विषयवाक्यदीपिका वैश्वानराधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

वैश्वानराधिकरणम्

वैश्वानरः साधारणशब्दविशेषात् (ब्र.सू.1।2।27)छांदोग्ये पंचमप्रपाठके एकादशखण्डे वैश्वानरविद्या प्रस्तूयते ।।प्राचीनशाल आैपमन्यवः सत्ययज्ञः पौलुषिरिंद्रद्युम्नो भाल्लवेयो जनः शार्करार्क्ष्यो वुडिल आश्वतराश्विस्ते है ते महाशाला महाश्रोत्रियाः समेत्य मीमाँसां चक्रुः कोऽनु आत्मा किं ब्रह्मेति ।।उपमन्युसुतः प्राचीनशालनामा पुलषसुतः -सत्ययज्ञनामा भाल्लविसुतः -इंद्रद्युम्नामा शार्कराक्षिसुतो जननामा अश्वतराश्वसुतः-बुडिलनामा एते पंचापि महागृहस्थारत्त्तया विस्तीर्णशालाः संपन्नाः प्रसिद्धा इति यावत् । अतीव श्रुताध्ययनसंपन्ना एकत्र संभूयास्माकमं तर्यामितयात्मभूतं ब्रह्म किमिति विचारं कृतवंत इत्यर्थः ।ते ह संपादयां चक्रुः ।।त एव मीमांसित्वा निश्चयमलभमानाः आत्मभूतब्रह्मोपदेष्टारं कंचित्संपादितवंतः निश्चितवंत इत्यर्थः । किमिति तत्राह ।उद्दालको हवै भगवंतोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति तं हंताभ्यागच्छाम इति ।।हे भगवंत उद्दालकनामा इदानीं वैश्वानरमात्मानमध्येति । इक् स्मरणे -उपास्त इत्यर्थः ।यद्वा । इण्गतौ गत्यर्था ज्ञानार्था इत्यवगच्छतीत्यर्थः । तमभ्यागच्छामेति ।।तं हाभ्याजग्मुः ।।तमागतवंतः ।स ह संपादयांचकार । प्रक्ष्यंति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हंताहमन्यमभ्यनुशासानीति ।।स होद्दालक एते महाशाला महाश्रोत्रिया मां वैश्वानरमात्मानं प्रक्ष्यंति नाहं तत्सर्वं प्रतिपत्तुं शकोन्मि । अन्यं तदभिज्ञं कंचिदुपादिशानीत्येवं संपादितवान्निश्चितवानित्यर्यः ।तान् होवाचाश्वपतिर्वैभगवंतोऽयं कैकेयः संप्रतीममात्मानं वैश्वानरमध्येति तं हंताभ्यागच्छाम इति तं हाभ्याजग्मुः ।।केकयस्यापत्यं कैकयः अश्वपतिमुद्दालकषष्ठास्तेऽभ्यागतवंत इत्यर्थः । शिष्टं स्पष्टम् ।।तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार ।।प्राप्तेभ्यस्तेभ्यो महर्षिभ्यः पृथक् पूजां भृत्यैः पुरोहितादिभिश्च कारितवान् ।स ह प्रातः संजिहान उवाच ।।अन्येद्युः प्रातःकाले स्वभवनं संजिहानस्त्यजन् स्वभवनान्निर्गत्य तत्समीपमागत्येति यावत् । तान् महर्षीनुवाचेत्यर्थः । किमिति तत्राह ।न मे स्तेनो जनपदे न कदर्यो न मद्यपः । नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतः । यक्ष्यमाणो ह वै भगवंतोऽहमस्मि यावदेकैकस्मा ऋुत्विजे धनं दास्यामि तावद्भगवद्भ्योे दास्यामि वसंतु भगवन्त इति ।।हे भगवंतः पूजार्हा मदधिष्ठिते जनपदे चोरो वा दानशून्यो वा मद्यपायी वा सत्यां योग्यतायामनाहिताग्निर्वा वेदाध्ययनादिशून्यस्त्रैवर्णिको वा परदारगंता वा न संति स्वैरिणी पुंश्चली तु कुतः स्यादित्यर्थः । एवमाद्या दुष्टा न संति न तैर्दत्तं धनमुपजीवामि । अतो मम प्रतिग्रहयोग्यतास्त्यचिरेणैव कालेन यागं करिष्याम्येकैकस्मा ऋत्विजे यावद्धनं दास्यामितावद्भगवद्भ्यः प्रत्येकं दास्यामि तावत्कालमत्रैव वसंतु यागं च पश्यंत्विति प्रार्थितवानित्यर्थः ।