ञसंज्ञिता।

सर्वभूतेषु भूपाल तारतम्येन वर्तते॥      (वि.पु.६.७.६१,६२,६३)

प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया।

विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ॥

तयोस्सैव पृथग्भावकारणं संश्रयस्य च॥

यथा सक्तं जले वातो बिभर्ति कणिकाशतम्।

शक्तिस्साऽपि तथा विष्णो: प्रधानपुरुषात्मन:॥        (विष्णु.पु.२.७.२९.३०,३१)

तदेतदक्षयं नित्यं जगन्मुनिवराखिलम्।

आविर्भावतिरोभावजन्मनाशविकल्पवत्॥    (वि.पु.१.२२.६० )

इत्यादिना परं ब्रह्म स्वभावत एव निरस्तनिखिलदोषगन्धं समस्तकल्याणगुणात्मकं जगदुत्पत्तिस्थितिसंहारान्त:प्रवेशनियमनादिलीलं प्रतिपाद्य कृत्स्नस्य  चिदचिद्वस्तुन: सर्वावस्था-वस्थितस्य,  पारमार्थिकस्यैव परस्य ब्रह्मणश्शरीरतया रूपत्वम्, शरीररूपतन्वंशशक्तिविभूत्यादि-शब्दै: तत्तच्छब्दसामानाधिकरण्येन चाभिधाय  तद्विभूतिभूतस्य चिद्वस्तुनस्स्वरूपेण अवस्थितं अचिन्मिश्रतया क्षेत्रज्ञरूपेण स्थितिं चोक्त्वा, क्षेत्रज्ञावस्थायां पुण्यपापात्मककर्मरूपाविद्यावेष्टितत्वेन स्वाभाविकज्ञानरूपत्व-अननुसन्धानमचिद्रूपार्थाकारतया  अनुसन्धानं च प्रतिपादितमिति, परं ब्रह्म सविशेषम्,  तद्विभूतिभूतं जगदपि पारमार्थिकमेवेति ज्ञायते॥

परोक्तस्मृतिपुराणवचनानांसमीचीनार्थकथनम्

(प्रत्यस्तमितेत्यादिश्लोकार्थः)

प्रत्यस्तिमतभेदम् (वि.पु.6-7-53) इत्यत्र देवमनुष्यादिप्रकृतिपरिणामविशेषसंसृष्टस्य अपि आत्मनस्स्वरूपं तद्गतभेदरहितत्वेन तद्भेदवाचिदेवादिशब्दागोचरं ज्ञानसत्तैकलक्षणं स्वसंवेद्यं योगयुङ्मनसो न गोचर इत्युच्यत इति, अनेन न प्रपञ्चापलाप:। कथमिदमवगम्यत इति चेत्;

(प्रकरणात् उक्तार्थनिश्चयः)

तदुच्यते – अस्मिन् प्रकरणे संसारैकभेषजतया योगमभिधाय योगावयवान् प्रत्याहारपर्यन्तांश्चोक्त्वा, धारणासिद्ध्यर्थं शुभाश्रयं वक्तुं परस्य ब्रह्मणो विष्णोश्शक्तिशब्दाभिधेयं रूपद्वयं मूर्तामूर्तविभागेन प्रतिपाद्य, तृतीयशक्तिरूपकर्माख्याविद्यावेष्टितम् अचिद्विशिष्टं क्षेत्रज्ञं मूर्ताख्यविभागं भावनात्रयान्वयादशुभमित्युक्त्वा, द्वितीयस्य कर्माख्याविद्याविरहिणः अचिद्वियुक्तस्य ज्ञानैकाकारस्यामूर्ताख्यविभागस्य निष्पन्नयोगिध्येयतया योगयुङ्मनस:  अनालम्बनतया स्वतश्शुद्धिविरहाच्च शुभाश्रयत्वं प्रतिषिध्य, परशक्तिरूपमिदममूर्तमपरशक्तिरूपं क्षेत्रज्ञाख्यमूर्तं च परशक्तिरूपस्याऽत्मन: क्षेत्रज्ञतापत्तिहेतुभूततृतीयशक्त्याख्यकर्मरूपाविद्या चेत्येतच्छक्तित्रयाश्रयो भगवदसाधारणम् आदित्यवर्णम् इत्यादिवेदान्तसिद्धं मूर्तरूपं शुभाश्रय इत्युक्तम्। अत्र परिशुद्धात्मस्वरूपस्य शुभाश्रयतानर्हातां वक्तुं प्रत्यस्तिमतभेदं यत् इत्युच्यते । तथाहि –

न तद्योगयुजां शक्यं नृप चिन्तयितुं यत:। द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम् ॥

समस्ताश्शक्तयश्चैता: नृप यत्र प्रतिष्ठिता:। तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥  (विष्णु.पु.६.७.५५,६९,७०)

इति च वदति।

(शुभाश्रयस्वरूपनिष्कर्षः)

तथा चतुर्मुखसनकसनन्दनादीनां जगदन्तर्वर्तिनामविद्यावेष्टितत्वेन शुभाश्रयतानर्हातामुक्त्वा बद्धानामेव पश्चाद्योगेनोद्भूतबोधानां स्वस्वरूपापन्नानां च स्वतश्शुद्धिविरहाद्भगवता शौनकेन शुभाश्रयता निषिद्धा –

आब्रह्मस्तम्भपर्यन्ता जगदन्तर्व्यवस्थिता:।

प्राणिन: कर्मजनितसंसारवशवर्तिन:॥

यतस्ततो न ते ध्याने ध्यानिनामुपकारका:।

अविद्यान्तर्गतास्सर्वे ते हि संसारगोचरा:॥

पश्चादुद्भूतबोधाश्च ध्याने नैवोपकारका:।

नैसर्गिको न वै बोधस्तेषामप्यन्यतो यत:॥

तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्॥

– (भविष्यत्पुराणान्तर्गतश्रीविष्णुधर्मे.१०४.२३,२४,२५,२६)

इत्यादिना परस्य ब्रह्मणो विष्णोस्स्वरूपं स्वासाधारणमेव शुभाश्रय इत्युक्तम्। अतोऽत्र न भेदापलाप: प्रतीयते॥

ज्ञानस्वरूपम् (वि.पु.1-4-40) इत्यत्रापि ज्ञानव्यतिरिक्तस्यार्थजातस्य कृत्स्नस्य न मिथ्यात्वं प्रतिपाद्यते, ज्ञानस्वरूपस्याऽत्मनो देवमनुष्याद्यर्थाकारेणावभासो भ्रान्तिरित्येतावन्मात्रवचनात्। न हि शुक्तिकाया रजततयाऽवभासो भ्रान्तिरित्युक्ते जगति कृत्स्नं रजतजातं मिथ्या भवति। जगद्ब्रह्मणो: सामानाधिकरण्येनैक्यप्रतीते:, ब्रह्मणो ज्ञानस्वरूपस्यार्थाकारता भ्रान्तिरित्युक्ते सत्यर्थजातस्य कृत्स्नस्य मिथ्यात्वमुक्तं स्यादिति चेत्; तदसत्; अस्मिन् शास्त्रे परस्य ब्रह्मणो विष्णोर्निरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्मकस्य महाविभूते: प्रतिपन्नतया तस्य भ्रान्तिदर्शनासम्भवात्। सामानाधिकरण्येनैक्यप्रतिपादनं च बाधासहम्, अविरुद्धं चेत्यनन्तरमेवोपपादियष्यते। अतोऽयमपि श्लोको नार्थस्वरूपस्य बाधक:॥

उपबृंहणविधिनिरूपणम्

तथाहि – यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयत्न्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म (तै.उ.भृगु.१) इति जगज्जन्मादिकारणं ब्रह्मेत्यवसिते सति, इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति॥ (महाभारतम् – आदि.प.१-२७३) इति शास्त्रेणार्थस्य इतिहासपुराणाभ्यामुपबृंहणं कार्यमिति विज्ञायते। उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतवेदतत्त्वार्थानां वाक्यैस्स्वावगतवेदवाक्यार्थव्यक्ती-करणम्। सकलशाखागतस्य वाक्यार्थस्याल्पभागश्रवणाद्दुरवगमत्वेन तेन विना निश्चयायोगात् उपबृंहणं हि कार्यमेव॥

विष्णुपुराणप्राशस्त्यम्

तत्र पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवतो भगवत: पराशरात्स्वावगत वेदार्थोपबृंहणमिच्छन्मैत्रेय: परिपप्रच्छ –

सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत्। बभूव भूयश्च यथा महाभाग भविष्यति॥

यन्मयं च जगद्ब्रह्मन् यतश्चैतच्चराचरम्। लीनमासीद्यथा यत्र लयमेष्यति यत्र च॥     (वि.पु.१.१.४,५)  इत्यादिना॥

अत्र ब्रह्मस्वरूपविशेषतद्विभूतिभेदप्रकारतदाराधनस्वरूपफलविशेषाश्च पृष्टा:। ब्रह्मस्वरूपविशेषप्रश्नेषु यतश्चैतच्चराचरमिति निमित्तोपादानयो: पृष्टत्वात् यन्मयमित्यनेन सृष्टिस्थितिलयकर्मभूतं जगत्किमात्मकमिति पृष्टम्। तस्य चोत्तरं जगच्च स इति। इदं च तादात्म्यमन्तर्यामिरूपेणाऽत्मतया व्याप्तिकृतम्। न तु व्याप्यव्यापकयोर्वस्त्वैक्यकृतम्। यन्मयमिति प्रश्नस्योत्तरत्वाज्जगच्च स इति सामानाधिकरण्यस्य। यन्मयमिति मयडत्र न विकारार्थ:, पृथक्प्रश्नवैयर्थ्यात्। नापि प्राणमयादिवत्स्वार्थिक:, जगच्च स इत्युत्तरानुपपत्ते: तदा हि विष्णुरेवेत्युत्तरमभिवष्यत्। अत: प्राचुर्यार्थ एव। तत्प्रकृतवचने मयट् (अष्टा.५.४.२१) इति मयट्। कृत्स्नं च जगत्तच्छरीरतया तत्प्रचुरमेव। तस्माद्यन्मयमित्यस्य प्रतिवचनं जगच्च स इति सामानाधिकरण्यं जगद्ब्रह्मणोश्शरीरात्मभावनिबन्धनमिति निश्चीयते। अन्यथा निर्विशेषवस्तुप्रतिपादनपरे शास्त्रेऽभ्युपगम्यमाने सर्वाण्येतानि प्रश्नप्रतिवचनानि न सङ्गच्छन्ते।  तद्विवरणरूपं कृत्स्नं च शास्त्रं न सङ्गच्छते। तथाहि सति प्रपञ्चभ्रमस्य किमधिष्ठानमित्येवं रूपस्यैकस्य प्रश्नस्य निर्विशेषज्ञानमात्रमित्येवं रूपमेकमेवोत्तरं स्यात् ॥

(सामानाधिकरण्यस्यैक्यपरत्वे विरोधः)

जगद्ब्रह्मणोरेकद्रव्यत्वपरे च सामानाधिकरण्ये सत्यसङ्कल्पत्वादिकल्याणगुणैकतानता निखिलहेयप्रत्यनीकता च बाध्येत। सर्वाशुभास्पदं च ब्रह्म भवेत्। आत्मशरीरभाव एवेदं सामानाधिकरण्यं मुख्यवृत्तमिति स्थाप्यते॥ अतो

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम्।

स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च स: ॥  (वि.पु.१अं.१-अ.३१श्लो.)

इति संग्रहेणोक्तमर्थं पर: पराणाम् इत्यारभ्य विस्तरेण वक्तुं परब्रह्मभूतं भगवन्तं विष्णुं स्वेनैव स्वरूपेणावस्थितम् अविकाराय इति श्लोकेन प्रथमं प्रणम्य तमेव हिरण्यगर्भस्वावतार-शङ्कररूपत्रिमूर्तिप्रधानकालक्षेत्रज्ञसमष्टिव्यष्टिरूपेणावस्थितं च नमस्करोति। तत्र ज्ञानस्वरूपम् इत्ययं श्लोक: क्षेत्रज्ञव्यष्ट्यात्मनाऽवस्थितस्य परमात्मनस्स्वभावमाह। तस्मान्नात्र निर्विशेषवस्तुप्रतीति:॥

(निर्विशेषज्ञानपरत्वे पश्चात्तनप्रश्नोत्तराननुगुणत्वम्)

यदि निर्विशेषज्ञानरूपब्रह्माधिष्ठानभ्रमप्रतिपादनपरं शास्त्रम्; तर्हि

निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मन:।

कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते॥ इति चोद्यं,

शक्तयस्सर्वभगवानामचिन्त्यज्ञानगोचरा:।

यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तय:॥

भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता॥     (वि.पु.१.३.१,२)

इति परिहारश्च न घटते। तथाहि सति – निर्गुणस्य ब्रह्मण: कथं सर्गादिकर्तृत्वम्? न ब्रह्मण: पारमार्थिकस्सर्ग:; अपि तु भ्रान्तिपरिकल्पित: – इति चोद्यपरिहारौ स्याताम् ॥

(प्रश्नतदुत्तरयोः नैजः आशयः)

उत्पत्त्यादिकार्यं सत्त्वादिगुणयुक्तापरिपूर्णकर्मवश्येषु दृष्टमिति सत्त्वादिगुणरहितस्य परिपूर्णस्याकर्मवश्यस्य कर्मसम्बन्धानर्हास्य कथं सर्गादिकर्तृत्वमभ्युपगम्यत इति चोद्यम्। दृष्टसकलविसजातीयस्य ब्रह्मणो यथोदितस्वभावस्यैव जलादिविसजातीयस्याग्न्यादेरौष्ण्यादि-शक्तियोगवत्सर्वशक्तियोगो न विरुध्यत इति परिहार:॥

(वराहचतुश्श्लोकीव्याख्यानम्)

परमार्थस्त्वमेवैक: (वि.पु.1-4-38) इत्याद्यपि न कृत्स्नस्यापारमार्थ्यं वदति। अपि तु कृत्स्नस्य तदात्मकतया तद्व्यतिरेकेणावस्थितस्यापारमार्थ्यम्। तदेवोपपादयति – तवैष महिमा येन व्याप्तमेतच्चराचरम्  (वि.पु.१अं.४अ.३८.श्लो) इति। येन त्वयेदं चराचरं व्याप्तम्; अतस्त्वदात्मकमेवेदं सर्वमिति त्वदन्य: कोऽपि नास्ति। अतस्सर्वात्मतया त्वमेवैक: परमार्थ:। अत इदमुच्यते तवैष महिमा, या सर्वव्याप्ति: – इति। अन्यथा तवैषा भ्रान्तिरिति वक्तव्यम्। जगत: पते त्वमित्यादीनां पदानां लक्षणा च स्यात्। लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुतिप्रकरणविरोधश्च॥

यत: कृत्स्नं जगत् ज्ञानात्मना त्वयाऽऽत्मतया व्याप्तत्वेन तव मूर्तम्। तस्मात्त्वदात्मकत्वानुभवसाधन-योगविरहिण एतत्केवलदेवमनुष्यादिरूपमिति भ्रान्तिज्ञानेन पश्यन्तीत्याह यदेतद्दृश्यते इति॥ न केवलं वस्तुतस्त्वदात्मकं जगद्देवमनुष्याद्यात्मकमिति दर्शनमेव भ्रम:; ज्ञानाकाराणामात्मनां देवमनुष्याद्यर्थाकारत्वदर्शनमपि भ्रम इत्याह ज्ञानस्वरूपमखिलम् इति॥

ये पुनर्बुद्धिमन्तो ज्ञानस्वरूपात्मविदस्सर्वस्य भगवदात्मकत्वानुभवसाधनयोगयोग्य-परिशुद्धमनसश्च ते देवमनुष्यादिप्रकृतिपरिणामविशेषशरीररूपमिदमखिलं जगच्छरीरातिरिक्त-ज्ञानस्वरूपात्मकं त्वच्छरीरं च पश्यन्तीत्याह ये तु ज्ञानविद: इति। अन्यथा श्लोकानां पौनरुक्त्यम्, पदानां लक्षणा, अर्थविरोध:, प्रकरणविरोध:, शास्त्रतात्पर्यविरोधश्च॥

प्रकार्यद्वैतप्रकाराद्वैतविवेक:

तस्यात्मपरदेहेषु सतोऽप्येकमयम् (वि.पु.2-14-31) इत्यत्र सर्वेष्वात्मसु ज्ञानैकाकारतया समानेषु सत्सु देवमनुष्यादिप्रकृतिपरिणामविशेषरूपपिण्डसंसर्गकृतमात्मसु देवाद्याकारेण द्वैतदर्शनमतथ्यमित्युच्यते। पिण्डगतमात्मगतमपि द्वैतं न प्रतिषिध्यते। देवमनुष्यादि-विविधविचित्रपिण्डेषु वर्तमानं सर्वमात्मवस्तु सममित्यर्थ:। यथोक्तं भगवता शुनि चैव श्वपाके च पण्डितास्समदर्शिन: (भ.गी.५.१८) निर्दोषं हि समं ब्रह्म (भ.गी.५.१९) इत्यादिषु । तस्यात्मपरदेहेषु सतोऽपि इति देहातिरिक्ते वस्तुनि स्वपरविभागस्योक्तत्वात् ॥

