विषयवाक्यदीपिका अत्त्रधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अत्त्रधिकरणम्

अत्ता चराचरग्रहणात् ।। (ब्र.सू.1.2.9)प्रकरणाच्च ।। (ब्र.सू.1.2.10.)गुहां प्रविष्टावात्मानौ हि तर्द्दर्शनात् ।। (ब्र.सू.1.2.11)विशेषणाच्च ।। (ब्र.सू.1.2.12)शब्दादेव प्रमितः ।। (ब्र.सू.1.3.33)कंपनात् ।। (ब्र.सू. 1.3.40)ज्योतिर्दर्शनात् ।। (ब्र.सू.1.3.41)आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।।(ब्र.सू.1.4.1)वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।। (ब्र.सू.1.4.5)त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।(ब्र.सू.1.4.6)इत्येवमादिसूत्रविषयवाक्यार्थप्रदर्शनाय कठवल्ली प्रायेण व्याख्यायते ।।उशन् हवै वाजश्रवसः सर्ववेदसं ददौ ।।उशन् कामयमानः । वशकांतावित्यस्माच्छतरि “ग्रहिज्या (अष्टा.6.1.16) इत्यादिना संप्रसारणम् । ह वै इति वृत्तार्थस्मरणार्थौ निपातौ । फलमिति शेषः । वाजश्रवसः । वाजेनान्नेन दानादिकर्मभूतेन श्रवःकीर्तिर्यस्य स वाजश्रवाः । तस्यापत्यं वाजश्रवसः । रूढिर्वा वाजश्रवस इति । स किल ऋषिः विश्वजिता सर्वस्वदक्षिणेन यजमानः तस्मिन् क्रतौ सर्ववेदसं सर्वस्वं ददौदत्तवानित्यर्थः । उशन्नित्यनेन कर्मणः काम्यत्वावगमाद्दक्षिणासाद्गुण्यमावश्यकमिति सूच्यते ।तस्य ह नचिकेता नाम पुत्र आस ।।आस बभूव “छन्दस्युभयथा ।। (अष्टा.3.4.117) इति लिटः सार्वधातुकत्वात् स्वस्तये तार्क्ष्य मितिवदस्तेर्भूभावाभावः ।।तँ ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश ।।कुमारं संतं बालमेव संतमृत्विग्म्यो दक्षिणासु नीयमानासु श्रद्धा आस्तिक्यबुद्धिः पितृहितकामप्रयुक्ता आविवेश आविष्टवती ।श्रद्धाप्रकारमेव दर्शयति ।।पीतादेका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।।पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धो दोहा याभिस्ता दुग्धदोहाः । निरिंद्रियाः अप्रजननसमर्थाः । जीर्णा निष्फला इति यावत् ।।अनन्दा नाम ये लोकास्तान्स गच्छति ता ददत् ।या एवंभूता गावस्ता ऋुत्विग्म्यो दक्षिणाबुद्ध्या ददत् -प्रयच्छन् अनन्दा -असुखा ये शास्त्रप्रसिद्धा लोकाः सन्ति नाम खलुतान् स यजमानो गच्छति एवममन्यतेत्यर्थः ।।स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयम् ।।दीयमानदक्षिणावैगुण्यं मन्यमानो नचिकेताः स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छन् आस्तिकाग्रेसरः पितरमुपागम्योवाच तात कस्मै ऋुत्विजे दक्षिणार्थं मां दास्यसीति ।एवमुक्तेनापि पित्रो पेक्ष्यमाणोऽपि प्रथमं द्वितीयं तृतीयमपि पर्यायं कस्मै मां दास्यसीत्युवाच ।।तँ होवाच मृत्यवे त्वां ददामीति ।।एवं निर्बध्यमानः पिता कुपितस्तं पुत्रं मृत्यवे त्वां ददामीत्युक्तवान् । एवमुक्तोऽपि विगतसाध्वसशोकः पितरमुवाच ।।बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।।सर्वेषां मृत्युसदनं गंतघृणां पुरतो मध्ये वा गच्छामि न तु मंथरः । पश्चान्मृत्युसदनगमने न कोऽपि मम विचार इति भावः ।।किं तर्हि तत्राह ।।किँ स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ।।तत्तादृशं यमस्य कर्तव्यं किं वा पूर्णकामस्य मृत्योः मादृशेन बालिशेन किं प्रयोजनं स्याद्येन ऋत्विग्भ्य इव तस्मै मदर्पणं सफलं स्यात् । अत एतदेवानुशोचामीति भावः । साध्वसरोषावेशहीनमीदृशं पुत्रवाक्यं श्रुत्वा क्रोधावेशान्मया मृत्यवे ददामीत्युक्तं नेदृशं पुत्रं मृत्यवे दातुमुत्सह इति पश्चात् तप्तहृदयं पितरमालोक्योवाच ।।अनुपश्य यथापूर्वे प्रतिपश्य यथापरे ।।पूर्वे पितामहादयो यथा मृषावादं विनैव स्थिता यथा च परे साधवोऽद्यातिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यमिति भावः ।।सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ।।मर्त्यः सस्यमिवाल्पेनापि कालेन जीर्यति । जीर्णः सन् मृत्वा सस्यमिव पुनराजायते । एवमनित्ये जीवलोके किं मृषाकरणेन । पालय सत्यं । प्रेषय मां मृत्युव इति भावः । एवमुक्त्वा प्रेषितः प्रोषितस्य मृत्योर्द्वारि तिस्रोरात्रीरनश्रन्नुवास । ततः प्रोष्याऽऽगतं यमं द्वार्स्था वृद्धा ऊचुः ।।वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शांतिं कुर्वन्ति । हर वैवस्वतोदकम् ।।साक्षादग्निरेवातिथिर्ब्राह्मणः सन् गृहान् प्रविशति । तस्याग्नेरेतां पाद्यासनादिलक्षणां शान्तिं कुर्वन्ति संतः तदपचारेण दग्धा मा भूमेति । अतो हे वैवस्वत नचिकेतसे पाद्यार्थमुदकं हर आहर ।। अकरणे प्रत्यवायं च दर्शयन्तिस्म ।।आशाप्रतीक्षे संगतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्रन्वसति ब्राह्मणो गृहे ।।यस्याल्पमेधसः अल्पप्रज्ञस्य पुरुषस्य गृहे अनश्रन्नभुंजानः अतिथिर्वसतितस्याऽऽशाप्रतीक्षे अनुत्पन्नवस्तुविषयेच्छा आशा उत्पन्नवस्तुप्राप्तीच्छा प्रतीक्षा । संगतं सत्संगतम् ।सूनृतां सत्यप्रियवाचम् । इष्टापूर्ते इष्टं यागादि आपूर्तं खातादि । पुत्रान्पशूंश्च एतत् अनशनरूपं पापं वृंक्ते वर्जयति नाशयतीत्यर्थः । “वृजी वर्जने” रुधादित्वाच्छ्नम् । “वृजि वर्जन” इत्यस्मादि दितोनुमदादित्वाद्वा शपो लुक्च । एवं वृद्धैरुक्तो मृत्युर्नचिकेतसमुवाच ।।तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्रन् ब्रह्मन्नतिथिर्नमस्यः ।।मे गृहे यस्माद्वेतोर्हेब्रह्मन् नमस्कारार्होऽतिथिस्त्वं तिस्रोरात्रीरभुंजान एवावात्सीरित्यर्थः ।।नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु ।।स्पष्टोऽर्थः ।।तस्मात्तान् प्रति त्रीन् वरान् वृणीष्व ।।तस्माद्धेतोर्मह्यं स्वस्ति यथास्यादित्येवमर्थं वरान् प्रत्युद्दिश्य वृणीष्व प्रार्थयस्व । तव लिप्सा भावे मदनुग्रहार्थमनश्रन्रात्रिसमसंख्याकान् त्रीन्वरान्वृणीष्वेति भावः ।। एवं प्रार्थितो नचिकेतास्त्वाह ।।शांतसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो ।।हे मृत्यो मत्पुत्रो यमं प्राप्य किं करिष्यतीति मद्विषयचिन्तारहितः प्रसन्नमना मामभि मां प्रति मम पिता गौतमो वीतरोषश्च यथास्यादित्यर्थः । किंच-त्वत्प्रसृष्टं माभिवदेत्प्रतीतः ।।त्वया गृहाय प्रेषितं मामभिमांप्रति प्रतीतः यथापूर्वं प्रीतः सन् वदेत् । यद्वा अभिवदेत् आशिषं प्रायुङ्काम् । अभिवदति नाभिवादयत इति स्मृतिषु अभिवदनस्याशीर्वादे प्रयोगात् ।।तत् त्रयाणां प्रथमं वरं वृणे ।।स्पष्टोऽर्थः ।। एवमुक्तो मृत्युः प्रत्युवाच ।।यथा पुरस्ताद्भविता प्रतीतः ।।यथा पूर्वं त्वयि दृष्टो भविता ।।आैद्दालकिरारुणिर्मत्प्रसृष्टः ।।उद्दालक एवौद्दालकिः । अरुणस्यापत्यमारुणिः । व्द्यमुष्यायणे वा उद्दालकस्यापत्यम् अरुणस्य गोत्रापत्यमिति वार्थः । मत्प्रसृष्टः मदनुज्ञातःमदनुगृहीतः सन् । मदनुग्रहादित्यर्थः ।।सुखँ रात्रीः शयिता वीतमन्युः ।।वीतक्रोधः सन् उत्तरा अपि रात्रीः सुखंशयिता । “लुट्” । सुखं निद्रां प्राप्स्यतीति यावत् ।त्वां बुदृशिवान् मृत्युमुखात्प्रमुक्तम् ।।दृशिवान् दृष्टवान् सन्नित्त्यर्थः । “क्वस्वन्तो”ऽयं शब्दः । दृशे श्चेति वक्तव्यमिति क्वसोरिट् ।छान्दसोद्विर्वचनाभावः । मत्प्रसृष्टमिति द्वितीयां तं वा । मत्प्रेषितं त्त्वामिति योजना । नचिकेता वरं द्वितीयं प्रार्थयते स्वर्गे लोके इत्यादिना मंत्रद्वयेन ।।स्वर्गे लोके न भयं किंचनास्ति ।।अत्र स्वर्गशब्दो मोक्षस्थानपरः ।।न तत्र त्वं न जरया बिभेति ।।हे मृत्यो त्वं तत्र न प्रभवसि । जरया युक्तः सन् न विभेति । जरातो न विभेति तत्र । वर्तमानः पुरुषः इति शेषः ।।उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोकेअशनाया बुभुक्षा । अत्रापि स्वर्गशब्दो मोक्षस्थानपरःप्रसिद्धस्य स्वर्गस्य क्षयफलविरक्तनचिकेतः प्रार्थ्यमानत्वानुपपत्तेरिति द्रष्टव्यम् । अत्र वक्तव्यमुपनिषद्भाष्ये उक्तं तत्र द्रष्टव्यम् ।।स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो ।।पुराणादिप्रसिद्धसार्वज्ञस्त्वं स्वर्गप्रयोजनकमग्निं जानासि । “स्वर्गादिभ्योयद्वक्तव्यः” इति प्रयोजनमित्यर्थे यत् । स्थंडिलरूपाग्नेः स्वर्गप्रयोजनकत्वं चोपासनाद्वारेत्युत्तरत्र स्फुटम् ।।प्रब्रूहि तँ श्रद्दधानाय मह्यम् ।।श्रद्दधानाय मोक्षश्रद्धावते । स्वर्गलोकेन तव किं सिध्यतीत्यत्राह ।।स्वर्गलोका अमृतत्वं भजन्ते एतद्धितीयेन वृणे वरेण ।।स्वर्गो लोको येषां ते परमपदं प्राप्ता इत्यर्थः । परंज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यतइतिदेशविशेष विशिष्टब्रह्मप्राप्तिपूर्वकत्वात्स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येतिभावः ।एवमुक्तो मृत्युराह ।।प्रते ब्रवीमि तदु मे निबोध ।।ते प्रब्रवीमि “व्यवहिताश्च” अष्टा.1.4.82) इति व्यवहितप्रयोगः। मे उपदेशाज्जानी हीत्यर्थः । ज्ञानस्य फलं दर्शयति ।।