भगवता भाष्यकृता न मे स्तेन इत्यादिना यक्ष्यमाणोऽहंवैभगवंतोऽहमस्मीत्यंतेनात्मनो वृत्तस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धस्य परिहरणीयतां विहितस्य कर्त्तव्यतां च प्रज्ञाप्य यावदेकैकस्मा ऋत्विजे धनं दास्यामि वसंतु भगवंत इत्यवोचदिति भाषितम् ।ते होचुर्येन है वार्थेन पुरुषश्चरेत्तं है व वदेदात्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहीति ।।येनार्थेन प्रयोजनेन यत्प्रयोजनमुद्दिश्य पुरुष आगच्छति तमेव पुरुषार्थं तस्य कुर्यात्समीहितं हि कर्त्तव्यं भवत्यस्माकं चवैश्वानरात्मा जिज्ञासितः त्वं च तमात्मानमधुनोपास्से न च ते तज्ज्ञानमपह्नवार्हम् । तमेव न उपदिश न प्रयोजनांतरमित्यर्थः। विश्वान्नरान्नयतीति विश्वे यनं नराः नयंतीति वा विश्वनरः विश्वनर एव वैश्वानरः रक्ष एव राक्षसः वय एव वायस इतिवत् ।तान् होवाच प्रातर्वः प्रतिवक्तास्मीति ।।तेषामभिमानं परिशोध्य श्वः प्रतिवचनं दास्यामीति मत्वा प्रातः प्रश्नस्य प्रतिवचनं वक्तास्मीत्युवाचेत्यर्थः ।ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे ।।ते च राज्ञोऽभिप्रायज्ञाः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं शिष्यभावमेत्योप गतवन्तः ।तान्हानुपनीयैवैतदुवाच ।।राजा तु समित्पाणीनुपयामेति वदंतस्त्यक्तस्वजात्यभिमानानुद्वीक्ष्य तेषामुपदेशयोग्यतां ज्ञात्वाऽब्राह्मणेन न ब्राह्मण उपनेतव्य इति शास्त्रार्थं ज्ञात्वा समर्पितं समिदाद्युपायनं स्वीकृत्यैव मैत्र्यैवैतद्वक्षमाणमुवाचेत्यर्थः । यत एव महाशाला महाश्रोत्रिया ब्राह्मणा महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता जातितो हीनं राजानं विद्यार्थितयोपजग्मुः । तथान्यैरपि विद्यो पादित्सुभिर्भवितव्यमित्याख्यापिकया सूच्यते । कैकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेष प्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किंचिज्ज्ञातं किंचिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांश बुभुत्सया तानेकैकशः प्रष्टुमुपक्रमते ।आैपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाच ।।हे भगवः द्युलोकशरीरकं वैश्वानरमुपास इत्युवाचेत्यर्थः । कैकेय आह ।।एष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मान मुपास्से ।।यं द्युलोकावच्छिन्नं वैश्वानरमात्मानमुपास्स एष वैश्वानर आत्मा सुतेजाः शोभनं तेजो यस्य स सुतेजा द्युलोको हि सूर्य्यचंद्रादितेजसा युक्ततया सुतेजा भवति ततश्च द्युलोकावच्छिन्नो वैश्वानरात्मा तयोपास्यमानः सुतेजस्त्वगुणयोगेन सुतेजानाम वैश्वानरः ।।तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ।।अत्र सुतप्रसुतासुतशब्दा एकाहाहीनसत्रकर्मगताभिषवणपराः सुतशब्दवत्त्वसाम्यात्सु तेजस्त्वोपासनायाः सुतादिफलकत्वोपपत्तिः ।।अत्स्यन्नं पश्यसि प्रियम् ।तदुपासनवैभवेन लौकिकं भोग्यमनुभवसि प्रियं पुत्रादिकं च पश्यसीत्यर्थः । एवमन्योऽपि यः कश्चित्त्वमिव त्वदुपास्यं वैश्वानरमुपास्ते । सोऽपि त्वमिवान्नदनप्रियदर्शनब्रह्मवर्चसशाली संतानवांश्च भवतीत्याह ।अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले यऽएतमेवमात्मानं वैश्वानरमुपास्ते ।उक्तोऽर्थः उक्तमर्थमंगीकुर्वन्नेकुर्वन्नेवफलदर्शनेन तदभिमुखीकृत्य तत्र वक्तव्य मुपदिशति ।मूर्द्धा त्वेष आत्मन इति होवाच मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ।।त्वया वैश्वानरबुद्ध्योपास्यमान एष द्युलोकपरिच्छिन्न आत्मा वैश्वानरस्यात्मनो मूर्द्धारूपावयवभूतः । न तु स एव वैश्वानर आत्मा एतदर्थनिर्णयार्थं मत्समीपानागमने वैश्वानर मूर्द्धावयवभूते कृत्स्नवैश्वानरबुद्धिं कुर्वतस्तव विपरीतविद्यावशादनर्थः स्यादतः साध्वकार्षीस्त्वं यतो मामागतोऽसीत्यभिप्रायः ।अथ होवाच सत्ययज्ञं पौलषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इति (प्राचीनयोग्येति सत्ययज्ञस्य नामान्तर) आदित्यमेव भगवो राजन्निति होवाच एष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से । तस्मात्तव विश्वरूपं कुले दृश्यते प्रवृत्तोऽश्वतरीरथो दासी निष्कोऽत्स्यन्न ंपश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुस्त्वेतदात्मन इति होवाच । अन्धोऽभविष्यो यन्मां नागमिष्य इति ।।रूप्यत इति रूपं प्रकाश्यं यस्य स विश्वरूपः आदित्यस्य विश्वप्रकाशकत्वात् विश्वरूपत्वम् ।तव कुले विश्वरूपं विश्वप्रकाशकं पुत्ररत्नादिकं कुले दृश्यते अश्वतरीभिर्युक्तो रथः त्वामनुगतः दासीभिर्युक्तो हारः दासी निष्कः त्वामनुगतः शिष्टं पूर्ववत् ।।अथ होवाच इन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाच एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मान मुपास्से तस्मात्त्वां पृथग्वलय आयन्ति ।।पृथग्रथश्रेणयोऽनुयन्ति ।।अत्स्यन्नं पश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मा नागमिष्य इति । अथ होवाच जनं शार्कराक्ष्यं कं त्वमात्मान मुपास्स इति आकाशमेव भगवो राजन्निति होवाच एष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च अत्स्यन्नं पश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते संदेहस्तेषव्यशीर्यद्यन्मां नागमिष्य इति ।।भूतांतरेभ्य आकाशस्य महत्वात् बहुलत्वम् । संदेहोमध्यकायो मध्ये कायो हिउत्तराधरकाययोश्चानुप्रविष्ट इति संदिह्यमानत्वात् संदेह इत्युच्यते । व्यशीर्यत विशीर्णोऽभविष्यत् ।शिष्टं स्पष्टम् ।।अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्यकं त्वमात्मानमुपास्स इति अप एव भगवो राजन्निति होवाच एष वै रयिरात्मा वैश्वानरोऽयं त्वमात्मान मुपास्से तस्मात्त्वं रैमान् पुष्टिमानत्स्यन्नं पश्यसि प्रियम् अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मान इति होवाच बस्तिस्ते विभेत्स्यद्यन्मां नागमिष्य इति ।।अपां वेगवत्वात् रयित्वं विसर्गश्छांदसः धनप्राप्तिहेतुत्वाद्वा रयित्वं रैमान् धनवानित्यर्थः। बस्तिनाम मूत्रस्थानम् ।अथ होवाच उद्दालकमारुणिं गौतम कं त्वमात्मान मुपास्स इति पृथिवीमेव भगवो राजन्निति होवाच एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया पशुभिश्च अत्स्यन्नं पशयसि प्रियं अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ।।