श्रीभाष्यम् 01-01-08 आकाशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम्॥८॥

(अधिकरणार्थः – आकाशत्वेनोपास्यः परमात्मैव, न भौतिकाकाशः)

(आकाशविद्या – छा.उ. 1-9))

(पेटिकाभेदस्य तत्सङ्गतेश्च प्रतिपादनम्)

यतो वा इमानि भूतानि जान्यन्ते (तै.भृ.१.२) इति जगत्कारणं ब्रह्मेत्यवगम्यते। किं तज्जगत्कारणमित्यपेक्षायां सदेव सोम्येदमग्र आसीत् (छा.६.२.१) तत्तेजोऽसृजत (छा.६.२.३) आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) स इमाल्लोकानसृजत (ऐतरेय.१.१.२) तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.१) इति साधारणैश्शब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेष-आनन्दविशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञादिव्यतिरिक्तं ब्रह्मेत्युक्तम्। इदानीं आकाशादि-विशेषशब्दैः निर्दिश्य जगत्कारणत्वजगदैश्वर्यादिवादेऽप्याकाशादिशब्दाभिधेयतया प्रसिद्धचिदचित् वस्तुनः अर्थान्तरं-उक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यते – आकाशस्तल्लिङ्गात् इत्यादिना पादशेषेण-

२३. आकाशस्तिल्लङ्गात् ॥ १-१-२३॥

(विषयवाक्यप्रदर्शनम्)

इदमाम्नायते छान्दोग्ये – अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाश: परायणम् (छा.१.९.१) इति ॥

(अधिकरणाङ्गभूतसंशयप्रदर्शनम्)

तत्र सन्देह: – किं प्रसिद्धाकाश एवात्राकाशशब्देनाभिधीयते उतोक्तलक्षणमेव ब्रह्म – इति ॥

(पूर्वपक्षप्रदर्शनम्)

किं प्राप्तम्। प्रसिद्धाकाश इति कुत:? शब्दैकसमधिगम्ये वस्तुनि य एवार्थो व्युत्पत्तिसिद्धश्शब्देन प्रतीयते स एव ग्रहीतव्य:। अत: प्रसिद्धाकाश एव चराचरभूतस्य कृत्स्नस्य कारणम्। अतस्तस्मादनतिरिक्तं ब्रह्म।

(अर्थविरोधात् व्युत्पत्तिसिद्धार्थस्य त्याज्यत्वशङ्कापरिहारौ)

नन्वीक्षापूर्वकसृष्ट्यादिभिरचेतनाज्जीवाच्च व्यतिरिक्तं ब्रह्मेत्युक्तम्। सत्यमुक्तम्, अयुक्तं तु तत्। तथाहि यतो वा इमानि भूतानि जायन्ते तद्ब्रह्म (तै.भृ.१.अनु.) इत्युक्ते कुत इमानि भूतानि जायन्त इत्यादिविशेषापेक्षायां सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.१.९.१) इत्यादिना विशेषप्रतीते: – जगज्जन्मादिकारणमाकाश एवेति निश्चिते सति सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इत्यादिष्वपि सदादिशब्दास्साधारणाकारास्तमेव विशेषमाकाशमभिदधति। आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इत्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते। तस्यापि हि चेतनैकान्तत्वं न सम्भवति; यथा मृदात्मको घट: इति। आप्नोतीत्यात्मेति व्युत्पत्त्या सुतरामाकाशेऽप्यात्मशब्दो वर्तते ॥

(तदैक्षतेतीक्षणादीनां गौणतानिर्वाहः)

अत एवमाकाश एव कारणं ब्रह्मेति निश्चिते सतीक्षणादयस्तदनुगुणा गौणा वर्णनीया:। यदि हि साधारणशब्दैरेव सदादिभि: कारणमभ्यधायिष्यत, ईक्षणाद्यर्थानुरोधेन चेतनिविशेष एव कारणमिति निरचेष्यत। आकाशशब्देन तु विशेष एव निश्चित इति नार्थस्वाभाव्यान्निर्णेतव्यमस्ति।

(आकाशस्य कार्यताश्रुतेः परमकारणत्वानुपपत्तिशङ्कापरिहारौ)

ननु आत्मन आकाशसम्भूत: (तै.आन.१.२) इत्याकाशस्यापि कार्यत्वं प्रतीयते। सत्यम्, सर्वेषामेवाकाशवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति। तत्राकाशस्य सूक्ष्मावस्था कारणम् स्थूलावस्था तु कार्यम् । आत्मन आकाशस्सम्भूत: (तै.आन.१.२) इति स्वस्मादेव सूक्ष्मरूपात्स्वयं स्थूलरूपस्सम्भूत इत्यर्थ:। सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.१.९.१) इति सर्वस्य जगत आकाशादेव प्रभवाप्ययादिश्रवणात्तदेव हि कारणं ब्रह्मेति निश्चितम्। यत एवं प्रसिद्धाकाशादनतिरिक्तं ब्रह्म, अत एव च यदेष आकाश आनन्दो न स्यात् (तै.आन.७.) आकाशो ह वै नामरूपयोर्निर्वहिता (छा.८.१४.१) इत्येवमादिनिर्देशोऽप्युपपन्नतर:। अत: प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति॥