यद्यन्योऽस्ति पर: कोऽपि इत्यत्रापि नात्मैक्यं प्रतीयते; यदि मत्त: पर: कोऽप्यन्य इत्येकस्मिन्नर्थे परशब्दान्यशब्दयो: प्रयोगायोगात् तत्र परशब्दस्स्वव्यतिरिक्तात्मवचन:। अन्यशब्दस्तस्यापि ज्ञानैकाकारत्वादन्याकारत्वप्रतिषेधार्थ:। एतदुक्तं भवति – यदि मद्व्यतिरिक्त: कोऽप्यात्मा मदाकारभूतज्ञानाकारादन्याकारोऽस्ति, तदाऽहमेवमाकार:; अयञ्चान्यादृशाकार इति शक्यते व्यपदेष्टुम्; न चैवमस्ति; सर्वेषां ज्ञानैकाकारत्वेन समानत्वादेवेति॥

वेणुरन्ध्रविभेदेन इत्यत्राप्याकारवैषम्यमात्मनां न स्वरूपकृतम्। अपि तु देवादिपिण्डप्रवेशकृतम् इत्युपदिश्यते; नात्मैक्यम्। दृष्टान्ते चानेकरन्ध्रवर्तिनां वाय्वंशानां न स्वरूपैक्यम्; अपित्वाकारसाम्यमेव। तेषां वायुत्वेनैकाकाराणां रन्ध्रभेदनिष्क्रमणकृतो हि षड्जादिसंज्ञाभेद:। एवमात्मनां देवादिसंज्ञाभेद: यथा तैजसाप्यपार्थिवद्रव्यांशभूतानां पदार्थानां तत्तद्द्रव्यत्वेनैक्यमेव; न स्वरूपैक्यम्। तथा वायवीयानामंशानामपि स्वरूपभेदोऽवर्जनीय:॥

(आदिभरतनिगमनश्लोकार्थः)

सोऽहं स च त्वम् इति सर्वात्मनां पूर्वोक्तं ज्ञानाकारत्वं तच्छब्देन परामृश्य तत्सामानाधिकरण्येनाहं त्वमित्यादीनामर्थानां ज्ञानमेवाऽकार इत्युपसंहरन् देवाद्याकारभेदेनाऽत्मसु भेदमोहं परित्यजेत्याह। अन्यथा देहातिररिक्तात्मोपदेश्यस्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते। अहं त्वमादिशब्दानामुपलक्ष्येण सर्वमेतदात्मस्वरूपमित्यनेन सामानाधिकरण्यादुपलक्षणत्वमपि न सङ्गच्छते। सोऽपि यथोपदेशमकरोदित्याह तत्याज भेदं परमार्थदृष्टि: इति ॥

(वाक्यानामद्वैतपरत्वाद्यभावसाधकोपपादनम्)

कुतश्चैष निर्णय इति चेत् देहात्मविवेकविषयत्वादुपदेशस्य। तच्च पिण्ड: पृथग्यत: पुंसश्शिर: पाण्यादिलक्षण: (वि.पु.२.१३.८९) इति प्रक्रमात्॥

विभेदजनकेऽज्ञाने (वि.पु.6-7-96) इति च नात्मस्वरूपैक्यपरम्। नापि जीवपरयो: आत्मस्वरूपैक्यमुक्तरीत्या निषिद्धम्। जीवपरयोरपि स्वरूपैक्यं देहात्मनोरिव न सम्भवति। तथाच श्रुति: द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मु.३.१.१), ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेता:॥ (कठ. २.१) अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (यजुरारण्यके.३.२०.) इत्याद्या:। अस्मिन्नपि शास्त्रे  स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीत:। अतीतसर्वावरणोऽखिलात्मा तेनाऽस्तृतं यद्भुवनान्तराले,  समस्तकल्याणगुणात्मकोऽसौ, पर: पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे (वि.पु.६.५.८३,८४,८५) अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते। यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा (वि.पु.६.७.६१,६२) इति भेदव्यपदेशात्, उभयेऽपि हि भेदेनैनमधीयते (ब्र.सू.१.२.२१), भेदव्यपदेशाच्चान्य: (ब्र.सू.१.२.२२), अधिकं तु भेदनिर्देशात् (ब्र.सू.२.१.२१) इत्यादिसूत्रेषु च य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तो यमयति (बृ.५.७.२२), प्राज्ञेनात्मना सम्परिष्वक्त: (बृ.६.३.२१), प्राज्ञेनाऽत्मनाऽन्वारूढ: (बृ.६.३.३५) इत्यादिभिरुभयोरन्योन्यप्रत्यनीकाकारेण स्वरूपनिर्णयात्।

मुक्तौ जीवब्रह्मणो: स्वरूपैक्यनिरास:

नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्यसम्भव:; अविद्याश्रयत्वयोग्यस्य तदनर्हात्वासम्भवात्। यथोक्तम् –

परमात्मात्मनोर्योग: परमार्थ इतीष्यते।

मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यत:॥ इति॥      (वि.पु.२.१४.२७)

(जीवस्य मुक्तावपि न स्वरूपैक्यंम्, परेण परमसाम्यमेव)

मुक्तस्य तु तद्धर्मतापत्तिरेवेति भगवद्गीतासूक्तम् –

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता:।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति ॥      (भ.गी.१४.२)

इहापि

आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने ।

विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ इति॥      (वि.पु.६.७.३)

आत्मभावम् – आत्मनस्स्वभावम्। नह्याकर्षकस्वरूपापत्तिराकृष्यमाणस्य। वक्ष्यति च जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च (ब्र.सू.४.४.१७), भोगमात्रसाम्यलिङ्गाच्च (शारी.४.४.२१), मुक्तोपसृप्यव्यपदेशाच्च (शारी.१.३.२) इति। वृत्तिरपि जगद्व्यापारवर्जं समानो ज्योतिषा (बोधायनवृत्ति:) इति। द्रमिडभाष्यकारश्च देवतासायुज्यादशरीरस्यापि देवतावत्सर्वार्थसिद्धिस्स्यात् (ब्रह्मनन्दि) इत्याह। श्रुतयश्च य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति (छां.८.प्र.१.ख.६), ब्रह्मविदाप्नोति परम् सोऽश्नुते सर्वान् कामान् सह। ब्रह्मणा विपिश्चता (तै.आन.१अनु.१,२), एतमानन्दमयमात्मानमुपसंक्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् (तै.भृगु.१०अनु.५), स तत्र पर्येति (छा.८.१२.३), रसो वै स:। रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति (तै.आ.७.अनु.१), यथा नद्य: स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८), तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इत्याद्या:।

(उपासनं सगुणब्रह्मण एव)

परविद्यासु सर्वासु सगुणमेव ब्रह्मोपास्यम्। फलं चैकरूपमेव। अतो विद्याविकल्प इति सूत्रकारेणैव आनन्दादय: प्रधानस्य (ब्र.सू.३.३.११), विकल्पोऽविशिष्टफलत्वात् (ब्र.सू.३.३.७५) इत्यादिषूक्तम्। वाक्यकारेण च सगुणस्यैवोपास्यत्वं विद्याविकल्पश्चोक्त: – युक्तं तद्गुणकोपासनात्  इति। भाष्यकृता व्याख्यातं च यद्यपि  सच्चित्त: इत्यादिना। ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इत्यत्रापि नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८), निरञ्जन: परमं साम्यमुपैति (मु.३.१.३), परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इत्यादिभिरैकार्थ्यात् प्राकृतनामरूपाभ्यां विनिर्मुक्तस्य निरस्ततत्कृतभेदस्य ज्ञानैकाकारतया ब्रह्मप्रकारतोच्यते। प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव; यथा सेयं गौरिति॥

अत्रापि विज्ञानं प्रापकं  प्राप्ये  परे  ब्रह्मणि पार्थिव। प्रापणीयस्तथैवाऽत्मा प्रक्षीणाशेषभावन:॥ (वि.पु.६.७.९३) इति॥  परब्रह्मध्यानादात्मा परब्रह्मवत् प्रक्षीणाशेषभावन: – कर्मभावनाब्रह्माभावनोभयभावनेति भावनात्रयरहित: प्रापणीय इत्यभिधाय, क्षेत्रज्ञ: करणी ज्ञानं करणं तस्य वै द्विज। निष्पाद्य मुक्तिकार्यं हि कृतकृत्यं निवर्तयेत्॥ (वि.पु.६.७.९४) इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षीणाशेषभावनात्मस्वरूपप्राप्त्या कृतकृत्यत्वेन निवृत्तिवचनाद्यावत्सिद्धि अनुष्ठेयम् इत्युक्त्वा तद्भावभावमापन्नस्तदाऽसौ परमात्मना। भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्॥ (वि.पु.६.७.९३,९४,९५) इति मुक्तस्य स्वरूपमाह। तद्भाव: ब्रह्मणो भाव: स्वभाव:। न तु स्वरूपैक्यम्, तद्भावभावमापन्न इति द्वितीयभावशब्दानन्वयात् पूर्वोक्तार्थविरोधाच्च। यद्ब्रह्मण: प्रक्षीणाशेषभावनत्वं तदापत्ति: तद्भावभावापत्ति:। यदैवमापन्नस्तदाऽसौ परमात्मना अभेदी भवति भेदरहितो भवति। ज्ञनैकाकारतया परमात्मनैकप्रकारस्यास्य  तस्माद्भेदो देवादिरूप:। तदन्वयोऽस्य कर्मरूपाज्ञानमूल:। न स्वरूपकृत: स तु देवादिभेद: परब्रह्मध्यानेन मूलभूताज्ञानरूपे कर्मणि विनष्टे हेत्वभावान्निवर्तत इत्यभेदी भवति। यथोक्तम् – एकस्वरूपभेदस्तु बाह्यकर्मवृतिप्रज:। देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि स:॥ (वि.पु.२.१४.३३) इति॥

एतदेव विवृणोति विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मानो ब्रह्मणो भेदमसन्तं क: करिष्यति इति। विभेद: – विविधो भेद: – देवतिर्यङ्मनुष्यस्थावरात्मक:। यथोक्तं शौनकेनापि चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धन: (विष्णुधर्म.१००.२१) इति। आत्मनि ज्ञानरूपे देवादिरूपविविधभेदहेतुभूतकर्माख्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मण आत्मनो देवादिरूपभेदं क: करिष्यतीत्यर्थ:। अविद्या कर्मसंज्ञाऽन्या इति ह्यत्रैवोक्तम्॥

(अद्वैतपरत्वेन पराभिमतगीतोक्तिविवरणम्)

क्षेत्रज्ञं चापि मां विद्धि (भ.गी.13-2) इत्यादिनाऽन्तर्यामिरूपेण सर्वस्याऽत्मतया ऐक्याभिधानम्। अन्यथा – क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तम: पुरुषस्त्वन्य: इत्यादिभिर्विरोध:। अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम्  ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति (भ.गी.१८.६१), सर्वस्य चाहं हृदि सन्निविष्ट: (भ.गी.१५.१५) इति च। अहमात्मा गुडाकेश सर्वभूताशयस्थित: इति च तदेवोच्यते। भूतशब्दो ह्यात्मपर्यन्तदेहवचन:। यतस्सर्वेषामयमात्मा तत एव सर्वेषां तच्छरीरतया पृथगवस्थानं प्रतिषिध्यते न तदस्ति विना यत्स्यात् इति; भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम्। तत इदमुच्यते –

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥             (भ.गी.१०.४१.४२) इति॥

अतश्शास्त्रेषु न निर्विशेषवस्तुप्रतिपादनमस्ति । नाप्यर्थजातस्य भ्रान्तत्वप्रतिपादनम्। नापि  चिदचिदीश्वराणां स्वरूपभेदनिषेध:॥

(अविद्यायां सप्तविधाः अनुपपत्तयः)

(अविद्यादूषणार्थं परोक्तार्थानुवादः)

यदप्युच्यते निर्विशेषे स्वयंप्रकाशे वस्तुनि दोषपरिकल्पितमीशेशितव्या द्यनन्तविकल्पं सर्वं जगत्। दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदिनर्वचनीयाऽनाद्यविद्या। सा चावश्याभ्युपगमनीया; अनृतेन हि प्रत्यूढा: (छा.८.३.२) इत्यादिभि: श्रुतिभि:, ब्रह्मणस्तत्त्वमस्यादि वाक्यसामानाधिकरण्यावगतजीवैक्यानुपपत्त्या च । सा तु न सती, भ्रान्तिबाधयोरयोगात्। नाप्यसती, ख्यातिबाधयोश्चायोगात्। अत: कोटिद्वयविनिर्मुक्तेयमविद्येति तत्त्वविद: – इति।

(तत्र आश्रयानुपपत्तिः -1)

तदयुक्तम्, सा हि किमाश्रित्य भ्रमं जनयति? न तावज्जीवमाश्रित्य; अविद्या-परिकल्पितत्वात् जीवभावस्य। नापि ब्रह्माश्रित्य; तस्य स्वयंप्रकाशज्ञानस्वरूपत्वेन अविद्याविरोधित्वात्। सा हि ज्ञानबाध्याऽभिमता॥

ज्ञानरूपं परं ब्रह्म तन्निवर्त्यं मृषात्मकम्।

अज्ञानं चेत्तिरस्कुर्यात्क: प्रभुस्तन्निवर्तने॥

ज्ञानं ब्रह्मेति चेत् ज्ञानमज्ञानस्य निवर्तकम्।

ब्रह्मवत्तत्प्रकाशत्वात्तदपि ह्यनिवर्तकम्॥

ज्ञानं ब्रह्मेति विज्ञानमस्ति चेत्स्यात्प्रमेयता।

ब्रह्मणोऽननुभूतित्वं त्वदुक्त्यैव प्रसज्यते॥         (श्रीनाथमुनिश्लोका:)

ज्ञानस्वरूपं ब्रह्मेति ज्ञानं तस्या अविद्याया बाधकम्, न स्वरूपभूतं ज्ञानमिति चेन्न, उभयोरपि ब्रह्मस्वरूपप्रकाशत्वे सत्यन्यतरस्याविद्याविरोधित्वमन्यतरस्य नेति विशेषानवगमात्।

एतदुक्तं भवति – ज्ञानस्वरूपं ब्रह्मेत्यनेन ज्ञानेन ब्रह्मणि यस्स्वभावोऽवगम्यते; स ब्रह्मणः स्वयंप्रकाशत्वेन स्वयमेव प्रकाशत इत्यविद्याविरोधित्वे न कश्चिद्विशेषस्स्वरूपतद्विषय-ज्ञानयो: – इति।

(ब्रह्मविषयप्रमाणज्ञानं भ्रमनिवर्तकमिति कल्पस्यय दूषणम्)

किञ्च अनुभवस्वरूपस्य ब्रह्मणोऽनुभवान्तराननुभाव्यत्वेन भवतो न तद्विषयं ज्ञानमस्ति। अतो ज्ञानमज्ञानविरोधि चेत्स्वयमेव विरोधि भवतीति नास्या ब्रह्माश्रयत्वसंभव:। शुक्त्यादयस्तु स्वयाथात्म्यप्रकाशे स्वयमसमर्थास्स्वाज्ञानाविरोधिनस्तन्निवर्तने च ज्ञानान्तरमपेक्षन्ते। ब्रह्म तु स्वानुभवसिद्धस्वयाथात्म्यमिति स्वाज्ञानविरोध्येव। तत एव निवर्तकान्तरं च नापेक्षते ॥

(प्रपऋचमिथ्यात्वविषयकं ज्ञानं भ्रमनिवर्तकमिति पक्षस्य दूषणम्)

अथोच्येत – ब्रह्मव्यतिरिक्तस्य मिथ्यात्वज्ञानमज्ञानविरोधि – इति। न; इदं ब्रह्मव्यतिरिक्तमिथ्यात्वज्ञानं किं ब्रह्म याथात्म्याज्ञानविरोधि? उत प्रपञ्चसत्यत्वरूपाज्ञानविरोधीति विवेचनीयम्। न तावत् ब्रह्मयाथात्म्याज्ञानविरोधि, अतद्विषयत्वात् ज्ञानाज्ञानयोरेकविषयत्वेन हि विरोध:। प्रपञ्च-मिथ्यात्वज्ञानं तत्सत्यत्वरूपाज्ञानेन विरुध्यते। तेन प्रपञ्चसत्यत्वरूपाज्ञानमेव बाधितमिति ब्रह्मस्वरूपाज्ञानं तिष्ठत्येव। ब्रह्मस्वरूपाज्ञानं नाम तस्य सद्वितीयत्वमेव। तत्तु तद्व्यतिरिक्तस्य मिथ्यात्वज्ञानेन निवृत्तम्। स्वरूपं तु स्वानुभवसिद्धमिति चेन्न; ब्रह्मणोऽद्वितीयत्वं स्वरूपं स्वानुभवसिद्धमिति  तद्विरोधि सद्वितीयत्वरूपाज्ञानं तद्बाधश्च न स्याताम्। अद्वितीयत्वं धर्म इति चेन्न; अनुभवस्वरूपस्य ब्रह्मणोऽनुभाव्यधर्मविरहस्य भवतैव प्रतिपादितत्वात्। अतो ज्ञानस्वरूपस्य ब्रह्मणो विरोधादेव नाज्ञानाश्रयत्वम्॥

