(अपूर्वतारूपतात्पर्यलिङ्गसमर्थनपरम्)
श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम्
(अधिकरणार्थः – ब्रह्मणः शास्त्रैकगम्यत्वम्)
जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम्। तदयुक्तम्। तद्धि न वाक्यप्रतिपाद्यम्। अनुमानेन सिद्धेरित्याशङ्क्याह –
३. शास्त्रयोनित्वात् ॥ १-१-३ ॥
(सूत्रविवरणम्)
शास्त्रं यस्य योनि: कारणं प्रमाणम्, तच्छास्त्रयोनि; तस्य भावश्शास्त्रयोनित्वम्। तस्मात् ब्रह्मज्ञानकारणत्वात् शास्त्रस्य, तद्योनित्वं ब्रह्मण:। अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश्शास्त्रैकप्रमाणकत्वात् उक्तस्वरूपं ब्रह्म यतो वा इमानि भूतानि (तै.भृ.१.) इत्यादिवाक्यं बोधयत्येवेत्यर्थ:॥
(वर्णिते सूत्रार्थे पूर्वपक्षिणः आक्षेपः)
ननु – शास्त्रयोनित्वं ब्रह्मणो न सम्भवति, प्रमाणान्तरवेद्यत्वाद्ब्रह्मण:। अप्राप्ते तु शास्त्रमर्थवत्॥
(सिद्धान्त्येकदेशिनः मीमांसकत्वाक्षेपः)
किन्तर्हि तत्र प्रमाणम् ? न तावत् प्रत्यक्षम्। तद्धि द्विविधम्। इन्द्रियसम्भवं योगसम्भवं चेति। इन्द्रियसंभवञ्च बाह्यसम्भवम्, आन्तरसम्भवञ्चेति द्विधा। बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्वविषयबोधजननानीति न सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेष-विषयबोधजननानि। नाप्यान्तरम्, आन्तरसुखदु:खादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्ते:। नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुत: प्रत्यक्षता; तदतिरिक्तविषयत्वे कारणाभावात्। तथा सति तस्य भ्रमरूपता। नाप्यनुमानं विशेषतो दृष्टं सामान्यतो दृष्टं वा; अतीन्द्रिये वस्तुनि सम्बन्धावधारणविरहान्न विशेषतो दृष्टम्। समस्तवस्तुसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषनियतं सामान्यतो दृष्टमपि न लिङ्गमुपलभ्यते॥
(पूर्वपक्ष्येकदेशिनः आक्षेपः)
ननु च जगत: कार्यत्वं तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम्। अचेतनारब्धत्वं जगतश्चैकचेतनाधीनत्वेन व्याप्तम्। सर्वं हि घटादिकार्यं तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम्। अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनं च। सावयवत्वेन जगत: कार्यत्वम् ॥
(सिद्धान्त्येकदेशिनः दूषणम्)
उच्यते – किमिदमेकचेतनाधीनत्वम्? न तावत्तदायत्तोत्पत्तिस्थितित्वम्; दृष्टान्तो हि साध्यविकलस्स्यात्, न ह्यरोगं स्वशरीरमेकचेतनायत्तोत्पत्तिस्थिति, तच्छरीरस्य भोक् णां भार्यादिसर्वचेतनानां अदृष्टजन्यत्वात्तदुत्पत्तिस्थित्यो:। किञ्च शरीरावयविनस्स्वावयवसमवेततारूप-स्थिति: अवयवसंश्लेषविशेषव्यतिरेकेण न चेतनमपेक्षते। प्राणनलक्षणा तु स्थिति: पक्षत्वाभिमते क्षितिजलाब्धिमहीधरादौ न संभवतीति पक्षसपक्षानुगतामेकरूपां स्थितिं नोपलभामहे। तदायत्तप्रवृत्तित्वं तदधीनत्वमिति चेत् – अनेकचेतनसाध्येषु गुरुतररथशिलामहीरुहादिषु व्यभिचार:। चेतनमात्राधीनत्वे सिद्धसाध्यता॥
(कार्यत्वहेतुकानुमाने सिद्धसाधनदोषः)