(सिद्धआन्तारम्भः)

एवं प्राप्ते ब्रूम: – आकाशस्तल्लिङ्गात् – आकाशशब्दाभिधेय: प्रसिद्धाकाशादचेतनात् अर्थान्तरभूतो यथोक्तलक्षण: परमात्मैव। कुत:? तल्लिङ्गात् निखिलजगदेककारणत्वम्, सर्वस्माज्ज्यायस्त्वम् परायणत्वम् इत्यादीनि परमात्मलिङ्गान्युपलभ्यन्ते। निखिलकारणत्वं  हि अचिद्वस्तुन: प्रसिद्धाकाशशब्दाभिधेयस्य नोपपद्यते, चेतनवस्तुनस्तत्कार्यत्वासम्भवात्। परायणत्वं च चेतनानां परमप्राप्यत्वम्। तच्चाचेतनस्य हेयस्य सकलपुरुषार्थविरोधिनो न सम्भवति। सर्वस्माज्ज्यायस्त्वं च निरुपाधिकं सर्वै: कल्याणगुणैस्सर्वेभ्यो निरतिशयोत्कर्ष:। तदप्यचितो नोपपद्यते॥

(पूर्वपक्षोक्तानुवादपूर्वकं तत्समाधानम्)

यदुक्तं जगत्कारणविशेषाकांक्षायामाकाशशब्देन विशेषसमर्पणादन्यत्सर्वं तदनुरूपमेव वर्णनीयमिति, तदयुक्तम्, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.१.९.१) इति प्रसिद्धवन्निर्देशात्। प्रसिद्धवन्निर्देशो हि प्रमाणान्तरप्राप्तिमपेक्षते। प्रमाणान्तराणि च सदेव सोम्येदमग्र आसीत् (छा.६.२.३) इत्येवमादीन्येव वाक्यानि। तानि च यथोदितप्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत्प्रतिपादितं ब्रह्माकाशशब्देन प्रसिद्धवन्निर्दिश्यते। सम्भवति च परस्य ब्रह्मण: प्रकाशकत्वादाकाशशब्दाभिधेयत्वम् – आकाशते, आकाशयति च  इति ॥

(पूर्वपक्षोक्तानुवादपूर्वकं तत्समाधानम्)

किञ्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांशं प्रत्यसम्भावितकारणभावं अचेतनविशेषमभिदधानेन तदैक्षत बहु स्यां प्रजायेय (छा.६.२.३) सोऽकामयत। बहुस्यां प्रजायेय (तै.आन.६) इत्यादि वाक्यशेषावधारितसार्वज्ञ्यसत्यसङ्कल्पत्वादिविशष्टापूर्वार्थप्रतिपादन-समर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधिरोहति। एवमपूर्वानन्तविशेषणविशिष्टापूर्वार्थप्रतिपादन-समर्थानेकवाक्यगतिसामान्यं चैकेनानुवादस्वरूपेणान्यथा कर्त्तुं न शक्यते।

(आत्मशब्दानैकान्त्यस्य अनूद्य समाधानम्)

यत्तु आत्मशब्दश्चेतनैकान्तो न भवति, मृदात्मको घट: इत्यादिदर्शनादित्युक्तम्; तत्रोच्यते – यद्यपि चेतनादन्यत्रापि क्वचिदात्मशब्द: प्रयुज्यते; तथापि शरीरप्रतिसम्बन्धिन्यात्मशब्दस्य प्रयोगप्राचुर्यात् आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) आत्मन आकाशसस्म्भूत: (तै.आन.१.२) इत्यादिषु शरीरप्रतिसम्बन्धिचेतन एव प्रतीयते। यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोगप्राचुर्यात्सास्नादिमानेव स्वत: प्रतीयते; अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा; तथा स्वत: प्राप्तं शरीरप्रतिसम्बन्धिचेतनाभिधानमेव स ईक्षत लोकान्नु सृजा इति (ऐ.१.१.१),  सोऽकामयत, बहु स्यां प्रजायेय (छा.१.९.१) इत्यादितत्तद्वाक्यविशेषा एव  स्थिरीकुर्वन्ति। एवं वाक्यशेषावधारित- अनन्यसाधारणानेकापूर्वार्थविशिष्टं निखिलजगदेककारणं सदेव सोम्य (छां.६.२.१) इत्यादिवाक्यसिद्धं ब्रह्मैवाकाशशहब्देन प्रसिद्धवत् सर्वाणि ह वा इमानि भूतानि (छां.१.९.१) इत्यादिवाक्येन निर्दिश्यत इति सिद्धम् ॥ २३॥

इति श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ॥ ८ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.