स्वर्ग्यमग्निं नचिकेतः प्रजानन्ननंतलोकाप्तिमथो प्रतिष्ठाम् ।।अनंतस्य विष्णोर्लोकः तत्प्राप्तिं “तद्विष्णोः परमंपदम्” (सुबा.6) इत्युत्तरत्र वक्ष्य माणत्वात् । अथो तत्प्राप्त्यनन्तरं प्रतिष्ठामपुनरावृत्तिं च लभत इति शेषः ।। तज्ज्ञानस्य चेदृशसामर्थ्यं कथं संभवतीति मन्यमानं प्रत्याह ।।विद्धि त्वमेतँ निहितँ गुहायाम् ।।ब्रह्मोपासनांगतयैतज्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहायां निहतमन्ये न जानंति ।त्व ंजानीहीति भावः। यद्वा ज्ञानार्थकस्य विदेर्लाभार्थकत्वसंभवादग्निं प्रजानंस्त्मनंतलोकाप्ति ंप्रतिष्ठां लभस्वेत्युक्तेर्हेतुहेतुमद्भावः सिद्धो भवति । प्रजानन् “लक्षणहेत्वोः” (अष्टा) इति शतृप्रत्ययः । अनंतरं श्रुतिवाक्यम् ।।लोकादिमग्निं तमुवाच तस्मै ।।लोकस्यादिं हेतुम् । स्वर्ग्यमिति यावत् । तमग्निमुवाच ।।या इष्टका यावतीर्वा यथा वा ।।यल्लक्षणा इष्टकाश्चेतव्या यत्संख्याका येन प्रकारेण चेतव्या स्तत्सर्वमुक्तवानित्यर्थः । यावतीरिति पूर्वसवर्णदीर्घश्छांदसः ।।स चापि तत्प्रत्यवदद्यथोक्तम् ।।तच्छ्रुतं सर्वं तथैवानूदितवानित्यर्थः ।।अथास्य मृत्युः पुनराह तुष्टः ।।शिष्यस्य ग्रहणसामर्थ्यदर्श नेन संतुष्टः सन् पुनरप्युक्तवान् ।।तमब्रवीत् प्रीयमाणो महात्मा ।।संतुष्टो महामना नचिकेतसमब्रवीत् ।।वरं तवेहाद्य ददानि भूयः ।।पुनश्चतुर्थंवरं प्रयच्छामि । किं तत् । तत्राह ।तवैव नाम्ना भवितायमग्निः ।।मयोच्यमानोऽग्निस्तवैव नाम्ना नाचिकेत इति प्रसिद्धो भविता । किंच-सृङ्कां चेमामनेकरूपां गृहाण ।।सृंकां शब्दवतीं रत्नमालां स्वीकुरु इत्यर्थः । पुनरपि कर्मस्तौति ।।त्रिणाचिकेतस्त्रिभिरेत्यसंधिं त्रिकर्मकृत्तरति जन्ममृत्यू ।।त्रिणाचिकेतः “अयं वाव यः पर्वते” (तै.ब्रा.अष्ट) इत्यादि अनुवाकत्रयाध्यायी । त्रिकर्म कृद्यजनाध्ययनदानकृत् पाकयज्ञहविर्यज्ञसोमयज्ञकृद्वा त्रिभिरग्निभिरनुष्ठितैरग्निभिः संधिं परमात्मोपासनेन संबंधमेत्य प्राप्य जन्ममृत्यू तरतीत्यर्थः । “करोति तद्येन पुनर्न जायते” इत्यनेनैकार्थ्यात् । एवमेव ह्ययं मंत्रः “त्रयाणामेव चैवम्” (ब्र.सू.1.4.5) इति सूत्रे व्यासाचार्यैर्विवृतः ।। त्रिभिरेत्य संधिमिति निर्दिष्टमंगिभूतं परमात्मोपासनमाह ।।ब्रह्मजज्ञं देवमीड्यं विदित्वा ।।अयं मंत्रो “विशेषणाच्च” (ब्र.सू.1.2.12) इति सूत्रे भाष्ये ब्रह्मजज्ञोजीवः । ब्रह्मणोजातत्वाज्ज्ञत्वाच्च तं देवमीड्यं विदित्वा जीवात्मानमुपासकं ब्रह्मात्मकत्वेनाव गत्येत्यर्थः” इति विवृतः । देवशब्दस्य परमात्मवाचितया जीवपरयोश्चैक्यासंभवादत्रत्य देवशब्दस्य परमात्मकत्वपर्यंतोऽर्थ इति भाष्याभिप्रायः ।।निचाय्येमाँ शांतिमत्यंतमेति ।।निचाय्य – ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्य । इमां त्रिकर्मकृत्तरतीति पूर्वमंत्रनिर्दिष्टां संसाररूपानर्थशांतिमेतीत्यर्थः ।।त्रिणाचिकेतस्त्रयमेतद्विदित्वा ।।त्रिणाचिकेत उक्तोऽर्थः । त्रयमेतद्विदित्वा “ब्रह्मजज्ञं देवमीड्यम्” इति मंत्रनिर्दिष्टं ब्रह्मस्वरूपं तदात्मकस्वात्मरूप ंत्रिभिरेत्य संधिमिति निर्दिष्टाग्निस्वरूपं च विदित्वा गुरूपदेशेन शास्त्रतो वा ज्ञात्वा ।।य एवं विद्वाँश्चिनुते नाचिकेतम् ।एतादृशार्थत्रयानुसंधानपूर्वकं नाचिकेतमग्निं यश्चिनुते ।।स मृत्युपाशान्पुरुतः प्रणोद्य ।।मृत्युपाशान् रागद्वेषादिलक्षणान् पुरुतः शरीरपातात्पूर्वमेव प्रणोद्य तिरस्कृत्य जीवद्दशायामेव रागादिरहितः सन्नित्यर्थः ।।शोकातिगो मोदते स्वर्गलोके ।।पूर्वमेव व्याख्यातम् ।।यो वा प्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् ।स एव भूत्वा ब्रह्मजज्ञात्मभूतः करोति तद्येन पुनर्न जायते ।।एवं चितिं ब्रह्मजज्ञात्मभूतां विदित्वा ब्रह्मात्मककस्वात्मानुसंधानशीलस्सन्न पुनर्भवहेतुभूतं यद्भगवदुपासनं तदनुतिष्ठति । ततश्चाग्नौ भगवदात्मकस्वात्मानुसंधान पूर्वकमेव चयनं “त्रिभिरेत्य संधि ंत्रिकर्मकृत्तरति जन्ममृत्यू” इति पूर्वमंत्रेभगवदुपासनद्वारा मोक्षसाधनतया निर्दिष्टं नान्यदिति भावः ।।एष तेऽग्निर्नाचिकेतः स्वर्ग्यः ।।उपदिष्ट इति शेषः ।।यमवृणीथा द्वितीयेन वरेण ।।स्पष्टोऽर्थः । किंच-एतमग्निं तवैव प्रवक्ष्यंति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ।।एतदग्निं तवैव नाम्ना प्रवक्ष्यंतीत्यर्थः। शिष्टं स्पष्टम् । नचिकेता आह ।।येऽयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ।।अत्ताचराचर “(ब्र.सू.1.2.8) इत्यधिकरणे इमं मंत्रं प्रस्तुत्य इत्थं हि भाष्यकृता “अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासन परावरात्मतत्त्वजिज्ञासयाप्रश्नः क्रियते – येऽयंप्रेत” इति । न शरीरवियोगमात्राभिप्रायम् । अपि तु सर्वबंधविनिर्मोक्षाभिप्रायम् । यथा न प्रेत्य संज्ञास्तीति । अयमर्थः मोक्षाधिकृते मनुष्ये प्रेते सर्वबंधविनिर्मुक्ते तत्स्वरूपविषयवादिविप्रतिपत्तिनिमित्ता अस्तिनास्त्यात्मिका एवं विचिकित्सा तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयानुशिष्टोऽहंविद्यां जानीयामिति । तथा हि-बहुधा विप्रतिपद्यन्तेकेचिद्वित्तिमात्रस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्येतु वित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । अपरे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषविशेगुणोच्छेद लक्षणं कैवल्यरूपम् । अपरे अपहतपाप्मानं परमात्मानमभ्युपगच्छंतस्तस्यैवोपाधि संसर्गनिमित्तजीवभावस्योपाध्यपगमे तद्भाभलक्षणं मोक्षमातिष्ठन्ते । त्रय्यंतनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्यस्वाभाविकान वधिकातिशया संख्येय कल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्यातिरोहितस्याऽविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवं मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युः” इति भाषितम् । तथा “त्रयाणामेवचैवम्” (ब्र.सू.1.4.5) इतिसूत्रे “तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतेपासनस्वरूपं च पृष्टम्” इति भाषितम् । श्रुतप्रकाशिकायां च “येऽयंप्रेतइत्यादिप्रश्नवाक्ये मोक्षस्वरूपप्रश्नः कण्ठोक्तः । प्रतिवचनप्रकारेणोपासनादिप्रश्नश्चार्थसिद्धः । निर्विशेषताऽऽपत्तिर्मोक्षश्चेद्वाक्यार्थ ज्ञानस्योपायता न स्यात् । उभयलिंगं प्राप्यं चेत्तथात्वेनोपासनमुपायः स्यात् । अतो मोक्षस्वरूपज्ञानं तदनुबंधिज्ञानापेक्षम्” इति च वर्णितम् । अतो “येऽयं प्रेत” इत्यस्य मुक्तस्वरूपपरत्वमेव । न देहातिरिक्तपारलौकिककर्मानुष्ठानोपयोगिकर्तृभोक्तात्मक जीवस्वरूपमात्रपरत्वम् । अन्यथा तस्यार्थस्य दुरधिगमत्वप्रदर्शनविविधभोगवितरणप्रलोभन परीक्षाया असंभवादिति द्रष्टव्यम् । नचिकेतसो ह्ययमभिप्रायः । हितैषिवचननादात्मा परित्यक्तचरमदेहाविर्भूतापहतपाप्मत्वादिगुणाष्टको भवतीत्युपश्रुत्य “स्वर्गे लोके न भयं किंच नास्ति” इत्यादिनामंत्रद्वयेन मोक्षसाधनभूताग्निमप्राक्षम् । अधुना तु वादिविप्रतिपत्त्या तद्विषयसंदेहो जायते । अयं “स्वर्गे लोके न भयंकिंचनास्ति” इत्यादिना मयोपन्यस्तापहतपाप्मत्वादिविशिष्टरूप आत्मा अस्तीत्येके।नास्तीत्यपरे त्वयोपदिष्ठ एतज्जानीयामिति । अत एव प्रतिवचने “एतच्छ्रुत्वा संपरिगृह्य मर्त्यः । प्रगृह्य धर्म्यमणुमेतमाप्य स मोदते मोदनीयँ हि लब्ध्वा” इति एतत्प्रश्नानुगुणमेव दृश्यते । अतो यथोक्त एवार्थः । एवं मुक्तस्वरूपं पृष्टोमृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तुं प्रभवते मध्ये पतयालवे नोपदेष्टव्यमिति मत्वाह ।देवैरत्रापि विचिकित्सितं पुरा ।।बहुदर्शिभिरपि देवैरस्मिन् मुक्तात्त्मस्वरूपे विचिकित्सितंसंशयितम् ।नहि सुविज्ञेऽयमणुरेष धर्मः ।।आत्मतत्त्वं न सुज्ञानमतिसूक्ष्मो धर्मः । सामान्यतो धर्म एव दुर्ज्ञानः । तत्राप्ययं दुर्ज्ञान इति भावः ।अन्यं वरं नचिकेतो वृणीष्व ।।स्पष्टोऽर्थः ।।मामोपरोत्सीरति मा सृजैनम् ।।मामा इतिनिषेधे । वीप्सायां द्विर्वचनम् । उपरोधं माकार्षीः। एनंमामतिसृज मुंच ।।एव मुक्तो नचिकेता आह ।।देवैरत्रापि विचिकित्सितं किल ।।स्पष्टोऽर्थः ।।त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।।न सुज्ञेयमिति च यदात्मस्वरूपमुक्तवान् ।।वक्ता चास्य त्वादृगन्यो न लभ्यः ।।त्वादृक् भावदृश इत्यर्थः ।।नान्यो वरस्तुल्य एतस्य कश्चित् ।।एवं नचिकेतसोक्तो मृत्युर्विषयस्य दुरधिगमतया मध्ये नत्यक्ष्यतीति निश्चित्य सत्यपि ग्रहणसामर्थ्ये विषयांतरासक्तचेतसे एतादृशमुक्तात्मतत्त्वं नोपदेशार्हमिति मुमुक्षास्थैर्यानुवृत्त्युर्थं प्रलोभपन्नुवाच ।।शतायुषः पुत्रपौत्रान् वृणीष्व । बहून् पशून् हस्तिहिरण्मश्वान् ।।स्पष्टोऽर्थः ।भूमेमर्हदायतनं वृणीष्व ।।