किञ्च – उभयवादिसिद्धानां जीवानामेव लाघवेन कर्तृत्वाभ्युपगमो युक्त:। न च जीवानामुपादानाद्यनभिज्ञतया कर्तृत्वासंभव:; सर्वेषामेव चेतनानां पृथिव्याद्युपादानयागाद्युपकरण-साक्षात्कारसामर्थ्यात्। यथेदानीं पृथिव्यादयो यागादयश्च प्रत्यक्षमीक्ष्यन्ते। उपकरणभूत-यागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावेऽपि चेतनानां न कर्तृत्वानुपपत्ति:, तत्साक्षात्कारानपेक्षणात्कार्यारम्भस्य। शक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी। शक्तेस्तु ज्ञानमात्रमेवोपयुज्यते; न साक्षात्कार:। न हि कुलालादय: कार्योपकरणभूतदण्डचक्रादिवत्तच्छक्तिमपि साक्षात्कृत्य घटमणिकादिकार्यमारभन्ते। इह तु चेतनानामागमावगतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्न:।
(कार्यत्वहेतुकानुमानस्य सोपाधिकता)
किञ्च यच्छक्यक्रियं शक्योपादानादिविज्ञानञ्च, तदेव तदभिज्ञकर्तृकं दृष्टम्। महीमहीधरमहार्णवादि तु अशक्यक्रियमशक्योपादानादिविज्ञानं चेति न चेतनकर्तृकम्। अतो घटमणिकादिसजातीय-शक्यक्रियशक्योपादानादिविज्ञानवस्तुगतमेव कार्यत्वं बुद्धिमत्कर्तृपूर्वकत्व-साधने प्रभवति ॥
(कार्यत्वहेतोः अभिमतविशेषविरुद्धत्वम्)
किञ्च – घटादिकार्यमनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रहवताऽनाप्तकामेन निर्मितं दृष्टमिति तथाविधमेव चेतनं कर्तारं साधयन्नयं कार्यत्वहेतुस्सिषाधियिषित-पुरुषसार्वज्ञ्यसर्वैश्वर्यादिविपरीतसाधनाद्विरुद्धस्स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्ग:। लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास्तत्प्रमाणप्रतिहतगतयो निवर्तन्ते। इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे, अन्वयव्यतिरेकावगताविनाभावनियमा धर्मास्सर्व एवाविशेषेण प्रसज्यन्ते। निवर्तकप्रमाणाभावात्तथैवावतिष्ठन्ते। अत आगमादृते कथमीश्वरस्सेत्स्यति।
(साक्षात्पूर्वपक्षिणं प्रस्तुत्योक्तिः)
अत्राहु: – सावयवत्वादेव जगत: कार्यत्वं न प्रत्याख्यातुं शक्यते। भवन्ति च प्रयोगा:-
- विवादाध्यासितं भूभूधरादि कार्यं, सावयवत्वात्, घटादिवत्। तथा, 2. विवादाध्यासितमवनि-जलधि-महीधरादि कार्यं, महत्त्वे सति क्रियावत्त्वात्, घटवत्। 3. तनुभवनादि कार्यं महत्त्वे सति मूर्तत्वात्, घटवत् – इति। सावयवेषु द्रव्येषु इदमेव क्रियते नेतरत् इति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे।
(उपाधिशङ्कापरिहारौ)
कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यत इति चेन्न; कार्यत्वेनानुमतेऽपि विषये ज्ञानशक्ती कार्यानुमेये – इत्यन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने एवेति न कश्चिद्विशेष:। तथाहि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगत-तन्निर्माणशक्तिज्ञान: पुरुषोऽदृष्टपूर्वं विचित्रसन्निवेशं नरेन्द्रभवनमालोक्य अवयवसन्निवेशविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोति। अतस्तनुभुवनादे: कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुण: कश्चित्पुरुषविशेषः सिद्ध्यत्येव॥
