विषयवाक्यदीपिका सर्वत्रप्रसिद्ध्यधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

सर्वत्रप्रसिद्ध्यधिकरणम्

सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.1.2.1)छांदोग्ये तृतीयाध्याये चतुर्दशखण्डोपक्रमे शांडिल्यविद्या प्रस्तूयते ।सर्वंखल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।।जायते इति जम् ।लीयते इति लम् ।। जलशब्दौ डप्रत्ययान्तौ । अनितीति अन् ।अनिति जीवतीत्यर्थः । क्विबन्तो विजन्तोवा यंशब्दः । तस्यजलान् तज्जलान् इतिशब्दोहेत्वर्थः ।सर्वशब्दः सर्वशरीरकपरः । इदमित्येतत् ब्रह्मणः सर्वस्य वा विशेषणम् । अतश्च तज्जत्वात्तल्लत्वात्तदन्तवात्सर्वात्मकं ब्रह्मेति शान्तः सन्नुपासीतेत्यर्थः । अत्र तज्जत्वतल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते । उपादानोपादेयभावस्याभिन्ननिष्ठत्वात् । तदनत्वरूपं नियाम्यत्वंन ब्रह्मगतम् । ब्रह्मणस्तदसंभवात् । अपितु चिदचिन्मात्रगतमितिद्रष्टव्यम्। भगवता भाष्यकृता “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेति सर्वोत्पत्तिस्थितिप्रलयकारणत्वेन सर्वस्यात्मतयाऽनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय” इति भाषितम् । व्यासार्यैश्च “ब्रह्मात्मकत्वं सर्वस्यशास्त्रादवगम्य-सर्वभूतात्मके तात जगन्नाथे जगन्मये परमात्मनि।गोविन्दे मित्रामित्रकथाकुतः ।इत्युक्तरीत्या रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्मोपासीतेत्यर्थ इति” उक्तम् । वक्ष्यमाणगुणकं ब्रह्मेति वदतां व्यासाचार्याणामयमाशयः । सर्वं खल्विति वाक्योक्तं सार्वात्म्यं तु नोपास्यगुणतया विवक्षितम् । उत्पत्तिशिष्टसार्वात्म्य गुणावरुद्धे मनोमयत्वादि वक्ष्यमाणगुणविधानानुपपत्तिप्रसंगात् । नचोपासनोत्पत्तिवाक्य श्रुतस्य सार्वात्म्यस्याविवक्षा कथमभ्युपगन्तव्येति वाच्यम् । सर्वं खल्विदं ब्रह्म तज्जलानित्यन्तस्यवाक्यस्य खलु शब्दकृतेन प्रसिद्धवन्निर्देशेन शांत उपासीतेत्यनेनैकवाक्यत्वस्य निवारितत्वात् ।नह्युपासीत खल्विति वचनव्यक्तिर्घटते । अतः सार्वात्म्यस्योपासनोत्पत्तिवाक्यश्रुतत्वाभावेन शांतउपासीतेति वाक्ये उपास्याकांक्षायां पूर्ववाक्यप्रतिपन्नस्य ब्रह्मरूपधर्मिमात्रस्यैवोपास्यतयान्वयः ।नतु सार्वात्म्यविशिष्टस्य । ततश्चोत्पत्तिशिष्टसार्वात्म्यानवरोधात् न वक्ष्यमाणमनोमयत्वादि गुणानन्वयशंका । सर्वात्मकं ब्रह्मोपासीतेति तदर्थनिर्देशकभाष्येऽपि सर्वात्मकत्वं नोपास्यतया निर्दिष्टम् अपि तूपास्यस्य ब्रह्मणः स्वरूपकथनमात्रपरमित्येतत्सर्वं तैः कण्ठत एव वर्णितं च । ननु ब्रह्मात्मकत्वं सर्वस्य शास्त्रादेवावगत्य रागद्वेषादिरहितः सन्वक्ष्यमाणगुणकं ब्रह्मोपासीतेति व्यासाचार्यैरेवोक्तत्वात्तदेकवाक्यत्वसंभवे तज्जलानित्यस्य पृथग्वाक्यत्वकल्पनाऽयोगात्, सार्वात्म्यगुणाविरोधिनामन्वयेदोषाभावाच्च