(अविद्यया ब्रह्मणः तिरोधानानुपपत्तिः 2)

किञ्च – अविद्यया प्रकाशैकस्वरूपं ब्रह्म तिरोहित्Ћिमति वदता स्वरूपनाश एवोक्तस्स्यात् । प्रकाशतिरोधानं नाम प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा। प्रकाशस्य अनुत्पाद्यत्वाभ्युपगमेन प्रकाशतिरोधानं प्रकाशनाश एव॥

(अविद्यास्वरूपानुपपत्तिः -3)

अपि च निर्विषया निराश्रया स्वप्रकाशेयमनुभूतिस्स्वाश्रयदोषवशादनन्ताश्रयमनन्त- विषयमात्मानमनुभवतीत्यत्र किमयं स्वाश्रयदोष: परमार्थभूत:? उतापरमार्थभूत इति विवेचनीयम्। न तावत्परमार्थ:, अुनभ्यपगमात्। नाप्यपरमार्थ:, तथा सति हि द्रष्टृत्वेन वा दृश्यत्वेन वा दृशित्वेन वाभ्युपगमनीय:। न तावद्दृशि:, दृशिस्वरूपभेदानभ्युपगमात्; भ्रमाधिष्ठानभूतायास्तु साक्षाद्दृशेर्माध्यिमकपक्ष-प्रसङ्गेनापारमार्थ्यानभ्युपगमाच्च। द्रष्टृदृश्ययोस्तदवच्छिन्नाया दृशेश्च काल्पनिकत्वेन मूलदोषान्तरापेक्षयाऽनवस्था स्यात्। अथैतत्परिजिहीर्षया परमार्थसती अनुभूतिरेव ब्रह्मरूपो दोष इति चेत्; ब्रह्मैव चेद्दोष:; प्रपञ्चदर्शनस्यैव तन्मूलं स्यात्। किं प्रपञ्चतुल्याविद्यान्तरपरिकल्पनेन? ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेनानिर्मोक्षश्च स्यात्। अतो यावद्ब्रह्मव्यतिरिक्तपारमार्थिकदोषानभ्युपगम:; न तावद्भ्रान्तिरुपपादिता भवति।

(अनिर्वचनीयत्वानुपपत्ति: – 4)

अनिर्वचनीयत्वं च किमभिप्रेतम्। सदसद्विलक्षणत्वमिति चेत्, तथाविधस्य वस्तुन: प्रमाणशून्यत्वेन अनिर्वचनीयतैव स्यात्। एतदुक्तं भवति – सर्वं हि वस्तुजातं प्रतीतिव्यवस्थाप्यम्। सर्वा च प्रतीतिस्सदसदाकारा। सदसदाकारायास्तु प्रतीतेस्सदसद्विलणं विषय इत्यभ्युपगम्यमाने सर्वं सर्वप्रतीतेर्विषयस्स्यात् – इति॥

(अविद्यायां प्रमाणानुपपत्तिप्रदर्शनार्थं पूर्वपक्षोपन्यासः)

अथ स्यात् – वस्तुस्वरूपतिरोधानकरमान्तरबाह्यरूपविविधाध्यासोपादानं सदसदिनर्वचनीयं अविद्या अज्ञानादिपदवाच्यं वस्तुयाथात्म्यज्ञाननिवर्त्यं ज्ञानप्रागभावातिरेकेण भावरूपमेव किञ्चिद्वस्तु प्रत्यक्षानुमानाभ्यां प्रतीयते। तदुपहितब्रह्मोपादानश्चाविकारे स्वप्रकाशचिन्मात्रवपुषि तेनैव तिरोहितस्वरूपे प्रत्यगात्मन्यहङ्कारज्ञानज्ञेयविभागरूपोऽध्यास:। तस्यैवावस्थाविशेषेण अध्यासरूपे  जगति ज्ञानबाध्य-सर्परजतादिवस्तु तत्तज्ज्ञानरूपाध्यासोऽपि जायते। कृत्स्नस्य मिथ्यारूपस्य तदुपादानत्वं च मिथ्याभूतस्यार्थस्य मिथ्याभूतमेव कारणं  भवितुमर्हातीति हेतुबलादवगम्यते।

(अविद्याविषये प्रत्यक्षस्य प्रमाणता)

कारणाज्ञानविषयं प्रत्यक्षं तावत् अहमज्ञो मामन्यं च न जानामि इत्यपरोक्षावभास:। अयं तु न ज्ञानप्रागभावविषय: स हि षष्ठप्रमाणगोचर:। अयन्तु अहं सुखीतिवदपरोक्ष: अभावस्य प्रत्यक्षत्वाभ्युपगमेऽप्ययमनुभवो नात्मज्ञानाभावविषय:; अनुभववेलायामपि ज्ञानस्य विद्यमानत्वात्, अविद्यमानत्वे ज्ञानाभावप्रतीत्यनुपपत्तेश्च॥

एतदुक्तं भवति – अहमज्ञ इत्यस्मिन्नुभवे अहमित्यात्मनोऽभावधर्मितया ज्ञानस्य च प्रतियोगितयाऽवगतिरस्ति वा, न वा? अस्ति चेद्विरोधादेव न ज्ञानाभावानुभवसम्भव:। नो चेद्धर्मिप्रतियोगिज्ञानसव्यपेक्षा ज्ञानाभावानुभवस्सुतरां न सम्भवति। ज्ञानाभावस्यानुमेयत्वे अभावाख्यप्रमाणविषयत्वे चेयमनुपपत्तिस्समाना। अस्याज्ञानस्य भावरूपत्वे धर्मिप्रतियोगिज्ञानसद्भावेऽपि विरोधाभावादयमनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्य: – इति।

(भावरूपाज्ञानस्य साक्षिचैतन्यविरोधित्वशङ्कापरिहारौ)

ननु च – भावरूपमप्यज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यते। मैवम् – साक्षिचैतन्यं न वस्तुयाथात्म्यविषयम्, अपि तु अज्ञानविषयम्; अन्यथा मिथ्यार्थावभासानुपपत्ते:। न ह्यज्ञानविषयेण ज्ञानेनाज्ञानं निवर्त्यत इति न विरोध:।

ननु चेदं भावरूपमप्यज्ञानं विषयविशेषव्यावृत्तमेव साक्षिचैतन्यस्य विषयो भवति। स विषय: प्रमाणानधीनसिद्धिरिति कथमिव साक्षिचैतन्येनास्मदर्थव्यावृत्तं अज्ञानं विषयीक्रियते ।

नैष दोष:, सर्वमेव वस्तुजातं ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयभूतम्। तत्र जडत्वेन ज्ञाततया सिध्यत एव प्रमाणव्यवधानापेक्षा। अजडस्य तु प्रत्यग्वस्तुनस्स्वयं सिध्यतो न प्रमाणव्यवधानापेक्षेति सदैवाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते।  तस्मान्न्यायोपबृंहितेन प्रत्यक्षेण भावरूपमेवाज्ञानं प्रतीयते।

(भावरूपस्याज्ञानस्य अनुमानतः सिद्धिशङ्का)

तदिदं भावरूपमज्ञामनुमानेनापि सिद्ध्यति। विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरण-स्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् इति।

(तमसो द्रव्यत्वसमर्थनम्)

आलोकाभावमात्रं वा रूपं दर्शनाभावमात्रं वा तमो न द्रव्यान्तरम्, तत्कथं भावरूपाज्ञानसाधने निदर्शनतयोपन्यस्यत इति चेत्; उच्यते बहुलत्वविरलत्वाद्यवस्थायोगेन रूपवत्तया चोपलब्धेर्द्रव्यान्तरमेव तम इति निरवद्यमिति॥

(भावरूपाज्ञाननिरासारम्भः, तत्र निवर्त्यनिवर्तकविरोधश्च)

अत्रोच्यते – अहमज्ञो मामन्यं च न जानामि इत्यत्रोपपत्तिसहितेन केवलेन च प्रत्यक्षेण न भावरूपमज्ञानं प्रतीयते। यस्तु ज्ञानप्रागभावविषयत्वे विरोध उक्त:, स हि भावरूपाज्ञानेऽपि तुल्य:। विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकया प्रत्यगर्थ: प्रतिपन्नो वा, अप्रतिपन्नो वा?। प्रतिपन्नश्चेत्; तत्स्वरूपज्ञाननिवर्त्यं तदज्ञानं तस्मिन्प्रतिपन्ने कथमिव तिष्ठति। अप्रतिपन्नश्चेद्व्यावर्तकाश्रयविषयज्ञान शून्यमज्ञानं कथमनुभूयेत ॥

(विशदाविशदविभागात् अविरोधशङ्का, तत्परिहारश्च)

अथ विशदस्वरूपावभासोऽज्ञानविरोधी, अविशदस्वरूपं तु प्रतीयत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोध:- इति। हन्त तर्हि ज्ञानप्रागभावोऽपि विशदस्वरूपविषय:। आश्रयप्रतियोगिज्ञानं तु अविशदस्वरूपविषयमिति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् ॥

(अज्ञानस्य भावरूपत्वेऽपि सापेक्षता)

भावरूपस्य अज्ञानस्यापि ह्यज्ञानमिति सिध्यत: प्रागभावसिद्धाविव सापेक्षत्वमस्त्येव; तथा हि अज्ञानमिति ज्ञानाभावस्तदन्यस्तद्विरोधी वा? त्रयाणामपि तत्स्वरूपज्ञानापेक्षाऽवश्याश्रयणीया। यद्यपि  तमस्स्वरूपप्रतिपत्तौ प्रकाशापेक्षा न विद्यते; तथाऽपि प्रकाशविरोधीत्यनेनाकारेण प्रतिपत्तौ प्रकाशप्रतिपत्त्यपेक्षाऽस्त्येव। भवदभिमताज्ञानं न कदाचित्स्वरूपेण सिद्ध्यति अपित्वज्ञानमित्येव । तथा सति ज्ञानाभाववत्तदपेक्षत्वं समानम् ॥

(अज्ञानस्य ज्ञानप्रागभावतासमर्थनम्)

ज्ञानप्रागभावस्तु भवताऽप्यभ्युपगम्यते। प्रतीयते चेत्युभयाभ्युपेतो ज्ञानप्रागभाव एव अहमज्ञो मामन्यं च न जानामि इत्यनुभूयत इत्यभ्युपगन्तव्यम् ॥

(अज्ञः इति प्रत्यक्षस्य भावरूपाज्ञानविषयत्वे प्रतिकूलतर्कः)

नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवति, स्वानुभवस्वरूपत्वात्। स्वानुभवस्वरूपमपि तिरोहितस्वरूपमज्ञानमनुभवतीति चेत्; किमिदं तिरोहितस्वरूपत्वम्। अप्रकाशित- स्वरूपत्वमिति चेत्, स्वानुभवस्वरूपस्य कथमप्रकाशित-स्वरूपत्वम्। स्वानुभवस्वरूपस्यापि अन्यतोऽप्रकाशितस्वरूपत्वमापद्यत इति चेत्; एवं तर्हि प्रकाशाख्यधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वादन्यतस्स्वरूपनाश एव स्यादिति पूर्वमेवोक्तम्॥

(भावरूपाज्ञानविषयत्वे दूषणान्तरम्)

किञ्च – ब्रह्मस्वरूपतिरोधानहेतुभूतमेतदज्ञानं स्वयमनुभूतं सत् ब्रह्म तिरस्करोति। ब्रह्म तिरस्कृत्य स्वयं तदनुभविवषयो भवतीत्यन्योन्याश्रयणम्॥

अनुभूतमेव तिरस्करोतीति चेत्, यद्यतिरोहितस्वरूपमेव ब्रह्माज्ञानमनुभवति; तदा तिरोधानकल्पना निष्प्रयोजना स्यात्; अज्ञानस्वरूपकल्पना च। ब्रह्मणोऽज्ञानादर्शनवत् अज्ञानकार्यतयाऽभिमतप्रपञ्चदर्शनस्यापि सम्भवात्। किञ्च – ब्रह्मणोऽज्ञानानुभव: किं स्वतोऽन्यतो वा? स्वतश्चेदज्ञानानुभवस्य स्वरूपप्रयुक्तत्वेन अनिर्मोक्षस्स्यात्। अनुभूतिस्वरूपस्य ब्रह्मणोऽज्ञानानुभवस्वरूपत्वेन मिथ्यारजतबाधकज्ञानेन रजतानुभवस्यापि निवृत्तिवन्निवर्तक-ज्ञानेनाज्ञानानुभूतिरूपब्रह्मस्वरूपनिवृत्तिर्वा। अन्यतश्चेत्, किं तदन्यत्? अज्ञानान्तरमिति चेत्; अनवस्था स्यात्। ब्रह्म तिरस्कृत्यैव स्वयमनुभवविषयो भवतीति चेत्; तथा सतीदमज्ञानं काचादिवत् स्वसत्तया ब्रह्म तिरस्करोतीति ज्ञानबाध्यत्वमज्ञानस्य न स्यात्॥

अथेदमज्ञानं स्वयमनादि, ब्रह्मणस्स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृतिं च युगपदेव करोति। अतो नानवस्थादयो दोषा इति नैतत्; स्वानुभवस्वरूपस्य ब्रह्मणस्स्वरूपतिरस्कृतिमन्तरेण साक्षित्वापादनायोगात्। हेत्वन्तरेण तिरस्कृतमिति चेत्, तर्ह्यस्यानादित्वमपास्तम्। अनवस्था च पूर्वोक्ता। अतिरस्कृतस्वरूपस्यैव साक्षित्वापादने ब्रह्मणस्स्वानुभवैकतानता च न स्यात्॥

(पूर्वोक्तविशदाविशदावभासदूषणम्)

अपि च – अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किञ्चिदपि प्रकाशते? उत किञ्चित्प्रकाशते? पूर्वस्मिन् कल्पे प्रकाशमात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरसकृदुक्ता। उत्तरस्मिन्कल्पे सच्चिदानन्दैकरसे ब्रह्मणि कोऽयमंशस्तिरस्क्रियते; को वा प्रकाशते? निरंशे निर्विशेषे प्रकाशमात्रे वस्तुन्याकारद्वयासम्भवेन तिरस्कार: प्रकाशश्च युगपन्न संगच्छेते।    अथ सच्चिदानन्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिव लक्ष्यत इति प्रकाशमात्रस्वरूपस्य विशदताऽविशदता वा किंरूपा। एतदुक्तं भवति – यस्सांशस्सविशेष: प्रकाशविषय:; तस्य सकलावभासो विशदावभास:, कतिपयविशेष रहितावभासश्चाविशदावभास:। तत्र य आकारोऽप्रतिपन्नस्तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावैशद्यं न विद्यते। यच्चांश: प्रतिपन्नस्तस्मिन्नंशे  तद्विषयप्रकाशो विशद एव। अतस्सर्वत्र प्रकाशांशे अवैशद्यं न संभवति। विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपयविशेषाप्रतीतिरेवावैशद्यम्। तस्मादविषये निर्विशेषे प्रकाशमात्रे ब्रह्मणि स्वरूपे प्रकाशमाने तद्गतकतिपयविशेषाप्रतीतिरूपावैशद्यं नामाज्ञानकार्यं न संभवति।

(विशदाविशदावभासस्यैव मुखान्तरेण दूषणम्)

अपि च – इदमविद्याकार्यमवैशद्यं तत्त्वज्ञानोदयान्निवर्तते न वा? अनिवृत्तावपवर्गाभाव:। निवृत्तौ च वस्तु किं रूपमिति विवेचनीयम्। विशदस्वरूपमिति चेत्;  तद्विशदस्वरूपं प्रागस्ति; न वा? अस्ति चेदविद्याकार्यमवैशद्यं तन्निवृत्तिश्च न स्याताम्। नो चेन्मोक्षस्य कार्यतया अनित्यता स्यात्॥

(दूषणान्तराणि)

अस्याज्ञानस्याश्रयानिरूपणादेवासंभव: पूर्वमेवोक्त:। अपि च – अपरमार्थदोषमूलभ्रमवादिना निरधिष्ठानभ्रमासंभवोऽपि दुरुपपाद:; भ्रमहेतुभूतदोषाश्रयत्ववदधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्ते:। ततश्च सर्वशून्यत्वमेव स्यात्॥

(उक्ताज्ञाने अनुमानप्रमाणदूषणम्)

यदुक्तमनुमानेनापि भावरूपमज्ञानं सिध्यतीति; तदयुक्तम्; अनुमानासंभवात्। ननूक्तमनुमानम्। सत्यमुक्तम्। दुरुक्तं तु तत्; अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन विरुद्धत्वाद्धेतो:। तत्राज्ञानान्तरासाधने हेतोरनैकान्त्यम्। साधने च तदज्ञानमज्ञानसाक्षित्वं निवारयति। ततश्चाज्ञानकल्पना निष्फला स्यात्  ॥