प्राण्याधारत्वात् पृथिव्याः प्रतिष्ठात्वं व्यम्लास्येतां म्लानौ श्लथावभविष्यताम् । शिष्टं स्पष्टम् ।तान ्होवाच ।।तानृषीनुवाचेत्यर्थः ।।एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसो अन्नमत्थ ।।एततादृशा यूयमिमं वैश्वानरमात्मानं पृथगिव विद्वांसो भिन्नभिन्नतया उपासीना तदनुरूप्येण लौकिकं भोगमनुभवथ । पूर्वत्रात्स्यन्नमिति प्रतिपुरुषमेकवचनेनोक्तस्य अत्र बहुवचनेन निर्देशः । अत्रन्नमत्थेत्येतत् प्रियं पश्यथेत्यस्याप्युपलक्षकम् ।।यस्त्वेतमेवं प्रादेशमात्रमभि प्रादेशमात्र मभिविमानमात्मानं वैश्वानर मुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिअभिविमानं सर्वात्राभिव्याप्ततया विगतपरिमाणं विश्वेषां नराणां नेतारमेतमात्मानं प्रादेशमात्रं द्युलोकादिप्रदेशसंबंधिनी प्रादेशी प्रादेशीमात्रा यस्य तं प्रादेशमात्रम् । द्युप्रभृतिप्रदेशपरिच्छिन्नं य उपास्ते स सर्वलोकसर्वभूतसर्वात्मवर्तिब्रह्मरूपमन्नमत्ति अनुभवतीत्यर्थः । अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्तिफलकत्वमुक्तं भवति । भगवता हि भाष्यकृता सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नं भोग्यं तदत्ति सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वैः कर्मवश्यैरात्मभिः प्रत्येकमनन्य साधारणमन्नं भुज्यते तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते इति भाषितम् । अत्र प्रादेशमात्रमिवह वै देवाः सुविदिता अभिसंपन्ना तथात्वे तान् वक्ष्यामि यथा प्रादेशमात्रमभिसंपादयिष्यामीति ।स होवाच मूर्द्धानमुपदिशन्नेष वा प्रतिष्ठा वैश्वानर इति चक्षुषी उपादिशन्नुवाच । एष वै सुतेजा वैश्वानर इति नासिके उपदिशन्नुवाचैषवै पृथग्वर्त्मा वैश्वानर इति मुख्यमाकाशमुपदिशन्नुवाच । एष वै बहुलो वैश्वानर इति मुख्याश्रय उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति चिबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानर इति वाजसनेयकोक्तमूर्द्धचिबुकांतराल प्रतिष्ठितत्वलभ्यप्रादेशमात्रत्वं नोपजीव्यम् । द्युप्रभृतिप्रदेशसंबन्धमात्रस्य यौगिकार्थस्य प्रकरणतः प्रतीतेः । उक्तं च व्यासाचार्यैः सर्ववेदान्तप्रत्ययाधिकरणे (ब्र.सू.3.3.1) यस्त्वेतमिति न वाजसनेयकोक्तानुवादः स्वशाखावाक्य एव पूर्वप्रतिपादितस्यानुवादेन फलसमर्पकोक्तानुवादः स्वशाखावाक्य एव पूर्वप्रतिपादितस्यानुवादेन फलसमर्पकत्वोपपत्तेरिति । न चापरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यंतप्रदेशसंबंधिन्या मात्रया कथं परिच्छिन्नत्वमिति चोदनीयम् । परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तेस्संभवात् । सूत्रितं च “अभिव्यक्तेरित्यास्मरथ्य ” (ब्र.सू.1.2.32.) इति बुद्धिसौकर्य्यलक्षणाभिव्यक्तेर्हेतोरभिविमानस्यापि ब्रह्मणः प्रादेश मात्रत्वमुपदिश्यत इति आश्मरथ्यआचार्यो मन्यत इति सूत्रार्थः । अभिव्यक्तार्थंपरिच्छिन्नत्वोप देशेति मूर्द्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणःकिमर्थमिति न चोदनीयम् तथोपासनार्थत्वात् ।