पृथिव्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीष्व । अथवा भूमेः संबंधि महदायतनंविचित्रशालाप्रासादादियुक्तं गृहं वृणीष्व ।।स्वयं च जीव शरदो यावदिच्छसि ।।यावद्वर्षाणि जीवितुमिच्छसि तावज्जीवेत्यर्थः ।।एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।।उक्तेन वरेण सदृशमन्यमपि वरं मन्यसे चेत्तदपि वृणीष्व प्रभूतं हिरण्यरत्नादिकं चिरजीवनं चेत्यर्थः ।।महाभूमौ नचिकेतस्त्वमेधि ।।भव राजेति शेषः । अस्तेर्लेण्मध्यमपुरुषैकवचनम् ।कामाना ंत्वा कामभाजं करोमि ।।कामानां काम्यमानानामप्सरः प्रभृतिविषयाणाम् । कामभाजं कामः कामना तां विषयतया भजतीति कामभाक् तम् । काम्यमानाप्सरः प्रभृतीनामपि कामनाविषयं करोमीत्यर्थः ।।ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामान्छन्दतः प्रार्थयस्व ।।छन्दतो यथेष्टमित्यर्थः ।।इमा रामाः सरथाः सतूर्या नहीदृशा लंभनीया मनुष्यैः ।।रथवादित्रादिसहिता मया दीयमानाः स्त्रियो मनुष्याणां दुर्लभा इत्यर्थः ।।आभिर्मत्प्रत्ताभिः परिचारयस्व ।।मया दत्ताभिः परिचारिकाभिः पादसंवाहनादिशुश्रूषां कारयस्वेत्यर्थः ।।नचिकेतो मरणं माऽनुप्राक्षीः ।।मरणमनु मरणान्मुक्तेः पश्चात् । मुक्तात्मस्वरूपमिति यावत् । मरण शब्दस्य देहवियोगसामान्यवाचिनोपि प्रकरणवशेन विशेषवाचित्वं न दोषायेति द्रष्टव्यम् । एवं प्रलोभ्यमानोऽपि नचिकेता अक्षुभितहृदय आह ।।श्वोऽभावा मर्त्यस्य यदंतकैतत्सर्वेंद्रियाणां जरयन्ति तेजः ।।हे अंतक त्वदुपन्यस्ता ये मर्त्यस्य कामास्ते श्वोऽभावाः श्व अभावो येषां ते तथोक्ताः । दिनद्वयस्थायिनो न भवंतीत्यर्थः । सर्वेन्द्रियाणां यदेतत्तेजः तत् क्षपयन्ति । अप्सरः प्रभृतयो हि भोगाः सर्वेन्द्रियदौर्बल्यावहा इति भावः ।।अपि सर्वं जीवितमल्पमेव ।।ब्रह्मणोऽपि जीवितं स्वल्पम् । किमुतास्मदादिजीवितम् । अतश्चिरजीवितापि न वरणार्हेति भावः ।।तवैव वाहास्तवनृत्य (त्त) गीते ।।वाहा रथादयः । तिष्ठंत्विति शेषः ।।न हि वित्तेन तर्पणीयो मनुष्यः ।।नहि वित्तेन लभ्ये (ब्धे) न कस्यचित्तृप्तिर्दृष्टचरी “न जातु कामः कामानामुपभोगेन शाम्यति” इति न्यायादिति भावः ।। किंच-लप्स्यामहे वित्तमद्राक्षमचेत्त्वाम् ।।वयं दृष्टवंतश्चेत्त्वां वित्तं प्राप्स्यामहे । त्वदृर्शनमस्ति चेद्वित्तलाभे को भार इति भावः ।। तर्हि चिरजीविता प्रार्थनीयेत्यत्राह ।।जीविष्यामो यावदीशिष्यसि त्वम् ।।यावत्कालं याम्ये पदे त्वमीश्वरतया वर्तसे । व्यत्ययने परस्मैपदम् । तावत्पर्यन्तमस्माकमपि जीवनं सिद्धमेव । नहि त्वदाज्ञालंघनेनास्मज्जीवितान्तकरः कश्चिदस्ति । वरलाभालाभयोरपि तावदेव जीवनमिति भावः ।।वरस्तु मे वरणीयः स एव ।।ये यं प्रेत इति प्राक्प्रस्तुतो वर एव वरणीय इति भावः ।।अजीर्यताममृतानामुपेत्य ।।जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा ।।जीर्यन्मर्त्यः क्वतदास्थः प्रजानन् ।।विवेकी जरामरणोपप्लुतोऽयं जनः तदास्थः जरामरणाद्युपप्लुताप्सरःप्रभृतिविषयकास्थावान् क्व कथं भवेदित्यर्थः । क्वाधस्थ इति पाठे अधोदेशभूतभूमिष्ठ इत्यर्थः ।।अभिध्यायन्वर्णरतिप्रमोदान् ।।तत्रत्यान्वर्णाआदित्यवर्णत्वादिरूपविशेषाः, रतिप्रमोदाः संभोगादिजनिता आनंदविशेषाः, तान्सर्वानभिध्यायन् निपुणतया निरूपयन् ।।अनतिदीर्घे जीविते को रमेत ।।अत्यल्पे ऐहिकेऽचिरजीविते कःप्रीतिमान्त्स्यादित्यर्थः ।।यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् ।।महति पारलौकिके यस्मिन्मुक्तात्मस्वरूपे संशेरते तदेव मे ब्रूहि ।।योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ।।गूढमात्मतत्त्वमनुप्रविष्टो योऽयंवरः तस्मादन्यं न नचिकेता बृणीत इति श्रुतेर्वचनम् ।।इति प्रथमावल्ली ।।एवं शिष्यं परीक्ष्य तस्य मुमुक्षास्थैर्यं निश्चित्य तस्योपदेशयोग्यतां मन्वानः मुमुक्षां स्तौति ।।अन्यच्छ्रेयोऽन्यदुतैव प्रेयः ।।अतिप्रशस्तं मोक्षवर्त्माप्यन्यत् । प्रियत्वास्पदं भोगवर्त्माप्यन्यत् ।।ते उभे नानार्थे पुरुषँ सिनीतः ।।ते श्रेयः प्रेयसी विलक्षणप्रयोजने पुरुषं स्ववशमापादयत इत्यर्थः ।।तयोः श्रेय आददानस्य साधु ।।तयोर्मध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु भद्रं भवति ।हीयतेऽर्थाद्य उ प्रेयो वृणीते ।।यस्तु प्रेयो वृणीते स पुरुषार्थाद्भ्रष्टो भवति । उ इत्यवधारणे ।।श्रेयश्च प्रेयश्च मनुष्यमेतः ।।मनुष्यं प्राप्नुतः ।।तौ संपरीत्य विविनक्ति धीरः ।।तौ श्रेयःप्रेयः पदार्थौ सम्यगालोच्य नीरक्षीरे हंस इव पृथक्करोति ।।श्रेयो हि धीरोऽभिप्रेयसो वृणीते ।।धिया रमत इति धीरः । प्रज्ञाशाली प्रेयापेक्षयाभ्यर्हितं श्रेय एव वृणीते ।प्रेयो मंदो योगक्षेमाद्वृणीते ।।मन्दमतिर्योगक्षेमाद्धेतोः प्रेयो वृणीते । शरीरस्योपचयो योगः । क्षेमः परिपालनम् ।।स त्वं प्रियान्प्रियरूपांश्च कामान् ।।तादृशस्त्वं स्वतोरूपतश्चाप्रियाम्काम्यमानांस्त्र्यादीनित्यर्थः ।।अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।।दुःखोदर्कत्वदुःखमिश्रत्वादिदोषमिश्रतया निरूपयंस्त्यक्तवानसीत्यर्थः ।।नैताँ सृङ्कां वित्तमयीमवाप्तः ।।वित्तमयीं धनमयीं सृङ्कां कुत्सितगतिं विमूढजनसेवितां नाऽवाप्तवानसि ।।यस्यां मज्जंति बहवो मनुष्याः ।।स्पष्टोऽर्थः ।।दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।।या अविद्येति ज्ञाता कामकर्मात्मिका या च विद्येति ज्ञाता वैराग्यतत्त्वज्ञानमयी एते दूरमत्यंतं विषूची विषूच्यौ भिन्नगती परस्परविरुद्धे च ।।विद्याभीप्सिनं नचिकेतसं मन्ये ।।विद्याभीप्सिनं विद्यार्थिनम् । विद्याभीप्सितमिति पाठे आहिताग्न्यादित्वान्निष्ठांतस्य परनिपातः छांदसत्वाद्वा ।।न त्वां कमा बहवो लोलुपन्तः ।।कामा बहवोऽपि त्वां नालोलुपन्त श्रेयोमार्गाद्विच्छेदं नकृतवंतः । लुपसदेतियङंत्ताल्लुङि छांदसो यलोपः । यङ्लुगंताद्वा छांदसमात्मनेपदम् अडभावश्च । “अविद्या या चविद्येति ज्ञाता” इत्युपात्तमार्गद्वये अविद्यामार्ग निंदति ।।अविद्यायामंतरे वर्तमानाः ।।काम्यकर्मादिलक्षणायामविद्यायां मध्ये घनीभूत इव तमसि वर्तमानाः ।।स्वयं धीराः पण्डितंमन्यमानाः ।।स्वयमेव प्रज्ञाशालिनः शास्त्रकुशलश्चेति मन्यमानाः ।।दन्द्रम्यामाणः परियन्ति मूढाः ।।जरारोगादिदुःखपीडिता अविवेकिनः परिभ्रमंति ।।अन्धेनैव नीयमाना यथान्धाः । न सांपरायः प्रतिभाति बालम् ।।परलोकसाधनव्यापारोऽविवेकिनं प्रति न प्रकाशते ।।प्रमाद्यन्तं वित्तमोहेन मूढम् ।।अनवहितमनस्कं विषयाशावशीकृतमनोरथम् ।।अयं लोको नास्ति पर इति मानी ।।अयमेव लोकोऽस्ति परलोको नास्तीति मन्यमानः ।।पुनःपुनर्वशमापद्यते मे ।मत्कार्यमाणयातनाविषयो भवतीत्यर्थः । व्यासाचार्यैः “संयमनेत्वनुभूय” (ब्र.सू.3.1.13) इति सूत्रे “अयं लोको (श्री.भ.गी.7-3) नास्ति नपर उत मानीति पाठानुसारेण अयं च लोकः परश्च लोको नास्तीत्ययमर्थो वर्णितः । तत्र पक्षे तस्येति शेषः । पूरणीयश्च शब्दश्चाध्याहार्य्यः । मानीत्यस्य दुर्मानीत्यर्थः । तस्यायं लोकः परश्च लोको नास्तीत्यर्थः । शिष्टपरिग्रहाभावादयं च लोको नास्तीत्यस्योपपत्तिर्द्रष्टव्या ।। स दुर्मानी पुनःपुनर्वशमापद्यते इत्युत्तरत्र संबध्यते ।।श्रवणायापि बहुभिर्यो न लभ्यः ।।यःप्रसिद्धःपरमात्मा सोऽनेकैः पुरुषैः श्रोतुमपि न लभ्य इत्यर्थः । श्रवणलाभोऽपि महासुकृतफलमिति भावः ।।श्रृण्वंतोऽपि बहवो यं न विद्युः ।।श्रवणेऽपि न सर्वेषां परमात्मप्रतिपत्तिः सुलभेति भावः ।।आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा ।।अस्य कुशलोवक्ता कुशलः प्राप्ता च दुर्लभ इत्यर्थः ।।आश्चर्यो ज्ञाता कुशलानुशिष्टः ।।कुशलेनाचार्येणानुशिष्टो ज्ञाताप्याश्चर्यः “मनुष्यमाणां सहस्रेषु कश्चिद्यतति सिद्धये ।। यततामपि सिद्धानां कश्चिन्मां वेन्ति तत्त्वतः” (श्री.भ.गी.7-3) इत्युक्तेरिति भावः ।।न नरेणावरेण प्रोक्त एष सविज्ञेयो बहुधा चिंत्यमानः ।अवरेणाश्रेष्ठेन प्राकृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन न देहात्माभिमानिना एष आत्मा विज्ञेयो न भवति बहुधा चिंत्यमानः वादिभिरिति शेषः ।।अनन्यप्रोक्ते गतिरत्र नास्ति ।।अनन्येनोच्यमानादात्मानन्येन तदेकांतिना ब्रह्मात्मसाक्षात्कारिणा प्रोक्ते आत्मनि यादृशी अवगतिः सा आत्मावगतिरत्रावरेण प्रोक्ते नास्तीत्यर्थः । यद्वा । अत्र संसारे गतिः चंक्रमणं नास्तीत्यर्थः । यद्वा । अनन्यप्रोक्ते स्वयमवगते गतिरात्मावगतिर्नास्तीत्यर्थः । अन्यप्रोक्तइतिपाठांतरेऽवरनरप्रोक्ते सति आत्मावगतिर्नास्तीत्यर्थः ।। ननु येन केन चिदुपदिष्टेप्यूहापोहशालिनः स्यादेवेत्यत आह ।।अणीयान्ह्यप्रतर्क्यमणुप्रमाणात् ।।यतोऽणोरणीयानात्माऽतस्तत्स्वरूपं तर्कागोचरम् । तदेवाह ।।नैषा तर्केण मतिरापनेया ।।आत्मविषयिणी मतिस्तर्कप्रापणीया नेत्यर्थः ।। अतस्तर्ककुशलेनापि स्वयं ज्ञातुं नशक्येत्यर्थः ।।