(सिद्धसाधनत्वनिरासः, अनुमानान्तरप्रदर्शनं च)
किञ्च – सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदु:खोपभोगे चेतनानधिष्ठितयोस्तयोरचेतनयो: फलहेतुत्वानुपपत्ते: सर्वकर्मानुगुणसर्वफलप्रदानचतुर: कश्चिदास्थेय:; वर्धकिनाऽनधिष्ठितस्य वास्यादेः अचेतनस्य देशकालाद्यनेकपरिकरसन्निधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात्। बीजाङ्कुरादे: पक्षान्तर्भावेन तैर्व्यभिचारापादनं श्रोत्रियवेतालानामनभिज्ञताविजृम्भितम्। तत एव सुखादिभिः व्यभिचारवचनमपि तथैव। न च लाघवेनोभयवादिसंप्रतिपन्नक्षेत्रज्ञानामेव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्, तेषां सूक्ष्मव्यवहितविप्रकृष्ट-दर्शनाशक्तिनिश्चयात्। दर्शनानुगुणैव हि सर्वत्रकल्पना। न च क्षेत्रज्ञवदीश्वरस्याशक्तिनिश्चयोऽस्ति। अत: प्रमाणान्तरतो न तत्सिद्ध्यनुपपत्ति: । समर्थकर्तृपूर्वकत्वनियतकार्यत्वहेतुना सिध्यन् स्वाभाविकसर्वार्थसाक्षात्कारतन्नियमनशक्तिसंपन्न एव सिद्ध्यति ॥
(कार्यत्वहेतोः विरुद्धताव्युदाः)
यत्त्वनैश्वर्याद्यापादनेन धर्मिविशेषविपरीतसाधनत्वमुन्नीतम्, तदनुमानवृत्तानभिज्ञत्व-निबन्धनम्, सपक्षे सहदृष्टानां सर्वेषां कार्यस्याहेतुभूतानां, च धर्माणां लिङ्गिन्यप्राप्ते:॥
एतदुक्तं भवति – केनचित् किञ्चित् क्रियमाणं स्वोत्पत्तये कर्तु: स्वनिर्माणसामर्थ्यं स्वोपादानोपकरणज्ञानं चापेक्षते; न त्वन्यासामर्थ्यमन्याज्ञानं च, हेतुत्वाभावात्। स्वनिर्माणसामर्थ्य-स्वोपादानोपकरणज्ञानाभ्यामेव स्वोत्पत्तावुपपन्नायां संबन्धितया दर्शनमात्रेणाकिञ्चित्करस्य अर्थान्तराज्ञानादे: हेतुत्वकल्पनायोगात् – इति। किञ्च – क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं किं सर्वविषयं क्रियोपयोगि; उत कतिपयविषयम्। न तावत्सर्वविषयम्; न हि कुलालादि: क्रियमाणव्यतिरिक्तं किमपि न जानाति। नापि कतिपयविषयम्, सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभिचारात्। अत: कार्यत्वस्यासाधकानां अनीश्वरत्वादीनां लिङ्गिन्यप्राप्तिरिति न विपरीतसाधनत्वम्॥
(शरीरस्य कार्योपयोगित्वशङ्कापरिहारौ)
कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्टमिति जगदुपादानोपकरणाधिष्ठानं ईश्वरस्य अशरीरस्यानुपपन्नमिति चेन्न; संकल्पमात्रेणैव परशरीरगत-भूतवेतालगरलाद्यपगम-विनाशदर्शनात्। कथमशरीरस्य परप्रवर्तनरूपस्संकल्प इति चेन्न शरीरापेक्षस्संकल्प:, शरीरस्य संकल्पहेतुत्वाभावात्। मन एव हि संकल्पहेतु:। तदभ्युपगतमीश्वरेऽपि; कार्यत्वेनैव ज्ञानशक्तिवन्मनसोऽपि प्राप्तत्वात्। मानसस्सङ्कल्प: सशरीरस्यैव, सशरीरस्यैव समनस्कत्वादिति चेन्न, मनसो नित्यत्वेन देहापगमेऽपि मनसस्सद्भावेनानैकान्त्यात्। अतो विचित्रावयवसन्निवेश-विशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवश: परिमितशक्तिज्ञान: क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्यापरिमितज्ञानशक्त्यैश्वर्योऽशरीर: संकल्पमात्रसाधन-परिनिष्पन्न अनन्तविस्तारविचित्ररचनप्रपञ्च: पुरुषविशेष ईश्वरोऽनुमानेनैव सिद्ध्यति ॥
