विषयवाक्यदीपिका अन्तराधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अन्तराधिकरणम्

अंतर उपपत्तेः (ब्र.सू.1।2।13)छांदोग्ये चतुर्थाध्याये दशमखण्डोपक्रमे ।।उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास ।।कमलसुत उपकोसलनामा पूर्वोक्तजाबाले सत्यकामे विद्यार्थं ब्रह्मचर्यमवात्सीत् ।।तस्य ह द्वादशवर्षाण्यग्नीन्परिचचार ।।तदग्निशुश्रूषां द्वादशवर्षाणि कृतवान् ।।स ह स्माऽन्यानंतेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ।।स्वाध्यायार्थिन इतरान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् । तं ब्रह्मविद्यार्थिनं ज्ञात्वा चिरसेवामंतरेण ब्रह्मविद्यानोपदेष्टव्येति मत्वा तमेव न समावर्तयति स्म ।।तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्पर्यचारीन्मात्वाग्नयः परिप्रावोचं प्रब्रूहास्मा इति ।।तपसा तप्तः ब्रह्मचारी सम्यगग्निशुश्रूषां कृतवान् एतस्य विद्यानुपदेशे तत्परिचरणप्रीता अग्न्य एव तदनुग्रहं कुर्युरिति तस्मा उपकोसलाय विद्यामुपदिशेति तस्य भार्योक्तवतीत्यर्थः ।।तस्मै हाप्रोच्यैव प्रवासांचक्रे ।।तस्य विद्यामनुपदिश्यैव देशांतरं प्रोषितः ।स ह व्याधिना अनशितुं दघ्रे ।।स मानसेन दुःखेन पीडितः सन् अनशनाय मतिं चक्रे । धृङ्अवस्थाने इति धातुः ।।तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्रासीति ।।स्पष्टोऽर्थः ।।स होवाच बहव इमेऽस्मिन्पुरुषेकामाः नानात्यया व्याधिभिः परि पूर्णोऽस्मि नाशिष्यामीति ।।अस्मिन् जीवे ब्रह्मप्राप्तिव्यतिरिक्ताः काम्यमाना विषया नानाविधगर्भजन्मजरामरणादिलक्षणफलजनकाः मनसि परिवर्तमानाःसन्ति । अतस्तद्विषयभयरूपव्याधिभिः पूर्णोऽस्मि अतोनभुंजेइति ।अथ हाग्नयः समूदिरे ।।एतद्वाक्यं श्रुत्वा परिचरणप्रीता गार्हपत्यादयोऽग्नयो दयमानमानसाः संभूयोक्तवंतः ।तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धंताऽस्मै प्रब्रवामेति ।।स्पष्टोऽर्थः ।तस्मैहोचुः ।। प्राणो ब्रह्म ।। कं ब्रह्म खं ब्रह्मेति ।। स होवाच विजानाम्यहं यत्प्राणो ब्रह्म ।। कंच खं च तु न विजानामीति ।।अस्यायमभिप्रायः । नतावत्प्राणादिप्रतीकोपासनमग्निरभिभिधीयते । जन्मजरामरणादि भवभयभीतस्य मुमुक्षोर्मम मोक्षोपदेशायप्रवृत्तत्वात् । अतो ब्रह्म वोपास्यमुपदिष्टम् । तत्र प्राणादिभिः समानाधिकरणं ब्रह्म निर्दिष्टं तत्र सकलजगत्प्राणयितृत्वयोगेनप्राणशब्दितत्वस्य ब्रह्मण्युपपन्नत्वात्प्राणो ब्रह्मेत्युक्तम् । तज्जानामि कं ब्रह्म खं ब्रह्मेत्युक्तं च न विजानामि । यद्यपि कं शब्दस्य सुखमर्थः खमित्यस्य चाकाशोऽर्थः ततश्च वैषयिकसुखशरीरकमाकाशशरीरकं च ब्रह्मेत्यभिप्रायः । उत कमित्यनेन सुखमभिधीयते खमित्यनेनाकाशवाचिनाऽपरिच्छिन्नत्वमभिधीयते । तयोरन्योन्यविशेष्यविशेषणभावेनापरिच्छिन्नसुखं ब्रह्मेत्यर्थो लभ्यते ।