श्रीभाष्यम् 01-01-11 इन्द्रप्राणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम्॥११॥

(अधिकरणार्थः – इन्द्रत्वेनोपास्यः, न तु शचीपतिरिन्द्रः

(प्रतर्दनविद्या (कौषी.उ.3))

(अवान्तरसङ्गतिः)

निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवन्निर्दिष्टं परमपुरुष एवेत्युक्तम्। इदानीं कारणत्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुत इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह

२९. प्राणस्तथाऽनुगमात् ॥ १-१-२९ ॥

(विषयवाक्यप्रतिपादनम्

कौषीतकीब्राह्मणे प्रतर्दनविद्यायां प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च (कौ.३-१) इत्यारभ्य वरं वृणीष्व (कौ.३.१) इति वक्तारमिन्द्रं प्रति त्वमेव मे वरं वृणीष्व यं त्व मनुष्याय हिततमं मन्यसे (कौ.३.१) इति प्रतर्दनेनोक्ते        स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व (कौ.३.१) इति श्रूयते ॥

(अधिकरणाङ्गभूतः संशयः)

तत्र संशय: – किमयं हिततमोपासनकर्मतयेन्द्रप्राणशब्दनिर्दिष्टो जीव एव; उत तदतिरिक्त: परमात्मा इति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्, जीव एवेति। कुत:? इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धे:, तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्ते:। अयमिन्द्राभिधानो जीव: प्रतर्दनेन त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे (कौ.३.१) इत्युक्त: मामुपास्व (कौ.३.१) इति स्वात्मोपासनं हिततममुपदिदेश। हिततमश्चामृतत्वप्राप्त्युपाय एव। जगत्कारणोपासनस्यैव अमृतत्वप्राप्तिहेतुता तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.६.१४.२) इत्यवगता। अत: प्रसिद्धजीवभाव इन्द्र एव कारणं ब्रह – इत्याशङ्कायाम्

(सिद्धान्तारम्भः)

अभिधीयते प्राणस्तथानुगमात् – इति; अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रम्,  अपि तु जीवादर्थान्तरभूतं परं ब्रह्म। स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोमृत: (कौ.३.१) इतीन्द्रप्राणशब्दाभ्यां प्रस्तुतस्याऽनन्दजरामृतशब्द सामानाधिकरण्येनानुगमो हि तथा सत्येवोपपद्यते ॥२९॥

(उक्तस्य सिद्धान्तस्यार्थस्य आक्षेपपूर्वकं स्थिरीकरणम्)

३०. न वक्तुरात्मोपेदशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ १-१-३० ॥

(सिद्धान्तिनं प्रति मध्ये पूर्वपक्षः, समाधानं च)

यदुक्तमिन्द्रप्राणशब्दनिर्दिष्टस्य आनन्दोऽजरोऽमृत: (कौ.३.९) इत्यनेनैकार्थ्यादयं परं ब्रह्मेति तत्  नोपपद्यते, मामेव विजानीहि (कौ.३.१), प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व (कौ.३.१) इति वक्ता हीन्द्र: त्रिशीर्षाणं त्वाष्ट्रमहनम् (कौ.३.१) इत्येवमादिना त्वाष्ट्रवधादिभि: प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति। अत उपक्रमे जीविविशेष इत्यवगते सति आनन्दोऽजरोऽमृत: (कौ.३.९) इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत् –

परिहरति- अध्यात्मसम्बन्धभूमा ह्यस्मन् – आत्मनि यस्सम्बन्धस्सोऽध्यात्मसम्बन्ध:। तस्य भूमा – भूयस्त्वम् – बहुत्वमित्यर्थ:। आत्मन्याधेयतया सम्बध्यमानानां बहुत्वेन सम्बन्धबहुत्वम्। तच्चास्मिन्वक्तरि परमात्मन्येव हि सम्भवति। तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्रा: प्राणेऽर्पितास्स एष प्राण एव प्रज्ञात्माऽजरोऽमृत: (कौ.३.९) इति भूतमात्राशब्देनाचेतनवस्तुजातमभिधाय प्रज्ञामात्राशब्देन तदाधारतया चेतनवर्गं चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निर्दिश्य तमेव आनन्दोऽजरोऽमृत:, (कौ.३.९) इत्युपदिशति। तदेतच्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् परमात्मन्येवोपपद्यत इत्यर्थ:।

(मुखान्तरेण योजनम्)

अथवा अध्यात्मसम्बन्धभूमा ह्यस्मिन्  परमात्मासाधारणधर्मसम्बन्धोऽध्यात्मसम्बन्ध:। तस्य भूमा बहुत्वं हि अस्मिन् प्रकरणे विद्यते। तथाहि – प्रथमं त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे (कौ.३.९) इति मामुपास्स्व (कौ.३.९) इति च परमात्मासाधारणमोक्षसाधानोपासनकर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते। तथा एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषति, (कौ.३.९) इति सर्वस्य कर्मण: कारयितृत्वं च परमात्मधर्म:। तथा तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा  अर्पिता: एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्रा: प्राणेऽर्पिता: (कौ.३.९) इति सर्वाधारत्वं च तस्यैव धर्म:। तथा स एष प्राण एव प्रज्ञात्माऽनन्दोऽजरोऽमृत: (कौ.३.९) इत्येतेऽपि परमात्मन एव धर्मा:।  एष लोकाधिपतिरेष सर्वेश: (कोषी.३.९) इति च परमात्मन्येव सम्भवति। तदेवमध्यात्मसम्बन्धभूम्नोऽत्र विद्यमानत्वात्परमात्मैवात्रेन्द्रप्राणशब्दनिर्दिष्ट:॥३०॥

