श्रीभाष्यम् 01-01-06 आनन्दमयाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् ॥६॥

(अधिकरणार्थः – आनन्दमयः परं ब्रह्मैव, न जीवः)

(आनन्दमयविद्याविचारः तै.उ.आ.५)

(पूर्वोत्तराधिकरणयोः सङ्गतिप्रदर्शनम्)

एवं जिज्ञासितस्य ब्रह्मणश्चेतनभोग्यभूतजडरूपसत्त्वरजस्तमोमयप्रधानाद्व्यावृत्तिरुक्ता इदानीं कर्मवश्यात् त्रिगुणात्मकप्रकृतिसंसर्गनिमित्तनानाविधानन्तदु:खसागरनिमज्जनेन अशुद्धात् शुद्धाच्च प्रत्यगात्मनोऽन्यत् निखिलहेयप्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते।

१३. आनन्दमयोऽभ्यासात् ॥ १-१-१३ ॥

(विषयोपक्षेपः)

तैत्तिरीया अधीयते – स वा एष पुरुषोऽन्नरसमय: (तै.आन.८.१) तस्माद्वा एतस्मात् विज्ञानमयात्। अन्योऽन्तर आत्माऽनन्दमय: (तै.आन.५.२) इति ॥

(संशयस्वरूपम्)

तत्र सन्देह: – किमयमानन्दमयो बन्धमोक्षभागिन: प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्य: परमात्मा; उत स एव इति॥

(सयुक्तिकः पूर्वपक्षः, सांख्यस्य)

किं युक्तम्? प्रत्यगात्मेति। कुत:? तस्यैष एव शारीर आत्मा (तै.आन.५.१) इत्यानन्दमयस्य शारीरत्वश्रवणात्; शारीरो हि शरीरसम्बन्धी जीवात्मा॥

(पूर्वपक्षयुक्तेः अनुत्थितिः)

ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मण: सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्य तदेव जगत्कारणमानन्दमय इत्युपदिशति; जगत्कारणं च तदैक्षत (छा.६.२.३) इतीक्षणश्रवणात् सर्वज्ञस्सर्वेश्वर इत्युक्तम्॥

(पूर्वपक्षयुक्तिस्थिरीकरणम्)

सत्यमुक्तम्; स तु जीवान्नातिरिच्यते – अनेन जीवेनाऽत्मनाऽनुप्रविश्य (छा.६.३.२.) तत्त्वमसि श्वेतकेतो (छा.६.८.७) इति कारणतया निर्दिष्टस्य जीवसामानाधिकरण्यनिर्देशात्। सामानाधिकरण्यं ह्येकत्वप्रतिपादनपरम्; यथा सोऽयं देवदत्त: इत्यादौ। ईक्षापूर्विका च सृष्टिश्चेतनस्य जीवस्योपपद्यत एव। अत: ब्रह्मविदाप्नोति परम् (तै.आन.१.९) इति जीवस्याचित्संसर्गवियुक्तं स्वरूपं प्राप्यतयोपदिश्यते।  अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.९) इति। तद्रूपप्राप्तिरेव हि मोक्ष:। न ह वै सशरीरस्य सत:  प्रियाप्रिययोरपहतिरस्ति। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत: (छां.८.१२.१) इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रक्रान्तमानन्दमय इत्युपदिश्यते ॥

(जीवस्वरूपस्य उपदेशप्रक्रमोपपादनम्)

तथा हि शाखाचन्द्रन्यायेनाऽत्मस्वरूपं दर्शयितुम् अन्नमय: पुरुष: इति शरीरं प्रथमं निर्दिश्य, तदन्तरभूतं तस्य धारकं पञ्चवृत्तिप्राणम्, तस्याप्यन्तरभूतं मन:, तदन्तरभूतां च बुद्धिं, प्राणमयो (तै.आन.२) मनोमयो (तै.आन.३) विज्ञानमय: (तै.आ.४) इति तत्र तत्र बुद्ध्यवतरणक्रमेण निर्दिश्य सर्वान्तरभूतं जीवात्मानम् अन्योऽन्तर आत्माऽऽनन्दमय: (तै.आन.५.२) इत्युपदिश्यान्तरात्मपरम्परां समापयति। अतो जीवात्मस्वरूपमेव ब्रह्मविदाप्नोति (तै.आन.१) इति प्रक्रान्तं ब्रह्म; तदेवाऽनन्दमय इत्युपदिष्टमिति निश्चीयते॥

(अद्वैतिनां पुच्छब्रह्मवादः, तत्परिहारश्च)

ननु च ब्रह्म पुच्छं प्रतिष्ठा (तै.आन.५.२) इत्यानन्दमयादन्यद्ब्रह्मेति प्रतीयते। नैवं ब्रह्मैव स्वस्वभावविशेषेण पुरुषविधत्वरूपितं शिर:पक्षपुच्छरूपेण व्यपदिश्यते। यथाऽन्नमयो देहोऽवयवी स्वस्मादनतिरिक्तै: स्वावयवैरेव तस्येदमेव शिर: (तै.आन.१) इत्यादिना शिर:पक्षपुच्छवत्तया निदर्शित:; तथा आनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तै: प्रियादिभिर्निदर्शितम्। तत्रावयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतया अखण्डरूपमानन्दमयं ब्रह्म पुच्छं प्रतिष्ठा (तै.आन.५) इत्युच्यते। यदि चानन्दमयादन्यद्ब्रह्माभविष्यत्, तस्माद्वा एतस्मादान्योऽन्तर आत्मा ब्रह्म इत्यपि निरदेक्ष्यत। नचैवं निर्दिश्यते। एतदुक्तं भवति ब्रह्मविदाप्नोति परम् (तै.आन.१) इति प्रक्रान्तं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म इतिलक्षणतस्सकलेतरव्यावृत्ताकारं प्रतिपाद्य तदेव तस्माद्वा एतस्मादात्मन: (तै.आन.१) इत्यात्मशब्देन निर्दिश्य तस्य सर्वान्तरत्वेनाऽत्मत्वं व्यञ्जयद्वाक्यं अन्नमयादिषु तत्तदन्तरतया आत्मत्वेन निर्दिष्टान् प्राणमयादीनतिक्रम्य अन्योऽन्तर आत्माऽऽनन्दमय: (तै.आन.५,२) इत्यात्मशब्देन निर्देशमानन्दमये समापयति। अत आत्मशब्देन प्रक्रान्तं ब्रह्माऽनन्दमय इति निश्चीयते – इति  ॥

(पुनः प्रकारान्तरेण ब्रह्मणः आनन्दमयातिरिक्तत्व(पुच्छत्व)शङ्कापरिहारौ)

ननु च – ब्रह्म पुच्छं प्रतिष्ठा (तै.आन.५.३) इत्युक्त्वा असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्।  अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदु: (तै.आन.६.१) इति ब्रह्मज्ञानाज्ञानाभ्यामात्मनस्सद्भावासद्भावौ दर्शयति; नानन्दमयज्ञानाज्ञानाभ्याम्। न चानन्दमयस्य प्रियमोदादिरूपेण सर्वलोकविदितस्य सद्भावासद्भावज्ञानाशङ्का युक्ता। अतो नानन्दमयमधिकृत्यायं श्लोक उदाहृत:। तस्मादानन्दमयात् अन्यद्ब्रह्म। नैवम् – इदं पुच्छं प्रतिष्ठा (तै.आन.१.३) पृथिवी पुच्छं प्रतिष्ठा (तै.आन.२.३) अथर्वाङ्गिरस: पुच्छं प्रतिष्ठा (तै.आन.३.३) मह: पुच्छं प्रतिष्ठा (तै.आन्न.४.२) इत्युक्त्वा तत्र तत्रोदाहृता: अन्नाद्वै प्रजा: प्रजायन्ते इत्यादिश्लोका यथा न पुच्छमात्रप्रतिपादनपरा: अपि तु अन्नमयादिपुरुषप्रतिपादनपरा: एवमत्राप्यानन्दमयस्यायं असन्नेव इति श्लोक:; नानन्दमयव्यतिरिक्तस्य पुच्छस्य । आनन्दमयस्यैव ब्रह्मत्वेऽपि प्रियमोदादिरूपेण रूपितस्य  अपरिच्छन्नानन्दस्य सद्भावासद्भावज्ञानाशङ्का युक्तैव। पुच्छब्रह्मणोऽप्यपरिच्छन्नानन्दतयैव ह्यप्रसिद्धता। शिर:प्रभृत्यवयवित्वाभावाद् ब्रह्मणो नानन्दमयो ब्रह्मेति चेत् – ब्रह्मण: पुच्छत्वप्रतिष्ठात्वाभावात् पुच्छमपि ब्रह्म न भवेत्। अथाविद्यापरिकल्पितस्य वस्तुनस्तस्याश्रयभूतत्वात् ब्रह्मण: पुच्छं प्रतिष्ठेति रूपणमात्रमित्युच्येत, हन्त तर्हि तस्यासुखाद्व्यावृत्तस्यानन्दमयस्य ब्रह्मण: प्रियशिरस्त्वादिरूपणं भविष्यति ॥

