श्रीभाष्यम् 01-01-07 अन्तरधिकरणम्

(आनन्दमयाधिकरणशेषभूतम्)

श्रीशारीरमीमांसाभाष्ये अन्तरधिकरणम्॥७॥

 (अधिकरणार्थः – अक्ष्यादित्यान्तर्वर्तित्वेनोपास्यत्वमपि न जीवविशेषस्य, किन्तु परमात्मन एव)

(अन्तरादित्यविद्या, अन्तरक्षिविद्या च छा.उ.1-6-7) (निर्विशेषवस्तुनः)

(अवान्तरसङ्गतिप्रदर्शनम्)

यद्यपि मन्दपुण्यानां जीवानां, कामाज्जगत्सृष्टिः, अतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि  न सम्भवति, तथापि, विलक्षणपुण्यानां आदित्येन्द्र प्रजापतिप्रक्षृतीनां सम्भवत्येवेति इमां आशङ्कां निराकरोति –

२१. अन्तस्तद्धर्मोपदेशात् ॥ १-१-२१ ॥

(विषयवाक्यप्रदर्शनम्)

इदमाम्नायते छान्दोग्ये य एषोऽन्तरादित्ये हिरण्मय: पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्ण:। तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदित नाम स एष सर्वेभ्य: पाप्मभ्य उदित: उदेति ह वै सर्वेभ्य: पाप्मभ्यो य एवं वेद। तस्यर्क्च साम च गेष्णौ इत्यधिदैवतम् (छा.१.६.६,७,८) अथाध्यात्मम्, अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तदुक्थ्यं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम (छा.१.७.५) इति॥

(संशयस्वरूपम्)

तत्र सन्दिह्यते – किमयमक्ष्यादित्यमण्डलार्न्तवर्ती पुरुष: पुण्योपचयनिमित्तैश्वर्य आदित्यादिशब्दाभिलप्यो जीव एव; आहोस्वित्तदतिरिक्त: परमात्मा – इति।

(पूर्वपक्षः)

किं युक्तम्? उपिचतपुण्यो जीव एवेति।

(पूर्वपक्षे युक्तिः)

कुत:? सशरीरत्वश्रवणात्। शरीरसम्बन्धो हि जीवानामेव सम्भवति। कर्मानुगुणप्रियाप्रिययोगाय हि शरीरसम्बन्ध:। अत एव हि कर्मसम्बन्धरहितस्य मोक्षस्य प्राप्यत्वमशरीरत्वेनोच्यते न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत: (छा.८.१२.१) इति। सम्भवति च पुण्यातिशयात् ज्ञानाधिक्यम्, शक्त्याधिक्यञ्च। अत एव लोककामेशत्वादि तस्यैवोपपद्यते। तत एव चोपास्यत्वम्, फलदायित्वं, पापक्षपणकरत्वेन मोक्षोपयोगित्वं च। मनुष्येष्वप्युपचितपुण्या: केचित् ज्ञानशक्त्यादिभिरधिकतरा दृश्यन्ते; ततश्च  सिद्धगन्धर्वादय:; ततश्च देवा:; ततश्चेन्द्रादय:। अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशेषेणैवम्भूतमैश्वर्यं प्राप्तो जगत्सृष्ट्याद्यपि करोतीति जगत्कारणत्वजगदन्तरात्मत्वादि वाक्यमस्मिन्नेवोपचितपुण्यविशेषे सर्वज्ञे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्त: परमात्मा नाम कश्चिदस्ति। एवं च सति अस्थूलमनण्वह्रस्वम् (बृ.५.८.८) इत्यादयो जीवात्मनस्स्वरूपाभिप्राया  भवन्ति। मोक्षशास्त्राण्यपि तत्स्वरूपतत्प्रात्युपायोपदेशपराणि – इति॥

(सिद्धान्तः सयुक्तिकः)

एवं प्राप्तेऽभिधीयते – अन्तस्तद्धर्मोपदेशात् ।

(तत्र सूत्राक्षरार्थवर्णनम्)

अन्तरादित्येऽन्तरक्षिणि च य: पुरुष: प्रतीयते, स जीवादन्य: परमात्मैव; कुत:? तद्धर्मोपदेशात् – जीवेष्वसम्भवंस्तदतिरिक्तस्यैव परमात्मनो धर्मोऽयमपहतपाप्मत्वादि: स एष सर्वेभ्य: पाप्मभ्य उदित: (छा.१.६.७) इत्यादिनोपदिश्यते। अपहतपाप्मत्वं हि अपहतकर्मत्वम्, कर्मवश्यतागन्धरहितत्वमित्यर्थ:। कर्माधीनसुखदु:खभागित्वेन कर्मवश्या हि जीवा:। अतोऽपहतपाप्मत्वं जीवादन्यस्य परमात्मन एव धर्म: ॥ तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम्, सत्यसङ्कल्पत्वादिकम् सर्वभूतान्तरात्मत्वञ्च तस्यैव धर्म:। यथाह एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: सत्यकामस्सत्यसङ्कल्प: (छा.८.१.५) इति, तथा एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७) इति। सोऽकामयत। बहु स्यां प्रजायेयेति (तै.आन.६) इत्यादिसत्यसङ्कल्पत्वपूर्वक समस्तचिदचिद्वस्तुसृष्टियोगो निरुपाधिकभयाभयहेतुत्वम्, वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधिकातिशयान्दयोग इत्यादयोऽकर्मसम्पाद्यास्स्वाभाविका धर्मा जीवस्य न सम्भवन्ति॥

(पूर्वपक्षस्य सयुक्तिकः निरासः)