(ब्रह्मणि शास्त्राप्रामाण्यनिगमनम्)
अत: प्रमाणान्तरावसेयत्वाद्ब्रह्मण: नैतद्वाक्यं ब्रह्म प्रतिपादयति॥
किञ्च अत्यन्तभिन्नयोरेव मृद्द्रव्यकुलालयोर्निमित्तोपादानत्वदर्शनेन आकाशादेर्निरवयव-द्रव्यस्य कार्यत्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नस्य जगतो निमित्तमुपादानं च प्रतिपादयितुं शक्नोतीति॥
(सिद्धान्तोपक्रमः, तत्र परमसाध्यप्रतिज्ञा)
एवं प्राप्ते ब्रूम: – यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्येव। कुत:? शास्त्रैकप्रमाणकत्वाद्ब्रह्मण:।
(पूर्वपक्षानुभाषणपूर्वकं दूषणम्)
यदुक्तं सावयवत्वादिना कार्यं सर्वं जगत्। कार्यं च तदुचितकर्तृविशेषपूर्वकं दृष्टमिति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुर: कश्चिदनुमेय: – इति। तदयुक्तम्, महीमहार्णवादीनां कार्यत्वेऽप्येकदैवैकेनैव निर्मिता इत्यत्र प्रमाणाभावात्। न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वम्, येनैकदैवैक: कर्ता स्यात्। पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालैक्यनियमादर्शनात्। न च क्षेत्रज्ञानां विचित्रजगन्निर्माणाशक्त्या कार्यत्वबलेन तदतिरिक्तकल्पनायाम् अनेककल्पना-नुपपत्तेश्चैक: कर्ता भवितुमर्हातीति क्षेत्रज्ञानामेवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेव अतिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात्; तदतिरिक्तात्यन्तादृष्ट-पुरुषकल्पनानुपपत्ते:। न च युगपत्सर्वोत्पत्तिस्सर्वोच्छित्तिश्च प्रमाणपदवीमधिरोहत: अदर्शनात्, क्रमेणैवोत्पत्तिविनाशदर्शनाच्च। कार्यत्वेन सर्वोत्पत्तिविनाशयो: कल्प्यमानयोर्दर्शनानुगुण्येन कल्पनायां विरोधाभावाच्च।
(फलितदूषकप्रदर्शनम्)
अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम्; पक्षस्याप्रसिद्धविशेषणत्वम्; साध्यविकलता च दृष्टान्तस्य; सर्वनिर्माणचतुरस्य एकस्याप्रसिद्धे:। बुद्धिमत्कर्तृकत्वमात्रे साध्ये सिद्धसाधनता॥
(विकल्पनपूर्वकं मुखान्तरेण दूषणम्)
सार्वज्ञ्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्वं किं युगपदुत्पद्यमानसर्ववस्तुगतम्? उत क्रमेणोत्पद्यमानसर्ववस्तुगतम्? युगपदुत्पद्यमान-सर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता। क्रमेणोत्पद्यमानसर्ववस्तुगतत्वे अनेककर्तृकत्वसाधनात् विरुद्धता। अत्राप्येककर्तृकत्वसाधने प्रत्यक्षानुमानविरोधश्शास्त्रविरोधश्च; कुम्भकारो जायते, रथकारो जायते इत्यादिश्रवणात्॥
(कार्यत्वहेतोः प्रकारान्तरेण विरुद्धत्वोपपादनम्)
