श्रीभाष्यम् 01-01-05 ईक्षत्यधिकरणम्

शारीकमीमांसाभाष्ये ईक्षत्यधिकरणम्॥५॥

(अधिकरणार्थः – सृष्ट्यनुगुणेक्षणकर्त अचेतनभूतप्रधानेतरत् परं ब्रह्म)

(सद्विद्याविचारः – छा.उ.6)

५. ईक्षतेर्नाशब्दम् ॥ १-१-५ ॥

(सङ्गतिप्रतिपादनम्)

यतो वा इमानि (तै.भृगु.१.१) इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्तहेयप्रत्यनीककल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्युक्तम्। इदानीं जगत्कारणवादिवाक्यानां आनुमानिकप्रधानादिप्रतिपादनानर्हातोच्यते – ईक्षतेर्नाशब्दम् – इत्यादिना।

(विषयप्रतिपादनम्)

इदमाम्नायते छान्दोग्ये – सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.१) इत्यादि  ॥

(संशयस्वरूपम्)

तत्र सन्देह: – किं सच्छब्दवाच्यं जगत्कारणं परोक्तमानुमानिकं प्रधानम्? उतोक्तलक्षणं ब्रह्म इति॥

(पूर्वपक्षस्वरूपम्)

किं प्राप्तम्? प्रधानमिति।

(पूर्वपक्षयुक्तिः)

कुत:? सदेव सोम्येदमग्र आसीदेकमेव (छां.६.२.१) इतीदंशब्दवाच्यस्य चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुन: कारणावस्थां वदति। कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता। अतो यद्द्रव्यं यत्स्वभावं च कार्यावस्थम्; तत्स्वभावं तदेव द्रव्यं कारणावस्थम्। सत्त्वादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम्। तदेवोपसंहृतसकलविशेषं सन्मात्रमिति सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) इत्यभिधीयते। तत एव च कार्यकारणयोरनन्यत्वम्। तथा सत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्ति:। अन्यथा यथा सोम्यैकेन मृत्पिण्डेन (छा.६.१.४) इत्यादि मृत्पिण्डतत्कार्यदृष्टान्तदार्ष्टान्तिकयोर्वैरूप्यं चेति जगत्कारणवादिवाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते। प्रतिज्ञादृष्टान्तरूपेणानुमानवेषमेव चेदं वाक्यमिति सच्छब्दवाच्यमानुमानिकमेव इति –

(सिद्धान्तारम्भः)

एवं प्राप्तेऽभिधीयते – ईक्षतेर्नाशब्दम् – इति। यस्मिन् शब्द एव प्रमाणं न भवति, तदशब्दम् आनुमानिकं प्रधानमित्यर्थ:। न तज्जगत्कारणवादिवाक्यप्रतिपाद्यम्; कुत:? इक्षते: – सच्छब्दवाच्यसम्बन्धिव्यापारविशेषाभिधायिन ईक्षतेर्धातोश्श्रवणात्। तदैक्षत बहु स्यां प्रजायेय (छा.६.२.३) इति ईक्षणक्रियायोगश्चाचेतने प्रधाने न सम्भवति। अत ईदृशेक्षणक्षमश्चेतनविशेष: सर्वज्ञस्सर्वशक्ति: पुरुषोत्तमस्सच्छब्दाभिधेय:। तथा च सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षापूर्विकैव सृष्टि: प्रतीयते – स ईक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत (एै.१.१,२)  स ईक्षाञ्चक्रे … स प्राणानसृजत (प्र.६.३,४) इत्यादिषु। ननु च कार्यानुगुणेनैव कारणेन भवितव्यम्। सत्यम्; सर्वकार्यानुगुण एव सर्वज्ञस्सर्वशक्तिस्सत्यसङ्कल्प: पुरुषोत्तमस्सूक्ष्मचिदचिद्वस्तुशरीरक:। यथाऽऽह – पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबृलक्रिया च (श्वे.६.अ.८), यस्सर्वज्ञस्सर्विवद्यस्य ज्ञानमयं तप: (मु.१.१.९) यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं ….. यस्य मृत्युश्शरीरम् … एष सर्वभूतान्तरात्मा (सुबा.७.१) इति। तदेतत् – न विलक्षणत्वात् (ब्र.सू.२.१.४) इत्यादिषु प्रतिपादयिष्यते। अत्र सृष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानीत्युच्यते। वस्तुविरोधस्तु तत्रैव परिहरिष्यते ॥

