विषयवाक्यदीपिका अन्तर्याम्यधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अन्तर्याम्यधिकरणम्

अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् (ब्र.सू.1.2.19)बृहदारण्यके पंचमाध्याये सप्तमब्राह्मणे ।।अथ हैनमुद्दालकः आरुणिः पप्रच्छ ।।नाम्नोद्दालकः । अरुणस्यापत्यमारुणिः ।।याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतंजलस्य काप्यस्य गृहेषु यज्ञमधी यानाः ।।मद्रेषु देशेषु गोत्रतः काप्यस्य नाम्ना पंतजलस्य गृहेषु “गृहाः पुंसिचभूम्न्येव” इत्येकस्मिन्बहुवचनम् ।कल्पसूत्रमधीयाना उषितवंतः ।।तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति ।।नाम्ना कबन्धः अथर्वपुत्रश्च इतरत्स्पष्टम् ।।सोऽब्रवीत्पतंजलं काप्यो याज्ञिकांश्च ।।स गन्धर्वः याज्ञिकान् यज्ञाध्येतृन् अस्मांश्चाध्यापकं काप्यं चाब्रवीदित्यर्थः । तदेवाह ।।वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि भूतानि संदृब्धानि भवन्तीति ।।सूत्रेण पुष्पाणीव ग्रंथनेन विष्टब्धानीत्यर्थः । एतादृशं सूत्रं त्वं वेत्थ किमिति प्रश्नः ।सोऽब्रवीत्पतंजलः काप्यः नाहं तत्सूत्रं भगवन् वेदेति ।।एवं सूत्रं पृष्ट्वा अन्तर्यामिणं पप्रच्छेत्याह ।।सोऽब्रवीत्पतंजलं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमंतर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरोयमयतीति । सोऽब्रवीत्पतंजलः काप्यः नाहं भगवन् वेदेति । सोऽब्रवीत्पतंजलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तंचांतर्यामिणमिति ।।इति शब्दः प्रकारवचनः । हे काप्य तत्सूत्रं तं चांतर्यामिणमस्मदवगतप्रकारेण यो विद्यादित्यर्थः । शिष्टं सप्ष्टम् ।स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत् ।।स परब्रह्मवित्तन्नियाम्यलोकदेवभूतवित्स परमात्मवित्स सर्वविदिति एवं तेभ्यः काप्ययाज्ञिकेभ्यः गंधर्वोऽब्रवीदित्यर्थः ।।तदहं वेद ।।तत्सर्वमहं जानेइत्यर्थः ।तच्चेत्वं याज्ञवल्क्य सूत्रमविद्वान् तं चांतर्यामिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यतीति ।।ब्रह्मगवीब्रह्मविद्यापणबंधभूता गाः । “गोरतद्धितलुकि” (अष्टा.5.4.92) इति टचि समासांतेटिड्ढाणञ्(अष्टा.4.1.15)इत्यादिना ङीप्।उदजसे चेत्कलयसेचेत् तेमूर्धा व्यपतिष्यतीति शशापतम् ।।वेद वा अहं गौतम तत्सूत्रं तं चांतर्यामिणमिति ।।याज्ञवल्क्यस्य प्रतिवचनम् । हे गौतम तत्सूत्रं तं चातर्यामिणमहं वेद वेदैवेत्यर्थः । एवमुक्त उद्दालक उवाच ।।यो वा इदं कश्चिद् ब्रूयाद्वेद वेदेति ।।यःकश्चिद्वै सर्वज्ञडंभः इदं वेद इदं वेदेति वाचा ब्रूयादित्यर्थः ।यथा वेत्थ तथा ब्रूहीति ।।यथा येन प्रकारेण वेत्थ तेन प्रकारेण ब्रूहि किं वचनेनेत्यर्थः ।।स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गोतम सूत्रेणायं च लोकःपरश्च लोकः सर्वाणि भूतानि संदृब्धानि भवंति तस्माद्वै गौतम पुरुषं प्रेतमाहुःव्यर् स्रंसिषतास्यांगानीति वायुना हि गैतम सूत्रेण संदृब्धानि भवंतीति ।।यस्मात्सर्वाणि वायुना ग्रथितानि तस्मादेव हेतोरुत्क्रांतप्राणस्य पुरुषस्यांगानिउत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अतोवायुना संदृब्धानि । व्यस्रंसिषत लुङ्।अंगीकरोति ।।एवमेवैतद्याज्ञवल्क्येति ।।भवत्वेतदेवमितरद् ब्रूहीत्याह ।।अंतर्यामिणं ब्रूहीति । यः पृथिव्यां तिष्ठन्पृथिव्या अंतरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमंतरोयमयत्येषत आत्मांतर्याम्यमृतः ।।पृथिव्यां स्थितस्तदंतर्गतस्तदवेद्यः। तच्छरीरकः सन् योंऽतःप्रविश्य प्रवृत्तिनिवृत्ति लक्षणनियमनं करोति । एषोऽन्तर्यामी तेऽमृतः आत्मा निरुपाधिकामृतत्वशाल्यात्मेत्यर्थः ।