सूत्रितं चा “अनुस्मृतेर्बादरिः” (ब्र.सू.1.2.33.) इति अनुस्मृति रुपासनम् । अनुस्मृतेर्हेतोः पुरुषविधत्वरूपणमिति बादीरराचार्योमन्यत इति सूत्रार्थः ।प्राणाहुत्याधारत्वत्रिविधाग्नित्वपरिकल्पितजाठराग्निशरीरकद्युमूर्द्धत्वादिविशिष्टात्मत्वभावि तेश्वरशरीरे क्रियमाणप्राणाद्याहुतिभिः वैश्वानरविद्यानिष्ठेन परमात्मा समाराधनीय इति प्रतिपादयति ।।तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजा चक्षुर्विश्वरूपः प्राणं पृथग्वर्त्मा संदेहो बहुलो बस्तिरेव रयिः पृथिवी पादा उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ।।एतस्योपासकस्यात्मनः मूर्द्धैव तस्य वैश्वानरस्य मूर्धात्वेष आत्मन इति वैश्वानरं मूर्द्धत्वेन निर्दिष्टस्सुतेजा इत्यर्थः । न चात्र तस्य हवा एतस्येति पदयोःसामानाधिकरण्यमेवास्तु । नत्वेतस्येति शब्दस्योपासकपरत्वमिति शंक्यम् उर एव वेदिरित्यादावुपासकपरामर्शस्यावश्यं भावात् । मूर्द्धैवेत्यत्राप्युपासकस्य मूर्द्धैव परामृश्यते । तस्मादेतस्येति शब्दस्योपासकपरत्वमेव सिद्धम् । इह भगवता भाष्य कृता “आत्मनंति च” (ब्र.सू.1.2.35) इति सूत्रव्याख्याने । एनं पुरुष द्युमूर्द्धत्वादिविशिष्टं वैश्वानरमस्मिन्नुपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजा इत्यादिना । अयमर्थः यस्त्वेतमेवं प्रादेशमात्रमभि विमानमात्मानं वैश्वानरमुपास्त इति त्रैलोक्यशरीरस्यैव परमात्मनो वैश्वानरस्योपासनं विधाय सर्वेषु लोकेषु इत्यादिना ब्रह्मप्राप्तिलक्षणं फलमुपदिश्यास्यैवोपासनस्यांगभूतं प्राणाग्निहोत्रं तस्य ह वा एतस्येत्यादिनोपदिशति । यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरः तस्यावयवभूतान् दुव््यादित्यादीन् सुतेजो विश्वरूपादिनामधेयानुपासकशरीरे मूर्द्धादिपादांतेषु संपादयति । मूर्द्धैव सुतेजा उपासकस्य मूर्द्धैव परमात्ममूर्द्धभूतं द्यौरित्यर्थः । चक्षुर्विश्वरूप आदित्य इत्यर्थः । प्राणःपृथग्वर्त्मा वायुरित्यर्थः । संदेहो बहुलःउपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः । पृथिव्येव पादौ अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकः स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं संनिहितमनुसन्धाय स्वकीयान्युरोलोम हृदयमनआस्यानि प्राणहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिर्बर्हिर्गार्हपत्यान्वाहार्यप चनाहवनीयानग्निहोत्रोपकरणभूतान् परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्य एवं विधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति उर एववेदिर्लोमानि बर्हिर्हृदयं गार्हपत्य इत्यादिनोपदिश्यते इति भाषितम् । उरःप्रभृतीनां वेद्यादित्वोपदेशश्च प्राणाहुतेरग्निहोत्रत्वसंपत्त्यर्थ इति “संपत्तेरिति जैमिनिस्तथाहि दर्शयति” (ब्र.