(पूर्वपक्षार्थनिरूपणम्)

एवं च सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१.) इति विकारास्पदजडपरिच्छिन्नवस्त्वन्तर-व्यावृत्तस्यासुखाद्व्यावृत्तिरानन्दमय इत्युपदिश्यते। ततश्चाखण्डैकरसानन्दे ब्रह्मण्यानन्दमय इति मयट् प्राणमय इव स्वार्थिको द्रष्टव्य:। तस्मादविद्यापरिकल्पितविविधविचित्रदेवादिभेदभिन्नस्य जीवात्मनस्स्वाभाविकं रूपमखण्डैकरसं सुखैकतानमानन्दमय इत्युच्यत इत्यानन्दमय: प्रत्यगात्मा॥

(सिद्धान्तारम्भः, तत्र आनन्दमयस्य परमात्मन एव)

एवं प्राप्ते प्रचक्ष्महे- आनन्दमयोऽभ्यासात् – आनन्दमय: परमात्मा। कुत:? अभ्यासात्; सैषाऽऽनन्दस्य मीमांसा भवति (तै.आन.८.१) इत्यारभ्य यतो वाचो निवर्तन्ते (तै.आन.९.१) इत्येवमन्तेन वाक्येन शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्द: अनन्तदु:खमिश्रपरिमितसुखलवभागिनि जीवात्मन्यसम्भवन्निखलहेयप्रत्यनीकं कल्याणैकतानं सकलतेरविलक्षणं परमात्मानमेव स्वाश्रयमावेदयति॥ यथाऽऽह –

तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमय: (तै.आन.५.२) इति ॥

(विज्ञानमयशब्दस्य बुद्धिमात्रपरताव्युदासः)

विज्ञानमयो हि जीव:, न बुद्धिमात्रम्, मयट्प्रत्ययेन, व्यतिरेकप्रतीते:। प्राणमये त्वगत्या स्वार्थिकताऽऽश्रीयते। इह तु तद्वतो जीवस्य सम्भवान्नानर्थक्यं न्यायम्। बद्धो मुक्तश्च प्रत्यगात्मा ज्ञातैवेत्यभ्यधिष्महि। प्राणमयादौ च मयडर्थसम्भवोऽनन्तरमेव वक्ष्यते। कथं तर्हि विज्ञानमयविषयश्लोके विज्ञानं यज्ञं तनुते (तै.आन.५.१) इति केवलविज्ञानशब्दोपादानमुपपद्यते। ज्ञातुरेवाऽत्मनस्स्वरूपमपि स्वप्रकाशतया विज्ञानमित्युच्यत इति न दोष:, ज्ञानैकनिरूपणीयत्वाच्च ज्ञातुस्स्वरूपस्य। स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन धर्मिस्वरूपमपि प्रतिपादयन्ति, गवादिशब्दवत् । कृत्युल्युटो बहुलम् (अष्टाध्याय्यां.३.३.११३) इति वा कर्तरि ल्युडाश्रीयते। नन्द्यादित्वं वाऽऽश्रित्य नन्दिग्रहि (अष्टाध्याय्यां.३.१.१३४) इत्यादिना कर्तरि ल्यु:। अत एव च विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च (तै.आन.५) इति यज्ञादिकर्तृत्वं विज्ञानस्य श्रूयते। बुद्धिमात्रस्य हि न कर्तृत्वं सम्भवति  ॥

(कर्तृत्वं च औपचारिकं, किन्तु चेतनासाधारणधर्म एव)

अचेतनेषु हि चेतनोपकरणेषु विज्ञानमयात् प्राचीनेषु अन्नमयादिषु, न चेतनधर्मभूतं कर्तृत्वं श्रूयते । अत एव चेतनमचेतनं च स्वासाधारणै: निलयनत्वानिलयनत्वादिभिर्धर्मिवशेषैर्विभज्य निर्दिशद्वाक्यम् विज्ञानं चाविज्ञानं च (तै.उ.आन.3-3) इति विज्ञानशब्देन तद्गुणं चेतनं वदति।

(विज्ञानशब्दस्य चेतनार्थकत्वं माध्यन्दिनपाठादपि)

तथाऽन्तर्यामिब्राह्मणे यो विज्ञाने तिष्ठन् (बृ.५.७.२६) इत्यस्य काण्वपाठगतस्य पर्यायस्य स्थाने य आत्मनि तिष्ठन् इति पर्यायमधीयाना माध्यन्दिना: काण्वपाठगतं विज्ञानशब्दनिर्दिष्टं जीवात्मेति स्फुटीकुर्वन्ति। विज्ञानमिति च नपुंसकलिङ्गं वस्तुत्वाभिप्रायम्। तदेवं विज्ञानमयाज्जीवादन्यस्तदन्तर: परमात्मा आनन्दमय: ॥

(सामानाधिकरण्यस्य भेदावहत्वोपपादनेन पूर्वपक्षदूषणम्)

यद्यपि विज्ञानं यज्ञं तनुते (तै.आन.५.१) इति श्लोके ज्ञानमात्रमेवोपादीयते; न ज्ञाता, तथाऽपि अन्योन्तर आत्मा विज्ञानमय: (तै.आन.४.१) इति तद्वान् ज्ञातैवोपदिश्यते, यथा अन्नाद्वैप्रजा: प्रजायन्त (तै.आन.२.१) इत्यत्र श्लोके केवलान्नोपादनेऽपि स वा एष पुरुषोऽन्नरसमय: (तै.आ.१) इत्यत्र नान्नमात्रं निर्दिष्टम्;  अपि तु तन्मय:  तद्विकार:। एतत्सर्वं हृदि निधाय सूत्रकारस्स्वयमेव भेदव्यपदेशात् (शारी.१.१.१८) इत्यनन्तरमेव वदति॥

(सामानाधिकरण्यस्य भेदावहत्वोपपादनेन पूर्वपक्षदूषणम्)

यदुक्तं जगत्कारणतया निर्दिष्टस्य अनेन जीवेनाऽत्मनाऽनुप्रविश्य (छा.६.३.२), तत्त्वमसि (छां. ६.८.७) इति च जीवसामानाधिकरण्यनिर्देशाज्जगत्कारणमपि जीवस्वरूपान्नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपं ब्रह्मविदाप्नोति परम् (तै.आन.१) इति प्रक्रान्तमसुखाद्व्यावृत्तत्वेन आनन्दमय इत्युपदिश्यत इति – तदयुक्तम्, जीवस्य चेतनत्वे सत्यपि तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत, (छा.६.२.३) इति स्वसङ्कल्पपूर्वकानन्तविचित्रसृष्टियोगानुपपत्ते:। शुद्धावस्थस्यापि हि तस्य सर्गादिजगद्व्यापारासम्भवो जगद्व्यापारवर्जम्  (ब्र.सू.४.४.१७), भोगमात्रसाम्यलिङ्गात् (ब्र.सू.४.४.२१) इत्यत्रोपपादयिष्यते। कारणभूतस्य ब्रह्मणो जीवस्स्वरूपत्वानभ्युपगमे अनेन जीवेनाऽत्मना (छा.६.८.७), तत्त्वमसि (छा.६.८.७) इति सामानाधिकरण्यनिर्देश: कथमुपपद्यत इति चेत् – कथं वा निरस्तनिखिलदोषगन्धस्य सत्यसङ्कल्पस्य सर्वज्ञस्य सर्वशक्तेरनवधिकातिशय-असङ्ख्येयकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मण: नानाविधानन्तदु:खाकरकर्माधीनचिन्तित-निमिषितादिसकलप्रवृत्तिजीवस्वरूपत्वम्?