(अनुमाने दूषणान्तरम्)

दृष्टान्तश्च साधनविकल:; दीपप्रभाया अप्रकाशितार्थप्रकाशकत्वाभावात्। सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम्। सत्यपि दीपे ज्ञानेन विना विषयप्रकाशाभावात्। इन्द्रियाणामपि ज्ञानोत्पत्तिहेतुत्वमेव; न प्रकाशकत्वम्। प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतो विरोधितमोनिरसनद्वारेण उपकारकत्वमात्रमेव। प्रकाशकज्ञानोत्पत्तौ व्याप्रियमाणचक्षुरिन्द्रियोपकारकहेतुत्वमपेक्ष्य दीपस्य प्रकाशकत्वव्यवहार:। नास्माभिर्ज्ञानतुल्य-प्रकाशकत्वाभ्युपगमेन दीपप्रभा निदर्शिता। अपि तु ज्ञानस्यैव स्वविषयावरणनिरसनपूर्वक-प्रकाशकत्वमङ्गीकृत्येति चेन्न, न हि विरोधिनिरसनमात्रं प्रकाशकत्वम्; अपि त्वर्थपरिच्छेद:। व्यवहारयोग्यतापादानमिति यावत्। तत्तु ज्ञानस्यैव। यद्युपकारकाणामपि अप्रकाशितार्थप्रकाशकत्वमङ्गीकृतं, तर्हीन्द्रियाणामुपकारकतमत्वेनाप्रकाशितार्थ-प्रकाशकत्वं अङ्गीकरणीयम्। तथा सति तेषां स्वनिवर्त्य-??वस्त्वन्तरपूर्वकत्वाभावाद्धेतोः अनैकान्त्यमित्यलमनेन॥

(भावरूपाज्ञानानुमानस्य प्रतिकूलतर्कपराहतिः)

प्रतिप्रयोगाश्च – 1. विवादाध्यासिमज्ञानं न ज्ञानमात्रब्रह्माश्रयम्; अज्ञानत्वात्; शुक्तिकाद्यज्ञानवत्। ज्ञात्राश्रयं हि तत्। 2. विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्मावरणम्; अज्ञानत्वात्, शुक्तिकाद्यज्ञानवत्। विषयावरणं हि तत्। 3. विवादाध्यासितमज्ञानं न ज्ञाननिवर्त्यम्; ज्ञानविषयानावरणत्वात्; यत् ज्ञाननिवर्त्यमज्ञानं तत् ज्ञानविषयावरणम्। यथा शुक्तिकाद्यज्ञानम्। 4. ब्रह्म नाज्ञानास्पदम्, ज्ञातृत्वविरहात्; घटादिवत्। 5. ब्रह्म नाज्ञानावरणम्; ज्ञानाविषयत्वात्। यदज्ञानावरणं तज्ज्ञानविषयभूतम्; यथा शुक्तिकादि। 6. ब्रह्म न ज्ञाननिवर्त्याज्ञानम्; ज्ञानाविषयत्वात्। यत् ज्ञाननिर्त्याज्ञानं, तज्ज्ञानविषयभूतम्; यथा शुक्तिकादि। 7. विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावातिरक्ताज्ञानपूर्वकं न भवति, प्रमाणज्ञानत्वात्, भवदभिमताज्ञानसाधनप्रमाणज्ञानवत् । 8. ज्ञानं न वस्तुनो विनाशकम्, शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वात्। यद्वस्तुनो विनाशकं तच्छक्तिविशेषोपबृंहितं ज्ञानमज्ञानं च दृष्टम्; यथेश्वरयोगिप्रभृतिज्ञानम्; यथा च मुद्गरादि। 9. भावरूपमज्ञानं न ज्ञानविनाश्यम्; भावरूपत्वात्, घटादिवदिति।

(अन्तिमे प्रतिकूलतर्के व्याप्तिभङ्गशङ्कापरिहारौ)

अथोच्येत – बाधकज्ञानेन पूर्वज्ञानोत्पन्नानां भयादीनां विनाशो दृश्यते – इति। नैवम् – न हि ज्ञानेन तेषां विनाश:; क्षणिकत्वेन तेषां स्वयमेव विनाशात्; कारणनिवृत्त्या च पश्चादनुत्पत्ते:। क्षणिकत्वं च तेषां ज्ञानवदुत्पत्तिकारणसन्निधान एवोपलब्धे:; अन्यथाऽनुपलब्धेश्चावगम्यते। अक्षणिकत्वे च भयादीनां भयादिहेतुभूतज्ञानसन्ततावविशेषेण सर्वेषां ज्ञानानां भयाद्युत्पत्तिहेतुत्वेनानेकभयोपलब्धिप्रसङ्गाच्च॥

(अविद्यानुमानप्रयोगदूषणम्)

स्वप्रागभावव्यतिरिक्तवस्त्वन्तरपूर्वकमिति व्यर्थविशेषणोपादानेन प्रयोगकुशलता चाऽविष्कृता। अतोऽनुमानेनापि न भावरूपाज्ञानसिद्धि:।

(अविद्यायां प्रमाणान्तरस्याप्यभावः)

श्रुतितदर्थापत्तिभ्यामज्ञानासिद्धिरनन्तरमेव वक्ष्यते। मिथ्यार्थस्य हि मिथ्यैवोपादानं  भवितुमर्हातीत्येतदपि न विलक्षणत्वात् (ब्र.सू.२.१.४) इत्यधिकरणन्यायेन परिह्रियते। अतोऽनिर्वचनीयाज्ञानविषया न काचिदपि प्रतीतिरस्ति।

(ख्यातिविचारारम्भः)

प्रतीतिभ्रान्तिबाधैरपि न तथाऽभ्युपगमनीयम्। प्रतीयमानमेव हि प्रतीतिभ्रान्तिबाधविषय:। आभि: प्रतीतिभि: प्रतीत्यन्तरेण चानुपलब्धमासां विषय इति न युज्यते कल्पयितुम्॥

(अनिर्वचनीयख्यातिः)

शुक्त्यादिषु रजतादिप्रतीते:, प्रतीतिकालेऽपि तन्नास्तीति बाधेन चान्यस्यान्यथाभानायोगाच्च सदसदनिर्वचनीयमपूर्वमेवेदं रजतं दोषवशात् प्रतीयत इति कल्पनीयमिति चेत्;

(अन्यथाख्यातेरपरिहार्यता)

न; तत्कल्पनायामप्यन्यस्यान्यथाभानस्यावर्जनीयत्वात्; अन्यथाभानाभ्युपगमादेव ख्यातिप्रवृत्तिबाध-भ्रमत्वानामुपपत्ते: अत्यन्तापरिदृष्टाकारणकवस्तुकल्पनायोगात् । कल्प्यमानं हीदमनिर्वचनीयम्, न तावदनिर्वचनीयमिति प्रतीयते; अपि तु परमार्थरजतमित्येव। अनिर्वचनीयमित्येव प्रतीतं चेत्; भ्रान्तिबाधयो: प्रवृत्तेरप्यसम्भव:। अतोऽन्यस्यान्यथाभानविरहे प्रतीतिप्रवृत्तिबाधभ्रमत्वानामनुपपत्ते: तस्यापरिहार्यत्वाच्च; शुक्त्यादिरेव रजताद्याकारेणावभासत इति भवताभ्युपगन्तव्यम्। ख्यात्यन्तरवादिनां च सुदूरमपि गत्वाऽन्यथावभासोऽवश्याश्रयणीय: -असत्ख्यातिपक्षे सदात्मना; आत्मख्यातिपक्षेऽर्थात्मना; अख्यातिपक्षेऽपि अन्यविशेषणमन्यविशेषणत्वेन; ज्ञानद्वयमेकत्वेन च; विषयासद्भावपक्षेऽपि विद्यमानत्वेन॥

(अनिर्वचनीयोत्पत्तेः अकारणकता)

किञ्च – अनिर्वचनीयमपूर्वरजतमत्र जातमिति वदता तस्य जन्मकारणं वक्तव्यम्; न तावत्तत्प्रतीति: तस्यास्तद्विषयत्वेन तदुत्पत्ते: प्रागात्मलाभायोगात्। निर्विषया जाता तदुत्पाद्य तदेव विषयीकरोतीति महतामिदमुपपादनम्। अथेन्द्रियादिगतो दोष:, तन्न; तस्य पुरुषाश्रयत्वेनार्थगत-कार्यस्योत्पादकत्वायोगात्। नापीन्द्रियाणि, तेषां ज्ञानकारणत्वात्। नापि दुष्टानीन्द्रियाणि, तेषामपि स्वकार्यभूते ज्ञान एव हि विशेषकरत्वम् अनादिमिथ्याज्ञानोपादानत्वं तु पूर्वमेव निरस्तम्॥

(अनिर्वचनीयस्य बुद्धिशब्दान्वयनियमानुपपत्तिः)

किञ्च – अपूर्वमनिर्वचनीयमिदं वस्तुजातं रजतादिबुद्धिशब्दाभ्यां कथमिव विषयीक्रियते, न घटादिबुद्धिशब्दाभ्याम्। रजतादिसादृश्यादिति चेत्; तर्हि तत्सदृशमित्येव प्रतीतिशब्दौ स्याताम्। रजतादिजातियोगादिति चेत्;   सा किं परमार्थभूता; अपरमार्थभूता वा; न तावत्परमार्थभूता, तस्या अपरमार्थान्वयायोगात्। नाप्यपरमार्थभूता, परमार्थान्वयायोगात्। अपरमार्थे परमार्थबुद्धिशब्दयो: निर्वाहकत्वायोगाच्चेत्यलमपरिणतकुतर्कनिरसनेन॥

(सर्वत्राबाधिता यथार्थख्यातिः)

अथवा

यथार्थं सर्वविज्ञानमिति वेदविदां मतम् ।श्रुतिस्मृतिभ्यस्सर्वस्य सर्वात्मत्वप्रतीतित:॥

बहुस्यां (छा.६.२.३) इतिसङ्कल्पपूर्वसृष्ट्याद्युपक्रमे।

तासां त्रिवृतमेकैकां (छां.६.३.३) इति श्रुत्यैव चोदितम्॥

त्रिवृत्करणमेवं हि प्रत्यक्षेणोपलभ्यते । यदग्नेरोहितं रूपं तेजसस्तदपामपि॥

शुक्लं कृष्णं पृथिव्याश्चेत्यग्नावेव त्रिरूपता।

श्रुत्यैव दर्शिता तस्मात्सर्वे सर्वत्र सङ्गता:॥

पुराणे चैवमेवोक्तं वैष्णवे सृष्ट्युपक्रमे॥

नानावीर्या: पृथग्भूतास्ततस्ते संहतिं विना।

नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नश:॥

समेत्यान्योन्यसंयोगं परस्परसमाश्रया:।

महदाद्या विशेषान्ता ह्यण्डमित्यादिना तत:॥ (वि.पु.१.२.५२,५३,५४)

सूत्रकारोऽपि भूतानां त्रिरूपत्वं तथाऽवदत्।

त्रयात्मकत्वात्तु भूयस्त्वात् (ब्र.सू.३.१.२) इति तेनाभिधाभिदा॥

सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ।

सोमावयवसद्भावादिति न्यायविदो विदु:॥

व्रीह्यभावे च नीवारग्रहणं व्रीहिभावत:।

तदेव सदृशं तस्य यत्तद्द्रव्यैकदेशभाक् ॥

शुक्त्यादौ रजतादेश्च भाव: श्रुत्यैव बोधित:।

रूप्यशुक्त्यादिनिर्देशभेदो भूयस्त्वहेतुक:॥

रूप्यादिसदृशश्चायं शुक्त्यादिरुपलभ्यते।

अतस्तस्यात्र सद्भाव: प्रतीतेरपि निश्चित:॥

कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त्यंशवर्जित:।

रजतांशो गृहीतोऽतो रजतार्थी प्रवर्तते॥ दोषहानौ तु शुक्त्यंशे गृहीते तन्निवर्तते।

अतो यथार्थं रूप्यादिविज्ञानं शुक्तिकादिषु॥ बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते।

शुक्तिभूयस्त्ववैकल्यसाकल्यग्रहरूपत:॥

नातो मिथ्यार्थसत्यार्थविषयत्वनिबन्धन:। एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थिति:॥

(स्वाप्नार्थसत्यतासमर्थनम्)

स्वप्ने च प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्या: तत्तत्कालावसाना: तथाभूताश्चार्थास्सृज्यन्ते। तथा हि श्रुति: स्वप्नविषया न तत्र रथा न रथयोगा न पन्थानो  भवन्ति। अथ रथान् रथयोगान्पथस्सृजते। न तत्राऽनन्दा मुद: प्रमुदो  भवन्ति। अथानन्दान्मुद: प्रमुदस्सृजते। न तत्र वेशान्ता: पुष्करिण्यस्स्रवन्त्यो  भवन्ति। अथ वेशान्तान्पुष्करिण्यः स्रवन्त्यस्सृजते। स हि कर्ता (बृ.६.३.१०) इति ।  यद्यपि  सकलेतरपुरुषानुभाव्यतया तदानीं न  भवन्ति। तथाऽपि तत्तत्पुरुषमात्रानुभाव्यतया तथाविधानर्थानीश्वरस्सृजति। स हि कर्ता। तस्य सत्यसङ्कल्पस्याऽश्चर्य-शक्तेस्तथाविधं कर्तृत्वं सम्भवतीत्यर्थ:। य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण:। तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्मिंल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इति च। सूत्रकारोऽपि सन्ध्ये सृष्टिराह हि (ब्र.सू.३.२.१) निर्मातारं चैके पुत्रादयश्च (ब्र.सू.३.२.२) इति सूत्रद्वयेन स्वाप्नेष्वर्थेषु जीवस्य स्रष्टृत्वमाशङ्क्य मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् (ब्र.सू.३.२.३) इत्यादिना – न जीवस्य सङ्कल्पमात्रेण स्रष्टृत्वमुपपद्यते। जीवस्य स्वाभाविकसत्यसङ्कल्पत्वादे: कृत्स्नस्य संसारदशायामनभिव्यक्त-स्वरूपत्वात्, ईश्वरस्यैव तत्तत्पुरुषमात्रानुभाव्यतया आश्चर्यभूता सृष्टिरियम्। तस्मिंल्लोकाः श्रितास्सर्वे तदु नात्येति कश्चन इति परमात्मैव तत्र स्रष्टेत्यवगम्यत इति परिहरति ॥

(स्वाप्नार्थसत्यत्वानुपपत्तिशङ्कापरिहारः)

अपवरकादिषु शयानस्य स्वप्नदृश: स्वदेहेनैव देशान्तरगमनराज्याभिषेक-शिरश्छेदादयश्च पुण्यपापफलभूता: शयानदेहसरूपसंस्थानदेहान्तरसृष्ट्योपपद्यन्ते॥

(भ्रमविशेषेषु याथार्थ्योपपादनम्)

पीतशङ्खादौ तु नयनवर्तिपित्तद्रव्यसंभिन्ना नायनरश्मयश्शङ्खादिभिस्संयुज्यन्ते। तत्र पित्तगतपीतिमाभिभूतश्शङ्खगतशुक्लिमा न गृह्यते। अतस्सुवर्णानुलिप्तशङ्खवत् पीतश्शङ्ख इति प्रतीयते। पित्तद्रव्यं तद्गतपीतिमा चातिसौक्ष्म्यात्पार्श्वस्थैर्न गृह्यते। पित्तोपहतेन तु स्वनयननिष्क्रान्ततयाऽति-सामीप्यात् सूक्ष्ममपि गृह्यते। तद्ग्रहणजनितसंस्कारसचिवनायनरश्मिभि: दूरस्थमपि गृह्यते॥

जपाकुसुमसमीपवर्तिस्फटिकमणिरपि तत्प्रभाभिभूततया रक्त इति गृह्यते। जपाकुसुमप्रभा विततापि स्वच्छद्रव्यसंयुक्ततया स्फुटतरमुपलभ्यत इत्युपलब्धिव्यवस्थाप्यमिदम्।

मरीचिकाजलज्ञानेऽपि तेज: पृथिव्योरप्यम्बुनो विद्यमानत्वादिन्द्रियदोषेण तेज: पृथिव्योरग्रहणाददृष्टवशाच्चाम्बुनो ग्रहणाद्यथार्थत्वम्।

अलातचक्रेऽप्यलातस्य द्रुततरगमनेन सर्वदेशसंयोगादन्तरालाग्रहणात्तथा प्रतीतिरुपपद्यते। चक्रप्रतीतावपि  अन्तरालाग्रहणपूर्वक-तत्तद्देशसंयुक्ततत्तद्वस्तुग्रहणमेव। क्वचिदन्तरालाभावात् अन्तरालाग्रहणम्, क्वचिच्छैघ्र्यादग्रहणमिति विशेष:। अतस्तदपि यथार्थम्।

दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था। दर्पणादिप्रतिहतगतयो हि नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादि गृह्णन्ति। तत्रापि अतिशैघ्र्यादन्तरालाग्रहणात्तथा प्रतीति:॥

