श्रीभाष्यम् 02-03-02 तेजोधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तेजोऽधिकरणम्॥२॥

(अधिकरणार्थः – तेज आदिशरीरकात् ब्रह्मण एव अबादिसृष्टिः, न केवलं तेज आदे-)

२२६. तेजोऽतस्तथाह्याह १०

(अवान्तरसङ्गतिः, प्रकृताधिकरणीयो विचारश्च)

ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम्, इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्ति:, आहोस्वित्तत्तद्रूपाद्ब्रह्मण इति चिन्त्यते।

(पूर्वः पक्षः सहेतुकः)

किं युक्तम्? केवलात्तत्तद्वस्तुन इति। कुत:? तेजस्तावत् अत: – मातरिश्वन एवोत्पद्यते। वायोरग्नि: (तै.उ.आन.१) इति ह्याह ॥१०॥

(अपां तेजस एव केवलात् सृष्टिशङ्का)

२२७. आप: ११

आपोऽपि अत: – तेजस एवोत्पद्यन्ते, अग्नेराप: (तै.उ.आन.१.२) तदपोऽसृजत (छा.६.२.३) इति ह्याह ॥११॥

(पृथिव्या अपि केवलायाः, अप्सृष्टिशङ्का)

२२८. पृथिवी १२

पृथिवी अद्भ्य उत्पद्यते – अद्भ्य: पृथिवी (तै.उ.आन.१.२) ता अन्नमसृजन्त (छां.६.२.४) इति ह्याह॥१२॥

(‘अन्न’ शब्दस्य पृथिव्यभिधायकत्वम्)

नन्वन्नशब्देन कथं पृथिव्यभिधीयते? अत आह

२२९. अधिकाररूपशब्दान्तरेभ्य: १३

महाभूतसृष्ट्यधिकारात्पृथिव्येवान्नशब्देनोक्तेति प्रतीयते। अदनीयस्य सर्वस्य पृथिवीविकारत्वात् कारणे कार्यशब्द:। तथा वाक्यशेषे भूतानां रूपसंशब्दने, यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य (छा.६.४.१) इत्यप्तेजसोस्सजातीयमेवान्नशब्दवाच्यं प्रतीयते। शब्दान्तरं च समानप्रकरणे अग्नेराप: अद्भ्य: पृथिवी (तै.उ.आन.१.२) इति श्रूयते। अत: पृथिव्येवान्नशब्देनोच्यत इत्यद्भ्य: एव पृथिवी जायते ।

(ब्रह्मणः सकाशादुत्पद्यमानानां सर्वासां पारम्परिकत्वम्)

उदाहृतास्तेज: प्रभृतय: प्रदर्शनार्था:। महदादयोऽपि स्वानन्तरवस्तुन एवोत्पद्यन्ते, यथाश्रुत्यभ्युपगमाविरोधात्। एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि खं वायुर्ज्योतिराप: पृथिवी विश्वस्य धारिणी (मु.२.१.३) तस्मादेतद्ब्रह्मनामरूपमन्नं जायते (मु.१.१.९) तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.अन.१) तत्तेजोऽसृजत (छा.६.२.३) इत्यादयो ब्रह्मण: परम्परया कारणत्वेऽप्युपपद्यन्त इति॥१३॥

(सिद्धान्तप्रतिपादनम्)

एवं प्राप्ते प्रचक्ष्महे –

२३०. तदभिध्यानादेव तु तल्लिङ्गात्स: १४

तुशब्दात्पक्षो व्यावृत्त:, महदादिकार्याणामपि तत्तदनन्तरवस्तुशरीरकस्स एव पुरुषोत्तम: कारणम्, कुत:? तदभिध्यानरूपात्तल्लिङ्गात्; अभिध्यानम् – बहु स्यामिति सङ्कल्प:, तत्तेज ऐक्षत बहु स्यां प्रजायेयेति (छा.६.२.३) ता आप ऐक्षन्त बह्व्यस्स्याम प्रजायेमहि (छा.६-२-४) इत्यात्मनो बहुभवनसङ्कल्परूपेक्षणश्रवणान्महदहङ्काराकाशादीनामपि कारणानां तथाविधेक्षापूर्विकैव स्वकार्यसृष्टिरिति गम्यते ॥

(सृष्टिसङ्कल्पात्मकेक्षणस्य परब्रह्मासाधारणता)

तथाविधं चेक्षणं तत्तच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यते। श्रूयते च सर्वशरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्यामिब्राह्मणे : पृथिव्यां तिष्ठन् (बृ.५-७-२२) योऽप्सु तिष्ठन् (बृह.५-७-२२) यस्तेजसि तिष्ठन् (बृह.५.७.२२) यो वायौ तिष्ठन् (बृह.५.७.२२) आकाशे तिष्ठन् (बृह.५.७.२२) इत्यादि। सुबालोपनिषदि च यस्य पृथिवी शरीरम् (सुबा.७) इत्यारभ्य यस्याहङ्कारश्शरीरम् (सुबा.७.खं) यस्य बुद्धिश्शरीरम् (सुवा.७.खं) यस्याव्यक्तं शरीरम् (सुबा.७) इत्यादि॥१४॥