(जहदजहत्स्वार्थलक्षणया निर्वाहस्य दूषणम्)

अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत् – कस्य भो:? किं हेयसम्बन्धस्य? किं वा हेयप्रत्यनीककल्याणैकतानस्वभावस्य? हेयप्रत्यनीक-कल्याणैकतानस्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेयसम्बन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत्- विप्रतिषिद्धिमिदमभिधीयते, ब्रह्मणो हेयप्रत्यनीककल्याणैकतानत्वमनाद्यविद्याश्रयत्वेनानन्त-दु:खविषयमिथ्याप्रतिभासाश्रयत्वं चेति।     अविद्याश्रयत्वं तत्कार्यदु:खप्रतिभासा-श्रयत्वं चैव हि हेयसम्बन्ध:। तत्सम्बन्धित्वं तत्प्रत्यनीकत्वं च विरुद्धमेव। तथाऽपि तस्य मिथ्यात्वान्न विरोध इति मा वोच:। मिथ्याभूतमप्यपुरुषार्थ एव, यन्निरसनाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे। निरसनीयापुरुषार्थयोगाच्च हेयप्रत्यनीककल्याणैकतानतया विरुध्यते। – किं कुर्म:? येनाश्रुतं श्रुतं भवति (छा.६.१.३) इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय सदेव सोम्येदमग्रआसीत् (छा.६.२.१) इत्यादिना निखिलजगदेककारणताम्, तदैक्षत बहु स्याम् (छा.६.२.३) इति सत्यसङ्कल्पतां च ब्रह्मण: प्रतिपाद्य तस्यैव ब्रह्मण: तत्त्वमसि (छा.६.८.७) इति सामानाधिकरण्येनानन्तदु:खाश्रयजीवैक्यं प्रतिपादितम्, तदन्यथानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीयमिति चेत् – श्रुतोपपत्तयेऽप्यनुपपन्नं विरुद्धं च न कल्पनीयम्।

     अथ हेयसम्बन्ध एव पारमार्थिक:, कल्याणैकस्वभावता तु मिथ्याभूता; हन्तैवं तापत्रयाभिहतचेतनोज्जिजीवयिषया प्रवृत्तं शास्त्रम्, तापत्रयाभिहतिरेव तस्य पारमार्थिकी, कल्याणैकस्वभावस्तु भ्रान्तिपरिकल्पित इति बोधयत्सम्यगुज्जीवयति। अथैतद्दोषपरिजिहीर्षया ब्रह्मणो निर्विशेषचिन्मात्रस्वरूपातिरिक्तजीवत्वदु:खित्वादिकं सत्यसङ्कल्पत्वकल्याणगुणाकरत्व-जगत्कारणत्वाद्यपि मिथ्याभूतमिति कल्पनीयिमिति चेत् – अहो भवतां वाक्यार्थपर्यालोचनकुशलता। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति। यथैकविज्ञानं परमार्थविषयम्, तथैव सर्वविज्ञानमपि यदि परमार्थविषयम्, तदन्तर्गतं च – तदा तज्ज्ञानेन सर्वविज्ञानमिति शक्यते वक्तुम्। न हि परमार्थशुक्तिकाज्ञानेन तदाश्रयमपरामर्थरजतं ज्ञातं भवति ॥

(सर्वविज्ञानप्रतिज्ञायाः ब्रह्मेतरासत्यत्वपरतादूषणम्)

अथोच्येत – एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अयमर्थ: – निर्विशेषवस्तुमात्रमेव सत्यं, अन्यदसत्यम् इति। न तर्हि येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् (छां ६.१.३) इति श्रूयेत, येन श्रुतेनाश्रुतमपि श्रुतं भवतीति ह्यस्य वाक्यस्यार्थ:। कारणतयोपलक्षितनिर्विशेषवस्तुमात्रस्यैव सद्भावश्चेत्प्रतिज्ञात:, यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातम् (छां.६.१.४) इति दृष्टान्तोऽपि न घटते। मृत्पिण्डविज्ञानेन हि तद्विकारस्य ज्ञातता निदर्शिता। तत्रापि विकारस्यासत्यताऽभिप्रेतेति चेत्- मृद्विकारस्य रज्जुसर्पादिवदसत्यत्वं शुश्रूषोरसिद्धमिति प्रतिज्ञातार्थसम्भावनाप्रदर्शनाय यथा सोम्य (छां.६.१) इति प्रसिद्धवदुपन्यासो न युज्यते। न च तत्त्वमास्यदिवाक्यजन्यज्ञानोत्पत्ते: प्राग्विकारजातस्यासत्यतामापादयत्तर्कानुगृहीतं अननुगृहीतं वा प्रमाणमुपलभामह इति। अयमर्थ: तदनन्यत्वमारम्भणशब्दादिभ्य: (ब्र.सू.२.१.१५) इत्यत्र वक्ष्यते। तथा –

(पर्यालोचनीयवाक्यानां दर्शनम्)

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१), तदैक्षत बहु स्यां प्रजायेयेति। तत्तेजोऽसृजत (छा.६.२.३), हन्तहमिमास्तिस्रो देवतानेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२), सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा:। ऐतदात्म्यमिदं सर्वम् (छा.६.८.३) इत्यादिनास्य जगतस्सदात्मकता सृष्टे: पूर्वकाले नामरूपविभागप्रहाणम्, जगदुत्पत्तौ सच्छब्दवाच्यस्य ब्रह्मणस्स्वव्यतिरक्तनिमित्तान्तरानपेक्षत्वम्, सृष्टिकालेऽहमेवानन्त-स्थिरत्रसरूपेण बहुस्याम् इत्यनन्यसाधारणसङ्कल्पविशेष:, यथासङ्कल्पमनन्तविचित्रतत्त्वानां विलक्षणक्रमविशेषविशष्टा सृष्टि: समस्तेष्वचेतनेषु वस्तुषु स्वात्मकजीवानुप्रवेशेनैवानन्त-नामरूपव्याकरणम्,  स्वव्यतिरिक्तस्य समस्तस्य स्वमूलत्वम्, स्वायतनत्वम्, स्वप्रवर्त्यत्वम्, स्वेनैव जीवनम्; स्वप्रतिष्ठत्वमित्याद्यनन्त-विशेषाश्शास्त्रैकसमधिगम्या: प्रतिपादिता:। तत्सम्बन्धितया प्रकरणान्तरेष्वप्यपहतपाप्मत्वादि-निरस्तनिखिलदोषतासर्वज्ञता सर्वेश्वरत्व-सत्यकामत्वसत्यसङ्कल्पत्वसर्वानन्दकरणनिरतिशयानन्दयोगादयस्सकलेतरप्रमाणाविषयास्सहस्रश: प्रतिपादिता:। एवमनन्यगोचरानन्त-विशेषविशिष्टप्रकृतब्रह्मपरामर्शितच्छब्दस्य, निर्विशेषवस्तुमात्र- उपदेशपरत्वं असङ्गतत्वेनोन्मत्तप्रलपितायेत। त्वं पदं च संसारित्वविशिष्टजीववाचि। तस्यापि निर्विशेषस्वरूपोपस्थापनपरत्वे स्वार्थ: परित्यक्तस्स्यात्। निर्विशेषप्रकाशस्वरूपस्य च वस्तुनो ह्यविद्यया तिरोधानं स्वरूपनाशप्रसङ्गादिभिर्न सम्भवतीति पूर्वमेवोक्तम्। एवं च सति समानाधिकरणवृत्तयोस्तत्त्वमिति द्वयोरपि पदयोर्मुख्यार्थपरित्यागेन लक्षणा च समाश्रयणीया॥

(तत्त्वंपदयोः सामानाधिकरण्यविषये परकीयाभिप्रायानुवादः)