दिङ्मोहेऽपि दिगन्तरस्यास्यां दिशि विद्यमानत्वाददृष्टवशेनैतद्दिगंशवियुक्तो दिगन्तरांशो गृह्यते। अतो दिगन्तरप्रतीतिर्यथार्थैव।

द्विचन्द्रज्ञानादावपि अङ्गुल्यवष्टम्भतिमिरादिभिर्नायन-तेजोगतिभेदेन सामग्रीभेदात्सामग्री-द्वयमन्योन्यनिरपेक्षं चन्द्रग्रहणद्वयहेतुर्भवति। तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति। द्वितीया तु किञ्चिद्वक्रगतिश्चन्द्रसमीपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवियुक्तं गृह्णाति। अतस्सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे ग्रहणभेदेन ग्राह्याकारभेदादेकत्वग्रहणाभावाच्च द्वौ चन्द्राविति भवति प्रतीतिविशेष:। देशान्तरस्य  तद्विशेषणत्वं देशान्तरस्य, अगृहीतस्वदेशचन्द्रस्य च निरन्तरग्रहणेन भवति। तत्र सामग्रीद्वित्वं पारमार्थिकम्। तेन देशद्वयविशिष्टचन्द्रग्रहणद्वयं च पारमार्थिकम्।

ग्रहणद्वित्वेन चन्द्रस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकम्। तत्र विशेषणद्वयविशिष्ट-चन्द्रग्रहणद्वयस्यैक एव चन्द्रो ग्राह्य इति ग्रहणे प्रत्यभिज्ञानवत् केवलचक्षुषः सामर्थ्याभावाच्चाक्षुषज्ञानं तथैवावतिष्ठते। द्वयोश्चक्षुषोरेक-सामग्र्यन्तर्भावेऽपि तिमिरादिदोषभिन्नं चाक्षुषं तेजस्सामग्रीद्वयं भवतीति कार्यकल्प्यम्। अपगते तु दोषे स्वदेशविशिष्टस्य चन्द्रस्यैकग्रहणवेद्यत्वादेकश्चन्द्र इति भवति प्रत्यय:। दोषकृतं तु सामग्रीद्वित्वं तत्कृतं ग्रहणद्वित्वं तत्कृतं ग्राह्याकारद्वित्वं चेति निरवद्यम्।

अतस्सर्वं विज्ञानजातं यथार्थमिति सिद्धम्। ख्यात्यन्तराणां दूषणानि तैस्तैर्वादिभिरेव प्रपञ्चितानीति न तत्र यत्न: क्रियते।

अथवा किमनेन बहुनोपपादानप्रकारेण।

प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तिनिखिलदोषगन्धं अनवधिकातिशय-असंख्येयकल्याणगुणगणं सर्वज्ञं, सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति। किं नोपपद्यते।

भगवता हि परेण ब्रह्मणा क्षेत्रज्ञपुण्यपापानुगुणं तद्भोग्यत्वायाखिलं जगत्सृजता सुखदु:खोपेक्षाफलानुभवानुभाव्या: पदार्थास्सर्वसाधारणानुभवविषया:, केचन तत्तत्पुरुषमात्रानुभव-विषयाः तत्तत्कालावसानास्तथातथाऽनुभाव्यास्सृज्यन्ते। तत्र बाध्यबाधकभाव: सर्वानुभवविषयतया तद्रहिततया चोपपद्यत इति सर्वं समञ्जसम्॥

(श्रुत्यादिभिः न अनिर्वचनीयाज्ञानसिद्धिः)

यत्पुनस्सदसदिनर्वचनीयमज्ञानं श्रुतिसिद्धमिति; तदसत् अनृतेन हि प्रत्यूढा: (छा.८प्र.३.ख.२) इत्यादिष्वनृतशब्दस्यानिर्वचनीयानभिधायित्वात्। ऋतेतरविषयो ह्यनृतशब्द:। ऋतमिति कर्मवाचि। ऋतं पिबन्तौ (कठ.१.३.१) इति वचनात्। ऋतं – कर्मफलाभिसंधिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम्। अत्र तद्व्यतिरिक्तं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधि एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढा: (छा.८.३.१) इति वचनात्॥

नासदासीन्नो सदासीत् (यजु.२.अष्टक.८.प्र.९.अनु) इत्यत्रापि सदसच्छब्दौ  चिदचिद्व्यष्टिविषयौ। उत्पत्तिवेलायां सत्त्यच्छब्दाभिहितयोश्चिदचिद्व्यष्टिभूतयोर्वस्तुनोरप्ययकाले अचित्समष्टिभूते तमश्शब्दाभिधेये वस्तुनि प्रलयप्रतिपादनपरत्वादस्य वाक्यस्य। नात्र कस्यचित्सदसदनर्वचनीयतोच्यते; सदसतो: कालविशेषे असद्भावमात्रवचनात्। अत्र तमश्शब्दाभिहितस्याचित्समष्टित्वं श्रुत्यन्तरादवगम्यते – अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते (सुबाल.२) इति ॥

(तमश्शब्दस्य श्रुतिगतस्य अनिर्वचनीयाज्ञानपरत्वशङ्कापरिहारौ)

सत्यम् तमश्शब्देनाचित्समष्टिरूपाया: प्रकृतेस्सूक्ष्मावस्थोच्यते। तस्यास्तु मायां तु प्रकृतिं विद्यात् (श्वेताश्वतर.४.१०) इति मायाशब्देनाभिधानादनिर्वचनीयत्वमिति चेत्; नैतदेवम् – मायाशब्दस्यानिर्वचनीयवाचित्वं न दृष्टमिति। मायाशब्दस्य मिथ्यापर्यायत्वेनानिर्वचनीय-वाचित्वमिति चेत्; तदपि नास्ति । न हि सर्वत्र मायाशब्दो मिथ्याविषय:; आसुरराक्षसास्त्रादिषु सत्येष्वेव मायाशब्दप्रयोगात्। यथोक्तम् –

तेन मायासहस्रं तच्छम्बरस्याऽशुगामिना।

बालस्य रक्षता देहमेकैकश्येन सूदितम् ॥ इति॥       (विष्णु.पु.१.१९.१०)

(मायाशब्दः सप्रमाणः)

अतो मायाशब्दो विचित्रार्थसर्गकराभिधायी। प्रकृतेश्च मायाशब्दाभिधानं विचित्रार्थसर्गकरत्वादेव। अस्मान्मायी सृजते  विश्वमेतत्तस्मिंश्श्चान्यो मायया सन्निरुद्ध: (श्वे.४.९) इति मायाशब्द-वाच्याया: प्रकृतेर्विचित्रार्थसर्गकरत्वं दर्शयति। परमपुरुषस्य च तद्वत्तामात्रेण मायित्वमुच्यते, नाज्ञत्वेन। जीवस्यैव हि मायया निरोधश्श्रूयते। तस्मिंश्चान्यो मायया सन्निरुद्ध: इति, अनादिमायया सुप्तो यदा जीव: प्रबुध्यते (मा.उ.२.२१) इति च। इन्द्रो मायाभि: पुरुरूप ईयते (बृह.४.६.१९) इत्यत्रापि विचित्राश्शक्तयोऽभिधीयन्ते। अत एव हि भूरि त्वष्टेव राजति  इत्युच्यते। न हि मिथ्याभिभूत: कश्चिद्विराजते। मम माया दुरत्यया (भ.गीता.७.१४) इत्यत्रापि गुणमयीति वचनात्सैव त्रिगुणात्मिका प्रकृतिरुच्यत इति न श्रुतिभिस्सदसदनर्वचनीयाज्ञानप्रतिपादनम्॥

(श्रुत्यर्थापत्त्या अनिर्वचनीयाज्ञानसिद्धेः दूषणम्)

नाप्यैक्योपदेशानुपपत्या; न हि तत्त्वमसि (छां.६.८.७) इति जीवपरयोरैक्योपदेशे सति सर्वज्ञे सत्यसङ्कल्पे सकलजगत्सर्गस्थितिविनाशहेतुभूते तच्छब्दादवगते प्रकृते ब्रह्मणि विरुद्धाज्ञानपरिकल्पनाहेतुभूता काचिदप्यनुपपत्तिर्दृश्यते। ऐक्योपदेशस्तु त्वं शब्देनापि जीवशरीरकस्य ब्रह्मण एवाभिधानादुपपन्नतर:।  अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२) इति सर्वस्य वस्तुन: परमात्मपर्यन्तस्यैव हि नामरूपभाक्त्वमुक्तम्। अतो न ब्रह्माज्ञानपरिकल्पनम्॥

(ब्रह्माज्ञानस्य इतिहास-पुराणाभ्यामसिद्धिः)

इतिहासपुराणयोरपि न ब्रह्माज्ञानवाद: क्वचिदपि दृश्यते। ननु ज्योर्तीषि विष्णु: (वि.पु.२.१२.३७) इति ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञाय, ज्ञानस्वरूपो भगवन्यतोऽसौ (वि.पु.२.१२.३८) इति शैलाब्धिधरादिभेदभिन्नस्य जगतो ज्ञानैकस्वरूपब्रह्माज्ञानविजृम्भितत्वमभिधाय यदा तु शुद्धं निजरूपि (वि.पु.२.१२.३९) इति ज्ञानस्वरूपस्यैव ब्रह्मण: स्वस्वरूपावस्थितिवेलायां वस्तुभेदाभावदर्शनेन अज्ञानविजृम्भितत्वमेव स्थिरीकृत्य वस्त्वस्ति किं (वि.पु.२.१२.४०), मही घटत्वम् (वि.पु.२.१२.४१) इति श्लोकद्वयेन जगदुपलब्धिप्रकारेणापि वस्तुभेदानामसत्यत्वमुपपाद्य तस्मान्न विज्ञानमृते (वि.पु.२.१२.४२) इति प्रतिज्ञातं ब्रह्मव्यतिरक्तस्यासत्यत्वमुपसंहृत्य विज्ञानमेकम् (वि.पु.२.१२.४३) इति ज्ञानस्वरूपे ब्रह्मणि भेददर्शननिमित्ताज्ञानमूलं निजकर्मैवेति स्फुटीकृत्य ज्ञानं विशुद्धम् (वि.पु.२.१२.४४) इति ज्ञानस्वरूपस्य ब्रह्मण: स्वरूपं विशोध्य सद्भाव एवं भवतो मयोक्त: (वि.पु.२.१२.४५) इति ज्ञानस्वरूपस्य ब्रह्मण एव सत्यत्वं नान्यस्य; अन्यस्य चासत्यत्वमेव; तस्य भुवनादेस्सत्यत्वं व्यावहारिकमिति तत्त्वं तवोपदिष्टमिति ह्युपदेशो दृश्यते।

नैतदेवम्; अत्र भुवनकोशस्य विस्तीर्णं स्वरूपमुक्त्वा, पूर्वमनुक्तं रूपान्तरं संक्षेपत: श्रूयताम् (वि.पु.२.१२.३६) इत्यारभ्याभिधीयते।

(ब्रह्मणः पूर्वमनुक्त रूपान्तरम्)

चिदचिन्मिश्रे जगति चिदंशो वाङ्मनसागोचर-स्वसंवेद्यस्वरूपभेदो ज्ञानैकाकारतया अस्पृष्टप्राकृतभेदोऽविनाशित्वेनास्तिशब्दवाच्य:। अचिदंशस्तु चिदंशकर्मनिमित्तपरिणामभेदो विनाशीति नास्तिशब्दाभिधेय:। उभयं तु परब्रह्मभूतवासुदेवशरीरतया तदात्मकमित्येतद्रूरूपं संक्षेपेणात्राभिहितम्॥

(प्रतिज्ञातार्थोपपादनम्)

तथाहि –   यदम्बु वैष्णव: कायस्ततो विप्र वसुन्धरा।

पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता॥ (वि.२.१२.३७)

इत्यम्बुनो विष्णोश्शरीरत्वेनाम्बुपरिणामभूतं ब्रह्माण्डमपि विष्णो: काय:, तस्य च विष्णुरात्मेति सकलश्रुतिगततादात्म्योपदेशोपबृंहणरूपस्य सामानाधिकरण्यस्य ज्योतींषि विष्णु: इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभाव एव निबन्धनमित्याहु:।

अस्मिन् शास्त्रे पूर्वमप्येतदसकृदुक्तम् – तानि सर्वाणि तद्वपु: (वि.पु.१.२.८६), तत्सर्वं वै हरेस्तनु:, स एव सर्वभूतात्मा विश्वरूपो यतोऽव्यय: (वि.पु.१.२.६९) इति। तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्यते ज्योतींषि विष्णु: इति।

(अस्ति नास्त्यात्मकतया जगद्विभागविधा)

अत्रास्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णो: कायतया विष्ण्वात्मकमित्युक्तम्। इदमस्त्यात्मकम्, इदं नास्त्यात्मकम्, अस्य च नास्त्यात्मकत्वे हेतुरयमित्याह ज्ञानस्वरूपो भगवान् यतोऽसौ इति। अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविकं रूपम्। न देवमनुष्यादिवस्तुरूपम्। यत एवं, तत एवाचिद्रूपदेवमनुष्यशैलाब्धिधरादयश्च  तद्विज्ञानविजृम्भिता:; तस्य ज्ञानैकाकारस्य सतो दैवाद्याकारेण स्वात्मवैविध्यानुसन्धानमूला देवाद्याकारानुसन्धानमूलकर्ममूला इत्यर्थ:। यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुणपरिणामास्पदं, ततस्तन्नास्तिशब्दाभिधेयम्, इतरदस्तिशब्दाभिधेयमित्यर्थादुक्तं भवति। तदेव विवृणोति – यदा तु शुद्धं निजरूपि इति। यदैतत् ज्ञानैकाकारमात्मवस्तु देवाद्याकारेण स्वात्मनि वैविध्यानुसन्धानमूलसर्वकर्मक्षयान्निर्दोषं परिशुद्धं निजरूपि भवति, तदा देवाद्याकारेणैकीकृत्यात्म-कल्पनामूलकर्मफलभूतास्तद्भोगार्था वस्तुषु वस्तुभेदा न  भवन्ति। ये देवादिषु वस्तुष्वात्मतयाभिमतेषु भोग्यभूता देवमनुष्यशैलाब्धिधरादिवस्तुभेदा:; ते तन्मूलभूतकर्मसु विनष्टेषु न भवन्तीत्यचिद्वस्तुन: कादाचित्कावस्थाविशेषयोगितया नास्तिशब्दाभिधेयत्वम्, इतरस्य सर्वदा निजसिद्धज्ञानैकाकारत्वेन अस्तिशब्दाभिधेयत्वमित्यर्थ:। प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमेवेत्याह – वस्त्वस्ति किम् इति। अस्तिशब्दाभिधेयो ह्यादिमध्यपर्यन्तहीनस्सततैकरूप: पदार्थ: तस्य कदाचिदपि नास्तिबुध्यनर्हात्वात्। अचिद्वस्तु किञ्चित् क्वचिदपि तथा भूतं न दृष्टचरम्। तत: किमित्यत्राह – यच्चान्यथात्वम् (वि.पु.२.१२.४१) इति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति; तदुत्तरोत्तरावस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायां न प्रतिसंधानमस्ति। अतस्सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव। तथा ह्युपलभ्यत इत्याह मही घटत्वम् इति। स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयैस्स्वभोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते – अनुभूयत इत्यर्थ:। एवं सति किमप्यचिद्वस्त्वस्तिशब्दार्हामादिमध्यपर्यन्तहीनं सततैकरूपं आलक्षितमस्ति किम्? न ह्यस्तीत्यभिप्राय:। यस्मादेवम्, तस्मात् ज्ञानस्वरूपात्मव्यतिरिक्तं अचिद्वस्तु कदाचित्किञ्चित् केवलास्तिशब्दवाच्यं न भवतीत्याह – तस्मान्न विज्ञानमृते इति। आत्मा तु सर्वत्र ज्ञानैकाकारतया देवादिभेदप्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेशहेतुभूतस्वकृतविविधकर्ममूलदेवादिभेदभिन्नात्मबुद्धिभिस्तेनतेन रूपेण बहुधाऽनुसंहित इति तद्भेदानुसंधानं नात्मस्वरूपप्रयुक्तमित्याह – विज्ञानमेकम् इति॥

आत्मस्वरूपं तु कर्मरहितम्, तत एव मलरूपप्रकृतिस्पर्शरहितम्। ततश्च तत्प्रयुक्तशोकमोहलोभाद्यशेषहेयगुणासङ्गि, उपचयापचयानर्हातयैकम्, तत एव सदैकरूपम्। तच्च वासुदेवशरीरमिति तदात्मकम्, अतदात्मकस्य कस्यचिदप्यभावादित्याह – ज्ञानं विशुद्धम् इति। चिदंशस्सदैकरूपतया सर्वदाऽस्तिशब्दवाच्य:। अचिदंशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भ इति सर्वदा नास्तिशब्दाभिधेय:। एवंरूपचिदचिदात्मकं जगद्वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्तमित्याह – सद्भाव एवम् इति। अत्र सत्यम्, असत्यम् इति यदस्ति यन्नास्ति इति प्रक्रान्तस्योपसंहार:। एतत् ज्ञानैकाकारतया समम्, अशब्दगोचरस्वरूपभेदमेवाचिन्मिश्रं भुवनाश्रितं देवमनुष्यादिरूपेण सम्यग्व्यवहारार्हा- भेदं यद्वर्तते; तत्र हेतु: कर्मैवेत्युक्तमित्याह – एतत्तु यत् (वि.पु.२.१३.४५) इति। तदेव विवृणोति – यज्ञ: पशु: (वि.पु.२१२.४७) इति । जगद्याथात्म्य-ज्ञानप्रयोजनं मोक्षोपायतनमित्याह यच्चैतत् (वि.पु.२.१२.४६) इति।