सार्वात्म्यस्योत्पत्तिवाक्यविहितत्वेऽपिमनोमयत्वादीनामुत्पत्तिशिष्ट वाक्यभेदकल्पनं वा शांडिल्यविद्यायां सार्वात्म्यस्यानुपास्यत्व कल्पनं वा व्यर्थमिति चेन्न । उपासीतेत्यनेन वाक्यैकवाक्यत्वाभ्युपगमेऽपि पदैकवाक्यत्वनिरा करणे दोषाभावात् । शान्तिहेतुतयान्वितस्य सार्वात्म्यस्योपास्यगुणत्वे प्रमाणाभावादिति व्यासाचार्याभिप्रायात् । ननु ब्रह्मणः सर्वात्मकत्वाद्यत्र क्वचित् क्रियमाणस्यापि द्वेषादेरात्मद्वेषपर्यवसन्नत्वेनायुक्तत्वाच्छांतः सन्नुपासीतेत्युक्ते ब्रह्मोपासीतेति कथमवगम्यते सर्वं खल्विदं ब्रह्मेत्यस्य शमविध्यर्थवादभूतस्योपास्यसमर्पकत्वाभावादिति चेत्सत्यम् । शमविध्यर्थतया निर्दिष्टस्यापि ब्रह्मणः उपास्याकांक्षापूरकत्वस्यापि संभवात् । अन्यार्थतयापि स्ववाक्यनिर्दिष्टं ब्रह्म विहायोपास्यांतरकल्पनस्यानुचितत्वात् ।”मूलतः शाखां परिवास्योपवेषं करोती”त्यत्रमूलतः इत्यस्य शाखापरिवासने अपादानतयान्वितस्याप्याकाक्षावशेनोपवेशंकरोतीत्यनेनाप्यन्वयाभ्युपगमादिति द्रष्टव्यम् ।। विहितमुपासनं स्तौति ।।अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोंके पुरुषो भवति तथेतः प्रेत्य भवति ।।तं यथायथोपासते तथैव भवतीति श्रुत्यन्तरादिह लोके पुरुषो यथोपासनस्तथैवेतः प्रेत्यामुष्मिल्लोंके भवति । ततोऽयंपुरुषः क्रतुमयः क्रतुप्रधानः उपासनप्रधान इत्यर्थः । तत श्चोपासनस्यैव हिततमत्वात्तत्सर्वदानुष्ठेयमित्यर्थः ।। एवं विहितं ब्रह्मोपासनं मनोमयत्वादिगुणान्तरविधानायानुवदति ।।स क्रतुं कुर्वीत ।।स पुरुषः क्रतुं ब्रह्मोपासनं कुर्वीतेत्यर्थः ।।1।।मनोमयः प्राणशरीरो भारूपः सत्यसंकल्पः आकाशात्मा ।।मनोमयः परिशुद्धमनोमात्रग्राह्यः विवेकादिसाधनसप्तकानुगृहीत परमात्मोपासन निर्मलीकृतमनोमात्रग्राह्यइत्यर्थः । प्राणशरीरः -जगति सर्वेषां प्राणानां धारकः प्राणो यस्य शरीरम् आधेयं विधेयं शेषभूतं च स प्राणशरीरः । आधेयत्वविधेयत्वशेषत्वानामेव शरीरशब्दप्रवृत्तिनिमित्तत्वात् । भारूपः भास्वररूपः । “आदित्यवर्णंतमसः परस्तात्” (पुरुष सूक्तं तै.आ.3)”पश्यते रुक्मवर्णम्”(मुण्ड 3.3) इत्यादिवाक्यप्रतिपन्नाप्राकृतस्वा साधारण निरतिशयकल्याणगुणगण निरतिशयदीप्तियुक्त विग्रहशालीत्यर्थः । सत्यसंकल्पोऽप्रतिहत संकल्पः । आकाशात्मा -आकाशवत्सूक्ष्मरूपः । सकलेतरकारणभूतस्याव्याकृताकाशस्यात्मभूत इति वाऽकाशात्मा । स्वयं च प्रकाशते अन्यान्प्रकाशयतीति वा आकाशात्मा ।सर्वकर्मा ।।क्रियते इति कर्म । सर्वं जगद्यस्य कर्मासौ सर्वकर्मा । सर्वा वा क्रिया यस्यासौ सर्वकर्मा ।सर्वकामः ।।काम्यंत इति कामाः भोग्यभोगोपकरणभोगस्थानादयः । ते परिशुद्धास्तस्य सन्तीत्यर्थः ।।सर्वगन्धः सर्वरसः ।।अशब्दमस्पर्शमित्यादिना प्राकृतगंधादिनिषेधात् । अप्राकृताः स्वासाधारणाः निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूताःः सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थः ।