प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।।हे प्रेष्ठ प्रियतमस्वस्मादन्येनैव गुरुणोपदिष्टैव मतिर्मोक्षसाधनज्ञानाय भवति ।। का पुनः सा मतिरित्यत्राह ।।यां त्वमापः सत्यधृतिर्बतासि ।।यां मतिं त्वमापः प्राप्तवानसि सिसाधयिषिततया निश्चितवानसीत्यर्थः ।। सत्यधृतिः सत्याऽप्रकंप्या धृतिर्यस्य तथोक्तः । बतेत्यनुकंपायाम् ।।त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ।।त्वादृशः शिष्योऽस्माकं भूयादित्यर्थः । पुनरपि तुष्ट आह ।।जानाम्यहँ शेवधिरित्यनित्यम् ।।शेवधिः कुबेराद्यैश्वर्यमेवंजातीयककर्मफललक्षणमनित्यमिति जानामि ।।न ह्यध्रुवैः प्राप्यते ध्रुवं तत् .।तदात्मत्त्वम् । अध्रुवैरनित्यफलसाधनभूतैरनित्यद्रव्यसाध्यैर्वा कर्मभिरित्यर्थः ।।ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ।।एवं ज्ञातवता मया ब्रह्मप्राप्तिसाधज्ञानोद्देशेनानित्यैरिष्टकादिद्रव्यैर्नाचिकेतोऽग्निश्चितः ।तस्माद्धेतोर्नित्य फलसाधनं प्राप्तवानस्मीत्यर्थः । अतो ब्रह्मप्राप्तेर्ज्ञानैकसाध्यत्वस्य नविरोधः ।त्वादृङ्नो भूयान्नचिकेतः प्रष्टेति पूर्वमंत्रोक्तं नचिकेतसः श्रवणाधिकारं विवृणोति ।।कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानंत्यमभयस्य पारम् ।स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या नचिकेतोऽत्यस्राक्षीः ।।क्रतोः कर्मणः प्रतिष्ठां फलभूतां जगतः कामस्याप्तिं चतुर्मुखस्थानपर्यंत सर्वलोकसंबंधिस्त्र््यादिविषयात्मककामप्राप्तिं च दृष्ट्वा मोक्षस्वरूपमाह । आनंत्यमभयस्य पारमित्यादिना अविनाशित्वम् अत्यंतनिर्भयत्वम् अपहतपाप्मत्वम् सत्यसंकल्पत्वादिमहागुणरूपस्तोमम् उरुकीर्तिं स्थैर्यंच मोक्षगतं दृष्ट्वा लौकिकान् कामान् प्रज्ञया त्यक्तवानित्यर्थः ।यद्वा मोक्षस्वरूपपपरमात्मस्वरूप एव सर्वकामावाप्तिं तत्रैव सकलजगदाधारत्वं क्रतोरनंत फलरूपतां चेत्येवं सर्वं परमात्मविषयतया योजनीयम् ।। तृतीयं प्रश्नं प्रतिवक्ति ।।तं दुर्दर्शमित्यादिना मंत्रद्वयेन ।।तं दुर्दर्शं गूढमनुप्रविष्टम् ।।”श्रवणायापि बहुभिर्यो न लभ्यः” इत्युक्तरीत्या द्रष्टुमशक्यम् । गूढं तिरोधायि कर्मरूपाविद्यातिरोहितम् । सर्वभूतानुप्रविष्टम्।।गुहाहितम् ।।हृदयगुहावर्तिनम् ।।गह्वरेष्ठम् ।।आत्मांतर्यामिणम् ।।पुराणम् ।।अनादिम् ।।अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ।।विषयेभ्यः प्रतिसंहृत्यचेतसः आत्मनि समाधानमध्यात्मयोगः । “यच्छेद्वाङ्मनसी प्राज्ञः “यदा पंञ्चावतिष्ठंते ज्ञानानि मनसा सह” इत्यादिना यो वक्ष्यमाणस्तेन योऽयमधिगमः जीवात्मज्ञानं तेन हेतुना देवं परमात्मानं मत्वा ध्यात्वेत्यर्थः । जीवात्मज्ञानस्य परमात्मज्ञानहेतुत्वादिति भावः । हर्षशोकौ विषयलाभालाभप्रयुक्तहर्षशोकौ जहातीत्यर्थः ।।एतच्छ्रुत्वा संपरिगृह्य मर्त्यः ।।एतदात्मतत्त्वं श्रुत्वा संपरिगृह्य मननादिकं कृत्वेत्यर्थः ।।प्रवृह्य धर्म्यम् ।।कर्मसाध्यं शरीरादिप्रवृह्य पृथक्वृत्य परित्यज्येत्यर्थः ।।अणुमेतमाप्य ।।एतं स्वात्मभूतं सूक्ष्मतया चक्षुराद्यगोचरम् । अणीयान् ह्यप्रतर्क्यमिति निर्दिष्टं देशविशेषे प्राप्य ।।स मोदते मोदनीयँ हि लब्ध्वा ।।सविद्वान्मोदनीयं प्रीतिविषयमपहतपाप्मत्वादिगुणाष्टकविशिष्टस्वरूपं लब्ध्वा मोदते आनंदी भवतीत्यर्थः । “एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्यस्वेनरूपेणाभिनिष्पद्यते । स तत्र पर्य्येति जक्षत् क्रीडन् रममाणः” इति श्रुत्यंतरार्थोऽत्रानुसंधेयः ।एवं प्रश्नस्योत्तर मुक्त्वा नचिकेतसं मोक्षार्हत्वेन स्तौति ।।विवृतँ सद्मनचिकेतसंमन्ये ।।नचिकेतसं प्रति ब्रह्मरूपं सद्म धाम विवृतद्वारं प्रवेशार्ह मन्ये इत्यर्थः । “तस्यैष आत्मा विशति ब्रह्मधाम” इतिश्रुतेः ।। ननु ब्रह्मजज्ञं देवमीड्यं विदित्वेति श्रुत्यैकार्थ्यायाध्यात्म योगाधिगमेन देवं मत्वेत्यत्रापि परमात्मात्मकजीवः प्रतिपाद्यताम् । ततश्च तं दुर्द्दर्शमितिपूर्वमंत्रखंडोऽपि जीवविषय एवास्तु । ततश्च श्रवणायापि बहुभिर्यो न लभ्य इति पूर्वसंदर्भोऽपिपरिशुद्धजीवस्वरूपपर एवास्तु।ततश्च “आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदतितथैवचान्यः ।आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्” इति परिशुद्धात्मविषयगीता वचनैकार्थ्यमुपपद्यत इति चेन्न । ब्रह्मजज्ञमिति मंत्रब्रह्मजज्ञत्वरूपप्रक्रमश्रुतजीवलिंगबलेन चरमश्रुतदेवशब्दस्यदेवात्मकस्वरूपाश्रयणेपि तं दुर्दर्शमिति मंत्रे तादृश जीवलिंगाभावेन देव मित्यस्य देवात्मकमित्यर्थाश्रयणायोगात् । एतदेवाभिप्रेत्य भगवता भाष्यकृता “गुहां प्रविष्टा वात्मानौ” (ब्र.सू. 1.2.11) इति सूत्रे परमात्मनस्तावत् तं दुर्दर्शं गूढमनुप्रविष्टमिति गुहाप्रवेशो दृश्यत इत्युक्तम् । तथैवायं मंत्रः परमात्मपरतया व्यासाचार्यैर्विवृतः । गह्वरेष्ठमिति पदेन परमात्मनः गह्वरशब्दितदुर्ज्ञेयपरिशुद्धात्मस्वरूपशरीरकत्वमप्युक्तम् । इयांस्तुविशेषः ।। ब्रह्मजज्ञमिति मंत्रे परमात्मात्मकपरिशुद्धजीवस्वरूपं प्रतिपाद्यते । तं दुर्दर्शमिति मंत्रे तु जीवशरीरकपरमात्मकस्वरूपं प्रतिपाद्यत इति न तयोरैकार्थ्यहानिः । “नह्यध्रुवैः प्राप्यते हि ध्रुवंतत् ।एतछ्रुत्वा संपरिगृह्य मर्त्यः । प्रवृह्य धर्ममणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा । अध्यात्मयोगाधिगमेन देवं मत्वा हर्षशोकौ जहाति” इति प्रदेशेषु धर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्यतया च निर्दिष्टस्य प्राप्यस्य स्वरूपं चोक्तप्रदेशेषु धर्मविलक्षणतया मत्त्वेति प्रतिपन्नस्योपायस्य स्वरूपं च धीरो हर्षशोकौ जहातीत्यत्र धीर इति प्रतिपन्नस्य प्राप्तुश्च स्वरूपं शोधयितुं पृच्छति ।।अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि (ति) तद्वद ।।ननु भाष्ये देवं मत्वेत्युपासनविषयतया निर्दिष्टस्य प्राप्यभूतस्य देवस्याध्यात्मयोगाधि गमेनेति वेद्यतया निर्दिष्टस्य प्राप्तुःप्रत्यगात्मनश्च मत्त्वा धीरो हर्षशोकौ जहातीति निर्दिष्टस्य ब्रह्मोपासनस्य स्वरूपशोधनाय पुनः पप्रच्छ ।अन्यत्रधर्मादित्युक्तेः कथं तद्विरुद्धतया धीर इति निर्दिष्टस्य प्राप्तुरित्युच्यतइतिचेत् मैवं वोचः ।अध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्द्दिष्ट मात्म शब्दवाच्यं प्रजापतिविद्याप्रतिपन्नमुपास्यं प्राप्यभूतं परिशुद्धस्वरूपमेव । अतस्तस्यापिप्राप्यनिर्देशकत्वमेव । वस्तुगत्या तस्य प्राप्तुरभिन्नत्वात्प्राप्तुः प्रत्यागात्मनश्चेति भाष्यं न विरोत्स्यते ।अत एव प्रथमं तावत्प्राप्तुः प्रत्यगात्मनः स्वरूपमाह-न जायते म्रियते वा वि पश्चिदितीत्युत्तर भाष्यमपि न विरोत्स्यते । नहि न जायते म्रियते वा विपश्चिदिति मंत्रप्रतिपाद्यस्यविपश्चिच्छब्दितपरिशुद्धस्वरूपस्य प्राप्तृरूपतोपपत्तिः “आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इति मंत्रप्रतिपाद्यस्यैव प्राप्तृरूपत्वात् । तथैव “विशेषणाच्च” (ब्र.सू.1.3.12.) इति सूत्रभाष्ये प्रतिपादितत्वात् । अत एव प्राप्तृप्राप्यैकाधिकरणे निर्देशपरे गुहामंत्रे छायातपावित्यज्ञत्ववाचिनःछायाशब्देन निर्देशो दृष्टः । न त ुविपश्चिच्छब्देन । अतो यथोक्त एवार्थः । अयं मंत्रो व्यासार्यैः “त्रयाणामेवचैव” (ब्र.सू.1.4.6) इति सूत्रे विवृतः ।। धर्म उपायः धर्मादन्यत्र प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्मो धर्मेतरः उपेयः अधर्मादन्यत्र प्रसिद्धसाध्यविलक्षण इत्यर्थः । अस्मादिति बुद्धिस्थस्तत्साधको विवक्षितः । स एवोपेतो स हि प्रसिद्धोपेतृविलक्षणः । साधकावस्थायामितरफलविरक्तत्वादेवं फलदशायामाविर्भूतगुणाष्टक विशिष्टस्वरूपत्वाच्च । कृताकृतादिति धर्मादीनां विशेषणम् । कृताकृताच्च धर्मादेर्विलक्षणं यद्भूताच्च भव्याच्च धर्मादेर्विलक्षणं यदित्यर्थः ।। यद्वा धर्माधर्मादच्चान्यत्रेत्युपासनप्रश्नः ।पुण्यपापरूपसाधनविलक्षणत्वात् । कृताकृताद्भूताद्भव्याच्चान्यत्रेति कालापरिच्छिन्नमुपेयं पृष्टम् ।उपेतुरपि चेतनस्य नित्यत्वात् प्राप्यांतर्भावाच्च । अत एव तस्यापि तंत्रेण प्रश्नः । तदन्तर्गतत्वं प्राप्तुः स्वरूपमिति हि वक्ष्यते । अत्र यत्तच्छब्दौ तृतीयपराविति भाव इति नचिकेतसा पृष्ट आह ।।सर्वे वेदा यत्पदमामनंति ।।पद्यत इति पदं”सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इत्युत्तरत्र वक्ष्यमाणं ब्रह्मस्वरूपं सर्वे वेदाः साक्षात्परंपरया वा प्रतिपादयंतीत्यर्थः ।।तपाँसि सर्वाणि च यद्वदंति ।।तपांसि तपःप्रधानाः उपरितनभाग इति व्यासार्यैर्व्याख्यातम् ।।यदिच्छंतो ब्रह्मचर्यं चरंति ।।ब्रह्मचर्यं गुरुकुलवासस्त्रीसंगरहित्यादिलक्षणं यदिच्छंतोऽनुतिष्ठंति ।।तत्ते पदं संग्रहेण ब्रवीमि ।।