(सिद्धान्तारम्भः)

यत्तूक्तं प्रतिज्ञादृष्टान्तयोगादनुमानरूपमेवेदं वाक्यम् – इति, तदसत्, हेत्वनुपादानात्। येनाश्रुतं श्रुतम् (छां.६.१.६) इत्येकविज्ञानेन सर्वविज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसम्भवं मन्वानस्य तत्सम्भवमात्रप्रदर्शनाय हि दृष्टान्तोपादानम्। ईक्षत्यादिश्रवणादेव ह्यनुमानगन्धाभावः अवगत:॥५॥

(तदैक्षत इति ईक्षणस्य गौणत्वशङ्का-परिहारौ)

अथ स्यात् – न चेतनगतं मुख्यमीक्षणमिहोच्यते,  अपि तु प्रधानगतं गौणमीक्षणम्, तत्तेज ऐक्षत – ता आप ऐक्षन्त (छां.६.२.३,४) इति गौणेक्षणसाहचर्यात् भवति चाचेतनेष्वपि चेतनधर्मोपचार:। यथा – वृष्टिप्रतीक्षाश्शालय:, वर्षेण बीजं प्रतिसञ्जहर्ष (रामा.सुन्दर.२६.६) इति। अतो गौणमीक्षणमितीमामाशङ्कामनुभाष्य परिहरति –

६. गौणश्चेन्नात्मशब्दात् ॥ १-१-६ ॥

यदुक्तं गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशस्सर्गनियतपूर्वावस्थाभिप्रायो गौण इति। ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा (छां.६.८.७) इति सच्छब्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात्। एतदुक्तं भवति – ऐतदात्म्यमिदं सर्वम् … स आत्मा (छां.६.८.७.) इति चेतनाचेतनप्रपञ्चोद्देशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने सङ्गच्छते – इति। अतस्तेजोऽबन्नानामपि परमात्मैवात्मेति तेज: प्रभृतयोऽपि शब्दा: परमात्मन एव वाचका:। तथाहि – हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां.६.३.२) इति परमात्मानुप्रवेशादेव तेज:प्रभृतीनां वस्तुत्वं तत्तन्नामभाक्त्वञ्चेति तत्तेज ऐक्षत, ता आप ऐक्षन्त (छां.६.२.३,४) इत्यपि मुख्य एवेक्षणव्यपदेश:। अतस्साहचर्यादपि तदैक्षत इत्यत्र गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्राय:॥६॥

(कारणवस्त्वसाधारणेन मोक्षप्रदत्वेन सतः परमात्मत्वम्)

इतश्च न प्रधानं सच्छब्दप्रतिपाद्यम् –

७. तन्निष्ठस्य मोक्षोपदेशात् ॥ १-१-७ ॥

(तन्निष्ठस्येति सूत्रस्य अर्थविवरणम्)

मुमुक्षोश्श्वेतकेतो: तत्त्वमसि (छां.६.८.७) इति सदात्मकत्वानुसन्धानमुपदिश्य, तन्निष्ठस्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छां.६.१४.२) इति शरीरपातमात्रान्तरायो ब्रह्मसम्पत्तिलक्षणो मोक्ष इत्युपदिशति। यदि च प्रधानमचेतनं कारणमुपदिश्येत, तदा तदात्मकत्वानुसन्धानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते। यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेत: प्रेत्य भवति (छां.१.१४.१) इति तन्निष्ठस्याचेतनसम्पत्तिरेव स्यात्। न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रमेवंविधतापत्रयाभिहति-हेतुभूतामचित्सम्पत्तिमुपदिशति। प्रधानकारणवादिनोऽपि हि प्रधाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति॥७॥

(अचेतनीभूतप्रधानज्ञानस्य हानार्थमुपदेश्यत्वाशङ्कापरिहारः)