(श्लोकानां परोक्तार्थाननुगुणता)

अत्र निर्विशेषे परे ब्रह्मणि तदाश्रये सदसदिनर्वचनीये चाज्ञाने, जगतस्तत्कल्पितत्वे चाऽनुगुणं किञ्चिदपि पदं न दृश्यते ॥

अस्तिनास्तिशब्दाभिधेयं  चिदचिदात्मकं कृत्स्नं जगत् परमस्य परेशस्य परस्य ब्रह्मणो विष्णो: कायत्वेन तदात्मकम्; ज्ञानैकाकारस्याऽत्मनो देवादिविविधाकारानुभवे ऽचित्परिणामे च हेतुर्वस्तुयाथात्म्यज्ञानविरोधि क्षेत्रज्ञानां कर्मैवेति प्रतिपादनात् अस्तिनास्तिसत्यासत्यशब्दानां च सदसदनिर्वचनीयवस्त्वभिधानासामर्थ्याच्च । नास्त्यसत्यशब्दावस्तिसत्यशब्दविरोधिनौ। अतश्च ताभ्यामसत्त्वं हि प्रतीयते; नानिर्वचनीयत्वम्।

अत्र चाचिद्वस्तुनि नास्त्यसत्यशब्दौ न तुच्छत्वमिथ्यात्वपरौ प्रयुक्तौ; अपि तु विनाशित्वपरौ। वस्त्वस्ति किम्, महीघटत्वम् इत्यत्रापि विनाशित्वमेव ह्युपपादितम्; न निष्प्रमाणकत्वं, ज्ञानबाध्यत्वं वा; एकेनाकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणामविशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनात्। तुच्छत्वं हि प्रमाणसंबन्धानर्हात्वम्। बाधोऽपि यद्देशकालादिसम्बन्धितया यदस्तीत्युपलब्धम्; तस्य तद्देशकालादिसम्बन्धितया नास्तीत्युपलब्धि:; न तु कालान्तरेऽनुभूतस्य कालान्तरे परिणामादिना नास्तीत्युपलब्धि:; कालभेदेन विरोधाभावात्। अतो न मिथ्यात्वम्॥

एतदुक्तं भवति – ज्ञानस्वरूपमात्मवस्तु आदिमध्यपर्यन्तहीनं सततैकस्वरूपमिति स्वत एव सदाऽस्तिशब्दवाच्यम्। अचेतनं तु क्षेत्रज्ञभोग्यभूतं तत्कर्मानुगुणपरिणामि विनाशीति सर्वदा नास्त्यर्थगर्भमिति नास्त्यसत्यशब्दाभिधेयमिति॥ यथोक्तम्

यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै।

परिणामादिसंभूतां तद्वस्तु नृप तच्च किम्॥          (वि.पु.२.१३.१००)

अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते।

तत्तु नास्ति न संदेहो नाशिद्रव्योपपादितम्॥     (वि.पु.२.१४.२४) इति॥

देशकालकर्मविशेषापेक्षया अस्तित्वनास्तित्वयोगिनि वस्तुनि केवलास्तिबुद्धिबोध्यत्वं अपरमार्थ इत्युक्तम्। आत्मन एव केवलास्तिबुद्धिबोध्यत्वमिति स परमार्थ इत्युक्तम्।

(दशश्लोक्युक्तार्थानुवादः)

श्रोतुश्च मैत्रेयस्य –

विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम्।

परमार्थश्च मे प्रोक्तो यथाज्ञानं प्रधानत:॥      (वि.पु.२.२.२)

इत्यनुभाषणाच्च, ज्योतींषि विष्णु: इत्यादिसामानाधिकरण्यस्याऽत्मशरीरभाव एव निबन्धनम्;  चिदचिद्वस्तुनोश्चास्तिनास्तिशब्दप्रयोगनिबन्धनं ज्ञानस्याकर्मनिमित्तस्वाभाविकरूपत्वेन प्राधान्यम्; अचिद्वस्तुनश्च तत्कर्मनिमित्तपरिणामित्वेनाप्राधान्यमिति प्रतीयते॥

(वेदान्तानां निर्विशेषब्रह्मविज्ञानेन अविद्यानिवृत्तिपरत्वशङ्का-परिहारौ)

यदुक्तं – निर्विशेषब्रह्मविज्ञानादेवाविद्यानिवृत्तिं वदन्ति श्रुतय: – इति। तदसत्, वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमस: परस्तात्। तमेवं विद्वानमृत इह भवति। नान्य: पन्था विद्यतेऽयनाय (तै.पु.सू.३.१२.१३), सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (महानारा), न तस्येशे कश्चन तस्य नाम महद्यश: (महानारायणं), य एनं विदुरमृतास्ते भवन्ति (महानारायणं १.८.९.१०) इत्याद्यनेकवाक्यविरोधात्। ब्रह्मणस्सविशेषत्वादेव सर्वाण्यपि वाक्यानि सविशेषज्ञानादेव मोक्षं वदन्ति। शोधकवाक्यान्यपि सविशेषमेव ब्रह्म प्रतिपादयन्तीत्युक्तम्॥

(तत्त्वमस्यादिसामानाधिकरण्यान्यथाऽनुपपत्त्या निर्विशेषसिद्धेः निरासः)

तत्त्वमस्यादिवाक्येषु सामानाधिकरण्यं न निर्विशेषवस्त्वैक्यपरम्, तत्त्वंपदयो: सविशेषब्रह्माभिधायित्वात्। तत्पदं हि सर्वज्ञं सत्यसङ्कल्पं जगत्कारणं ब्रह्म परामृशति   तदैक्षत बहु स्याम् इत्यादिषु तस्यैव प्रकृतत्वात्। तत्समानाधिकरणं त्वं पदं च अचिद्विशिष्टजीवशरीरकं ब्रह्म प्रतिपादयति, प्रकारद्वयावस्थितैकवस्तुपरत्वात्सामानाधिकरण्यस्य। प्रकारद्वयपरित्यागे प्रवृत्तिनिमित्तभेदासंभवेन सामानाधिकरण्यमेव परित्यक्तं स्यात्; द्वयो: पदयोर्लक्षणा च।

सोऽयं देवदत्त: इत्यत्रापि न लक्षणा, भूतवर्तमानकालसंबन्धितयैक्यप्रतीत्यविरोधात्। देशभेदविरोधश्च कालभेदेन परिहृत:।

(परपक्षे दूषणान्तरम्)

तदैक्षत बहु स्याम् इत्युपक्रमविरोधश्च। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं च न घटते। ज्ञानस्वरूपस्य निरस्तनिखिलदोषस्य सर्वज्ञस्य समस्तकल्याणगुणात्मकस्याज्ञानं तत्कार्यानन्त-अपुरुषार्थाश्रयत्वं च भवति॥

(सामानाधिकरण्यस्य बाधार्थतानिरासः)

बाधार्थत्वे च सामानाधिकरण्यस्य त्वंतत्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषा:॥

इयांस्तु विशेष: – नेदं रजतिमितिवदप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम्; तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च। अधिष्ठानं तु प्राक्तिरोहितमतिरोहित-स्वरूपं तत्पदेनोपस्थाप्यत इति चेन्न,  प्रागधिष्ठानाप्रकाशे तदाश्रयभ्रमबाधयोरसंभवात्। भ्रमाश्रयमधिष्ठानमतिरोहितमिति चेत्;  तदेवाधिष्ठानस्वरूपं भ्रमविरोधीति तत्प्रकाशे सुतरां न तदाश्रयभ्रमबाधौ। अतोऽधिष्ठानातिरेकि-पारमार्थिकधर्मतत्तिरोधानानभ्युपगमे भ्रान्तिबाधौ दुरुपपादौ। अधिष्ठाने हि पुरुषमात्राकारे प्रतीयमाने तदतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्येव व्याधत्वभ्रम:। राजत्वोपदेशेन च तन्निवृत्तिर्भवति; नाधिष्ठानमात्रोपदेशेन; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात्; भ्रमानुपमर्दित्वाच्च॥

(स्वपक्षे उक्तदोषाणामभावः)

जीवशरीरकजगत्कारणब्रह्मपरत्वे मुख्यवृत्तं पदद्वयम्। प्रकारद्वयविशष्टैकवस्तुप्रतिपादनेन सामानाधिकरण्यं च सिद्धम्। निरस्तनिखलदोषस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणो जीवान्तर्यामित्वमप्यैश्वर्यमपरं प्रतिपादितं भवति। उपक्रमानुकूलता च। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च; सूक्ष्मचिदचिद्वस्तुशरीरस्यैव ब्रह्मणस्स्थूलचिदचिद्वस्तुशरीरत्वेन कार्यत्वात् तमीश्वराणां परमं महेश्वरम् (श्वे.६.७) पराऽस्य शक्तिर्विविधैव श्रूयते (श्वे.६.८) अपहतपाप्मा …. सत्यकामस्सत्यसङ्कल्प: (छां.८.१.६) इत्यादिश्रुत्यन्तराविरोधश्च॥

(तत्त्वमसि इत्यत्र उद्देश्योपादेयविभागचिन्तयाऽपि न निर्विशेषवस्त्वैक्यसिद्धिः)

तत्त्वमसि इत्यत्रोद्देश्योपादेयविभाग: कथमिति चेत्; नात्र किञ्चिदुद्दिश्य किमपि विधीयते; ऐतदात्म्यमिदं सर्वम् (छा.६.८.७) इत्यनेनैव प्राप्तत्वात्। अप्राप्ते हि शास्त्रमर्थवत्। इदं सर्वमिति सजीवं जगन्निर्दिश्य ऐतदात्म्यमिति तस्यैष आत्मेति तत्र प्रतिपादितम्। तत्र च हेतुरुक्त: – सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: (छा.६.८.३) इति; सर्वं खल्विदं ब्रह्म तज्जलानितिशान्त: (छां.३.१४.१.) इतिवत्॥

(ब्रह्म-तदितरयोः तादात्म्यस्य शरीरात्मभावकृतत्वे श्रुतयः)

तथा श्रुत्यन्तराणि च ब्रह्मणस्तद्व्यतिरिक्तस्य  चिदचिद्वस्तुनश्च शरीरात्मभावमेव तादात्म्यं वदन्ति – अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.३.११.२०), य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.३), य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२), य: पृथिवीमन्तरे संचरन् इत्यारभ्य यस्य मृत्युश्शरीरम् यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.७), तत्सृष्ट्वा। तदेवानुप्राविशत्। तदनुप्रविश्य। सच्चत्यच्चाभवत् (तै.आन.६.२) इत्यादीनि। अत्रापि – अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां.६.३.२) इति ब्रह्मात्मकजीवानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्दवाच्यत्वं च प्रतिपादितम्। तदनुप्रविश्य। सच्च त्यच्चाभवत् (तै.आन.६.२) इत्यनेनैकार्थ्याज्जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशादेवेत्यवगम्यते।

(ऐतदात्म्यशब्दार्थव्याख्यानिगमनम्)

अतश्चिदचिदात्मकस्य सर्वस्य वस्तुजातस्य ब्रह्मतादात्म्यमात्मशरीरभावादेव इत्यवगम्यते। तस्मात् ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीत्वेनैव वस्तुत्वात्तस्य प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभिदधाति।  अतस्सर्वशब्दानां लोकव्युत्पत्त्यवगततत्तत्पदार्थविशिष्ट-ब्रह्माभिधायित्वं सिद्धमिति ऐतदात्म्यमिदं सर्वम् इति प्रतिज्ञातार्थस्य तत्त्वमसि इति सामानाधिकरण्येन विशेषे उपसंहार:॥

अतो निर्विशेषवस्त्वैक्यवादिन:, भेदाभेदवादिन:, केवलभेदवादिनश्च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्मभावोपदेशास्सर्वे परित्यक्तास्स्यु:। एकस्मिन्वस्तुनि कस्य तादात्म्यमुपदिश्यते? तस्यैवेति चेत्; तत्स्ववाक्येनैवावगतमिति न तादात्म्योपदेशावसेयमस्ति किञ्चित्। कल्पितभेदनिरसनमिति चेत्; तत्तु न सामानाधिकरण्यतादात्म्योपदेशावसेयमित्युक्तम्। सामानाधिकरण्यं तु ब्रह्मणि प्रकारद्वयप्रतिपादनेन विरोधमेवाऽवहेत्। भेदाभेदवादे तु ब्रह्मण्येवोपाधिसंसर्गात्तत्प्रयुक्ता जीवगता दोषा ब्रह्मण्येव प्रादु:ष्युरिति निरस्तनिखिलदोषकल्याणगुणात्मकब्रह्मात्मभावोपदेशा हि विरोधादेव परित्यक्तास्स्यु:। स्वाभाविकभेदाभेदवादेऽपि ब्रह्मणस्स्वत एव जीवभावाभ्युपगमात् गुणवद्दोषाश्च स्वाभाविका भवेयुरिति निर्दोषब्रह्मतादात्म्योपदेशो विरुद्ध एव। केवलभेदवादिनां चात्यन्तभिन्नयो: केनापि प्रकारेणैक्यासंभवादेव ब्रह्मात्मभावोपदेशा न संभवन्तीति सर्ववेदान्तपरित्यागस्स्यात्॥

(पूर्वपक्षापेक्षया स्वपक्षे वैलक्षण्यम्)

निखिलोपिनषत्प्रसिद्धं कृत्स्नस्य ब्रह्मशरीरभावमातिष्ठमानै: कृत्स्नस्य ब्रह्मात्मभावोपदेशास्सर्वे सम्यगुपपादिता  भवन्ति। जातिगुणयोरिव द्रव्याणामपि शरीरभावेन विशेषणत्वेन गौरश्वो मनुष्यो देवो जात: पुरुष: कर्मभि: इति सामानाधिकरण्यं लोकवेदयोर्मुख्यमेव दृष्टचरम्।

जातिगुणयोरपि द्रव्यप्रकारत्वमेव खण्डो गौ:, शुक्ल: पट: इति सामानाधिकरण्यनिबन्धनम्। मनुष्यत्वादिविशिष्ट-पिण्डानामप्यात्मन: प्रकारतयैव पदार्थत्वात् मनुष्य: पुरुषष्षण्डो योषिदात्मा जात: इति सामानाधिकरण्यं सर्वत्रानुगतमिति प्रकारत्वमेव सामानाधिकरण्यनिबन्धनम्, न परस्परव्यावृत्ता जात्यादय: ॥

स्वनिष्ठानामेव हि द्रव्याणां कदाचित् क्वचिद्द्रव्यविशेषणत्वे मत्वर्थीयप्रत्ययो दृष्ट:, दण्डी कुण्डली इति; न पृथक् प्रतिपत्तिस्थित्यनर्हाणां द्रव्याणाम्; तेषां विशेषणत्वं सामानाधिकरण्यावसेयमेव॥

(शरीरशरीरिभावस्थले सामानाधिकरण्यस्य लाक्षणिकत्वशङ्कापरिहारौ)

यदि गौरश्वो मनुष्यो देव: पुरुषो योषित् षण्ड आत्मा कर्मभिर्जात: इत्यत्र खण्डो मुण्डो गौ:, शुक्ल: पट:, कृष्ण: पट: इति जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरीराणामिष्यते; तर्हि जातिव्यक्त्योरिव प्रकारप्रकारिणोश्शरीरात्मनोरपि नियमेन सह प्रतिपत्तिस्स्यात्; न चैवं दृश्यते। न हि नियमेन गोत्वादिवदात्माश्रयतयैवाऽत्मना सह मनुष्यादिशरीरं पश्यन्ति। अतो मनुष्य आत्मा इति सामानाधिकरण्यं लाक्षणिकमेव। नैतदेवम्; मनुष्यादिशरीराणामप्यात्मैकाश्रयत्वम्, तदेकप्रयोजनत्वम्, तत्प्रकारत्वं च जात्यादितुल्यम्। आत्मैकाश्रयत्वमात्मविश्लेषे शरीरविनाशादवगम्यते। आत्मैकप्रयोजनत्वं च तत्कर्मफलभोगार्थतयैव सद्भावात्। तत्प्रकारत्वमपि देवो मनुष्य इत्यात्मविशेषणतयैव प्रतीते:। एतदेव हि गवादिशब्दानां व्यक्तिपर्यन्तत्वे हेतु:। एतत्स्वभावविरहादेव दण्डकुण्डलादीनां विशेषणत्वे दण्डी, कुण्डली इति मत्वर्थीयप्रत्यय:। देवमनुष्यादिपिण्डानामात्मैकाश्रयत्वतदेकप्रयोजनत्वतत्प्रकारत्वस्वभावात् देवो मनुष्य आत्मा इति लोकवेदयोस्सामानाधिकरण्येन व्यवहार:। जातिव्यक्त्योर्नियमेन सह प्रतीतिरुभयोश्चाक्षुषत्वात्। आत्मनस्त्वचाक्षुषत्वाच्चक्षुषा शरीरग्रहणवेलायामात्मा न गृह्यते। पृथग्ग्रहणयोग्यस्य प्रकारतैकस्वरूपत्वं दुर्घटिमिति मा वोच:; जात्यादिवत्तदेकाश्रयत्वतदेकप्रयोजनत्व-तद्विशेषणत्वैश्शरीरस्यापि तत्प्रकारतैकस्वभावत्वावगमात्। सहोपलम्भनियमस्त्वेकसामग्री-वेद्यत्वनिबन्धन इत्युक्तम्। यथा चक्षुषा पृथिव्यादे: गन्धरसादिसम्बन्धित्वं स्वाभाविकमपि न गृह्यते एवं चक्षुषा गृह्यमाणं शरीरमात्मप्रकारतैकस्वभावमपि न तथा गृह्यते; आत्मग्रहणे चक्षुषस्सामर्थ्याभावात् नैतावता शरीरस्य तत्प्रकारत्वस्वभावविरह:। तत्प्रकारतैकस्वभावत्वमेव सामानाधिकरण्यनिबन्धनम्। आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दस्सहैव प्रकारतया प्रतिपादयति ॥