तत्ते पदं संग्राहकेण शब्देन वक्ष्यामीत्यर्थः । प्राप्यवक्तव्यत्वप्रतिज्ञापरेऽस्मिन्मंत्रेऽर्थात् प्रणवप्रशंसाया अपि लाभात्प्रणवं प्रशस्येति भाष्यस्य सर्वे वेदा इत्यादि पादत्रयोक्तब्रह्मप्रतिपादक तयाप्रशस्येत्यर्थ इतिश्रुतिप्रकाशिकावचनस्य चानुपपत्तिरिति द्रष्टव्यम् । संक्षेपेण तत्प्रतिपादकं किमित्यत आह ।।आेमित्येतत् ।”आें तत्सदितिनिर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति प्रणवस्यब्रह्मवाचकत्वात्प्रण वावयवयोरकारमकारयोः परजीववाचितयोपेयोपेत्रोरप्युपदिष्टत्वमस्तीति द्रष्टव्यम् ।। अत एवोपाय स्वरूपमप्यत्रार्थमिति मन्तव्यम् ।। एवं वाचकं प्रणवं द्वाभ्यां मंत्राभ्यां स्तौति ।।एतध्देवाक्षरं ब्रह्मआें मित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीतेति ब्रह्मप्राप्तिसाधनध्यानालंबनत्वादिद मेवाक्षरं ब्रह्मप्राप्तिसाधनत्वाद्ब्र्रह्म ।।एतद्ध्येवाक्षरं परम् ।।जाप्येषु ध्येयेषु च श्रेष्ठमित्यर्थः ।।एतध्देेवाक्षरं ज्ञात्वा यो यदिच्छति तस्यतत् ।।एतदक्षरमुपास्यानेनोपासनेनंदं फलं मे भूयादिति यत्कामयते तत्तस्य भतीत्यर्थः ।।एतदालंबनँ श्रेष्ठम् ।।एतदोंकाररूपमालंबनं श्रेष्ठम् । ध्यानादेरिति शेषः ।। अत एवएतदालंबनं परम् ।।एतदालंबनं ध्यानादि सर्वोत्कृष्टमित्यर्थः ।।एतदालंबनं ज्ञात्वा ब्रह्मलोके महीयते ।।स्पष्टोऽर्थः ।। प्रथमं तावत्प्रत्यगात्मस्वरूपमाह । न जायते म्रियते इत्यादिना मंत्रद्वयेन । इदं च प्रस्तुत्य व्यासार्यैरित्थं ह्युक्तम् “इदं मंत्रद्वयं तावदेकविषयम् । न हन्यते हन्यमाने शरीर इत्येतद्विवरणरूपत्वाद्दितीयमंत्रस्य । हंता चेदिति मंत्रश्च जीवविषय एव । लोकस्य परमात्मनि हंतृहंतव्यभावप्रतीत्यभावात् । परमात्मा हि प्रत्यक्षागोचरः । कथं तस्मिन्वध्यतादिप्रतिपत्तिः । अहमेनं हन्मि अयं मां हंतुमिच्छतीति वध्यधातकभावाभिमानो हि देहिनां जीवविषय एव । ननु नास्य जरयैतज्जीर्य्यतीतिवत् परमात्मनोऽपि हननप्रतिषेध उपपद्यते । सत्यम् । तत्र दहराकाशस्य देहांतः स्थित्या शङ्कित विकारनिषेध उपपद्यते । इह तु लोकप्रसिद्धाभ्रांतिरनूद्यनिरस्यते । न हि परमात्मनि वध्यधातकभ्रान्तिः कस्याप्यस्ति । अतोऽनुवादनिषेधावनुपपन्नौ ।न जायत इति मंत्रश्चेतनैकार्थः । अतो मंत्रद्वयमपि जीवविषयकमेवेति । अक्षरार्थस्तु ।न जायते म्रियते वा विपश्चित् ।।विपश्चित्तवार्होऽयमिदानीमपि जननमरणशून्य इत्यर्थः ।।नायं कुतश्चित् ।।उत्पादकशून्यः ।।न बभूव कश्चित् ।।पूर्वमपि मनुष्यादिरूपेण जनन शून्यः।। न जायते इत्यत्र हेतुमाह ।।”अजः” ।।इति।।न म्रियते इत्यत्र हेतुमाह ।।”नित्यः” ।।इति।।न कुतश्चिदित्यत्र हेतुमाह ।।”शाश्वतोऽयम्” ।।इति।।न बभूवेत्यत्र हेतुमाह ।।”पुराणः” ।।इति।।ननु कथमस्य नित्यत्वं शरीरान्तर्वर्तिनः शरीरविनाशानुविनाशित्वावश्यंभावादित्यत आह ।।न हन्यते हन्यमाने शरीरे ।।स्पष्टोऽर्थः । तदेवोपपादयति ।।हन्ता चेन्मन्यते हंतुम् ।।अहमेनं हनिष्यामीति देहात्मदृष्ट्या मन्यते चेदित्यर्थः ।।हतश्चेन्मन्यते हतम् ।।छिन्नदेहावयवो देहात्मदृष्ट्यात्मानं हतोऽहमिति मन्यते चेदित्यर्थः ।।उभौतौ नविजानि (नी) तः।।आत्मस्वरूपमिति शेषः ।।नायं हन्ति ।।आत्मानमिति शेषः ।।न हन्यते ।।आत्मस्वरूपमिति शेषः। नच वेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथं हननादिप्रसक्तितत्पूर्वक निषेधाविति वाच्यम् । तस्यैव क्षेत्रज्ञतया तत्प्रयुक्तस्यतत्संभवादितिद्रष्टव्यम् ।। एवं मंत्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्मभूतपरमात्मस्वरूपमाह ।।अणोरणीयान् ।।अणोः सर्वाचेतनापेक्षया सूक्ष्माच्चेतनादणुतरः । ततोऽपि सूक्ष्मस्तदन्तः प्रवेशयोग्यः ।।महतो महीयान् ।।आकाशादेरपि महीयान्महत्तरः । स्वाव्याप्तवस्तुरहित इत्यर्थः ।।आत्मास्य जन्तोर्निहितो गुहायाम् ।।अस्य जन्तोर्न जायते म्रियत इति मंत्रद्वयप्रतिपाद्यस्य चेतनस्यात्मा अंतः प्रविश्य नियन्ता ।नचास्य जंतोरित्यस्य हृदयकुहरवाचिगुहाशब्देनैवान्वयो नात्मशब्देनेति शङ्क्यम् ।। मूलतः शाखां परिवास्योपवेशं करोतीत्यत्र मूलतः शाखां परिवास्य मूलतः उपवेशं करोतीत्यन्वयवत् साकांक्षाभ्यामात्मगुहाशब्दाभ्यामन्वयसंभवात् । अतश्च जंतुशब्दितपूर्वमंत्रद्वयनिर्दिष्टजीव स्वरूपापेक्षया एतन्मंप्रतिपाद्यस्य भेदप्रतीतेः पूर्वमंत्रद्वयप्रतिपाद्य एवाणोरणीयानिति मंत्रप्रतिपाद्योऽस्त्विति शंका निरस्ता । ननु न जायत इत्युपन्यस्तस्यात्मनो जायमानवाचि जंतुशब्देन परामर्शस्यानुपपन्नतयाऽस्यजंतोरित्यस्य प्रत्यक्षादिसंनिधापितेतरदेहपरताया एव वक्तव्यत्वेन तद्गुहानिहित आत्मा प्रागुपन्यस्तो जीव एवास्तु । नच कर्तृत्वभोक्तृत्वविशिष्टतया सदाहमिति भासमाने जीवे “कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । क इत्था वेद यत्र सः” इत्युत्तरसंदर्भे प्रतिपाद्यमानदुर्विज्ञानत्वं कथमन्वेतीतिवाच्यम् । जीवस्यकर्तृत्वादिविशिष्टतया सर्वलोकविदितत्वेऽपि मुक्तप्राप्यब्रह्मरूपविशिष्टतया दुर्ज्ञानत्वसंभवादिति चेन्न । “प्राणी तु चेतनो जन्मी जंतुजन्युशरीरिणः” इति जंतुशब्दस्य चेतनपर्यायतया पाठात् प्रकृतजीव वाचित्वसंभवादस्येतिशब्दस्य पूर्वमंत्रनिर्दिष्टजीवविषयत्वसंभवे प्रत्यक्षोपस्थापित देहपरत्वाश्रयणायोगात् । “एष म आत्मान्तर्हृदयेऽणीयानेष मे आत्मान्तर्हृदये ज्यायान्” इत्यत्यंताणुत्वमहत्वयोः परमात्मधर्मत्वेन प्रसिद्धतया अणोरणीयानिति मंत्रस्य तद्विषयत्वस्यैव युक्तत्वेन पूर्वमंत्रनिर्दिष्टशुद्धात्मपरत्वासंभवादणोरणीयानिति मंत्रः परमात्मस्वरूपपर एव ।तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ।।तं तादृशं परमात्मानम् । अक्रतुः काम्यकर्मादिरहितः सन् धातुर्धारकस्य परमात्मनः प्रसादादात्मना ेमहिमानं महत्वसंपादकं स्वसार्वज्ञादिगुणाविर्भावहेतुभूतं परमात्मानं यदा पश्यति तदा वीतशोको भवतीत्यर्थः। “द्युभ्वाद्यायतनं”(ब्र.सू.1.3.1) इत्यधिकरणे जुष्टं यदा पश्यत्यन्यमीशम्” इति मंत्रं प्रस्तुत्य यदा स्वस्मादन्यं स्वस्येशं प्रीयमाणस्येश्वरस्य महिमानं च निखिलजगन्नियमनरूपं यदा पश्यति तदा वीतशोको भवतीति भगवता भाष्यकृता व्याख्यातत्वात्तदनुसारेणेहापि यःपश्यति सवीतशोको भवतीत्यर्थः । धातुः प्रसादाद्वीतशोको भवतीति वान्वयः । “प्रसीदत्यच्युतस्तस्मिन्मप्रसन्ने क्लेशसंक्षयः” इति स्मृतेरिति द्रष्टव्यम् । धातोः प्रसादादिति पाठे ऽपि स एवार्थः । तमक्रतुमिति पाठे अक्रतुं कर्मकृतोत्कर्षापकर्षशून्यमिति परमात्मविशेषणम् । धातुः प्रसादशून्यस्य परमात्मतत्त्वं दुरधिगममिति दर्शयति ।।आसीनो दूरं व्रजति शयानो याति सवतः ।।परमात्मनः सर्वात्मकत्वादितरत्र विरुद्धतया भासमना अपि आसीनत्वदूरगन्तृत्वादिधर्मा जीवद्वारा तत्र संतीति भावः ।।कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।।हर्षाहर्षरूपविरुद्धधर्मा यं तं परमात्मप्रसादानुग्रहीतमादृशजनव्यतिरिक्तः को वा ज्ञातुमर्हतीत्यर्थः ।।अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।।अशरीरं कर्मकृतशरीररहितम् । अनवस्थेषु अस्थिरेषु शरीरेषु नित्यत्वेन तत्र स्थिरम् ।।महांतं विभुम् ।।महावैभवशालिनम् ।।आत्मानं मत्वा धीरो न शोचति इति ।।स्पष्टोऽर्थः ।।ईदृशात्मप्राप्त्युपायमाह ।।नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।।अत्र प्रवचनशब्देन प्रवचनसाधनं मननं लक्ष्यते । उत्तरत्र न मेधया न बहुना श्रुतेनेति श्रवणनिदिध्यासनयोर्वक्ष्यमाणत्वात्तत्समभिव्याहारादध्ययनरूपप्रवचनस्य हेतुत्वप्रसक्तेः । तथैव व्यासार्यैरपि विवृतत्वाच्च ।।यमेवैष वृणुते तेन लभ्यः ।।एष परमात्मा यं साधकं प्रार्थयते तेन लभ्यः । प्रार्थनीयपुंसा लभ्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्य पुंसः । तत्प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीतिर्भगवत उपासके प्रीतिमुत्पाद्य तत्प्राप्तिहेतुर्भवतीत्यर्थः ।।तस्यैष आत्मा विवृणुते तनूं स्वाम् ।।तस्योपासकस्यैष आत्मा परमात्मा स्वरूपं प्रकाशयति स्वात्मानुभवं प्रयच्छतीत्यर्थः । वृणुत इति पाठे स एवार्थः ।। परमात्मोपासनांगतया कांश्चिद्धर्मानुपदिशति ।।नाविरतो दुश्चरितात् ।।अत्यकरणाद्योऽनिवृत्तः ।।नाशान्तो नासमाहितः ।।अशान्तबाह्येन्द्रियः नानाविधव्यापारविक्षिप्तचित्ततयाऽनवहितमनाः ।।नाशान्तमानसो वापि ।।अनिगृहीतमानसश्च ।।प्रज्ञानेनैनमाप्नुयात् ।।अत्र पुरुषार्थस्यापि दुश्चरितविरत्यादेरुपासनाङ्गतया विधानं पुरुषार्थानृतवदननिषेधस्य दर्शपौर्णमास प्रकरणे नानृतं वदेदिति क्रत्वङ्गतया विधानवदुपपद्यते । यस्तु पुरुषार्थमपि दुश्चरितनिषेधमतिलंघ्य परमात्मोपासनमविगुणं चिकीर्षति तस्य दुश्चरितविरतिरूपाङ्गवैगुण्यादु पासनसाद्गुण्यं न सिध्यतीति भावः ।।