ततश्चानयोर्मध्ये क्वार्थे तात्पर्यमिति न जाने इत्यर्थः ।ते होचुः यद्वाव कं तदेव खं यदेव खं तदेव कमिति ।।ते तदभिप्रायज्ञा आग्नयो कंखमित्यनयोरन्योन्यविशेषणविशेष्यभाव एवाभिमत इत्यूचुः इत्यर्थः । ननु पुनरुक्तिर्व्यर्थेति चेत् । एतद्दार्ढ्यार्थं वाऽपरिच्छिन्नसुखत्वेन सुखरूपा परि च्छिन्नत्वेन चोपासनासिद्ध्यर्थं वा परस्परविशेषणविशेष्यभावोपदेशसार्थक्या ।।तत्प्राणं च हास्मै तदाकाशं चोचुः ।।अतो जगत्प्राणयितृत्वेन प्राणत्वविशिष्टं यद्ब्रह्म तदेवापरिच्छिन्नसुखरूपं चेत्यग्न्य उक्तवंत इत्यर्थः ।अथ हैनं गार्हपत्योऽनुशशास ।।जगत्प्राणयितृत्वेनापरिच्छिन्नसुखरूपं च ब्रह्मेत्युपदिश्यमुपदिष्ट ब्रह्मविद्यएवमेनमुपकोसलं गार्हपत्योऽग्निः स्वविद्यां वक्ष्यमाणामुपदिदेशेत्यर्थः । अथशब्दश्च प्रकृतविषयत्वद्योतनार्थः । अत्र चाथ हैनमिति शब्दाभ्यां वक्ष्यमाणाग्निविद्यायाः प्रकृतब्रह्मविद्यांगत्वमुपदिश्यते । अनुशासनप्रकारमेवाह ।।पृथिव्यग्निरन्नमादित्य इति ।।गार्हपत्याग्नेर्मे एताश्चतस्र स्तनव इत्यर्थः ।य एष आदिये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ।।पृथिव्यग्न्यन्नादित्यलक्षणानां चतुर्णां रूपाणां मध्येऽग्न्यादित्यरूपयोर्वक्तृत्वप्रकाशकत्व रूपधर्मसंबन्धादैक्यमग्नेरादित्यनेन यादृशमैक्यं न तादृशं पृथिव्यन्नाभ्याम् । तस्मादादित्य एवाहमस्मीत्यग्निरुवाचेत्यर्थः ।य एतमेवं विद्वानुपास्ते अपहते पापकृत्याम् ।।ब्रह्मप्राप्तिविरोधि पापं कर्मापहंति ।।लोकीभवति ।।तद्विरोधिनिपापे निरस्ते ब्रह्मलोकं प्राप्नोतीत्यर्थः । यद्यपि ब्रह्म प्राप्तिविरोधिपापनिवृत्तेर्ब्रह्मप्राप्तेश्च प्रधानभूतब्रह्मविद्याफलत्वमेव तथाप्यंगिफलेनागं स्तूयते इति द्रष्टव्यम् । यद्वा पापशब्दो ब्रह्मविद्योत्पत्तिप्रतिबंधकपापपरः । लोकशब्दश्च ब्रह्मलोक प्राप्तिमार्गभूताग्निलोकपरो द्रष्टव्यः ।।सर्वमायुरेति ।।ब्रह्मोपासनप्राप्त्यै यावदायुरपेक्षितं तत्सर्वमेति ।ज्योग्जीवति ।।व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्तिरुज्जवलो जीवति ।।नास्यावरपुरुषाः क्षीयंते ।।अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवंति । सन्ततौ ब्रह्मविद्यानुवर्तते नास्याब्रह्मवित्कुले भवतीति श्रुत्यंतरे ब्रह्मविद्याफलत्वेन श्रवणात् ।।उप वयं तं भुंजामोऽस्मिँश्च लोकेऽमुष्मिँश्च ।।य एतमेवं विद्वानुपास्तेऽस्मिंश्च लोकेऽमुष्मिंश्च वयमग्नय उपभुंजामो यावद्ब्रह्म प्राप्तिविघ्नेभ्यः परिपालयामः एवमुत्तरत्रापि द्रष्टव्यम् ।।अथ हैनमन्वाहार्यपचनोऽनुशशास ।।अन्वाहार्यपचनो दक्षिणाग्निः ।।आपो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते । सोऽहमस्मि स एवाहमस्मीति । स य एतमेवं विद्वानुपास्ते । अपहते पापकृत्यां लोकीभवति सर्वमायुरेतिज्योग्जीवतिनास्यावरपुरुषाःक्षीयन्तउपवयंतंभुंजामोऽस्मिंश्चलोकेऽमुष्मिंश्चयएतमेवंविद्वानुपास्ते ।।