अथोच्येत – समानाधिकरणवृत्तानामेकार्थप्रतिपादनपरतया विशेषणांशे तात्पर्यासम्भवादेव विशेषणनिवृत्तेर्वस्तुमात्रैकत्वप्रतिपादनान्न लक्षणाप्रसङ्ग:। यथा नीलमुत्पलम् इति पदद्वयस्य विशेष्यैकत्वप्रतिपादनपरत्वेन नीलत्वोपलत्वरूपविशेषणद्वयं न विवक्ष्यते।  तद्विवक्षायां हि नीलत्वविशिष्टाकारेणोत्पलत्वविशिष्टाकारस्यैकत्वप्रतिपादनं प्रसज्येत। तत्तु न सम्भवति – न हि नैल्यविशिष्टाकारेण तद्वस्तूत्पलपदेन विशेष्यते, जातिगुणयोरन्योन्यसमवायप्रसङ्गात्। अतो नीलत्वोत्पलत्वोपलक्षितवस्त्वेकत्वमात्रं सामानाधिकरण्येन प्रतिपाद्यते। तथा सोऽयं देवदत्त: इत्यतीतकालविप्रकृष्टदेशविशिष्टस्य तेनैव रूपेण सन्निहितदेशवर्तमानकालविशिष्टतया प्रतिपादनानुपपत्तेरुभयदेशकालोपलक्षितस्वरूपमात्रैक्यं सामानाधिकरण्येन प्रतिपाद्यते ॥

यद्यपि नीलमित्याद्येकपदश्रवणे, प्रतीयमानं विशेषणं सामानाधिकरण्यवेलायां विरोधान्न प्रतिपाद्यते। तथाऽपि वाच्येऽर्थे प्रधानांशस्य प्रतिपादनान्न लक्षणा।  अपि तु विशेषणांशस्याविवक्षामात्रम्। सर्वत्र सामानाधिकरण्स्यैष एव स्वभाव इति न कश्चिद्दोष  इति॥

(उक्तपूर्वपक्षप्रतिक्षेपः)

तदिदमसारम् – सर्वेष्वेव वाक्येषु पदानां व्युत्पत्तिसिद्धार्थसंसर्गिविशेषमात्रं प्रत्याय्यम्। तत्र समानाधिकरणवृत्तानामपि नीलादिपदानां नैल्यादिविशष्ट एवार्थो व्युत्पत्तिसिद्ध: पदान्तरार्थसंसृष्टोऽभिधीयते। यथा नीलमुत्पलमानय इत्युक्ते नीलिमादिविशिष्टमेवानीयते, यथा च विन्ध्याटव्यां मदमुदितो मातङ्गणस्तिष्ठति इति पदद्वयावगतविशेषणविशष्ट एवार्थ: प्रतीयते; एवं वेदान्तवाक्येष्वपि समानाधिकरणनिर्देशेषु तत्तद्विशेषणविशिष्टमेव ब्रह्म प्रतिपत्तव्यम् ॥

(सर्वैरपि विशेषणैः स्वरूपस्यैव विशेष्यता)

न च विशेषणविवक्षायामितरविशिष्टाकारं वस्त्वन्येन विशेष्टव्यम्।  अपि तु सर्वैर्विशेषणैः स्वरूपमेव विशेष्यम्। तथाहि – भिन्नप्रवृत्तिनिमित्तानां शब्दानां एकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम् इति अन्वयेन निवृत्त्या वा पदान्तरप्रतिपाद्यात् आकारादाकारान्तरयुक्ततया तस्यैव वस्तुन: पदान्तरप्रतिपाद्यत्वं सामानाधिकरण्यकार्यम्। यथा देवदत्तश्श्यामो युवा लोहिताक्षोऽदीनोऽकृपणः अनवद्य: इति। यत्र त्वेकस्मिन् वस्तुनि समन्वयायोग्यं विशेषणद्वयं समानाधिकरणपदनिर्दिष्टम्; तत्राप्यन्यतरत्पदममुख्यवृत्तमाश्रीयते; न द्वयम्। यथा गौर्वाहीक: इति। नीलोत्पलादिषु तु विशेषणद्वयान्वयाविरोधादेकमेवोभयविशिष्टं प्रतिपाद्यते॥

(विशेषणभेदेन विशेष्यभेदशङ्कापरिहारौ)

अथ मनुषे – एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणं विशेषणान्तरप्रतिसम्बन्धित्वात् विलक्षणम् इति घटपटयोरिवैकविभक्तिनिर्देशेऽप्यैक्यप्रतिपादनासम्भवात् समानाधिकरणशब्दस्य न विशिष्टप्रतिपादनपरत्वम्,  अपि तु विशेषणमुखेन स्वरूपमुपस्थाप्य तदैक्यप्रतिपादनपरत्वमेव – इति॥

स्यादेतदेवम्; यदि विशेषणद्वयप्रतिसम्बन्धितत्वमात्रमेवैक्यं निरुन्ध्यात्। नचैतदस्ति; एकस्मिन्धर्मिण्युपसंहर्तुमयोग्यधर्मद्वयविशिष्टत्वमेव ह्येकत्वं निरुणद्धि। अयोग्यता च प्रमाणान्तरसिद्धा घटत्वपटत्वयो:। नीलमुत्पलम् इत्यादिषु तु दण्डत्वकुण्डलत्ववत् रूपवत्त्वरसवत्त्वगन्धवत्त्वादिवच्च विरोधो नोपलभ्यते। न केवलमविरोध एव; प्रवृत्तिनिमित्तभेदेनैकार्थ-निष्ठत्वरूपं सामानाधिकरण्यमुपपादयत्येव धर्मद्वयविशिष्टताम्। अन्यथा स्वरूपमात्रैक्ये अनेकपदप्रवृत्तौ निमित्ताभावात्सामानाधिकरण्यमेव न स्यात्। विशेषणानां स्वसम्बन्धानादरेण वस्तुस्वरूपोपलक्षणपरत्वे  सत्येकेनैव वस्तूपलक्षितमिति उपलक्षणान्तरमनर्थकमेव; उपलक्षणान्तर-उपलक्ष्याकारभेदाभ्युपगमे तेनाकारेण सविशेषत्वप्रसङ्ग:॥

(प्रत्यभिज्ञापलापकवाक्यस्थले निर्वाहप्रकारः)

सोऽयं देवदत्त: इत्यत्रापि लक्षणागन्धो न विद्यते, विरोधाभावात्। देशान्तरसम्बन्धितया अतीतस्य सन्निहितदेशसम्बन्धितया वर्तमानत्वाविरोधात्। अत एव हि सोऽयम् इति प्रत्यभिज्ञया कालद्वयसम्बन्धिनो वस्तुन ऐक्यमुपपाद्यते वस्तुनस्स्थिरत्ववादिभि:। अन्यथा प्रतीतिविरोधे सति सर्वेषां क्षणिकत्वमेव स्यात्। देशद्वयसम्बन्धविरोधस्तु कालभेदेन परिह्रियते।

(सामानाधिकरण्यस्य प्रवृत्तिनिमित्तभेदेन एकार्थपर्यवायित्वं वैदिकप्रयोगे)

यतस्समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थवाचित्वम्। अत एव अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति (यजु.६.१.६) इत्यारुण्यादिविशष्टैकहायन्या क्रयस्साध्यतया विधीयते॥

तदुक्तं अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमस्स्यात् (पू.मी.सू.३.१.१२) इति  ॥

(तदधिकरणीयपूर्वपक्ष-सिद्धान्तौ)

तत्रैवं पूर्वपक्षी मन्यते – यद्यप्यरुणयेतिपदमाकृतेरिव गुणस्यापि द्रव्यप्रकारतैकस्वभावात् द्रव्यपर्यन्तमेव अरुणिमानमभिदधति, तथाऽप्येकहायन्यन्वयनियमोऽरुणिम्नो न सम्भवति। एकहायन्या क्रीणाति, तच्चारुणयेत्यर्थद्वयविधानासम्भवात्॥

ततश्चारुणयेति वाक्यं भित्वा प्रकरणविहितसर्वद्रव्यपर्यन्तमेवारुणिमानमविशेषेणाभिदधाति। अरुणयेति स्त्रीलिङ्गनिर्देश: प्रकरणविहितसर्वलिङ्गकद्रव्याणां प्रदर्शनार्थ:। तस्मादेकहायन्यन्वयनियमोऽरुणिम्नो न स्यात् – इति।