सू.1.2.34) इति सूत्रितम् । स यइदं विद्वानग्निहोत्रं जुहोतीतिदर्शिताग्निहोत्रसंपत्तेर्हेतोर्वेद्यादित्वोपदेश इति जैमिनिर्मन्यते इति सूत्रार्थः । हृदयं गार्हपत्यः हृदयकमलावच्छिन्नजाठराग्निर्गार्हपत्यः । मन इन्द्रियावच्छिन्न जाठराग्निर्दक्षणाग्निः आस्यमाहवनीयः आस्यावच्छिन्नजाठराग्निराहवनीय इत्यर्थः । गार्हपत्यादिपरिकल्पनस्य सजातीयजाठर एवोचितत्वात् । वैश्वानरस्य हृदयादिस्थ स्याग्निहोत्रत्रय कल्पनं क्रियत इति भाषितत्वाच्च । अत्र च हृदयादिशब्दास्तत्तदवच्छिन्नजाठराग्नि शरीरकपरमात्मपर्यंता इति द्रष्टव्यमत उक्त एवार्थः ।तद्यद्भक्तं प्रथममागच्छेतद्धोमीयम् ।।होमसाधनं तेन होतव्यमित्यर्थः ।स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति ।प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति आदित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यंत्यां यत्किंचिद्यौश्चादित्यश्चाधितिष्ठतः तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।।प्राणाय स्वाहेति प्रथमायामाहुतौ हुतायां प्राणश्चक्षुरादित्यो द्यौश्च तृप्यति दव््यादित्याभ्या मधिष्ठितं वस्तुजातं च तृप्यतीत्यर्थः । तस्मिन्सर्वस्मिन् तृप्ते तत्तृप्तिमनु प्रजापश्वादिभिर्होतापितृप्यतीत्यर्थः । अत्र प्राणचक्षुरादिशब्दाः तदभिमानि देवतापराः । अचेतनानां तृप्तेरसंभवादिति ।एवमुत्तरत्रापि द्रष्टव्यम् ।अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहा ।।इत्यादिखण्डचतुष्टयम् ।।स य इदमविद्वानग्निहोत्रं जुहोति ।।उरः प्रभृतीनामग्निहोत्रोपकरणवेद्यादिनामजानन् यःप्राणाग्निहोत्रमनुतिष्ठतीत्यर्थः ।।यथांगारानपोह्य भस्मनि जुहुयात्तादृग् तत्स्यात् ।।भस्माहुतिसमानं स्यादित्यर्थः । निष्फलमिति यावत् ।।अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ।।सर्वात्मकभगवादाराधनेन सर्वमाराधितं भवतीति हुतप्रकर्षोक्तिः ।।तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ।।यथैषीकायाभुजांतर्वर्तित्ततृणविशेषस्य तुलमग्नौ प्रक्षिप्तं सद्यो दह्यत एवं सर्वाणि पापानि एतादृशविद्यापूर्वकप्राणाग्निहोत्रानुष्ठानेन दग्धानि भवंतीत्यर्थः । ब्रह्मोपासनफलस्य सर्वपापप्रदाहस्य प्राणाग्निहोत्रे कीर्तनमभिफलेनांगस्य स्तुत्यर्थम् । ततश्चानेनापि प्राणाग्नि होत्रस्य वैश्वानरविद्यांगत्वं ज्ञापितं भवति । वैश्वानरविद्यां स्तौति ।।तस्मादुहैवं विद्यद्यपि चण्डालायोच्छिष्टंप्रयच्छेत् । आत्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति ।।उच्छिष्टप्रदानायोग्यचांडाल्य उच्छिष्टप्रदानमपि वैश्वानरे सर्वभूतात्मनि अन्नं जुहोमीति बुद्ध्यानुष्ठितत्वान्नाधर्माय भवतीत्यर्थः ।तदेष श्लोकः । यथेह क्षुधिता बाला मातरं पर्य्युपासते ।एवं सर्वाणि भूतान्यग्निहोत्रमुपासते इति ।अग्निहोत्रमुपासत इति ।।यथा बुभुक्षिता बालाः कदा मातान्नं प्रयच्छतीति मातरं परितः उपासते । एवं सर्वाणि भूतानि एवंविधप्राणाग्निहोत्रमुपासते । इति विदुषः प्राणाग्निहोत्रस्तुत्यर्थः श्लोक इत्यर्थः । द्विरुक्तिरध्याय परिसमाप्त्यर्था ।।

इति विषयवाक्यदीपिकायां ब्रह्मसूत्रेषु द्वितीयः पादः ।।2।।

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.