तेऽमृतात्मेति व्यतिरेकनिर्देशादंतर्यामिणे जीवव्यतिरेकः सिद्धः । अमृतत्वविशेषणाच्च सिध्यति ।तद्विशेषणं जीवव्यावृत्त्यर्थम् । अंतर्यामी ते आत्मेत्युक्ते आत्मशब्दस्य स्वरूपवचनत्वशंकया जीवव्यावृत्तिर्न प्राप्नोतीति ह्यमृत इत्युक्तम् । निरुपाधिकामृतत्वशाल्यात्मा परमात्मैवात्र प्रश्रानुसारेणेमं च लोकं परं च लोकं सर्वाणि भूतानि योन्तरो यमयति एष त आत्मांतर्याम्यमृत इत्येकेनैव निर्देशेन सर्वांतर्यामिणः उद्दालकं प्रति त आत्मेति आत्मप्रतिपादनसंभवात् । यःपृथिव्यां तिष्ठन् योऽप्सुतिष्ठन्नित्यादिपर्यायोपदेशबाहुल्यं किमर्थमिति चेन्न । पृथिव्याद्यैकैकवस्तषु परिपूर्णत्वेन नियंतृतया स्थितिज्ञापनार्थत्वेन सार्थक्यात् । परिपूर्णत्वं चाणुमात्रेऽपि स्थितस्य निरवधिकषाड्गुण्य विशिष्टतया स्वप्रतिपत्तियोग्यत्वमिति व्यासार्यैर्वाक्यान्वयाधिकरणे (ब्र.सू.1.4.19) वर्णितम् । ननु सर्वाणि भूतानि योंऽतरो यमयति तं मे ब्रूहीति सर्वभूतस्याप्यंतर्याम्येकोऽस्ति स वक्तव्य इति पृष्टवंतं प्रति पृथिव्यंतर्याम्येव तेंऽतर्यामी जलांतर्याम्येव तेंऽतर्यामीति पृथिवीजलाद्यंतर्यामिणश्चोद्दाल कांतर्यामिणश्चा भेदबोधनमसंगतम् । अंतर्याम्यैक्यस्य प्रागेव निश्चितत्वात् । अतस्त आत्मेत्यत्रात्मशब्दो नांतर्यामिवचनोऽपि तु स्वरूपवचन इत्येव युक्तमिति चेत् न । आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थकतयाप्युपपत्तेः । “पतिं विश्वस्ये”त्यादिवाक्यैर्विश्वशेषिणःकस्यचिदवगतत्वात्तेनवाक्येन प्रतिपन्नस्त आत्मा ते शेषी पृथिव्यादीनामंतर्यामीति प्रघट्टकार्थः ।एवम् ।योऽप्सु तिष्ठन् योऽग्नौ तिष्ठन् योऽन्तीरक्षे तिष्ठन् यो वायौ तिष्ठन् य आदित्ये तिष्ठन् यो दिक्षु तिष्ठन् यश्चंद्रतारके तिष्ठन् यआकाशे तिष्ठन् यस्तमसि तिष्ठन् एष त आत्मातंर्याम्यमृत इत्यधिदैवतम् ।।उपदिष्टमंतर्यामिस्वरूपमितिशेषः ।।अथाधिभूतम् ।।अन्तर्यामिस्वरूपमुपदिश्यत इति शेषः ।।यः सर्वेषु भूतेषु तिष्ठन्नित्यधिभूतमथाध्यात्मम् ।उच्यत इति पूर्ववच्छेषः ।।यः प्राणे तिष्ठन् -यो वाचि तिष्ठन् यश्चक्षुषि तिष्ठन्-यः श्रोत्रे तिष्ठन् -यो मनसि तिष्ठन् यस्त्वचि तिष्ठन् -यो विज्ञाने तिष्ठन् यो रेतसि तिष्ठन्नेष त आत्मांतर्याम्यमृतः ।।अत्र विज्ञानशब्द आत्मपरः । समानप्रकरणे माध्यंदिनिशाखायां विज्ञानशब्दस्थाने आत्मन्नित्यात्मशब्देन निर्देशदर्शनात् ।।अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मंता अविज्ञातो विज्ञाता ।।अत्र द्रष्टृत्वं रूपसाक्षात्कारवत्वं न तु चक्षुर्जन्यज्ञानवत्वम् । तस्य परमात्मन्यसंभवात् । श्रोतृत्वं शब्दसाक्षात्कारवत्वं मंतृत्वं मंतव्यविषयसाक्षात्कर्तृत्वं विज्ञातृत्वं विज्ञान शब्दितनिदिध्यासनविषय साक्षात्कर्तृत्वम् । द्रष्टृत्वादिकं जीवस्याप्यस्तीति अद्रष्टृत्वादिना द्रष्टृत्वादिकं विशेषितं तादृशं च न जीवस्यास्तीति भावः । अत्रैव द्रष्टृत्वादावुपाध्यनुक्ते र्निरुपाधिकद्रष्टृत्वमर्थसिद्धम् ।।नान्योतोऽस्ति द्रष्टा नान्योतोऽस्ति श्रोता नान्योतोऽस्ति मंता नान्योतोऽस्ति विज्ञाता एष त आत्मांतर्याम्यमृतः । अतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ।।अन्यश्शब्दादेः सर्वनाम्नः पूर्वनिर्दिष्टसमानान्यपरत्वस्य “समानेषु पूर्वत्वादि”(जै.मी.स्) इति साप्तमिकाधिकरणे व्यवस्थितत्वात् । अत्राप्यन्यशब्देन पूर्वनिर्दिष्टाद्द्रष्ट्टत्वादि विशेषितनिपरुपाधिकरूपादि साक्षात्कारादिमतो निषेध उपपद्यते जीवस्य करणायत्तज्ञानत्वात्। अन्यस्तत्सदृशोऽदृष्टोद्रष्टानास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टंस्पष्टम् । सप्तमंब्राह्मणम् ।।

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.