यस्य ब्रह्म च क्षत्रं च उभे भवत आेदनः ।मृत्युर्यस्योपसेचनं क इत्था वेदय त्रसः ।।ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदं जगद्यस्यौदनो भवति विनाश्यं भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्यादनहेतुर्भवति सः निखिलचराचर संहर्ता परमात्मा यस्मिन्प्रकारे स्थितः यत्प्रकारविशिष्टःतत्प्रकारमित्थमितिकोवेदेत्यर्थः । ननु ब्रह्मक्षत्रशब्देन चराचरग्रहणे किं बीजमितिचेत् । उच्यते ।ब्रह्म च क्षत्रं च आेदन इत्युक्ते ब्राह्मणक्षत्रियवर्णयोः किं (कं) चित्प्रत्योदनशब्दस्य मुख्यार्थत्वाभावादोदनशब्देन भोज्य (ग्य) त्वं विनाश्यत्वं वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्रसंहर्ता वा कश्चिज्जीवः परमात्मा वास्ति । न चान्तरादित्यविद्यायां “ये चामुष्मात्परांचो लोकाः तेषां चेष्ट” इति सर्वलोकेश्वरे परमात्मन्युपासनार्थं लोकविशेषेईशितृत्वश्रवणात्सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनार्थमुपदिश्यतामिति वाच्यम् ।तद्वदस्योपासनाप्रकरणत्वाभावात् । अतो ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणं युक्तम् । उक्तं चसूत्रकृता “अत्ताचराचरग्रहणात्” (ब्र.सू.1.2.9) इति । नन्वेवमप्योदनशब्देन किमिति विनाश्यत्वं लक्षणीयम् । गौणत्वमपि शब्दस्य साधारणगुणमपहायासाधारणगुणेनैव निर्वाह्यम् । नह्यग्निर्माणवक इत्यत्राग्निशब्देन पैंगल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति । अत एवोद्गातृशब्देन सर्वर्त्विक्साधारणगुणं विहायोद्गातृ गुणमात्रलक्षण पूर्वतन्त्रे निर्णीता । तद्वदिहापि ब्रह्मक्षत्रयोरोदनशब्दमुख्यार्थत्वाऽसंभवेऽपि भोज्यत्वभोग्यत्वरूपान्तरङ्गाकारलक्षकत्वमेव युक्तम् । नत्वत्यंतबहिरङ्गविनाश्यत्वाकारस्य येन निखिल चराचरसंहर्ता परमात्मात्र वाक्ये प्रतीयत इति चेत् उच्यते । यद्यपि विनाशित्वं साधारणाकारः तथापि मृत्युर्यस्योपसेचनमिति वाक्यशेषानुरोधात् साधारणोऽपि गौण्यावृत्त्या लक्षयितुमुचितः । ननु उपसेचनशब्दापेक्षया आेदनशब्दस्य मुख्यत्वादोदनशब्दस्वारस्यानुरोधेनासाधारणाकाररूपभोग्यत्वे लक्षिते जघन्यमुपसेचनपदमबाधकत्वाभिप्रायेण कथंचिन्नीयताम् ।अतश्च योऽत्र ब्रह्मक्षत्रभोक्ता यस्य च मृत्युरबाधकः सोऽस्मिन्मंत्रे प्रतिपाद्यः । भोक्तृत्वं जीवस्येति स एवास्मिन्मंत्रे प्रतिपाद्यतामिति चेत् उच्यते । उपसेचनत्वेन रूपितस्य मृत्योरोदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत्प्रतीतस्य संबंधस्य सर्वात्मना वाघप्रसंगात् । नहि यस्य ब्रह्मक्षत्रं भोग्यं यस्य च मृत्युरबाधक इत्युक्ते मृत्योर्ब्रह्मक्षत्रस्य च संबंधः प्रतीयते । अतः उपसेचनशब्दस्योदनशब्दापेक्षया जघन्यत्वे बाधकत्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वरूपासाधारणाकार एवग्राह्यः । ततश्चैकवाक्यान्तर्गतया चरम श्रुतोपसेचनपदानुसारेणौदनशब्देनापि विनास्यत्वमेव लक्षणीयम् । स्वबुद्ध्युपस्थापनीय विशेषाकार रूपगुणग्रहणादप्येक वाक्यतापन्नपदांतरोप स्थापितगुणग्रहणस्यैव बुद्धिलाघवेनैकवाक्यता सामर्थ्यानुरोधेन च न्याय्यत्वादित्य स्यार्थस्यात्ताचराचरग्रहणादित्यधिकरणे निर्णीतत्वात् ।।24।। परमात्मनश्च सूपासत्वं द्वाभ्यां मंत्राभ्यां दर्शयति ।।।।इति द्वितीयवल्लीदीपिका ।।ऋुतं पिबंतौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।छायातपौ ब्रह्मविदो वदंति पंचाग्नयो ये च त्रिणाचिकेताः ।।सत्यवदवश्यं भाविकर्मफलमनुभवंतौ सुकृतसाध्यलोकवर्तिनौ गुहां प्रविष्टौ हृदयगुहावर्तिनौ परार्धे उत्कृष्टे परमाकाशे वर्तमानौ अज्ञसर्वज्ञरूपतया छायातपशब्दनिर्दिष्टौ पंचाग्निपरिशुश्रूषापरिशुद्धांतःकरणा त्रिणाचिकेता ब्रह्मविदश्च वदंतीत्यर्थः । अज्ञवाचिछायाशब्देन जीवं निर्द्दिशतोऽयमभिप्रायः । उपास्योपासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्तृतया प्राप्यस्य च तत्प्राप्तिसाधनरथत्वेन निरूपिते शरीरेऽवस्थानमयुक्तम् । न हि रथेन प्राप्तव्यो रथस्थो भवतीति शंका न कार्या । प्राप्यस्य परमात्मनः तत्रावस्थित्वेऽपि जीवस्य “पराभिध्यानात्तु तिरोहितम्” (ब्र.सू.3.2.5) इत्युक्तरीत्या परमात्मसंकल्पमूलकर्मरूपा विद्यातिरोहिततया तदनुभवलक्षणतत्प्राप्तेरभावेन प्राप्तप्राप्ययोः रथत्वरूपित शरीरांतर्वर्त्येक गुहावर्तित्वकथने नानुपपत्तिः ।।यः सेतुरीजानानाम्यज्वनामाधारभूतः । कर्मफलप्रद इत्यर्थः । ईजानानामिति कानजंतः शब्दः ।।अक्षरं ब्रह्म यत्परम् ।।निर्विकारं परं ब्रह्म ।।अभयं तितीर्षतां पारम् ।संसारसागरं तितीर्षतां निर्भयं दृढतरं तीरम् ।।नाचिकेतँ शकेमसि ।।नाचिकेताग्निप्राप्यमुपासितुं शक्तास्म इत्यर्थः । शकेर्व्यत्ययेन शपि इदन्तोमहि । नाचिकेतं शकेमहीत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्यातत्वात् । अतोदुरुषासत्वबुद्ध्या न भेतव्यमिति भावः ।आत्मानं स्थितं विध्दीत्यादिना सोऽध्वनं पारमाप्नीतितीत्यंतेन संसाराध्वपार भूतवैष्णवपरमपद प्राप्तौ परिकरमुपदिशन् प्राप्तृस्वरूपमुपदिशति ।आत्मानं रथिनं विद्धि ।शरीरं रथमेव च ।। स्पष्टोऽर्थः।।बुद्धिं तु सारथिं विद्वि,बुद्धिलक्षणव्यवसायाधीनत्वाद्देहप्रवृत्तेस्तस्याः सारथित्वमिति भावः ।।मनः प्रग्रहमेव च ।।प्रग्रहोरशना ।।इंद्रियाणि हयानाहुः ।।स्पष्टोऽर्थः ।।विषयांस्तेषु गोचरान् ।।तेषु इन्द्रियेषु हयत्वेन रूपितेषु । गोचरान्मार्गान् । शब्दादिविषयान्विद्धीत्यर्थः । रथ सारथिहयप्रग्रहत्वेन रूपितानां शरीरेन्द्रियमनोबुद्धीनामभावे रथित्वेन रूपितस्योदीसीन स्यात्मनो गमनरूपलौकिकवैदिकक्रियाकर्तृत्वमेव नास्तीत्येतत्सुप्रसिद्धत्वेन दर्शयति ।।आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।।आत्मशब्दो देहपरः । मनश्शब्दस्तत्कार्यबुद्धेरप्युपलक्षकः । पूर्वमंत्रे बुद्धेरपि सारथित्वेन निर्दिष्टत्वात् । भोक्ता कर्तृत्वभोक्तृत्वादिमानित्यर्थः । नहि केवलस्यात्मनः कर्तृत्वं भोक्तृत्वं वास्तीति भावः ।। शरीरादेरथत्वादित्यरूपणस्य प्रयोजनमाह ।।यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सह ।तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ।।यस्तु विज्ञानवान्भवति युक्तेन मनसा सह ।तस्येंद्रियाणि वश्यानि सदश्वा इव सारथेः ।।लोके हि समीचीनसारथिप्रग्रहवतः अश्वा वशीकृता भवंति एवं सारथिप्रग्रहत्वेन रूपितयोर्विज्ञानमनसोः सामीचीन्येअश्वत्वेन रूपितानींद्रियाणि वश्यानि भवन्ति नान्यथेत्यर्थः । हयत्वेन रूपितानामिन्द्रियाणां वशीकरणतदभावयोः प्रयोजनंदर्शयति मंत्रद्वयेन ।।यस्त्वविज्ञानवान्भवति अमनस्कः सदाऽशुचिः ।न तु तत्पदमाप्नोति संसारं चाधिगच्छति ।।यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ।।अमनस्कः- अनिगृरीतमनाः । अत एवाशुचिः । सर्वदा विपरीतचिंताप्रवणत्वादित्यर्थः ।न केवलं जिगिमिषितप्राप्त्यभावमात्रं प्रत्युत गहनं संसारकांतारमेव प्रापयतीत्यर्थः ।। किं तत्पदमित्याकांक्षायां तत्पदं दर्शयन्नुपसंहरति ।।विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।।समीचीनविज्ञानमनःशाली संसाराध्वपारभूतं परमात्मस्वरूपं प्राप्नोतीत्यर्थः ।वशीकार्यत्वाय रथत्वादिनारूपितेषु शरीरादिषु यानि येभ्योवशीकार्यतायां प्रधानानि तान्युच्यंते ।।इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।।महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।।अस्य मंत्रद्वयस्यार्थोभगवता भाष्यकृता “आनुमानिकमप्येकेषाम्”(ब्र.सू.1.4.1)इत्यधिकरणे उक्तः । इत्थं हि तत्र भाष्यकृता तेषु रथादिरूपीतशरीरादिषु यानि येभ्यो वशीकार्य तायां प्रधानानि तान्युच्यंते । इंद्रियेभ्यः परा इत्यादिना । तत्र हयत्वेन रूपितेन्द्रियेभ्यो गोचरत्वेन रूपितविषया वशीकार्यत्वे पराः । वश्येंद्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात् ।तेभ्योऽपि परं प्रग्रहरूपितं मनः । मनसि विषयप्रवणे विषयासन्निधानस्याप्य किंचित्करत्वात् ।तस्मादपि सारथित्वरूपिता बुद्धिः परा । अध्यासादौ मनसोऽप्यकिं चित्करत्वात् । तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः । सर्वस्यात्मेच्छा यत्तत्वात् । आत्मैव महानिति च विशिष्यते । तस्मादपि रथरूपितं शरीरं परम् । तदायत्तत्वाज्जीवस्य सकलपुरुषार्थ साधनप्रवृत्तीनाम् । तस्मादपि परः सर्वान्तरात्मभूतोंऽतर्याम्यध्वनः पारभूतः परमपुरुषः ।यथोक्तस्यात्मपर्यंतस्य तत्संकल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः ।”परात्तुतच्छ्रुतेः” (ब्र.सू.2.3.40) इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते ।वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते ।। “पुरुषान्नपरं किं चित्सा काष्ठा सा परागतिः” इति । तथाचान्तर्यामिब्राह्मणे “य आत्मनि तिष्ठन्”इत्यादिभिः सर्वं साक्षात्कुर्वन्सर्वं नियम यतीत्युक्त्वा “नान्योऽतोस्ति द्रष्टेति नियंत्रंतरं निषिध्यते ।।