  अत्राभिधीयते – अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमस्स्यात् (पूर्वमी.३.१.१२) अरुणयैकहायन्या (यजु.६.१.६) इत्यारुण्यविशिष्टद्रव्यैकहायनीद्रव्यवाचि पदयोस्सामानाधिकरण्येन अर्थैकत्वे सिद्धे सत्येकहायनीद्रव्यारुण्यगुणयोररुणयेति पदेनैव विशेषणविशेष्यभावेन सम्बन्धितयाऽभिहितयो: क्रियाख्यैककर्मान्वयाविरोधादरुणिम्न: क्रयसाधनभूतैकहायन्यन्वय-नियमस्स्यात्॥

यद्येकहायन्या: क्रयसम्बन्धवदरुणिमसम्बन्धोऽपि वाक्यावसेयस्स्यात्; तदा वाक्यस्यार्थद्वयविधानं स्यात्। न चैतदस्ति अरुणयेति पदेनैवारुणिमविशष्टद्रव्यमभिहितम्। एकहायनीपदसामानाधिकरण्येन तस्यैकहायनीत्वमात्रमवगम्यते; न गुणसम्बन्ध:; विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थ: भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम् (कैयटे वृध्याह्निके) इति हि सामानाधिकरण्यलक्षणम्॥

(उक्तार्थे परसम्मतिः)

अत एव हि रक्त:पटो भवति इत्यादिष्वैकार्थ्यादेकवाक्यत्वम्। पटस्य भवनक्रियासम्बन्धे हि वाक्यव्यापार:; रागसम्बन्धस्तु रक्तपदेनैवाभिहित:; रागसम्बन्धि द्रव्यं पट इत्येतावन्मात्रं सामानाधिकरण्यावसेयम्। एवमेकेन गुणेन द्वाभ्यां बहुभिर्वा तेन तेन पदेन समस्तेन व्यस्तेन वा विशिष्टमुपस्थाप्य सामानाधिकरण्येन सर्वविशेषणविशिष्टोऽर्थ एक इति ज्ञापियत्वा तस्य क्रियासम्बन्धाभिधानमविरुद्धम् – देवदत्तश्श्यामो युवा लोहिताक्षो दण्डी कुण्डली तिष्ठति; शुक्लेन वाससा यवनिकां सम्पादयेत्; नीलमुत्पलमानय; नीलोत्पलमानय; गामानय शुक्लां शोभनाक्षीम्, अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् (यजु.२.२) इति। एवम् अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति (यजु.६.१.६) इति।

एतदुक्तं भवति – यथा काष्ठैस्स्थाल्यामोदनं पचेत् इत्यनेककारकविशष्टैका क्रिया युगपत्प्रतीयते; तथा समानाधिकरणपदसङ्घाताभिहतमेकैकं कारकं तत्तत्कारकप्रतिपत्तिवेलायामेव अनेकविशेषणविशिष्टं युगपत्प्रतिपन्नं क्रियायामन्वेतीति न कश्चिद्विरोध: । खादिरैश्शुष्कै: काष्ठैस्समपरिमाणे भाण्डे पायसं शाल्योदनसमर्थ: पाचक: पचेत्, इत्यादिषु – इति।

(पूर्वोक्तपूर्वपक्षोपयोगिनामर्थानां निरासः)

यत्तूपात्तद्रव्यकवाक्यस्थगुणशब्द: केवलगुणाभिधायीत्यरुणयेति पदेन केवलगुणस्यैव अभिधानमिति; तन्नोपपद्यते, लोकवेदयोर्द्रव्यवाचिपदसमानाधिकरणस्य गुणवाचिन: क्वचिदपि केवलगुणाभिधानादर्शनात्। उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीत्यप्यसङ्गतम्। पटश्शुक्ल: इत्यादिषूपात्तद्रव्यकेऽपि गुणविशिष्टस्यैवाभिधानात्। पटस्य शुक्लो भाग: इत्यत्र शौक्ल्यविशिष्टपटाप्रतिपत्तिरसमान- विभक्तिनिर्देशकृता; न पुनरुपात्तद्रव्यकत्वकृता। तत्रैव पटस्य शुक्लो भाग: इत्यादिषु समानविभक्तिनिर्देशे शौक्ल्यविशिष्टद्रव्यं प्रतीयते। यत्पुन: क्रयस्यैकहायन्यविरुद्धतयाऽरुणिम्न: क्रियान्वयो न सम्भवतीति; तदपि विरोधिगुणरहितद्रव्यवाचि-पदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम्। राद्धान्ते चोक्तन्यायेनारुणिम्नश्शाब्दे द्रव्यान्वये  सिद्धे द्रव्यगुणयो: क्रयसाधनत्वानुपपत्त्या अर्थात्परस्परान्वयस्सिध्यतीत्यप्यसङ्गतम्। अतो यथोक्त एवार्थ:॥

(उक्तलक्षणसामानाधिकरण्यस्य पररक्षनानुगुणता)

तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्य प्रतिपादनं वर्णनीयम्। तत्तु अनाद्यविद्योपहितानवधिकदु:खभागिनः शुद्ध्यशुद्ध्युभयावस्थात् चेतनादर्थान्तरभूतमशेषहेय-प्रत्यनीकानवधिककल्याणैकतानं परमात्मानमनभ्युपगच्छतो न सम्भवति।

अभ्युपगच्छतोऽपि समानाधिकरणपदानां यथावस्थितविशेषणविशिष्टैक्यप्रतिपादनपरत्व अश्रवणे त्वम्पदप्रतिपन्नसकलदोषभागित्वं परस्य प्रसज्येतेति चेत् – नैतदेवम्, त्वं पदेनापि जीवान्तर्यामिण: परस्यैवाभिधानात्।

(उक्तस्य अन्तर्यामिपर्यन्ताभिधानस्य उपपादनम्)

एतदुक्तं भवति – सच्छब्दाभिहितं निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पमिश्रानवधिकातिशय असङ्ख्येयकल्याणगुणगणं समस्तकारणभूतं परं ब्रह्म बहु स्याम् (छा.६.२.२.,तै.आन.६) इति सङ्कल्प्य तेजोबन्नप्रमुखं कृत्स्नं जगत्सृष्ट्वा तस्मिन्देवादिविचत्रसंस्थानसंस्थिते  जगति चेतनं जीववर्गं स्वकर्मानुगुणेषु शरीरेष्वात्मतया प्रवेश्य स्वयं च स्वेच्छयैव जीवान्तरात्मतयाऽनुप्रविश्य एवम्भूतेषु स्वपर्यन्तेषु देवाद्याकारेषु संघातेषु नामरूपे व्याकरोत्। एवं, रूपसंघातस्यैव वस्तुत्वं शब्दवाच्यत्वं चाकरोदित्यर्थ:। अनेन जीवेनात्मना जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति। ब्रह्मात्मकत्वं च जीवस्य जीवान्तरात्मतया ब्रह्मण: प्रवेशादित्यवगम्यते – इदं सर्वमसृजत। यदिदं किञ्च तत्सृष्ट्वा । तदेवानुप्राविशत्। तदनुप्रविश्य। सच्च त्यच्चाभवत्  (तै.आन.६.२) इति अत्रेदं सर्वमिति निर्दिष्टं चेतनाचेतनवस्तुद्वयं सत्त्यच्छब्दाभ्यां विज्ञानाविज्ञानशब्दाभ्यां च विभज्य निर्दिश्य चिद्वस्तुन्यपि ब्रह्मणोऽनुप्रवेशाभिधानात्। अत एव नामरूपव्याकरणात्सर्वे वाचकाश्शब्दा  अचिज्जीवविशिष्टपरमात्मवाचिन इत्यवगतम् – इति॥

(जगतः परमात्मशरीरत्वाक्षेपकवाक्यानि)