(इन्द्रेण स्वात्मनः उपास्यत्वोपदेशसाङ्गत्यम्)

कथं तर्हि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशस्सङ्गच्छते; तत्राह-

३१. शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ १-१-३१ ॥

प्रज्ञातजीवभावेनेन्द्रेण मामेव विजानीहि (कौ.३.१.) मामुपास्स्व (कौ.३.१.) इत्युपास्यस्य ब्रह्मणस्स्वात्मत्वेनोपदेशोऽयं न प्रमाणान्तरप्राप्तस्वात्मावलोकनकृत:,  अपितु शास्त्रेण स्वात्मदृष्टिकृत: ॥

(जीववाचिशब्दानां परमात्मपर्यन्तत्वसमर्थनम्)

एतदुक्तं भवति –  अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२), ऐतदात्म्यमिदं सर्वम् (छां.६.८.७), अन्त:प्रविष्टश्शास्ताजनानां सर्वात्मा (यजु.आर), य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति (बृ.५.७.२२), एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७) इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य जीवात्मवाचिनां अहंत्वमादिशब्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा मामेव विजानीहि (कौषी.३.९) मामुपास्स्व (कौ.३.१) इति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेश – इति। वामदेववत् – यथा वामदेव: परस्य ब्रह्मण: सर्वान्तरात्मत्वं सर्वस्य च तच्छरीरत्वं शरीरवाचिनां च शब्दानां शरीरिणि पर्यवसानं पश्यन् अहम् इति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति तद्धैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मि विप्र: (बृ.३.४.१०) इत्यादिना। यथा च प्रह्लाद: सर्वगत्वादनन्तस्य स एवाहमवस्थित:। मत्तस्सर्वमहं सर्वं मयि सर्वं सनातने (वि.पु.१.१९.८९) इत्यादि वदति॥३१॥

    अस्मिन् प्रकरणे जीववाचिभिश्शब्दैरचिद्विशेषाभिधायिभिश्चोपास्यभूतस्य परस्य ब्रह्मणोऽभिधाने कारणं चोद्यपूर्वकमाह –

३२. जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ १-१-३२ ॥

न वाचं विजिज्ञासीत वक्तारं विद्यात् (कौ.१.८), त्रिशीर्षाणं त्वाष्ट्रमहनम् अरुन्मुखान्यतीन् सालावृकेभ्य: प्रायच्छम् (कौषी ३.१) इत्यादिजीवलिङ्गात्, यावदस्मिन् शरीरे प्राणो वसति तावदायु: (कौ.३.१) अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति (कौ.३.१) इति मुख्यप्राणलिङ्गाच्च नाध्यात्मसम्बन्धभूमेति चेत् – न, उपासात्रैविध्यात् हेतो: उपासनात्रैविध्यमुपदेष्टुं तत्तच्छब्देनाभिधानम् – निखिलकारणभूतस्य ब्रह्मणस्स्वरूपेणानुसन्धानम्, भोक्तृवर्गशरीरकत्वानुसन्धानं भोग्यभोगोपकरणशरीरकत्वानुसन्धानं चेति त्रिविधमनुसन्धानं उपदेष्टुमित्यर्थ:। तदिदं त्रिविधं ब्रह्मानुसन्धानं प्रकरणान्तरेष्वप्याश्रितम् सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१) आनन्दो ब्रह्म (तै.भृ.६.अनु) इत्यादिषु स्वरूपानुसन्धानम्; तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य, सच्चत्यच्चाभवत्, निरुक्तं चानिरुक्तं च, निलयनं चानिलयनं च, विज्ञानं चाविज्ञानं च, सत्यं चानृतं च सत्यमभवत् (तै.अन.६.२) इत्यादिषु भोक्तृशरीरतया, भोग्यभोगोपकारणशरीरतया चानुसन्धानम्। इहापि प्रकरणे तत् त्रिविधमनुसन्धानं युज्यत एवेत्यर्थ:।

(विशिष्टोपासनपरताचिह्नप्रदर्शनम्)

एतदुक्तं भवति – यत्र हिरण्यगर्भादिजीवविशेषाणां प्रकृत्याद्यचेतनविशेषाणां च परमात्मासाधारण-धर्मयोग: तदभिधायिनां शब्दानां परमात्मवाचिशब्दैस्सामानाधिकरण्यं वा दृश्यते; तत्र परमात्मन: तत्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितम् – इति।

अतोऽत्रेन्द्रप्राणशब्दनिर्दिष्टो जीवादर्थान्तरभूत: परमात्मैवेति  सिद्धम्॥ ३२॥

इति श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम्॥११॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य प्रथम:पाद: ॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.