सर्वमिदमभ्यात्तः ।।उक्तं सर्वमिदं कल्याणगुणजातमभ्यात्तः स्वीकृतवान् । “भुक्ता ब्राह्मणा” इतिवत्कर्तरि क्तः । अर्शाद्यजंतो वा ।।अवाकी ।।वाक उक्तिः । सोऽस्य नास्तीत्यवाकी । कुत इत्यत्राह ।।अनादरः ।।अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः । अत एव अवाकी परिपूर्णैश्वर्यत्वाद् ब्रह्मादिस्तंबपर्यंतं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थः ।।2।।एष म आत्मान्तर्हृदये अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा ।।मदीये हृदये व्रीह्याद्यपेक्षयाणुत्वेनात्मत्वेन परमात्मोपासनार्थमवस्थित इत्यर्थः । तथानुसन्धानं कर्तव्यमिति भावः ।। अंतर्हृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारमनुसंधेयं निर्दिशति ।।एष म आत्मान्तर्हृदयेज्यायान्पृथिव्या ज्यायानंतरिक्षाज्ज्यायान्दिवो ज्याया नेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामः सर्वगंधः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ।।उक्तोऽर्थः । एवं भूतं परब्रह्मपरमकारुण्येनास्मदुज्जिजीविषयास्मद्धृदये संनिहितमित्यनु संधातव्यमित्याह ।एष म आत्मांतर्हृतये एतद्ब्रह्म ।।यथोपासनमीदृशं परमात्मानम् “अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसपद्य स्वेन रूपेणाभि निष्पद्यते” (छा.8.3.4) इत्युक्तरीत्या देशविशेषविशिष्टं प्राप्तास्मीति निश्चयरूप मनुसंधानं कर्तव्यमित्याह ।एतमितः प्रेत्याभिसंभवितास्मीति ।।अत्रेतीत्यस्य स क्रतुं कुर्वीतेत्यनेनान्वयः । मनोमयः प्राणशरीरइत्यारभ्यैतमितः प्रेत्याभिसंभवितास्मीत्येतत्पर्यंतोऽनुसंधानप्रकारः । अत्र चेतिशब्दनिर्दिष्टो मनोमयत्वादिगुणगतः क्रमविशेष एक एव विधीयते । मनोमयत्वाद्युपास्यगुणानां त्वाक्षेपतो विधानं पृष्ठगतसर्वता विधानादिवत्पृष्ठानाम् । ततश्च प्राप्तानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेद इति शंका प्रत्युक्ता । यद्वा विधेयानां बहुत्वेऽपि क्रमरूपविधेयतावच्छेदकैक्यान्न वाक्यभेदः । यदग्नयेच प्रजापतये चेति वाक्ये देवतात्वरूपविधेयतावच्छेदकैक्येन वाक्यभेदस्य तांत्रिकैः परिहृतत्वात् ।केचित्तु प्राप्तोपासनानुवादेनाभ्युदयेष्टिवाक्यवत्प्रयोगाविधित्वसभवान्नवाक्यभेद इति वदन्ति ।एवं विध प्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहरति ।।यस्य स्यादद्धा न विचिकित्सास्ति ।।अत्रेतिशब्दोऽध्याहर्तव्यः । अभिसंभवितास्मीति शब्दस्य क्रमवाचकस्यैव “काकाक्षि गोलक”न्यायेन वाऽन्वयः । उक्तप्रकारेण यस्योपासकस्य अद्धा निश्चयोऽस्ति तस्य प्राप्तौ वि चिकित्सा संशयो नास्ति । उक्तार्थस्य श्रद्धेयत्वसिद्ध्यै वक्तुराप्तिं दर्शयति ।।इति ह स्माह शाण्डिल्यः शाण्डिल्यः ।।इति चतुर्दशः खण्डः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.