(शब्दस्य शरीरिपर्यन्तानभिधायित्वशङ्का-परिहारौ)

ननु च शाब्देऽपि व्यवहारे शरीरशब्देन शरीरमात्रं गृह्यत इति नात्मपर्यन्तता शरीरशब्दस्य। नैवम्; आत्मप्रकारभूतस्यैव शरीरस्य पदार्थविवेकप्रदर्शनाय निरूपणान्निष्कर्षकशब्दोऽयम्; यथा गोत्वं शुक्लत्वमाकृतिर्गुण: इत्यादिशब्दा:॥

अतो गवादिशब्दवद्देवमनुष्यादिशब्दा आत्मपर्यन्ता: ॥

(चिदचिद्वाचिनां शब्दानां परमात्मपर्यन्ताभिधायिता)

एवं देवमनुष्यादिपिण्डविशिष्टानां जीवानां परमात्मशरीरतया तत्प्रकारत्वात् जीवात्मवाचिनश्शब्दा: परमात्मपर्यन्ता:। अत: परस्य ब्रह्मण: प्रकारतयैव चिदचद्वस्तुन: पदार्थत्वमिति तत्सामानाधिकरण्येन प्रयोग:। अयमर्थो वेदार्थसंग्रहे समर्थित:।

(मतान्तरेषु सामानाधिकरण्यानुपपत्तिः)

इदमेव शरीरात्मभावलक्षणं तादात्म्यम् आत्मेति तूपगच्छन्ति ग्राहयन्ति च (शारी.४.१.३) इति वक्ष्यति, आत्मेत्येव तु गृह्णीयात् इति च वाक्यकार:॥

(उक्तानामर्थानां संक्षेपेण प्रतिपादनम्)

अत्रदं तत्त्वम् – अचिद्वस्तुन: चिद्वस्तुन: परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकमाहु: काश्चन श्रुतय: – अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्ध: (श्वे.४.९), मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्  (श्वे.४.१०), क्षरं प्रधानममृताक्षरं हर: क्षरात्मानावीशते देव एक:; (श्वे.१.१०), अमृताक्षरं हर इति भोक्ता निर्दिश्यते, प्रधानमात्मनो भोग्यत्वेन हरतीति हर:। स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप: (श्वे.६.९), प्रधानक्षेत्रज्ञपतिर्गुणेश: (श्वे.६.१६), पतिं विश्वस्याऽत्मेश्वरं शाश्वतं शिवमच्युतम् (तै.नारायणे.११-अनु.३), ज्ञाज्ञौ द्वावजावीशानीशौ (श्वे.१.९), नित्यो नित्यानां चेतनश्चेतनानामेको बृहूनां यो विदधाति कामान् (कठ.५.१३), भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.१.१२), तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन् अन्यो अभिचाकशीति (मु.३.१.१), पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.१.६), अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: (तै.६.१०.५), समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान:। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक: (श्वे.४.७) इत्याद्या:॥

स्मृतावपि अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्॥ (भ.गी.७.४,५), सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन:। भूतग्राममिमं कृत्स्नामवशं प्रकृतेर्वशात्॥ (भ.गी.९.७,८), मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते॥ (भ.गी.९.१०), प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। (भ.गी.१३.१९), मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्। सम्भवस्सर्वभूतानां ततो भवति भारत॥ (भ.गी.१४.३) इति॥  जगद्योनिभूतं महत् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत्; तस्मिंश्चेतनाख्यं गर्भं यत्संयोजयामि, ततो मत्कृताच्चिदचित्संसर्गात् देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां सम्भवो भवतीत्यर्थ:॥

एवं भोक्तृभोग्यरूपेणावस्थितयोस्सर्वावस्थावस्थितयोश्चिदचितो: परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वमाहु: काश्चन श्रुतय: – य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयति (बृ.५.७.३) इत्यारभ्य य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२)  इति। तथा – य: पृथिवीमन्तरे सञ्चरन्यस्य पृतिवी शरीरं यं पृथिवी न वेद (सुबाल.७) इत्यारभ्य योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७)। अत्र मृत्युशब्देन  तमश्शब्दवाच्यं सूक्ष्मावस्थमचिद्वस्त्वभिधीयते; अस्यामेवोपनिषदि – अव्यक्तमक्षरे  लीयते। (सुबाल.२) इति वचनात्। अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.३.११.२१.) इति च॥

(भेदश्रुति-घटकश्रुत्योः अविरोधेन ऐक्यश्रुतीनामर्थवर्णनम्)

एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकार: परमपुरुष एव कार्यावस्थकारणावस्थ-जगद्रूपेणावस्थित इतीममर्थं ज्ञापयितुं काश्चन श्रुतय: कार्यावस्थं कारणावस्थं च जगत् स एवेत्याहु: – सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोसृजत (छा.६.२.१) इत्यारभ्य सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा:। ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो (छा.६.८.६) इति। तथा सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा। इदं सर्वमसृजत इत्यारभ्य सत्यं चानृतं च सत्यमभवत् (तै.आन.६.२-३) इत्याद्या:॥

अत्रापि श्रुत्यन्तरसिद्धश्चिदचितो: परमपुरुषस्य च स्वरूपविवेकस्स्मारित: – हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति, तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्चत्यच्चाभवत् … विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत् इति च। अनेन जीवेनाऽत्मनाऽनुप्रविश्य इति जीवस्य ब्रह्मात्मकत्वं, तदनुप्रविश्य सच्चत्यच्चाभवत्, विज्ञानं चाविज्ञानं च इत्यनेनैकार्थ्यात् आत्मशरीरभावनिबन्धनमिति विज्ञायते। एवं भूतमेव नामरूपव्याकरणं तद्धेदं तर्ह्यव्याकृतमासीत्। तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७) इत्यत्राप्युक्तम्।

(स्वमते एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः)

अत: कार्यावस्थ: कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीर: परमपुरुष एवेति, कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं समीहितमुपपन्नतरम्। अहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.उ.6-3-2) इति, तिस्रो देवता: इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाश्शब्दा: अचिद्विशिष्टजीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनश्शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम्। अत: स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत्।

(ब्रह्मणः उपादानत्वे स्वभावासाङ्कर्योपपादनम्)

सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्मैव कारणमिति। ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन  चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतर:। यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वेऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायामपि न सर्वत्र वर्णसङ्कर:; तथा  चिदचिदीश्वरसंघातोपादानत्वेऽपि जगत: कार्यावस्थायामपि भोक्तृत्वभोग्यत्व- नियन्तृत्वाद्यसङ्कर:। तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च। इह तु  चिदचितोस्सर्वावस्थयो: परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात्तत्प्रकार: परमपुरुष: सर्वदा सर्वशब्दवाच्य इति विशेष:। स्वभावभेदस्तदसङ्करश्च तत्र चात्र च तुल्य:।

(ब्रह्मणः अविकृतत्व-कार्यत्व-निर्गुणत्वानां श्रुत्युक्तानां उपपत्तिः)

एवं च सति परस्य ब्रह्मण: कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वमुपपन्नतरम्। स्थूलावस्थस्य नामरूपविभागविभक्तस्य  चिदचिद्वस्तुन आत्मतयाऽवस्थानात्कार्यत्वमपि उपपन्नतरम्। अवस्थान्तरापत्तिरेव हि कार्यता॥

निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणासम्बन्धादुपपद्यन्ते। अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: (छा.८.१.५) इति हेयगुणान् प्रतिषिध्य सत्यकामस्सङ्कल्प: इति कल्याणगुणान्विदधती इयं श्रुतिरेवान्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति॥

ज्ञानस्वरूपं ब्रह्मेतिवादश्च सर्वज्ञस्य सर्वशक्तेर्निखलहेयप्रत्यनीककल्याणगुणाकरस्य ब्रह्मणस्स्वरूपं ज्ञानैकनिरूपणीयं स्वयंप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतर:। यस्सर्वज्ञस्सर्ववित् (मुं.१.१.९), पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८), विज्ञातारमरे केन विजानीयात् (बृ.६.५.१५), सत्यं ज्ञानम् (तै.आन.१.१) इत्यादिका: ज्ञातृत्वमावेदयन्ति सत्यं ज्ञानमित्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम्॥

(भेदनिषेधश्रुतीनामर्थवर्णनम्)

सोऽकामयत बहु स्याम् (तै.आ.६.२), तदैक्षत बहु स्याम् (छां.६.२.३), तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७) इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्रसरूपतया नानाप्रकारमवस्थितमिति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्वमिति तत्प्रतिषिध्यते, मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति (कठ.४.११), नेह नानाऽस्ति किञ्चन (कठ.४.१०,११), यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात् (बृ.४.४.१४) इत्यादिना। न पुन: बहु स्यां प्रजायेय इत्यादि श्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते। यत्र त्वस्य सर्वमात्मैवाभूत् इत्यादि निषेधवाक्यादौ च तत्स्थापितम् – सर्वं तं परादाद्योऽन्यत्राऽत्मनस्सर्वं वेद (बृ.४.४.६) तस्य ह वा एतस्य महतो भूतस्य निश्विसतमेतद्यदृग्वेदो यजुर्वेद: (सुबा.२,बृ.४.४-१०,६-५-११) इत्यादिना॥

(पूर्वोक्तव्याख्याविधाने श्रुत्यादि सर्वसामञ्जस्यम्)

एवं  चिदचिदीश्वराणां स्वभावभेदं स्वरूपभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं च वदन्तीनां सर्वासां श्रुतीनामविरोध:,  चिदचितो: परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयो: कारणदशायां नामरूपविभागानर्हासूक्ष्मदशापत्तिं कार्यदशायां च तदर्हास्थूलदशापत्तिं वदन्तीभिश्श्रुतिभरेव ज्ञायत इति ब्रह्माज्ञानवादस्यौपाधिकब्रह्मभेद-वादस्यान्यस्याप्यपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथञ्चिदप्यवकाशो दृश्यते।  चिदचिदीश्वराणां पृथक्स्वभावतया तत्तच्छ्रुतिसिद्धानां शरीरात्मभावेन प्रकारप्रकारितया श्रुतिभिरेव प्रतिपन्नानां श्रुत्यन्तरेण कार्यकारणभावप्रतिपादनं कार्यकारणयोरैक्यप्रतिपादनं च ह्यविरुद्धम्। यथाग्नेयादीन् षड्यागानुत्पत्तिवाक्यै: पृथगुत्पन्नान् समुदायानुवादिवाक्यद्वयेन समुदायद्वयत्वमापन्नान्  दर्शपूर्णमासाभ्याम् (कात्या.श्रौ.सू.४-२-४७) इत्यधिकारवाक्यं कामिन: कर्तव्यतया विदधाति; तथा  चिदचिदीश्वरान्विविक्तस्वरूपस्वभावान्; क्षरं प्रधानममृताक्षरं हर: क्षरात्मानावीशते देव एक: (श्वे.१.१०), पतिं विश्वस्याऽत्मेश्वरम् (तै.ना.११.३), आत्मा नारायण: पर: (तै.ना.११.४), इत्यादिवाक्यै: पृथक् प्रतिपाद्य यस्य पृथिवी शरीरम् यस्याऽत्मा शरीरम् (बृ.५.७.३), यस्याव्यक्तं शरीरम्। यस्याक्षरं शरीरम् (बृ.५.८), एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७.ख.) इत्यादिभिर्वाक्यैश्चिदचितोस्सर्वावस्थावस्थितयो: परमात्मशरीरतां परमात्मनस्तदात्मतां च प्रतिपाद्य शरीरभूतपरमात्माभिधायिभिस्सद्ब्रह्मात्मादिशब्दै: कारणावस्थ: कार्यावस्थश्च परमात्मैक एवेति पृथक्प्रतिपन्नं वस्तुत्रितयं सदेव सोम्येदमग्र आसीत् (छां.६.२.१), ऐतदात्म्यमिदं सर्वम् (छां.६.८.७), सर्वं खल्विदं ब्रह्म (छां.३.१४.१) इत्यादिवाक्यं प्रतिपादयति।  चिदचिद्वस्तुशरीरिण: परमात्मन: परमात्मशब्देनाभिधाने हि नास्ति विरोध: यथा मनुष्यपिण्डशरीरकस्याऽत्मविशेषस्य अयमात्मा सुखी इत्यात्मशब्देनाभिधाने इत्यलमतिविस्तरेण॥

(भावरूपाज्ञाने निवृत्त्यनुपपत्तिवर्णनम्)

यत्पुनरिदमुक्तम् – ब्रह्मात्मैकत्वविज्ञानेनैवाविद्यानिवृत्तिर्युक्ता इति, तदयुक्तम् , बन्धस्य पारमार्थिकत्वेन ज्ञाननिवर्त्यत्वाभावात् पुण्यापुण्यरूपकर्मनिमित्तदेवादिशरीरप्रवेशतत्प्रयुक्तसुखदु:ख-अनुभवरूपस्य बन्धस्य मिथ्यात्वं कथमिव शक्यते वक्तुम्।

(एतन्मते निवृत्त्युपपत्तिवर्णनम्)

एवंरूपबन्धनिवृत्तिर्भक्तिरूपापन्न उपासनप्रीतपरमपुरुषप्रसादलभ्येति पूर्वमेवोक्तम्। भवदभिमतस्यैक्यज्ञानस्य यथावस्थितवस्तु-विपरीतविषयस्य मिथ्यारूपत्वेन बन्धविवृद्धिरेव फलं भवति मिथ्यैतदन्यद्द्रव्यं हि  नैति तद्द्रव्यतां यत: (वि.पु.२.१४.२७) इति शास्त्रात्। उत्तम: पुरुषस्त्वन्य: (भ.गी.१५.१७), पृथगात्मानं प्रेरितारं च मत्वा (श्वे.१.६) इति जीवात्मविसजातीयस्य तदन्तर्यामिणो ब्रह्मणो ज्ञानं परमपुरुषार्थलक्षणमोक्षसाधनमित्युपदेशाच्च॥

अपि च भवदभिमतस्यापि निवर्तकज्ञानस्य मिथ्यारूपत्वात्तस्य निवर्तकान्तरं मृग्यम्। निवर्तकज्ञानमिदं स्वविरोधि सर्वं भेदज्ञानं निवर्त्य क्षणिकत्वात्स्वयमेव नश्यतीति चेन्न; तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेन विनाशतत्कल्पनाकल्पकरूपाविद्याया निवर्तकान्तरं अन्वेषणीयम्।  तद्विनाशो ब्रह्मस्वरूपमेवेति चेत्; तथा सति निवर्तकज्ञानोत्पत्तिरेव न स्यात्, तद्विनाशे तिष्ठति, तदुत्पत्त्यसम्भवात्॥

(निवर्तकज्ञानस्य ज्ञात्रनुपपत्तिः)

अपि च – चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता अध्यासरूप इति चेन्न;  तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्ते:। ब्रह्म स्वरूपमिति चेत्; ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम्; उताध्यस्तम्। अध्यस्तं चेत्, अयमध्यासस्तन्मूलाविद्यान्तरं च निवर्तकज्ञानाविषयतया तिष्ठत्येव। निवर्तकज्ञानान्तराभ्युपगमे तस्यापि त्रिरूपत्वात् ज्ञात्रपेक्षयाऽनवस्था स्यात्। ब्रह्मस्वरूपस्यैव ज्ञातृत्वेऽस्मदीय एव पक्ष: परिगृहीतस्स्यात्। निवर्तकज्ञानस्वरूपं स्वस्य ज्ञाता च ब्रह्मव्यतिरिक्तत्वेन स्वनिवर्त्यान्तर्गतमिति वचनं भूतलव्यतिरिक्तं कृत्स्नं देवदत्तेन च्छिन्नम् इत्यस्यामेव च्छेदनक्रियायामस्य च्छेत्तु: अस्याश्छेदनक्रियायाश्च च्छेद्यानुप्रवेशवचनवदुपहास्यम्। अध्यस्तो ज्ञाता स्वनाशहेतुभूतनिवर्तकज्ञाने स्वयं कर्ता च न भवति, स्वनाशस्यापुरुषार्थत्वात्। तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगमे भेददर्शनतन्मूलाविद्यादीनां कल्पनमेव न स्यात्। इत्यलमनेन दिष्टहतमुद्गराभिघातेन॥