किञ्च ऐतदात्म्यमिदं सर्वम् (छा.६.८.७) इति चेतनमिश्रं प्रपञ्चं इदं सर्वमिति निर्दिश्य तस्यैष आत्मा (तै.आन.५) इति प्रतिपादितम्। एवं च सर्वं चेतनाचेतनं प्रति ब्रह्मण आत्मत्वेन सर्वं सचेतनं जगत् तस्य शरीरं भवति। तथा च श्रुत्यन्तराणि अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आ.३.११) य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद। यस्य पृथिवी शरीरम्। य: पृथिवीमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.३) इति प्रारभ्य य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरम्। य आत्मानमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृत: (बृह.५.७.३) इत्यादि य: पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम्। योऽपामन्तरे सञ्चरन् यस्यापश्शरीरम् इत्यारभ्य योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरम् । यमक्षरं न वेद। एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७) इत्यादीनि सचेतनं जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन परमात्मानमुपदिशन्ति ॥

(शरीरवाचिशब्दानां शरीरिपर्यन्तता)

अतश्चेतनवाचिनोऽपि शब्दाश्चेतनस्याप्यात्मभूतं चेतनशरीरकं परमात्मानमेवाभिदधति। यथा अचेतनदेवादिसंस्थानपिण्डवाचिनश्शब्दा: तत्तच्छरीरकजीवात्मन एव वाचका: चत्वार: पञ्चदशरात्राद्देवत्वं गच्छन्ति (ताण्ड्य महा ब्रा.२३.६) इत्यादिषु, देवा भवन्तीत्यर्थ:। शरीरस्य शरीरिणं प्रति प्रकारत्वात् प्रकारवाचिनां च शब्दानां प्रकारिण्येव पर्यवसानात् शरीरवाचिनां शब्दानां शरीरिपर्यवसानं न्याय्यम्। प्रकारो हि नाम इदमित्थमिति प्रतीयमाने वस्तुनि इत्थमिति प्रतीयमानोंश:। तस्य तद्वस्त्वपेक्षत्वेन तत्प्रतीतेस्तदपेक्षत्वात् तस्मिन्नेव पर्यवसानं युक्तमिति तस्य प्रतिपादकोऽपि शब्दस्तस्मिन्नेव पर्यवस्यति। अत एव गौरश्वो मनुष्य: इत्यादिप्रकारभूताकृतिवाचिन: शब्दा: प्रकारिणि पिण्डे पर्यवस्यन्त: पिण्डस्यापि चेतनशरीरत्वेन तत्प्रकारत्वात् पिण्डशरीरकचेतनस्यापि परमात्मप्रकारत्वाच्च परमात्मन्येव पर्यवस्यतीति सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचिशब्देन सामानाधिकरण्यं मुख्यमेव।

(उक्तसामानाधिकरण्यप्रयोजके अतिव्याप्तिशङ्कापरिहारौ)

ननु – खण्डो गौ: खण्डश्शुक्ल: इति जातिगुणवाचिनामेव पदानां द्रव्यवाचिपदैस्सह सामानाधिकरण्यं दृष्टम्, द्रव्याणां तु द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्ट:, यथा – दण्डी, कुण्डली इति । नैवम्; जातिर्वा गुणो वा द्रव्यं वा नैतेष्वेकमेव सामानाधिकरण्ये प्रयोजकम्, अन्योऽन्यस्मिन् व्यभिचारात्, यस्य पदार्थस्य कस्यचित्प्रकारतयैव सद्भाव:, तस्य तदपृथक्सिद्धिस्थितिप्रतीतिभिस्तद्वाचिनां शब्दानां स्वाभिधेयविशिष्टद्रव्यवाचित्वात् धर्मान्तरविशिष्टतद्द्रव्यवाचिना शब्देन सामानाधिकरण्यं युक्तमेव। यत्र पुन: पृथक्सिद्धस्य स्वनिष्ठस्यैव द्रव्यस्य कदाचित्क्वचिद्रव्यान्तरप्रकारत्वमिष्यते; तत्र मत्वर्थीयप्रत्यय इति निरवद्यम्॥

(शिक्षितेन न्यायेन परमसाध्यसिद्धिः)

तदेवं परमात्मनश्शरीरतया तत्प्रकारत्वादचिद्विशष्टजीवस्यापि जीवनिर्देशविशेषरूपा अहंत्वमित्यादिशब्दा:  परमात्मानमेवाऽचक्षत इति तत्त्वमसि (छा.६.८.७) इति सामानाधिकरण्येनोपसंहृतम्; एवं च सति परमात्मानं प्रति जीवस्य शरीरतयाऽन्वयाज्जीवगता धर्मा: परमात्मानं न स्पृशन्ति, यथा स्वशरीरगता बालत्वयुवत्वस्थविरत्वादयो धर्मा: जीवं न स्पृशन्ति  ॥

(तत्त्वमसि श्रुतेरर्थः)

अत: तत्त्वमसि (छा.६.८.७) इति सामानाधिकरण्ये तत्पदं जगत्कारणभूतं सत्यसङ्कल्पं, सर्वकल्याणगुणाकरं, निरस्तसमस्तहेयगन्धं, परमात्मानमाचष्टे, त्वमिति च तमेव सशरीरजीवशरीरकमाचष्ट इति सामानाधिकरण्यं मुख्यवृत्तम्; प्रकरणाविरोधस्सर्वश्रुत्यविरोधो ब्रह्मणि निरवद्ये कल्याणैकताने अविद्यादिदोषगन्धाभावश्च। अतो जीवसामानाधिकरण्यमपि विशेषणभूताज्जीवादन्यत्वमेवापादयतीति विज्ञानमयाज्जीवादन्य एवानन्दमय: परमात्मा॥

(आनन्दमयस्य शारीरत्वश्रवणं जीवत्वज्ञापकम् इत्यस्य निरासः)

यदुक्तम् – तस्यैष एव शारीर आत्मा (तै.आन.५) इत्यानन्दमयस्य शारीरत्वश्रवणात् जीवादन्यत्वं न सम्भवति – इति, तदयुक्तम्;  अस्मिन् प्रकरणे सर्वत्र तस्यैष एव शारीर आत्मा। य: पूर्वस्य (तै.आन.५) इति परमात्मन एव शारीरात्मत्वाभिधानात्। कथम् । तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.१) इत्याकाशादिसृज्यवर्गस्य परमकारणत्वेन प्रज्ञातजीवव्यतिरेकस्य परस्य ब्रह्मण आत्मत्वेन व्यपदेशात्तद्व्यतिरिक्ताकाशादीनां अन्नमयपर्यन्तानां तच्छरीरत्वमवगम्यते। यस्य पृथिवी शरीरं, यस्यापश्शरीरं, यस्य तेजश्शरीरं, यस्य वायुश्शरीरं, यस्याकाशश्शरीरं, यस्याक्षरं शरीरं, यस्य मृत्युश्शरीरं, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७) इति सुबालश्रुत्या सर्वतत्वानां परमात्मशरीरत्वं स्पष्टमभिधीयते। अत: तस्माद्वा एतस्मादात्मन: (तै.आन.१) इत्यत्रैवान्नमयस्य परमात्मैव शारीर आत्मेत्यवगत:। प्राणमयं प्रकृत्याह –  तस्यैष एव शारीर आत्मा। य:पूर्वस्य इति। पूर्वस्यान्नमयस्य यश्शारीर आत्मा श्रुत्यन्तरसिद्ध: परमकारणभूत: परमात्मा; स एव तस्य प्राणमयस्यापि शारीर आत्मेत्यर्थ:। एवं मनोमयविज्ञानमययोर्द्रष्टव्यम् ॥

(आनन्दमयस्य परमात्मत्वोपपादनम्, सूत्रार्थोपसंहारश्च)

आनन्दमये तु एष एव (तै.आन.५) इति निर्देशस्तस्यानन्यात्मत्वं दर्शयितुम्। तत्कथं विज्ञानमयस्यापि पूर्वोक्तया नीत्या परमात्मैव शारीर आत्मेत्यवगत:। एवं सति विज्ञानमयस्य यश्शारीर आत्मा, स एवानन्दमयस्यापि शारीर आत्मेत्युक्ते आनन्दमयस्य अभ्यासावगतपरमात्मभावस्य परमात्मनस्स्वयमेवात्मेत्यवगम्यते। एवं च स्वव्यतिरिक्तं चेतनाचेतनवस्तुजातं स्वशरीरमिति स एव निरुपाधिकश्शारीर आत्मा। अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्रं शारीरकमित्यभियुक्तैरभिधीयते। अतो विज्ञानमयाज्जीवादन्य एव परमात्मा आनन्दमय:॥ १३॥