(श्रुतायाः प्राणादिसृष्टेः पारम्परिकत्वतात्पर्याभावः)

यच्चोक्तम् एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि (मु.२.१.३) इत्यादिषु श्रूयमाणा ब्रह्मण: प्राणादिसृष्टि: परम्परयाऽप्युपपद्यत इति; अत्रोच्यते –

२३१. विपर्ययेण तु क्रमोऽत उपपद्यते १५

तुशब्दोऽवधारणार्थ:। अव्यक्तमहदहङ्काराकाशादिक्रमाद्विपर्ययेण यस्सर्वेषां कार्याणां ब्रह्मानन्तर्यरूप: क्रम: एतस्माज्जायते प्राण: (मु.२.१.३) इत्यादिषु प्रतीयते, स च क्रम: तत्तद्रूपाद्ब्रह्मण: तत्तत्कार्योत्पत्तेरेवोपपद्यते। परम्परया कारणत्वे ह्यानन्तर्यश्रवणमुपरुध्येत। अत: एतस्माज्जायते (मु.२.१.३) इत्यादिकमपि सर्वस्य ब्रह्मण: साक्षात्सम्भवस्योत्तम्भनम् ॥१५॥

२३२. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् १६॥

(‘एतस्मात्’ इत्यादेः ब्रह्मणः साक्षात्सम्भवपरत्वोत्तम्भकत्वाभावशङ्का – तत्परिहारौ)

विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते, यदुक्तम् एतस्माज्जायते (मु.२.१.३) इत्यादिना सर्वस्य ब्रह्मणोऽनन्तरकार्यत्वं श्राव्यते; अतश्चानेन वाक्येन सर्वस्य साक्षाद्ब्रह्मण उत्पत्तिरभिध्यानलिङ्गावगता उत्तभ्यत इति; तन्नोपपद्यते – क्रमविशेषपरत्वादस्य वाक्यस्य; अत्रापि सर्वेषां क्रमप्रतीते:। खादिषु तावत् श्रुत्यन्तरसिद्ध: क्रमोऽत्रापि प्रतीयते – तैस्सहपाठलिङ्गाद्भूतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्येते इति प्रतीयते। अतस्सर्वस्य साक्षाद्ब्रह्मण एव सम्भवस्योत्तम्भनमिदं वाक्यं न भवतीति चेत्-तन्न, अविशेषात् एतस्माज्जायते प्राण: (मु.२-१-३) इत्यनेनाविशेषात्। विज्ञानमनसो: खादीनां च एतस्माज्जायते (मु.२-१-३) इत्यनेन साक्षात्सम्भवरूपसम्बन्धस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात्स एव विधेय:, न क्रम:। श्रुत्यन्तरसिद्धक्रमविरोधाच्च नेदं क्रमपरम्, पृथिव्यप्सु प्रलीयते (सुबा.२-ख) तमएकीभवति (सुबाल.२-खं) इत्यन्तेन क्रमान्तरप्रतीते:। अतोऽव्यक्तादिशरीरकात्परस्माद्ब्रह्मण एव सर्वकार्याणामुत्पत्ति:। तेज: प्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ॥१६॥

(सर्वशब्दानां ब्रह्मवाचित्वे व्युत्पत्तिविरोधशङ्कापरिहारः)

नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शब्दै: तत्तद्वस्तुव्यपदेशो व्युत्पत्तिसिद्ध उपरुद्ध्येत; तत्राह –

२३३. चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ।।२१७॥

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थ:, निखलजङ्गमस्थावरव्यपाश्रयस्तत्तच्छब्दव्यपदेश: भाक्त: – वाच्यैकदेशे भज्यत इत्यर्थ:, समस्तवस्तुप्रकारिणो ब्रह्मण: प्रकार भूतवस्तुग्राहिप्रत्यक्षादिप्रमाणविषयत्वात् वेदान्तश्रवणात्प्राक्प्रकार्यप्रतीते:, प्रकारिप्रतीतिभावभावित्वाच्च तत्पर्यवसानस्य, लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे ते ते शब्दा: भङ्क्त्वा भङ्क्त्वा व्यपदिश्यन्ते।

(सूत्रस्य योजनाभेदेन अर्थबोधनम्)

अथवा तेज:प्रभृतिभिश्शब्दै: तत्तद्वस्तुमात्रवाचितया व्युत्पन्नैर्ब्रह्मणो व्यपदेशो भाक्तस्स्यात् अमुख्यस्स्यादित्याशङ्क्य चराचरव्यपाश्रयस्तु  इत्युच्यते। चराचरव्यपाश्रय: तद्व्यपदेश: – तद्वाचिशब्द:, चराचरवाचिशब्दो ब्रह्मण्यभाक्त: मुख्य एव; कुत:?, ब्रह्मभावभावित्वात्सर्वशब्दानां वाचकभावस्य; नामरूपव्याकरणश्रुत्या हि तथाऽवगतम्॥१७॥

इति श्रीशारीरकमीमांसाभाष्ये तेजोधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.