भगवद्गीतासु च “अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवं चैवात्र पंचमम्” (श्री.भ.गी.18.14) इति ।। दैवमत्र पुरुषोत्तम एव ।”सर्वस्यचाहंहृदिसन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनंच” (श्री.भ.गी.17.15) इति वचनात् ।तस्य च वशीकरणं तच्छरणागतिरेव । यथाह । “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन”तिष्ठति । भ्रामयन्सर्वभूतानियन्त्रा रूढानि मायया । तमेवशरणं गच्छ” (श्री.भ.गी.18.61) इति । तदेवमात्मानं रथिनं विद्धीत्यादिना रथयादिरूपकविन्यस्ता इन्द्रियादयः इन्द्रियेभ्यः पराह्यर्था इत्यत्र स्वस्वशब्दैरेव प्रत्यभिज्ञायन्ते । तेन रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति भाषितम् ।।एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।।सर्वेषु भूतेष्वात्मतया वर्तमानोऽसौ गुणत्रयमायातिरोहितत्वेनाजितबाह्याभ्यंतः करणानां न यथावत्प्रकाशते ।।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।अग्र्ययाऐकाग्र्ययुक्तया बाह्याभ्यंतरव्यापाररहितया सूक्ष्मार्थविवेचनशक्तया सूक्ष्मदर्शनशीलैर्दृश्यते इत्यर्थः । बाह्याभ्यंतरकरणव्यापारराहित्य प्रकारमध्यात्मयोगाधि गमेनेति निर्दिष्ट जीवस्वरूपज्ञानप्रकारं च दर्शयति ।।”यच्छेद्वाङ्मनसी प्राज्ञः” ।।इत्यादिना।।इमं मंत्रं प्रस्तुत्येत्थं हि भाष्यकृता “इत्यादिरूपितानामिन्द्रियादीनां वशीकरणप्रकारोऽ यमुच्यते । यच्छेद्वाङ्मनसी वाचंमनसि नियच्छेत् । वाक्पूर्वकानि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः । वाक्शब्दे द्वितीयायाः “सुपांसुलुगित्या”दिना लुक् । मनसीति सप्तम्याश्छांदसो दीर्घः ।तद्यच्छेज्ज्ञान आत्मनि ।।तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते । ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः ।।ज्ञानमात्मनि महति नियच्छेत् ।(बुद्धिं कर्तरि महति आत्मनि नियच्छेत्) ।।तद्यच्छेच्छांत आत्मनि ।।तं कर्तारं परस्मिन् ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत् । व्यत्ययेन तदिति नपुंसकलिंगता ।एवं भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः” इति भाषितम् । विवृतं च श्रुतप्रकाशिकायाम् ।वाचो मनसि नियमनं मनोननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसो बुद्धौ नियमनं व्यवसायानु गुणप्रवृत्त्यापादनम्। बुद्धिश्चार्थेषु हेयताध्यवसायरूपा । तस्या बुद्धेरात्मनि नियमनं स एवो -पायतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनम् । शांते-स्वत ऊर्मिषट्कप्रतिभटे । शांत आत्मनि महत आत्मनो जीवस्य नियमनं नाम तच्छेषतया प्रतिपत्तिः । आत्मशब्दस्य पुल्लिंगत्वात् पुल्लिंगतच्छब्देन निर्देष्टव्ये छांदसत्वाल्लिंगव्यत्ययः । ननु भाष्ये ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थ इत्युक्तिरयुक्ता । अव्यावर्तकत्वादात्मनीति विशेषणस्य । आत्मन्यवर्तमानज्ञानस्यैवाभावात् । न च तद्यच्छेज्ज्ञान इत्येतावत्युक्ते तथा सति तस्या एव भ्रांतेः सामानाधिकरण्ययोजनया दृढीकरणप्रसंगात् । नह्यात्मनीत्यनेनात्म भ्रांतिर्व्युदस्यते । न चात्मनि वर्तमान इति भाष्यस्यात्मनि विषयविषयिभावलक्षणसंबंधेन वर्तमान इत्यर्थः । आत्मविषयकज्ञान इति यावत् । अतो नाव्यावर्तकत्वेन वैयर्थ्यदोष इति वाच्यम् । तथा सति ज्ञानमात्मनि महति नियच्छेदित्यस्य वैयर्थ्यापातात् । तदर्थस्यानेनैव सिद्धेरिति चेत् । उच्यते अयमभिप्रायो भाष्यकारस्य । तद्यच्छेज्ज्ञान आत्मनीत्यत्राऽऽत्मनीति विषयसप्तमी । तच्चात्मविषयं ज्ञानम् आत्मोपादेयः । तदतिरिक्ता अर्था हेया इत्येवंरूपम् ।तच्चार्थेषु हेयताध्यवसायरूपा बुद्धिरिति श्रुतप्रकाशिकायां व्यक्तम् । तस्य चात्मानात्मविषयका हेयताहेयताध्यवसायरूपस्य ज्ञानस्य महत्यात्मनि नियमनं नाम स एवोपायतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनमिति तत्रैवश्रुतप्रकाशिकायामुक्तात्वाद्वाक्यद्वयस्यापि सप्रयोजन तया त्वदुक्तवैयर्थ्यशंकानवकाश इति । एवं वशीकरणप्रकारमुपदिश्याधिकारिपुरुषानभिमुखी करोति ।।उत्तिष्ठत जाग्रतआत्मज्ञानाभिमुखा भवत । अज्ञाननिद्राक्षयं कुरुत ।।प्राप्यवरान्निबोधत ।।वराञ्छ्रेष्ठानाचार्यानुपगम्यात्मतत्त्वं निबोधत । यद्वा उपासिताद्भगतो ब्रह्मविद्भयोवा । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवानित्येवं रूपान् वरान् प्राप्य ज्ञेयमात्मतत्त्वं निबोधत । नोदासितव्यमिति भावः ।।क्षुरस्य धारा निशितादुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ।।ज्ञानिनस्तदात्मतत्त्वं दुर्गमं पंथानं वर्णयन्ति । तत्कस्य हेतोः । यत आत्मतत्त्वं क्षुरस्यायुधविशेषस्य धारा अग्रंं निशिता तीक्ष्णा दुरत्यया नातिक्रमणीया । तीक्ष्णे क्षुराग्ने संचरतः पुंसो यथाकियत्यप्यनवधाने आत्मनाशो भवतिएवमात्मस्वरूपावगतिदशायांस्वल्पेप्यनवधानेऽपराधेआत्मनाशोभवतीतिभावः । उपसंहरति ।।अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगंधवच्च यत् ।।अत्र नित्यमित्येतदशब्दमित्यादौ प्रत्येकमभिसंबंध्यते । अशब्दत्वादिवशादेव कालवदव्ययम् अवयवापचयशूनयमित्यर्थः ।।अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ।।महत इत्यनेनात्मनि महति नियच्छेदिति पूर्वमंत्रनिर्दिष्टो जीवो गृह्यते । ध्रुवं स्थिरंनिचाय्य दृष्ट्वा दर्शनसमानाकारोपासनेन वशीकृत्येत्यर्थः । मृत्युमुखादतिभीषणात्संसारादित्यर्थः ।।उपसंहरति ।।परांचि खानि व्यतृणतस्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् ।।परानंचंतीति -परांचि खानींद्रियाणि, परप्रकाशकान्येव नात्मप्रकाशकानि कुत इत्यत्राह ।व्यतृणत्स्वयंभूःपरमात्मा इमानीन्द्रियाणि हिंसितवान् । “उतृदिर्हिंसायाम्” इति हि धातुः ।तस्मात्पराङ् पश्यति तस्मादेव हेतोः प्रत्यंचं द्रष्टुमसमर्थानिसंति पराङ् पराचः पदार्थान्पश्यं तीत्यर्थः ।। ईदृशेऽपि लोकस्वभावे नद्याः प्रतिस्त्रोतः प्रवृत्त इव कश्चित्पुरुषधौरयः प्रत्यगात्मप्रवणोऽप्यस्तीत्याह ।।कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।।चक्षुश्शब्दः इंद्रियमात्रपरः । स्वस्वविषयव्यावृत्तेन्द्रियः कश्चिन्मुमुक्षुः धीशाली प्रत्यगात्मानं परिशुद्धेन मनसा साक्षात्करोतीत्यर्थः ।।पराचः कामाननुयन्ति बालास्तेमृत्योर्यंति विततस्य पाशम् ।।अज्ञास्त्वात्मव्यतिरिक्तशब्दादिविषयानवगच्छंतः संसारपाशंविस्तृतं प्रतिपद्यन्त इत्यर्थः ।या प्राणेन संभवत्यदितिर्देवतामयी ।गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत ।।कर्मफलान्यत्तीत्यदितिर्जीव उच्यते । प्राणेन संभवति प्राणेन सह वर्तते । देवतामयी इंद्रियाधीनभोगा गुहां प्रविश्य तिष्ठंती हृदयपुण्डरीककुहरवर्तिनी भूतोभिः पृथिव्यादिभूतैः सह व्यजायत देवादिरूपेण विविधा सत्यजायतेत्यर्थः ।।एतद्वै तत् ।।एतन्मंत्रप्रतिपाद्यजीवस्वरूपं तत् । तदात्मकं ब्रह्मात्मकमित्यर्थः । अत्रैव प्रकरणे ब्रह्मजज्ञं देवमीडयं विदित्वेत्यत्र देवमित्यस्य देवात्मकं परमात्मकमिति व्याख्यातत्वात् । “क्षेत्रज्ञं चापि मा ंविद्धी”त्येतदुपबृंहणे गीतावचनेऽपि मां मदात्मकमिति भाषितत्वाच्चैवमेवार्थः । ननु सर्वेषां ब्रह्मात्मकत्वं न संभवति । अहमित्यहंताश्रयतयानुसन्धीयमानो ह्यात्मा स चा हमिहैवास्मीति देशांतरव्यावृत्ततयानुसन्धीयते । अतो ब्रह्मणः कथं सर्वदेशकालवर्तिपदार्थात्म भूतत्वमित्याशंक्याह ।।यदेवेह तदमुत्र यदमुत्र तदन्विह ।।यदेव परमात्मतत्त्वमत्र लोकेऽनुसन्धीयमानतयात्मभूतं तदेव लोकान्तवर्तिनामप्यात्म भूतमित्यर्थः । ततश्चात्मभेदो नास्तीत्यर्थः । अयमभिप्रायः । किंपरमात्मतत्त्वविदामहमिहैवेति प्रतीतिः सर्वदेशवर्तिपदार्थात्मत्वबाधकतयोपन्यस्यते उत तद्रहितानाम् । नाद्यः । तेषामहमि हेत्यादिप्रतीतेरेवाभावात् । प्रत्युताहं मनुरभवं सूर्यश्चेत्येव प्रतीतेः सत्त्वात् । न द्वितीयः । अतद्विदामहं प्रतीतेर्जीवमात्रविषयत्वेन तत्र परिच्छिन्नत्वप्रतीतेः परमात्मविभुत्वबाधकत्वा भावादिति ।।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।।य इह परमात्मनि भेदमिव पश्यति संसारात्मसंसारांतरं प्राप्नोतीत्यर्थः ।। नन्वस्माकं परमात्मतत्त्वं कुतो नोपलभ्यत इत्यत्राह ।।मनसैवेदमाप्तव्यंइदं परमात्मस्वरूपम् । परिशुद्धमनोग्राह्यमित्यर्थः । उक्तमेवार्थं दृढीकरणाय पुनरभ्यस्यति ।।नेह नानास्ति किंचन ।।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।।उक्तोऽर्थः ।।अंगष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।ईशानो भूतभव्यस्य न ततो विजुगुप्सते ।।