(आनन्दमयशब्दे मयटः विकारार्थकत्वाशङ्का)

आह – नायमानन्दमयो जीवादन्य:, विकारशब्दस्य मयट् प्रत्ययस्य श्रवणात् मयड्वैतयो: (अष्टाध्याय्यां.४.३.१४३) इति प्रकृत्य नित्यं वृद्धशरादिभ्य: (अष्टाध्याय्यां ४.४.२४४) इति विकारार्थे मयट् स्मर्यते। वृद्धश्चायमानन्दशब्द:॥

ननु प्राचुर्येऽपि मयडस्ति तत्प्रकृतवचने मयट् (अष्टाध्याय्यां.५.४.२१) इति स्मृते:। यथा अन्नमयो यज्ञ: इति। स एवायं भविष्यति। नैवम् – अन्नमय इत्युपक्रमे विकारार्थत्वं दृष्टम्, अत औचित्यादस्यापि विकारार्थत्वमेव युक्तम्॥

किञ्च – प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न  सिद्ध्यति। तथाहि आनन्दप्रचुर इत्युक्ते दु:खमिश्रत्वमवर्जनीयम्। आनन्दस्य हि प्राचुर्यं दु:खस्याल्पत्वमवगमयति। दु:खमिश्रत्वमेव हि जीवत्वम्। अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम्॥

किञ्च लोके मृण्मयं हिरण्मयं दारुमयमित्यादिषु, वेदे च पर्णमयी जुहू: (यजुषि.३.५.७) शमीमय्यस्स्रुच:, दर्भमयी रशना (यजुषि.३.अष्टके.८.२) इत्यादिषु मयटो प्रयोगबाहुल्यात्स एव प्रथमतरं धियमधिरोहति। जीवस्य चानन्दविकारत्वमस्त्येव; तस्य स्वत आनन्दरूपस्य सतस्संसारित्वावस्था  तद्विकार एवेति। अतो विकारवाचिनो मयट् प्रत्ययस्य श्रवणादानन्दमयो जीवादनतिरिक्त इति।

तदेतदनुभाष्य परिहरति  –

(मयटः विकारार्थत्वनिरासः)

१४. विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १-१-१४ ॥

नैतद्युक्तं; कुत:? प्राचुर्यात् – परस्मिन् ब्रह्मण्यानन्दप्राचुर्यात्। प्राचुर्यार्थे च मयटस्सम्भवात्।  एतदुक्तं भवति – शतगुणितोत्तरक्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासम्भवाद्ब्रह्माश्रयोऽयमानन्द इति निश्चिते सति तस्मिन् ब्रह्मणि विकारासम्भवात् प्राचुर्येऽपि मयड्विधिसम्भवाच्चानन्दमय: परं ब्रह्म – इति।

औचित्यात्प्रयोगप्रौढ्या च मयटो विकारार्थत्वमर्थविरोधान्न सम्भवति। किञ्च औचित्यं प्राणमय एव परित्यक्तम्, तत्र विकारार्थत्वासम्भवात्। अतस्तत्र पञ्चवृत्तेर्वायो: प्राणवृत्तिमत्तामात्रेण प्राणमयत्वम्, प्राणापानादिषु पञ्चसु वृत्तिषु प्राणवृत्ते: प्राचुर्याद्वा । न च प्राचुर्ये मयट् प्रत्ययस्य प्रौढिर्नास्ति, अन्नमयो यज्ञ:, शकटमयी यात्रा  इत्यादिषु दर्शनात्॥

यदुक्तमानन्दप्राचुर्यमल्पदु:खसद्भावमवगमयतीति; तदसत्, तत्प्रचुरत्वं हि तत्प्रभूतत्वम्, तच्चेतरस्य सत्तां नावगमयति;  अपि तु तस्याल्पत्वं निवर्तयति। इतरसद्भावासद्भावौ तु प्रमाणान्तरावसेयौ, इह च प्रमाणान्तरेण तदभावोऽवगम्यते अपहतपाप्मा (छा.८-२-५) इत्यादिना। तत्रैतावदेव वक्तव्यं, ब्रह्मानन्दस्य प्रभूतत्वमन्यानन्दस्याल्पत्वमपेक्षत इति। उच्यते च तत् स एको मानुष आनन्द: (तै.आन.८.अनु) इत्यादिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशयदशापन्न: प्रभूत इति।

यच्चोक्तं जीवस्यानन्दविकारत्वं सम्भवतीति; तदपि नोपपद्यते, जीवस्य ज्ञानानन्दस्वरूपस्य केनचिदाकारेण मृद इव घटाद्याकारेण परिणामस्सकलश्रुतिस्मृति न्यायविरुद्ध:। संसारदशायां तु कर्मणा ज्ञानानन्दौ सङ्कुचितावित्युपपादियिष्येते। अतश्चानन्दमयो जीवादन्य: परं ब्रह्म॥१४॥

(आनन्दहेतौ आनन्दमयशब्दः आनन्दप्रचुरार्थकः)

इतश्च जीवांदन्य आनन्दमय: परं ब्रह्म –

१५. तद्धेतुव्यपदेशाच्च ॥ १-१-१५ ॥

को ह्येवान्यात्क: प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति (तै.आन.७.अनु) इति। एष एव जीवानानन्दयतीति जीवानन्दहेतुरयं व्यपदिश्यते। अतश्चानन्दयितव्याज्जीवादानन्दयिताऽयमन्य आनन्दमय: परमात्मेति विज्ञायते। आनन्दमय एवात्र आनन्दशब्देनोच्यत इति चानन्तरमेव वक्ष्यते॥

(सत्यं ज्ञानमिति मन्त्रवर्णेन आनन्दमयशब्देन च एकस्यैव वस्तुनः प्रतिपादनम् आनन्दमयस्य परमात्मत्वम्)

इतश्च जीवादन्य आनन्दमय:

१६. मान्त्रवर्णिकमेव च गीयते ॥ १-१-१६ ॥

सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१) इति मन्त्रवर्णोदितं ब्रह्मैवानन्दमय इति गीयते। तत्तु जीवस्वरूपादन्यत् परं ब्रह्म । तथा हि – ब्रह्मविदाप्नोति परम् (तै.आन.१) इति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम् ॥

तदेषाभ्युक्ता (तै.आन.१) इति – तत् ब्रह्म  अभिमुखीकृत्य प्रतिपाद्यतया परिगृह्य, ऋगेषा अध्येतृभिरुक्ता। ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मन्त्रेण क्रियत इत्यर्थ:, जीवस्योपासकस्य प्राप्यं ब्रह्म तस्माद्विलक्षणमेव। अनन्तरं च तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.७) इत्यारभ्योत्तरोत्तरैर्ब्राह्मणैर्मन्त्रैश्च तदेव विशदीक्रियते। अतो जीवादन्य आनन्दमय:॥

(प्राप्यस्य प्राप्तुश्च अभेदशङ्का-परिहारौ)

अत्राह – यद्यप्युपासकात्प्राप्यस्य भेदेन भवितव्यम्; तथापि न वस्त्वन्तरं जीवान्मान्त्रवर्णिकं ब्रह्म; किन्तु तस्यैवोपासकस्य निरस्तसमस्ताविद्यागन्धनिर्विशेषचिन्मात्रैकरसं शुद्धं स्वरूपम्, तदेव सत्यं ज्ञानमनन्तं ब्रह्म इति मन्त्रेण विशोध्यते। तदेव च यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह (तै.आन.३.९) इति वाङ्मनसागोचरतया निर्विशेषमिति गम्यते। अतस्तदेव मान्त्रवर्णिकमिति तस्मादनतिरिक्त आनन्दमय इति। अत उत्तरं पठति ।