चंद्रमसश्चाग्नेश्च प्रकाशकत्वसाम्यादिति भावः ।अथ हैनमाहवनीयोऽनुशशास प्राण आकाशोद्यौर्विद्युदिति य एतद्विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्तेऽपहतेः पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उपवय ंतं भुंजामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एवं विद्वानुपास्ते ।।विद्युत्पुरुषस्यापि प्रकाशकत्वादाहवनीयैक्यं द्रष्टव्यम् ।ते होचुः उपकोसलैषा सोम्यास्मद्विद्या आत्मविद्या चेति ।।प्रत्येकमनुशासनानंतरं संमिलित्वा तेऽब्रुवन्नस्मद्विद्याग्निविद्या आत्मविद्यापरमात्मविद्येत्यर्थः । चशब्दोंऽगांगिविद्ययोरुपदेशक्रियायां समुच्चयद्योतनार्थः । न तु समसमुच्चयार्थः ।अग्निविद्याचात्मविद्याचोपदिष्टेत्यर्थः ।आचार्यस्तु ते गतिं वक्तेति ।।एवं वदतामग्नीनामयमभिप्रायः हे उपकोसल ब्रह्मविद्यामनुपदिश्य प्रोषिते गुरौ तदलाभादनाश्वासं त्वामुपजीवयितुं ब्रह्मस्वरूपमात्रं तदंगभूतामग्निविद्यांचोपादिक्षाम आचार्यादेव विद्याया विदितायाः साधिष्ठत्वादाचार्य एव संयद्वामत्वादिगुणकं ब्रह्माक्षिरूपं च तदुपासनस्थानमर्चिरादिकां गतिमुपदिशत्विति । ततश्च गतिं वक्तेत्यस्यावशिष्टं वक्तेत्यर्थः । नतु गतिमात्रमिति द्रष्टव्यम् ।आजगामहास्याचार्य्यः तमाचार्योऽभ्युवादोपकोसल 3 इति -भगव -इति -ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति ।।स्पष्टोऽर्थः । एवमुक्त आह ।को नु मानुशिष्याद्भो इति ।।हे भगवान् त्वयि प्रोषित इह मां कोऽनुशिष्यादिति ।।अपेव निह्नुते ।।अपनिह्नुत इवेत्यर्थः । नापह्नुते न च यथावदग्निभिरुक्तमित्यप्यब्रवीदित्यभिप्रायः । कंचित्कालमपह्नुत्याग्नीन्निर्दिश्येम एव नूनमुपदिष्टवंत इत्युक्तवानित्याह ।।इमे नूनमीदृशा अन्यादृशा इति हाग्नीनभ्यूचे ।।इदानीमीदृशा ज्वलनाकारतया परिदृश्यमाना एवाग्नयः पूर्वमन्याकाराः संतो ममोपदिष्टवंत इत्युक्तवानित्यर्थः । आचार्य आह ।।किं नु सोम्य किल तेऽवोचन्निति ।।इतर आह ।इदमिति ह प्रतिजज्ञे ।।एता तावदुपदिष्टमिति प्रतिज्ञातवान् । इतर आह ।लोकान्वाव किल सोम्य ते ऽवोचन् अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाशे आपो न श्लिष्यंते एवमेवंविदि पापं कर्म न श्लिष्यते इति ।।हे सोम्य ते अग्नयः पृथिव्यादीन् लोकानेव तवोक्तवन्तः । न तु ज्ञातव्यं ब्रह्म कार्त्स्न्येन । अहं तु ते पद्मपत्रजलाश्लेषतुल्यसर्वपापाश्लेषापादकविद्याविषयभूतं ब्रह्म वक्ष्यामि यदि शुश्रूषसे इत्यर्थः । पापाश्लेषो नाम पापहेतुभूतकर्माचरणेऽपि पापोत्पत्तिप्रतिबंधकशक्तिमत्त्वम् । इदं चप्रामादिकपापविषयम् । पापशब्दश्च सुकृतदुष्कृतसाधारणः । एतच्च तत्र तत्रोक्तं तत्रैवानुसन्धेयम् ।इतर आह ।।ब्रवीतु मे भगवानिति । तस्मै होवाच ।।तस्मै एवमुपपन्नायोपकोसलायाचार्यो वक्ष्यमाणमुवाचेत्यर्थः ।य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेति ।।