(कर्मविचारपूर्ववृत्ततायुक्ततमत्वम्)

तस्मादनादिकर्मप्रवाहरूपाज्ञानमूलत्वाद्बन्धस्य तन्निबर्हाणं उक्तलक्षणज्ञानादेव। तदुत्पत्तिश्च अहरह: अनुष्ठीयमानपरमपुरुषाराधनवेषात्मयाथात्म्यबुद्धिविशेषसंस्कृतवर्णाश्रमोचितकर्मलभ्या। तत्र केवलकर्मणामल्पास्थिरफलत्वम्, अनभिसंहितफलपरमपुरुषाराधनवेषाणां कर्मणां उपासनात्मक-ज्ञानोत्पत्तिद्वारेण ब्रह्मयाथात्म्यानुभवरूपानन्तस्थिरफलत्वं च कर्मस्वरूपज्ञानादृते न ज्ञायते। केवलाकारपरित्यागपूर्वक-यथोक्तस्वरूपकर्मोपादानं च न सम्भवतीति कर्मविचारानन्तरं तत एव हेतो: ब्रह्मविचार: कर्तव्य इति अथात इत्युक्तम्।

(इति महासिद्धान्तः)

(अथ सूत्रकाराभिमतसूत्रार्थयोजनारम्भः)

(वेदान्तानां ब्रह्मणि अप्रमाणत्वाशङ्का)

तत्र पूर्वपक्षवादी मन्यते वृद्धव्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासम्भवात्, व्यवहारस्य च कार्यबुद्धिपरत्वेन कार्यार्थ एव शब्दस्य प्रामाण्यमिति कार्यरूप एव वेदार्थ:। अतो न वेदान्ता: परिनिष्पन्ने परे ब्रह्मणि प्रमाणभावमनुभवितुमर्हान्ति।

(सिद्धेऽर्थे शब्दस्य व्युत्पत्तिरित्यंशे भाट्टोक्तोदाहरणनिरासः)

न च पुत्रजन्मादिसिद्धवस्तुविषयवाक्येषु हर्षहेतूनां कालत्रयवर्तिनामर्थानामानन्त्यात् सुलग्नसुखप्रसवादिहर्षहेत्वर्थान्तरोपनिपातसम्भावनया च प्रियार्थप्रतिपत्तिनिमित्तमुखविकासादि-लिङ्गेनार्थविशेषबुद्धिहेतुत्वनिश्चय:,

(सिद्धेऽर्थे शब्दस्य व्युत्पत्तिरित्यंशे नैयायिकोक्तोदाहरणव्युदासः)

नापि व्युत्पन्नेतरपदविभक्त्यर्थस्य पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वा शब्दस्य सिद्धवस्तुन्यभिधानशक्तिनिश्चय:; ज्ञातकार्याभिधायिपद-समुदायस्य तदंशविशेषनिश्चयरूपत्वात् तस्य ॥

(सिद्धार्थव्युत्पत्तिविषये अद्वैत्युक्तोदारहणनिरासः)

न च सर्पाद्भीतस्य नायं सर्पो रज्जुरेषा इति शब्दश्रवणसमनन्तरं भयनिवृत्तिदर्शनेन सर्पाभावबुद्धिहेतुत्वनिश्चय:; अत्रापि निश्चेष्टं निर्विशेषमचेतनमिदं वस्त्वित्याद्यर्थबोधेषु बहुषु भयनिवृत्तिहेतुषु सत्सु विशेषनिश्चयायोगात्।

(पदानां अन्यान्वितस्वार्थमात्रबोधकत्वमित्येतानन्निरासः)

कार्यबुद्धिप्रवृत्तिव्याप्तिबलेन शब्दस्य प्रवर्तकार्थावबोधित्वमुपगतमिति, सर्वपदानां कार्यपरत्वेन, सर्वै: पदै: कार्यस्यैव विशिष्टस्य प्रतिपादनान्नान्यान्वितस्वार्थमात्रे पदशक्तिनिश्चय: ॥

(इष्टसाधनत्वं प्रवर्तकोऽर्थः इति मतनिरासः)

इष्टसाधनताबुद्धिस्तु कार्यबुद्धिद्वारेण प्रवृत्तिहेतु:; न स्वरूपेण, अतीतानागतवर्तमान- इष्टोपायबुद्धिषु प्रवृत्त्यनुपलब्धे:। इष्टोपायो हि मत्प्रयत्नादृते न सिद्ध्यति; अतो मत्कृतिसाध्य इति बुद्धिर्यावन्न जायते; तावन्न प्रवर्तते ॥

(कार्यार्थस्यैव शब्दवाच्यतापूर्वपक्षनियमनम्)

अत: कार्यबुद्धिरेव प्रवृत्तिहेतुरिति प्रवर्तकस्यैव शब्दवाच्यतया कार्यस्यैव वेदवेद्यत्वात् परिनिष्पन्नरूपब्रह्मप्राप्ति-लक्षणानन्तस्थिरफलाप्रतिपत्ते: अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति (आ.श्रौ.सू.२.१.१) इत्यादिभि: कर्मणामेव स्थिरफलत्वप्रतिपादनाच्च कर्मफलाल्पास्थिरत्व-ब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुको ब्रह्मविचारारम्भो न युक्त: – इति॥

(सिद्धान्तप्रतिपादनारम्भॉः

(तत्र कार्ये एव शब्दव्युत्पत्तिरित्यत्र प्रामाणिकासम्मतिः)

अत्राभिधीयते – निखिललोकविदितशब्दार्थसम्बन्धावधारणप्रकारमपनुद्य सर्व शब्दानां अलौकिकैकार्थावबोधित्वावधारणं प्रामाणिका न बहुमन्वते ॥

(बुद्धिपूर्वकव्युत्पत्त्या सिद्धेऽपि शब्दशक्तिग्रहः)

एवं किल बालाश्शब्दार्थसंबन्धं अवधारयन्ति – मातापितृप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसर्पादींश्च एनमवेहि, इमं चावधारय इत्यभिप्रायेण अङ्गुल्यानिर्दिश्य निर्दिश्य तैस्तैश्शब्दैस्तेषुतेष्वर्थेषु बहुशश्शिक्षिताश्शनैश्शनैस्तैस्तैरेव शब्दैस्तेषुतेष्वर्थेषु स्वात्मनां बुद्ध्युत्पत्तिं दृष्ट्वा शब्दार्थयोस्संबन्धान्तरादर्शनात् संकेतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन इति निश्चिन्वन्ति ॥

पुनश्च व्युत्पन्नेतरशब्देषु अस्य शब्दस्यायमर्थ: इति पूर्ववृद्धैश्शिक्षितास्सर्वशब्दानां अर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयुञ्जते।

(यादृच्छिक्या व्युत्पत्त्याऽपि सिद्धेऽपि शब्दशक्तिग्रहः)

प्रकारान्तरेणापि शब्दार्थसंबन्धावधारणं सुशकम् – केनचित्पुरुषेण हस्तचेष्टादिना पिता ते सुखमास्ते इति देवदत्ताय ज्ञापय इति प्रेषित: कश्चित् तज्ज्ञापने प्रवृत्त: पिता ते सुखमास्ते इति शब्दं प्रयुङ्क्ते। पार्श्वस्थोऽन्यो व्युत्पित्सुर्मूकवच्चेष्टाविशेषज्ञस्तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वाऽनुगतस्तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा अयं शब्दस्तदर्थबुद्धिहेतु: इति निश्चिनोति इति कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धन:। अतो वेदान्ता: परिनिष्पन्नं परं ब्रह्म, तदुपासनं चापिरिमतफलं बोधयन्तीति तन्निर्णयफलो ब्रह्मविचार: कर्तव्य:॥

(वेदस्य कार्यार्थत्वेऽपि ब्रह्मविचारारम्भसमर्थनम्)

कार्यार्थत्वेऽपि वेदस्य ब्रह्मविचार: कर्तव्य एव। कथम्; आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासतिव्य: (बृ.४.४.५;६.५.६), सोऽन्वेष्टव्यस्सविजिज्ञासितव्य: (छा.८.७.१), विज्ञाय प्रज्ञां कुर्वीत (बृ.६.४.२१), दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासतिव्यम् (छां.८.१.१), तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्त स्तदुपासतिव्यम् (तै.ना.१०.२३) इत्यादिभि: प्रतिपन्नोपासनविषयकार्याधिकृतफलत्वेन ब्रह्मविदाप्नोति परम् (तै.आन.१.१) इत्यादिभिर्ब्रह्म प्राप्तिश्श्रूयत इति ब्रह्मस्वरूपतद्विशेषणानां दु:खासंभिन्नदेशविशेष-रूपस्वर्गादिवत्, रात्रिसत्रप्रतिष्ठादिवत्, अपगोरणशतयातनासाध्यसाधन-भावावच्च, कार्योपयोगितयैव सिद्धे:॥

अपूर्वखण्डनम्

(कार्यस्य दुर्निरूपतया कार्ये व्युत्पत्तिः न सिध्यति)

गामानय इत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्ति:; भवदभिमतकार्यस्य दुर्निरूपत्वात्। कृतिभावभावि कृत्युद्देश्यं हि भवत: कार्यम्। कृत्युद्देश्यत्वं च कृतिकर्मत्वम्। कृतिकर्मत्वञ्च कृत्या प्राप्तुमिष्टतमत्वम्। इष्टतमं च सुखं वर्तमानदु:खस्य तन्निवृत्तिर्वा। तत्रेष्टसुखादिना पुरुषेण स्वप्रयत्नादृते यदि तत्सिद्धि: प्रतीता, तत: प्रयत्नेच्छु: प्रवर्तते पुरुष इति न क्वचिदपीच्छाविषयस्य कृत्यधीनसिद्धित्वमन्तरेण कृत्युद्देश्यत्वं नाम किञ्चिदप्युपलभ्यते। इच्छाविषयस्य प्रेरकत्वं च प्रयत्नाधीनसिद्धित्वमेव, तत एव प्रवृत्ते:। न च पुरुषानुकूलत्वं कृत्युद्देश्यत्वम्, यतस्सुखमेव पुरुषानुकूलम्। न च दु:खनिवृत्ते: पुरुषानुकूलत्वम्; पुरुषानुकूलं सुखं तत्प्रतिकूलं दु:खम् इति हि सुखदु:खयोस्स्वरूपविवेक:। दु:खस्य प्रतिकूलतया तन्निवृत्तिरिष्टा भवति; नानुकूलतया। अनुकूलप्रतिकूलान्वयविरहे स्वरूपेणावस्थितिर्हि  दु:खनिवृत्ति:। अतस्सुखव्यतिरिक्तस्य क्रियादेरनुकूलत्वं न सम्भवति। न सुखार्थतया तस्याप्यनुकूलत्वम्, दु:खात्मकत्वात्तस्य। सुखार्थतयाऽपि तदुपादानेच्छामात्रमेव भवति। न च कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम्, भवत्पक्षे शेषित्वस्यानिरूपणात्॥

(शेषलक्षणम्)

न च परोद्देशप्रवृत्तकृतिव्याप्त्यर्हात्वं शेषत्वमिति तत्प्रतिसम्बन्धी शेषीत्यवगम्यते, तथा सति कृतेरशेषत्वेन तां प्रति तत्साध्यस्य शेषित्वाभावात्। न च परोद्देशप्रवृत्त्यर्हातायाश्शेषत्वेन परश्शेषी, उद्देश्यत्वस्यैव निरूप्यमाणत्वात्, प्रधानस्यापि भृत्योद्देशप्रवृत्त्यर्हात्वदर्शनाच्च। प्रधानस्तु भृत्यपोषणेऽपि स्वोद्देशेन प्रवर्तत इति चेन्न, भृत्योऽपि हि प्रधानपोषणे स्वोद्देशेनैव प्रवर्तते। कार्यस्वरूपस्यैवानिरूपणात् कार्यप्रतिसम्बन्धी शेष:, तत्प्रतिसम्बन्धी शेषी इत्यप्यसङ्गतम्॥

नापि कृतिप्रयोजनकत्वं कृत्युद्देश्यत्वम्; पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम्। स चेच्छाविषय:। तस्मादिष्टत्वातिरेकिकृत्युद्देश्यत्वानिरूपणात् कृतिसाध्यताकृतिप्रधानत्वरूपं कार्यं दुर्निरूपमेव॥

(अपूर्वे स्वतः इष्टत्व-कृतिसाध्यत्वरूपप्रयोजनत्वयोः निरासः)

नियोगस्यापि साक्षादिषिविषयभूतसुखदु:खनिवृत्तिभ्यामन्यत्वात्तत्साधनतयैवेष्टत्वं कृतिसाध्यत्वं च। अत एव हि तस्य क्रियातिरिक्तता; अन्यथा क्रियैव कार्यं स्यात्; स्वर्गकामपदसमभिव्याहारानुगुण्येन लिङादिवाच्यं कार्यं स्वर्गसाधनमेवेति क्षणभङ्गिकर्मातिरेकि स्थिरं स्वर्गसाधनमपूर्वमेव कार्यमिति स्वर्गसाधनतोल्लेखेनैव ह्यपूर्वव्युत्पत्ति:। अत: प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणायापूर्वमेव पश्चात्स्वर्गसाधनं भवतीत्युपहास्यम्, स्वर्गकामपदान्वितकार्याभिधायिपदेन प्रथममप्यनन्यार्थतानभिधानात्; सुखदु:खनिवृत्तितत्साधनेभ्योऽन्यस्य अनन्यार्थस्य कृतिसाध्यताप्रतीत्यनुपपत्तेश्च ॥

(नियोगाख्यस्यापूर्वस्य सुखत्वरूपप्रयोजनत्वनिरासः)

अपि च – किमिदं नियोगस्य प्रयोजनत्वम्? सुखवन्नियोगस्यापि अनुकूलत्वमेवेति चेत्, किं नियोगस्सुखम्? सुखमेव ह्यनुकूलम्। सुखविशेषवन्नियोगापरपर्यायं विलक्षणं सुखान्तरमिति चेत्; किं तत्र प्रमाणमिति वक्तव्यम्। स्वानुभवश्चेत्, न; विषयविशेषानुभवसुखवत् नियोगानुभवसुखमिदमिति भवताऽपि नानुभूयते। शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात्। पश्चात्तु भोक्ष्यत इति चेत्; किं तन्नियोगस्य पुरुषार्थत्ववाचि शास्त्रम्। न तावल्लौकिकं वाक्यम्; तस्य दु:खात्मकक्रियाविषयत्वात्, तेन सुखादिसाधनतयैव कृतिसाध्यतामात्रप्रतिपादनात्। नापि वैदिकम्; तेनापि स्वर्गादिसाधनतयैव कार्यस्य प्रतिपादनात्। नापि नित्यनैमित्तिकशास्त्रम्; तस्यापि तदभिधायित्वं स्वर्गकामवाक्यस्थापूर्वव्युत्पत्तिपूर्वकं इत्युक्तरीत्या तेनापि सुखादिसाधनकार्याभिधानं अवर्जनीयम्। नियतैहिकफलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीमनुभूयमानान्नाद्यरोगतादि-व्यतिरेकेण नियोगरूपसुखानुभवानुपलब्धेश्च नियोगस्सुखमित्यत्र न किञ्चन प्रमाणमुपलभामहे। अर्थवादादिष्वपि स्वर्गादिसुखप्रकारकीर्तनवत् नियोगरूपसुखप्रकारकीर्तनं भवतापि न दृष्टचरम्।

(लिङर्थनिष्कर्षः)

अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङ्गादेर्वाच्यमित्यध्यवसीयते। धात्वर्थस्य च यागादेरग्न्यादिदेवतान्तर्यामि परमपुरुषसमाराधनरूपता, समाराधितात्परमपुरुषात्फलसिद्धिश्चेति फलमत उपपत्ते: (ब्र.सू.३.२.३७) इत्यत्र प्रतिपादयिष्यते। अतो वेदान्ता: परिनिष्पन्नं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम्। चातुर्मास्यादिकर्मस्वपि केवलस्य कर्मण: क्षयिफलत्वोपदेशादक्षयफलश्रवणं वायुश्चान्तरिक्षं चैतदमृतम् (बृ.४.३.३) इत्यादिवदापेक्षिकं मन्तव्यम्।

अत: केवलानां कर्मणामल्पास्थिरफलत्वात्, ब्रह्मज्ञानस्य चानन्तस्थिरफलत्वात् तन्निर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम्॥

इति श्रीशारीरकमीमांसाभाष्ये जिज्ञासाधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.