कालत्रयवर्ति निखिलचेतनाचेतनेश्वरः पुरुष उपासकशरीरमध्ये अंगुष्ठपरिमाणः सन्नास्ते ।ततस्तमादेव निखिलेश्वरत्वहेतोरेव वात्सल्यातिशयात् कष्टभूतदेहांतरावस्थानान्नहि विजुगुप्सते ।वात्सल्यवशेन भोग्यमेव पश्यतीत्यर्थः ।।एतद्वै तत् ।।एतन्मंत्रप्रतिपाद्यमपि पूर्वोक्तपरमात्मस्वरूपमेवेत्यर्थः ।।अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।।शुष्केन्धनानलवत्प्रकाशमान इत्यर्थः ।।ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ।।अद्यतनपदार्थजातं श्वस्तनपदार्थजातं कालत्रयपदार्थजातं स एवेत्यर्थः ।।यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।।यथापर्वतमूर्द्धनि वृष्टं प्रत्यन्तपर्वतेषु नानाभूततया पतित्वा पतित्वा धावति ।एवं धर्मान्पृथक् पश्यन्तानेवानुविधावति ।।एवं परमात्मगतदेवमनुष्यान्तर्यामित्वादिधर्मान्पृथगाधिकरणनिष्ठान्पश्यन्पर्वत निर्झरपातमनुकृत्य संसारकुहरे पततीत्यर्थः । अथ सर्वत्रैकात्म्यज्ञानस्य फलमाह ।।यथोदकं शुद्धे शुद्धमासिकं तादृगेव भवति ।एवं मुनोर्विजानत आत्मा भवति गौतम ।।यथा शुद्धे शुभ्रं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किंचिदपि वैसादृश्यमेवं मनननिदिध्यासनशीलस्यात्मापि परमात्मसदृश एवेत्यर्थः । गौतमेति सहर्षं संबोधनम् ।।य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।।सर्वेषु जीवेषु निद्रां गतेषु कामंकाममितिणमुलन्तम् । संकल्प्यसंकल्प्येत्यर्थः । स्वच्छन्दानुरोधेन पुरुषो निर्माता योऽस्ति ।।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिल्लोँकाः श्रिताः सर्वे तदु नात्येति कश्चन ।।शुक्रंप्रकाशकम् । तदेव निरूपाधिकममृतमित्यर्थः । नित्युमुक्तानाममृतान्तराणां सत्त्वेऽपि निरूपाधिकामृतत्वाभावात्तदेवेत्यवधारणस्य नानुपपत्तिरिति ध्येयम् । एतेनामृतान्तर निषेधान्मुक्तपरमात्मनोरभेद इति शंका प्रत्युक्ता ।।एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति ।तमात्मस्थं येऽनुपश्यंति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।तमः परे देवे एकीभवतीतिस्वात्मन्यविभक्ततमस्त्वावस्थामापन्नमव्यक्ताख्यं बीजमित्यर्थः ।आत्मस्थम् -आत्मन्यंतर्यामितयास्थितमित्यर्थः । शिष्टं स्पष्टम् ।।नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।।एको नित्यश्चेतनः सन् बहूनां नित्यानां चेतनानां कामान्विदधातीत्यर्थः । नित्यानां मध्ये नित्यः चेतनानां मध्ये चेतन इति राजराजादिशब्दवदत्यंतनित्यत्वचेतनत्वप्रतिपादनेऽपि नानुपपत्तिः । तमात्मस्थम् इत्यादि स्पष्टम् ।न तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो भांति कुतोऽयमग्निः ।।सर्वतेजसां छादकमित्यर्थः ।।तमेव भांतमनु भाति सर्वं ।।अनुभानंपश्चाद्भानम् । तेन कार्यकारणभावः सिद्धः । पौर्वापर्यनियमो हि कार्यकारण भावः । सर्वतेजसां कारणमित्युक्तं भवति ।तस्य भासा सर्वमिदं विभाति ।।चाक्षुषरश्म्यनुग्राहकचंद्रातपादित्यवदुत्पन्नस्यापि तेजसः स्वसंबन्धेन स्वकार्यकारण सामर्थ्यापादकत्वलक्षणानुग्राहकत्वशालीत्यर्थः । अत्र च वक्तव्यं कठवल्लीप्रकाशिकायामुक्तं ततोऽवगन्तव्यम् ।।यदिदं किं च जगत्सर्वं प्राण एजति निस्सृतम् ।महद्भयं वज्रमुद्यतं य एनं ति (तद्वि) दुरमृतास्ते भवन्ति ।।अस्मिन्नंगुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्संजात महाभयनिमित्तमेजनं कंपनं श्रूयते । तच्छासनातिवृत्ता ैकिं भविष्यतीति महतोभयाद्वज्रादिबोद्य तात्कृत्स्नं जगत्कंपत इत्यर्थः । भयादस्याग्निस्तपतीत्यादिनै कार्थ्यान्महद्भयं वज्रमुद्यतमिति पंचम्यर्थे प्रथमेति भाषितम् । तच्च व्यासार्यैर्विवृतम् । प्राण इति सप्तम्यंतपदसामर्थ्यात्स्थितानामित्यध्याहारः । कुतो निस्सृतानामित्यपेक्षायां प्रकृतस्यैवोपादानत्वमाह । तत इति ।एजनंकंपनम् । “एजृ कंपने” इति हि धातुः । प्रत्यवायभयात्स्वस्वकार्यप्रवृत्तिः कंपनम् । उद्यतवज्रादिव परमपुरुषात्संजातेन भयेन कृत्स्नं जगत्कंपत इत्यर्थः । अत्र महद्भयं वज्रमुद्यतमिति चत्वारिपदानि पंचम्यर्थे प्रथमांतानि । तत्राद्यं पंचम्यर्थप्रथमांतपदद्वयं भयवाचि, उत्तरं तु पदद्वयमुद्यद्वज्रसदृशब्रह्मपरमिति द्रष्टव्यम् । वशीकार्यपरंपराविश्रांतिभूमितया प्राङ्निर्दिष्टमेव परमात्मानं स्मारयति ।।इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।।इंन्द्रियो मनः परमित्यर्थः । इंद्रियेभ्यःपराह्यर्था अर्थेभ्यश्च परं मन इत्यनेनैकार्थ्यात् । सत्त्वशब्दश्च तत्कार्यबुद्धिलक्षकः । मनसस्तु पराबुद्धिरित्यनेनैकार्थ्यात् ।।सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ।।अव्यक्तात्तुपरः पुरुषो व्यापकोऽलिंग एव च ।।अलिङ्गः लिङ्गागम्यः । पुरुषो वशीकार्येषु परः । “तस्य च वशीकरणं तच्छरणा गतिरेवे”त्ययमर्थः पूर्वमुक्त एवानेन स्मारितो भवति ।न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च नैनम् ।।अस्य स्वरूपं विग्रहो वा व्यापकत्वादेव संदर्शनविषये मूर्तत्वेनाभिमुखतया न तिष्ठतीत्यर्थः ।अत एव चक्षुषा को पि द्रष्टुं नेष्टे ।हृदा मनीषा मनसाभिक्लृप्तः ।।अयं मंत्रःखण्डः व्यासार्यैः “सर्वत्र प्रसिद्धोपदेशात्”(ब्र.सू.1.2.3) इत्यधिकरणे हृदेति भक्तिरुच्यते । मनीषेति धृतिः । न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनमिति पूर्वार्द्धमेकरूपं पठित्वा “भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीहे” ति महाभारतोक्तेः। अभिक्लृप्तः -ग्राह्य इत्यर्थः” इति विवृतः । “धृत्या समाहितात्मा भक्त्या त्वननय्या शक्य इत्यनेनैकार्थ्यादिति वेदार्थसंग्रहे प्रतिपादितम् ।य एनं विदुरमृतास्ते भवंति ।।स्पष्टोऽर्थः ।।यदा पंचावतिष्ठन्ते ज्ञानानि मनसा सह ।।ज्ञायतेनेनेति व्युत्पत्त्या ज्ञानानीन्द्रियाणीत्यर्थः । “सप्तगतेर्विशेषितत्वाच्च” (ब्र.सू. 2.4.5) इत्यधिकरणे व्यासार्यैर्विवृतम् ।बुद्धिश्च न विचेष्टेनअध्यवसायोपेतं मन एव बुद्धिशब्देनोच्यते । अत एव तत्र भाष्यम् । “अध्यवसायाभिमान चिन्तावृत्तिभेदान्मन एव बुद्ध्यहंकारचित्तशब्दैरुपदिश्यते” इति ।तामाहुः परमां गतिम् ।।शरीरांतः संचरणं विहाय मोक्षार्थगमनं परमागतिरिति तत्रैव स्पष्टम् ।तां योग इति मन्यंते स्थिरामिंद्रियधारणम् ।।पूर्वमंत्रनिर्दिष्टां बाह्यांतःकरणधारणां परमां गतिं परमव्योमगतिं मन्यन्ते । उक्तं च व्यासार्यैः परमा गतिर्योग इति ।।यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुते ।।कामाः शब्दादिविषयमनोरथाः हृदि गता यदा शाम्यंते तदुत्तरक्षण एवायमुपासकः पुमानविश्लिष्टाश्लिष्टपूर्वोत्तरदुरितो भवति । अत्रोपासनवेलायामेव ब्रह्माश्नुते । ब्रह्म अविक्षिप्तेनमनसानुभवतीत्यर्थः । “इदंच समानाचासृत्युपक्रमात्” (ब्र.सू.4.2.7) इति भाष्ये स्पष्टम् ।।उक्तमेवार्थमादरेणाभ्यसन्नुपदेष्टव्यांश एतावानेवेत्युप संहरति ।यदा सर्वे प्रमुच्यंते हृदयस्यैव (स्येह) ग्रंथयः ।अथ मर्त्योऽमृतो भवत्येतावदनु शासनम् ।।ग्रंथय इव दुर्मोचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनीयम् ।उपासकस्य कर्तव्यत्वेन समुपदेष्टव्यमेतावदेवेत्यर्थः ।। विमुक्तश्च विमुच्यत इति पूर्वमुक्तां द्वितीयां परममुक्तिमाह ।।शतं चैका च हृदयस्य नाड््यस्तासां मूर्द्धानमभिनिस्सृतैका ।।हृदयस्य प्रधाननाड््यः शतं चैका च सन्ति । तासां मध्ये एका सुषुम्नाख्या ब्रह्मनाडी मूर्धानमभिनिस्सृता ।।तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवंति ।।तयोर्ध्वनाड्योर्ध्वं ब्रह्मलोकं गच्छन्देशविशेषविशिष्टब्रह्मप्राप्तिपूर्वक स्वरूपाविर्भावलक्षणं मुक्तिं प्राप्नोति । अन्यास्तु नाड्यो विष्वगुत्क्रमणे नानाविधसंसारमार्गोत्क्रमणायोपयुज्यंते । विष्वग् विवतानाड्यः अन्योत्क्रमण उपयुज्यंत इति व्यासार्यैर्व्याख्यातम् ।।अंगुष्ठमात्रः पुरुषोंऽतरात्मा सदा जनानां हृदये सन्निविष्टः ।।स्पष्टोऽर्थः ।।तं स्वाच्छरीरात्प्रवृहेन्मुंजादिवेषीकां धैर्येण ।।सकलचेतनाचेतनांतर्यामितया संतमात्मानं तच्छरीरिणं चेतना चेतनलक्षणाच्छरीरा (तच्छरीरभूताज्जनशब्दिताच्चेतना) त्प्रवृहेत्पृथक्कुर्यात्पृथगात्मानमित्युक्तरीत्या धारकत्वनियंतृत्व शेषित्वधर्मैर्विलक्षणं धैर्येण प्रज्ञाकौशलेन जानीयात् ।।तं विद्याच्छुक्रममृतंशुक्रं तेजिष्ठं स्वप्रकाशज्ञानरूपं ब्रह्म जानीयादित्यर्थः । देवदत्तः स्वाच्छरीराद्विलक्षण इत्यत्र स्वशब्दस्य देवदत्तसंबंधिपरत्ववदिहापि स्वाच्छरीरादिति स्वशब्दः परमात्मसंबंधिशरीरपरामर्शी । न वेदितृजनसंबंधिपरामर्शी । एतेन देहात्पृथक्करणस्य देहैक्यभ्रमविषये जीव एव संभवात्तस्यैव तं विद्याच्छुक्रममृतमिति ब्रह्मत्वोपदेशादिदं प्रकरणं जीवब्रह्माभेदपरमिति शंकाया अनवकाशः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.