यत्तु शरीरसम्बन्धान्न जीवातिरक्त इत्युक्तम्; तदसत्, न हि सशरीरत्वं कर्मवश्यतां साधयति, सत्यसङ्कल्पस्येच्छयाऽपि शरीरसम्बन्धसम्भवात्। अथोच्यते – शरीरं नाम त्रिगुणात्मकप्रकृति-परिणामरूपभूतसङ्घात:; तत्सम्बन्धश्चापहतपाप्मनस्सत्यसङ्कल्पस्य पुरुषस्य इच्छया न सम्भवति, अपुरुषार्थत्वात्। कर्मवश्यस्य तु स्वरूपानभिज्ञस्य कर्मानुगुणफलोपभोगायानिच्छतोऽपि तत्सम्बन्धोऽवर्जनीय: – इति॥

(भगवतः अकर्मवश्यस्याऽपि देहसम्बन्धः)

स्यादेतदेवम्। यदि गुणत्रयमय: प्राकृतोऽस्य देहस्स्यात्; स तु स्वाभिमतस्स्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम्॥

एतदुक्तं भवति – परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानविधकातिशयासङ्ख्येयकल्याणगुणगणाश्च सन्ति। तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्य-दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्य-सौकुमार्य-लावण्ययौवनाद्यनन्तगुणगणनिधिदिव्यरूपमपि स्वाभाविकमस्ति। तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूपसंस्थानं करोत्यपारकारुण्यसौशील्यवात्सल्यौदार्य- जलनिधि:, निरस्तनिखिलहेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायण: इति॥

(उक्तेर्थे प्रमाणानि)

यतो वा इमानि भूतानि जायन्ते (तै.भृ.१), सदेव सोम्येदमग्र आसीत् (छा.६.२.१), आत्मा वा इदमेक एवाग्र आसीत् (ऐतरेय.१.१.१), एको ह वै नारायण आसीन्न ब्रह्मा नेशान: (महोप.१.१) इत्यादिषु निखिलजगदेककारणतयाऽवगतस्य परस्य ब्रह्मण: सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१), विज्ञानमनन्दं ब्रह्म (बृ.५.९.२८), इत्यादिष्वेवम्भूतं स्वरूपमित्यवगम्यते। निर्गुणम् (आत्मोप), निरञ्जनम् (श्वेता.६.१९), अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामः सत्यसङ्कल्प: (छा.८.५.१), न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यिधकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८), तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् (श्वे.६.७), स कारणं करणाधिपाधियो न चास्य कश्चिज्जनिता न चाधिप: (श्वे.६.९), सर्वाणि रूपाणि विचित्य धीर:। नामानि कृत्वाऽभिवदन्यदास्ते (तै.य.आर.३.१२), वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमस: परस्तात् (तै.यजु.आर.३.१२), सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (तै.नारा.१.अनु.८) इत्यादिषु परस्य ब्रह्मण: प्राकृतहेयगुणान् प्राकृतहेयदेहसम्बन्धं तन्मूलकर्मवश्यतासम्बन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपं च वदन्ति। तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्त्यनुगुणाकारं देवमनुष्यादिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान्। तदिदमाह श्रुति: – अजायमानो बहुधा विजायते (तै.आर.३.१२) इति। स्मृतिश्च अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया। परित्राणाय साधूनां विनाशाय च दुष्कृताम् (भ.गी.४.६) इति। साधवो ह्युपासका:, तत्परित्राणमेवोद्देश्येम्, आनुषङ्गिकस्तु दुष्कृतां विनाश:, सङ्कल्पमात्रेणापि तदुपपत्ते:। प्रकृतिं स्वाम्, इति प्रकृति: – स्वभाव:। स्वमेव स्वभावमास्थाय, न संसारिणां स्वभावमित्यर्थ:। आत्ममाययेति स्वसङ्कल्परूपेण  ज्ञानेनेत्यर्थ: ।

माया वयुनं ज्ञानम् (वेदनिखण्टौ,धर्मवर्गे,२२.श्लो.) इति ज्ञानपर्यायमपि मायाशब्दं नैखण्टुका अधीयते। आह च भगवान् पराशर: – समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिता:।  तद्विश्वरूपवैरूप्यं रूपमन्यद्धेरर्महत्॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर। देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया। जगतामुपकाराय न सा कर्मनिमित्तजा – (वि.पु.६.७.७०) इति । महाभारते चावताररूपस्याप्यप्राकृतत्वमुच्यते न भूत सङ्घसंस्थानो देहोऽस्य परमात्मन: इति। अत: परस्यैव ब्रह्मण एवंरूपवत्त्वादयमपि तस्यैव धर्म:। अत आदित्यमण्डलाक्ष्यधिकरण: आदित्यादिजीवव्यतिरिक्त: परमात्मैव ॥ २१॥

२२. भेदव्यपदेशाच्चान्य: ॥ १-१-२२ ॥

(जीवभेदसाधकं हेत्वन्तरम्)

आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मन: – य आदित्ये तिष्ठान्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति । (बृ.५.७.९) य आत्मनि तिष्ठान्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति (बृ.५.७.२२) इति । योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुवाल.७) इति चास्यापहतपाप्मन: परमात्मनस्सर्वान् जीवान्  शरीरत्वेन व्यपदिश्य तेषामन्तरात्मत्वेनैनं व्यपदिशति। अतस्सर्वेभ्यो हिरण्यगर्भादिजीवेभ्योऽन्य एव परमात्मेति सिद्धम्॥२॥

इति श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम्॥७॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.