अपि च – सर्वेषां कार्याणां शरीरादीनां च सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्वादिमूलत्वमवश्याश्रयणीयम्। कार्यवैचित्र्यहेतुभूता: कारणगता विशेषास्सत्त्वादय:। तेषां कार्याणां तन्मूलत्वापादनं तद्युक्तपुरुषान्त:करणविकारद्वारेण। पुरुषस्य च तद्योग: कर्ममूल इति कार्यविशेषारम्भायैव, ज्ञानशक्तिवत्कर्तु: कर्मसम्बन्ध: कार्यहेतुत्वेनैवावश्याश्रयणीय:; ज्ञानशक्ति-वैचित्र्यस्य च कर्ममूलत्वात्। इच्छाया: कार्यारम्भहेतुत्वेऽपि विषयविशेषविशेषितायाः तस्याः सत्त्वादिमूलकत्वेन कर्मसम्बन्धोऽवर्जनीय: ॥
अत: क्षेत्रज्ञा एव कर्तार:; न तद्विलक्षण: कश्चिदनुमानात्सिद्ध्यति॥
भवन्ति च प्रयोगा: – 1. तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात्, घटवत् । 2. ईश्वर: कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत्। 3. ईश्वर: कर्ता न भवति, अशरीरत्वात्तद्वदेव। न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचार:, तत्राप्यनादेस्सूक्ष्मशरीरस्य सद्भावात्। 4. विमतिविषय: कालो न लोकशून्य:, कालत्वाद्वर्तमानकालवत् इति ॥
(कार्यत्वहेतुकानुमानस्य प्रकारान्तरेण दूषणम्)
अपि च – किमीश्वरस्सशरीरोऽशरीरो वा कार्यं करोति। न तावदशरीर: अशरीरस्य कर्तृत्वानुपलब्धे:। मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति, मनसो नित्यत्वेऽप्यशरीरेषु मुक्तेषु तत्कार्यादर्शनात्। नापि सशरीर:, विकल्पासहत्वात्। तच्छरीरं किं नित्यम्? उतानित्यम्?। न तावन्नित्यम्, सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धे:। नाप्यनित्यम्, तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात्। स्वयमेव हेतुरिति चेन्न, अशरीरस्य तदयोगात्। अन्येन शरीरेण सशरीर इति चेन्न, अनवस्थानात्॥
(पुनः प्रकारान्तरेण विकल्प्य दूषणम्)
स किं सव्यापारो निर्व्यापारो वा?। अशरीरत्वादेव न सव्यापार:। नापि निर्व्यापार: कार्यं करोति, मुक्तात्मवत्। कार्यं जगदिच्छामात्रव्यापारकर्तृकमित्युच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम्, दृष्टान्तस्य च साध्यहीनता ॥
(अनुमानदूषणोपसंहारः)
अतो दर्शनानुगुण्येन ईश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणक: परब्रह्मभूतस्सर्वेश्वर: पुरुषोत्तम:॥
(शास्त्रस्य अर्थप्रतिपादने दोषगन्धानवकाशः)
शास्त्रन्तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वज्ञ्यसत्य-सङ्कल्पत्वादिमिश्र अनवधिकातिशयापरिमितोदारगुणसागरं निखिलहेयप्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्यप्रयुक्तदोषगन्धप्रसङ्ग: ॥
(निमित्तोपादानयोरैक्यस्य अनुपलम्भपराहतत्वनिरासः)
यत्तु निमित्तोपादानयोरैक्यं आकाशादेर्निरवयव-द्रव्यस्य कार्यत्वं चानुपलब्धम् अशक्यप्रतिपादनमित्युक्तम्, तदप्यविरुद्धमिति प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र.सू.१.४.२३), न वियदश्रुते: (ब्र.सू.२.३.१) इत्यत्र प्रतिपादयिष्यते ॥
(अधिकरणार्थोपसंहारः)
अत: प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वात् यतो वा इमानि भूतानि (तै.भृगु.१) इति वाक्यमुक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम्॥
॥ इति श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम्॥ ३॥