इतश्च न प्रधानम् –

८. हेयत्वावचनाच्च ॥ १-१-८ ॥

(सूत्रार्थविवरणम्)

यदि प्रधानमेव कारणं सच्छब्दाभिहितं भवेत् – तदा मुमुक्षोश्श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वात् हेयत्वेनैव उपदेश्यं स्यात्। न च तत्क्रियते, प्रत्युतोपादेयत्वेनैव तत्वमसि (छां.६.८.७), तस्य तावदेव चिरम् (छां.६.१४.२) इत्युपदिश्यते॥ ८॥

(तच्छब्देन प्रधानप्रतिपादने एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधः)

इतश्च न प्रधानम् –

९. प्रतिज्ञाविरोधात् ॥ १-१-९ ॥

प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति। वाक्योपक्रमे ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम्। तच्च कार्यकारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात्तत्कार्यभूतचेतनाचेतनप्रपञ्चस्य ज्ञाततयैवोपपादनीयम् तत्तु प्रधानकारणत्त्वे चेतनवर्गस्य प्रधानकार्यत्वाभावात् प्रधानविज्ञानेन चेतनवर्गविज्ञानासिद्धे: विरुध्यते॥९॥

(लयाधिष्ठानस्य कारणत्वोपपत्तिः)

इतश्च न प्रधानम् –

१०. स्वाप्ययात् ॥ १-१-१० ॥

तदेव सच्छब्दवाच्यं प्रकृत्याह, स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषस्स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति (छां.६.८.१) इति सुषुप्तं जीवं सता सम्पन्नं, स्वमपीत: – स्वस्मिन्प्रलीन: इति व्यपदिशति। प्रलयश्च – स्वकारणे लय:। न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणं  भवितुमर्हाति।  स्वमपीतो भवति – आत्मानमेव जीवोऽपीतो भवतीत्यर्थ:। चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्योक्तम्। तज्जीवशब्दाभिधेयं ब्रह्म सुषुप्तिकालेऽपि प्रलयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति (छां.६.८.१) इत्युच्यते। तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽन्तरम् (बृ.६.३.२१) इत्युच्यते। आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदय:। सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्त: पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते यदा सुप्तस्स्वप्नं न कञ्चन पश्यति  अथास्मिन् प्राण एवैकधा भवति (कौषी.४.१९), तस्माद्वा आत्मन: प्राणा यथायथं विप्रतिष्ठन्ते (कौषी.उ.४.४०); तथा त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तथा  भवन्ति- इति च । तथा सुषुप्तं जीवं प्राज्ञेनात्मना सम्पिरष्वक्त: (बृ.६.३.२) इति च वदति॥

तस्मात् सच्छब्दवाच्य: परं ब्रह्म सर्वज्ञ: परमेश्वर: पुरुषोत्तम एव। तदाह वृत्तिकार: – सता सोम्य तदा सम्पन्नो भवति इति, सम्पत्यसम्पत्तिभ्यामेतदध्यवसीयते – प्राज्ञेनाऽत्मना सम्परिष्वक्त: (बो.वृ) इति चाह इति॥१०॥

(कारणं परमात्मैवेति श्रुत्यन्तरैरुपपादनम्)

इतश्च न प्रधानम् –

११. गतिसामान्यात् ॥ १-१-११ ॥

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्। स ईक्षत लोकान्नु सृजा इति। स इमांल्लोकानसृजत  (ऐत.१.१) तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत:। आकाशाद्वायु:। वायोरग्नि:। अग्नेराप:। अद्भ्य: पृथिवी (तै.आनं.१) तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेद: (सुबा.२) इत्यादि सृष्टिवाक्यानां या गति: – प्रवृत्ति:; तत्सामान्यात् – तत्समानार्थत्वादस्य, तेषु च सर्वेषु सर्वेश्वर: कारणमवगम्यते। तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते॥११॥

(प्रकृतश्रुतावेव सर्वेश्वरकारणत्वोक्तिप्रदर्शनम्)