योगिभिर्यौऽक्ष्यंतर्वर्तिपुरुषो दृश्यते अयमेवात्मा नियंतेत्यर्थः । अमृतत्वं निरतिशयभोग्यत्वमभयत्वं दुःखासंभिन्नत्वं ब्रह्मत्वं निरतिशयबृहत्त्वम् ।।तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिंचति वर्त्म एव गच्छति ।।तस्मान्निर्लेपस्थानप्रभावादक्षिणि यद्यपि सर्पिर्वोदकंवा कश्चित्सिंचेत् तत्पार्श्वद्वयंगच्छति न तत्रलिप्यते ।।एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्ति य एवं वेद ।।संयंति संगतानि वामानि वरणीयानि प्रार्थनीयानि यस्मिन्स संयद्वामः सर्वकल्याणगुणा श्रयत्वं सत्यसंकल्पत्वं वा संयद्वामत्वं तदुपासकस्यापि तत्क्रतुन्यायात्तद्भवतीत्यर्थः ।।एष उ एव वामनीरेष हि सर्वाणि वामानि नयति य एवं वेद ।।वामनीत्वं स्वाश्रितेषु शोभनप्रापकत्वं तत्क्रतुन्यायेन तद्गुणोपासकस्यापि तद्भवतीत्यर्थः ।।एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति य एवं वेद ।।भामनीत्वं सर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वम् । उपासकस्यापि तद्भवत्यपेक्षायां सत्यामित्यर्थः । अत्र संयद्वामत्ववामनीत्वभामनीत्वेषु फलत्वकथनं फलरूपतात्पर्यालिंगोपन्या सेन तेषु गुणेषु तात्पर्यप्रदर्शनार्थम् । नतु सर्पिर्वोदकं वा सिंचतीत्यत्रैवार्थवादमात्रतया स्तुति रूपत्वमिति प्रदर्शनार्थम् । सर्पिर्वेतिवाक्यस्य स्तुतिपरत्वं व्यासार्यैरुक्तम् ।।अथ यदु चैवास्मिन् शव्यं कुर्वंति यदु च नार्चिषमेवाभिसंभवंति ।।अथ शब्दः प्रकृतविषयत्वद्योतनार्थः अस्मिन् ब्रह्मविदि सामान्याप्रायित्वात्तदेक वचनस्योत्तरत्राभिसंभवंतीति बहुवचनेन न विरोधः । यद्यदि शव्यं शवदहनादिकर्म पुत्रादयः कुर्वन्ति यदि वा न तेऽर्चिषमभिसंभवंति । अर्चिरादिशब्दाश्च “आतिवाहिकास्तल्लिंगात्” (ब्र.सू.4.3.41) इतिन्यायेन तदमिभानिदेवतापरा इत्यन्यत्र स्थितम् । अत्र केचित् ।उपसोसलविद्यांगभूताग्निविद्यावैभवेन शवदहनादि वैगुण्येप्युपकोसलविद्यानिष्ठस्य न क्षतिः । विद्यान्तरनिष्ठस्य दहनादिवैगुण्ये किंचिद्वैगुण्यमस्तीति वदन्ति ।तत्र नकर्मणा लिप्यते नोकनीयानित्यादिश्रुतिसिद्धार्थानुवादित्वादस्यवाक्यस्य तादृशार्थप्रत्यायकत्वाभावात् ।अतोऽथ यदुचैवास्मिन्नित्येतत्सर्वब्रह्मवित्साधारणमेव ।अर्चिषोऽहरन्ह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चंद्रमसं चंद्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवयथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते ।।यान् षण्मासान् उदङ्ङादित्य एति तान्मासानित्यर्थः । देवपथः देवैरातिवाहकैर्नीयमानः पंथा देवपथः ब्रह्मप्रापकः पंथाः ब्रह्मपथः । एतेन मार्गेण प्रतिपद्यमाना इमं घोरं घटीयंत्रवज्जनन मरणाद्व्यावर्तकं मनुष्यादिशरीरोपलक्षितं संसारं पुनर्न प्रतिपद्यंते ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.