१७. नेतरोऽनुपपत्ते: ॥ १-१-१७ ॥

परमात्मन इतरो जीवशब्दाभिलप्यो मुक्तावस्थोऽपि न भवति मान्त्रवर्णिक:। कुत:? अनुपपत्ते:। तथाविधस्यात्मनो निरुपाधिकं विपश्चित्त्वं नोपपद्यते । इदमेव हि निरुपाधिकं विपश्चित्त्वम् । सोऽकामयत बहु स्यां प्रजायेय (तै.आन.६) इति सत्यसङ्कल्पत्वप्रदर्शनेन विवरिष्यते। विविधं पश्यच्चित्त्वं  हि विपश्चित्त्वम्। पृषोदरादित्वात्पश्यच्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्द:। यद्यपि मुक्तस्य विपश्चित्त्वं सम्भवति; तथापि तस्यैवात्मनस्संसार दशायामविपश्चित्त्वमप्यस्तीति निरुपाधिकं विपश्चित्त्वं नोपपद्यते। निर्विशेषचिन्मात्रतापन्नस्य मुक्तस्य विविधदर्शनाभावात्सुतरां विपश्चित्त्वं न सम्भवतीति न केनापि प्रमाणेन निर्विशेषं वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तम् ॥

(यतो वाचः इति श्रुत्या निर्विशेषवस्तुनः असिद्धिः)

यतो वाचो निवर्तन्ते (तै.आन.९) इति च वाक्यं यदि वाङ्मनसयोर्ब्रह्मणो निवृत्तिमभिदधीत; न ततो निर्विशेषतां वस्तुनोऽवगमयितुं शक्नुयात्;  अपि तु वाङ्मनसयोस्तत्राप्रमाणतां वदेत्; तथा च सति तस्य तुच्छत्वमेवापद्यते। ब्रह्मविदाप्नोति (तै.आन.१) इत्यारभ्य ब्रह्मणो विपश्चित्त्वं जगत्कारणत्वं ज्ञानानन्दैकतानतामितरान्प्रत्यानन्दयितृत्वं कामादेव चिदात्मकस्य कृत्स्नस्रष्टृत्वं सृज्यवर्गानुप्रवेशकृततदात्मकत्वं भयाभयहेतुत्वं  वाय्वादित्यादीनां प्रशासितृत्वं शतगुणितोत्तरक्रमेण निरतिशयानन्दत्वमन्यच्चानेकं प्रतिपाद्य वाङ्मनसयो: ब्रह्मणि प्रवृत्त्यभावेन निष्प्रमाणकं  ब्रह्मेत्युच्यत इति भ्रान्तजल्पितम् यतो वाचो निवर्तन्ते (तै.आन.९) इति यच्छब्दनिर्दिष्टमर्थं आनन्दं ब्रह्मणो विद्वान्  (तै.आन.९) इत्यानन्दशब्देन प्रतिनिर्दिश्य तस्य ब्रह्मसम्बन्धित्वं ब्रह्मण इति व्यतिरेकनिर्देशेन प्रतिपाद्य तदेव वाङ्मनसागोचरं विद्वान् इति तद्वेदनमभिदधद्वाक्यं जरद्गवादिवाक्यवदनर्थकं वाच्यानन्तर्गतं च स्यात्॥

अतश्शतगुणितोत्तरक्रमेण ब्रह्मानन्दस्यातिशयेयत्तां वक्तुमुद्यम्य तस्येयत्ताया अभावादेव वाङ्मनसयोस्ततो निवृत्ति: यतो वाचो निवर्तन्ते (तै.आन.९) इत्युच्यते। एवमियत्तारहितं ब्रह्मण आनन्दं विद्वान् कुतश्चन न बिभेति इत्युच्यते। किञ्च अस्य मान्त्रवर्णिकस्य विपिश्चत: सोऽकामयत (तै.आन.६) इत्यारभ्य वक्ष्यमाणस्वसङ्कल्पाव  प्तजगज्जन्मस्थितिजगदन्तरात्मत्वादेः मुक्तात्मस्वरूपादन्यत्वं सुस्पष्टमेव॥१७॥

(भेदव्यपदेशात् श्रौतात् आनन्दमयस्य जीवादन्यता)

इतश्चोभयावस्थात्प्रत्यगात्मनोऽन्य आनन्दमय: –

१८. भेदव्यपदेशाच्च ॥ १-१-१८ ॥

तस्माद्वा एतस्मादात्मन आकाश: (तै.आन.१) इत्यारभ्य मान्त्रवर्णिकं ब्रह्म व्यञ्जयद्वाक्यमन्नप्राणमनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति तस्माद्वा एतस्माद्विज्ञानमयात्। (तै.आन.५) अन्योऽन्तर आत्माऽनन्दमय: (तै.आन.५) इति। अतो जीवाद्भेदस्य व्यपदेशाच्चायं मान्त्रवर्णिक आनन्दमयोऽन्य एवेति ज्ञायते ॥१८॥

(आनन्दमयस्य जीवादन्यत्वं अचित्संसर्गाभावकालिकसृष्टिसङ्कल्पज्ञाप्यम्)

इतश्च जीवादन्य: –

१९. कामाच्च नानुमानापेक्ष ा। १-१-१९ ॥

जीवस्याविद्यापरवशस्य जगत्कारणत्वे ह्यवर्जनीया आनुमानिक-प्रधानादिशब्दाभिधेय-अचिद्वस्तुसंसर्गापेक्षा; तथैव हि चतुर्मुखादीनां कारणत्वम्, इह च सोऽकामयत, बहु स्यां प्रजायेय (तै.आन.६) इत्यचित्संसर्गरहितस्य स्वकामादेव विचित्रचिदचिद्वस्तुनस्सृष्टि: इदं सर्वमसृजत, यदिदं किञ्च (तै.आन.६.२) इत्याम्नायते। अतोऽस्यानन्दमयस्य जगत्सृजतो नानुमानिकाचिद्वस्तु-संसर्गापेक्षा प्रतीयते। ततश्च जीवादन्य आनन्दमय:॥१९॥

(आनन्दमययोगेन जीवस्य आनन्दलाभात् ज्ञापकात् आनन्दमयस्य जीवादन्यत्वम्)

इतश्च जीवादन्यः आनन्दमयः –

२०. अस्मिन्नस्य च तद्योगं शास्ति ॥ १-१-२० ॥

अस्मिन् – आनन्दमये, अस्य जीवस्य, तद्योगम् – आनन्दयोगम्, शास्ति शास्त्रम्  – रसो वै स:। रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति (तै.आन.७.१) इति। रसशब्दाभिधेयानन्दमयलाभादयं जीवशब्दाभिलपनीय आनन्दी भवतीत्युच्यमाने यल्लाभाद्य आनन्दी भवति, स स एवेत्यनुन्मत्त: को ब्रवीतित्यर्थ:॥

(आनन्दानन्दमयशब्दयोः अर्थाभेदः)

एवमानन्दमय: परं ब्रह्मेति निश्चिते सति यदेष आकाश आनन्द: (तै.आन.७), विज्ञानमानन्दं ब्रह्म (वृ.५.९.२८) इत्यादिष्वानन्दशब्देनानन्दमय एव परामृश्यते। यथा विज्ञानशब्देन विज्ञानमय: अत एव आनन्दं ब्रह्मणो विद्वान् (तै.आन.९.१) इति व्यतिरेकनिर्देश:। अत एव च आनन्दमयमात्मानमुपसंक्रामति (तै.आन.८.५) इति फलनिर्देशश्च। उत्तरे चानुवाके पूर्वानुवाकोक्तानामन्नमयादीनाम् अन्नं ब्रह्मेति व्याजानात् (तै.भृ.२), प्राणो ब्रह्मेति व्यजानात् (तै.भृ.३) मनो ब्रह्मेति व्यजानात् (तै.भृ.४), विज्ञानं ब्रह्मेति व्यजानात् (तै.भृ.५.१) इति प्रतिपादनात्। आनन्दो ब्रह्म (तै.भृ.६.१) इत्यप्यानन्दमयस्यैव प्रतिपादनमिति विज्ञायते; तत एव तत्रापि आनन्दमयमात्मानमुपसङ्क्रम्य (तै.आन.१०.५) इत्युपसंहृतम्।

अत: प्रधानशब्दाभिलप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्तरत्वं  सिद्धम्॥ २०॥

इति श्रीशारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम्॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.