इतश्च न प्रधानम् –

१२. श्रुतत्वाच्च ॥ १-१-१२ ॥

श्रुतमेव ह्यस्यामुपनिषदि अस्य सच्छब्दवाच्यस्य आत्मत्वेन नामरूपयोर्व्याकर्तृत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वाधारत्वम्, अपहतपाप्मत्वादिकं, सत्यकामत्वं, सत्यसङ्कल्पत्वञ्च – अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां.६.३.२), सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: (छां.६.८.६), ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा (छां.६.८.६,७), यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम् (छां.८.१.३), तस्मिन् कामास्समाहिता: (छां.६.८.५), एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशाको विजघत्सोऽपिपासस्सत्यकाम: सत्यसङ्कल्प: (छां.८.१.५) इति॥

तथा च श्रुत्यन्तराणि – न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम्। स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप: (श्वे.६.९), सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते (तै.आ.३.१२.१३),  अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आ.३.११.२१), विश्वात्मानं परायणम् (तै.ना.१.११.अनु), पतिं विश्वस्याऽत्मेश्वरम् (तै.११), यच्च किञ्चिञ्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: (तै.उ.ना.११), एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.७) इत्यादीनि।

(प्रधानस्य सच्छब्दाप्रतिपाद्यत्वनिगमनम्)

तस्माज्जगत्कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम्। अतस्सर्वज्ञस्सर्वशक्तिः सर्वेश्वरेश्वरो निरस्तनिखिलदोषगन्ध: अनवधिकातिशयासङ्ख्येयकल्याणगुणगणौघमहार्णव: पुरुषोत्तमो नारायण एव निखिलजगदेककारणं जिज्ञास्यं ब्रह्मेति स्थितम्॥

(एतेषां सूत्राणां ब्रह्माज्ञानवाद्यननुगुणत्वम्)

अत एव निर्विशेषचिन्मात्रब्रह्मवादोऽपि सूत्रकारेण आभिश्श्रुतिभि: निरस्तो वेदितव्य:; पारमार्थिकमुख्येक्षणादिगुणयोगि जिज्ञास्यं ब्रह्मेति स्थापनात् ॥

 निर्विशेषवादे हि साक्षित्वमप्यपारमार्थिकम्। वेदान्तवेद्यं ब्रह्म जिज्ञास्यतया प्रतिज्ञातम्। तच्च चेतनमिति ईक्षतेर्नाशब्दम् (ब्र.सू.५) इत्यादिभिस्सूत्रै: प्रतिपाद्यते। चेतनत्वं नाम चैतन्यगुणयोग:। अत ईक्षणगुणविरहिण: प्रधानतुल्यत्वमेव ॥

  किञ्च निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्रकाशत्वमपि दुरुपपादम्। प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापदयन्वस्तुविशेष:। निर्विशेषस्य वस्तुनस्तदुभयरूपत्वाभावात् घटादिवदचित्त्वमेव ॥

तदुभयरूपत्वाभावेऽपि तत्क्षमत्वमस्तीति चेत् – तन्न, तत्क्षमत्वं हि तत्सामर्थ्यमेव। सामर्थ्यगुणयोगे हि निर्विशेषवाद: परित्यक्तस्यात्। अथ श्रुतिप्रामाण्यादयमेको विशेषोऽभ्युपगम्यत इति चेत् हन्त तर्हि तत एव सर्वज्ञता, सर्वशक्तित्वं, सर्वेश्वरेश्वरत्वं, सर्वकल्याणगुणाकरत्वं, सकलहेयप्रत्यनीकतेत्यादय: सर्वेऽभ्युपगन्तव्या:। शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम्; तच्च कार्यविशेषैकनिरूपणीयम्; कार्यविशेषस्य निष्प्रमाणकत्वे तदैकनिरूपणीयं शक्तिमत्त्वमपि निष्प्रमाणं स्यात्। किञ्च निर्विशेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम्। प्रत्यक्षानुमानागमस्वानुभवा: सविशेषगोचरा इति पूर्वमेवोक्तम्। तस्माद्विचित्रचेतनाचेतनात्मकजगद्रूपेण बहु स्याम् (छा.६.५.६) इतीक्षणक्षम: पुरुषोत्तम एव जिज्ञास्य इति सिद्धम्॥ १२॥

इति श्रीशारीरकमींमासाभाष्ये ईक्षत्यधिकरणम् ॥५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.