श्रीमहाभारतम्
||२ सभापर्वम् ||
021-अध्यायः
वैशम्पायन उवाच||
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः |
उवाच वाग्मी राजानं जरासन्धमधोक्षजः ||१||
त्रयाणां केन ते राजन्योद्धुं वितरते मनः |
अस्मदन्यतमेनेह सज्जीभवतु को युधि ||२||
एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः |
जरासन्धस्ततो राजन्भीमसेनेन मागधः ||३||
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च |
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ||४||
कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना |
समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः ||५||
अवमुच्य किरीटं स केशान्समनुमृज्य च |
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ||६||
उवाच मतिमान्राजा भीमं भीमपराक्रमम् |
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ||७||
एवमुक्त्वा जरासन्धो भीमसेनमरिंदमः |
प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः ||८||
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली |
भीमसेनो जरासन्धमाससाद युयुत्सया ||९||
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः |
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ||१०||
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा |
आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव ||११||
उभौ परमसंहृष्टौ बलेनातिबलावुभौ |
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ||१२||
तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे |
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ||१३||
प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः |
आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः ||१४||
ततः शब्देन महता भर्त्सयन्तौ परस्परम् |
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ||१५||
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ |
बाहुभिः समसज्जेतामायसैः परिघैरिव ||१६||
कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि |
अनारतं दिवारात्रमविश्रान्तमवर्तत ||१७||
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः |
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ||१८||
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः |
उवाच भीमकर्माणं भीमं सम्बोधयन्निव ||१९||
क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे |
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ||२०||
तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः |
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ||२१||
एवमुक्तः स कृष्णेन पाण्डवः परवीरहा |
जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ||२२||
ततस्तमजितं जेतुं जरासन्धं वृकोदरः |
संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः ||२३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
022-अध्यायः
वैशम्पायन उवाच||
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् |
बुद्धिमास्थाय विपुलां जरासन्धजिघांसया ||१||
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् |
प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा ||२||
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् |
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ||३||
यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः |
बलं भीम जरासन्धे दर्शयाशु तदद्य नः ||४||
एवमुक्तस्तदा भीमो जरासन्धमरिंदमः |
उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः ||५||
भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ |
बभञ्ज पृष्ठे सङ्क्षिप्य निष्पिष्य विननाद च ||६||
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः |
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ||७||
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः |
भीमसेनस्य नादेन जरासन्धस्य चैव ह ||८||
किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही |
इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् ||९||
ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् |
रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः ||१०||
जरासन्धरथं कृष्णो योजयित्वा पताकिनम् |
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ||११||
ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः |
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् ||१२||
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः |
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ||१३||
यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः |
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः ||१४||
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः |
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ||१५||
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये |
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ||१६||
तप्तचामीकराभेण किङ्किणीजालमालिना |
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ||१७||
येन शक्रो दानवानां जघान नवतीर्नव |
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ||१८||
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा |
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ||१९||
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे |
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ||२०||
असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः |
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ||२१||
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् |
क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः ||२२||
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः |
तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः ||२३||
दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ |
आदित्य इव मध्याह्ने सहस्रकिरणावृतः ||२४||
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते |
दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः ||२५||
तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् |
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ||२६||
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः |
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् ||२७||
स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः |
गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः ||२८||
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा |
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ||२९||
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् |
पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः ||३०||
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन |
भीमार्जुनबलोपेते धर्मस्य परिपालनम् ||३१||
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् |
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते ||३२||
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे |
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम ||३३||
किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ |
कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् ||३४||
तानुवाच हृषीकेशः समाश्वास्य महामनाः |
युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति ||३५||
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः |
सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति ||३६||
ततः प्रतीतमनसस्ते नृपा भरतर्षभ |
तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् ||३७||
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः |
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ||३८||
जरासन्धात्मजश्चैव सहदेवो महारथः |
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ||३९||
स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः |
सहदेवो नृणां देवं वासुदेवमुपस्थितः ||४०||
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा |
अभ्यषिञ्चत तत्रैव जरासन्धात्मजं तदा ||४१||
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः |
विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् ||४२||
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् |
रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः ||४३||
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः |
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ||४४||
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः |
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ||४५||
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ |
पुनः स्वनगरं प्राप्तावक्षताविति भारत ||४६||
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः |
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ||४७||
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् |
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ||४८||
यथावयः समागम्य राजभिस्तैश्च पाण्डवः |
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ||४९||
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः |
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ||५०||
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः |
पाण्डवैर्घातयामास जरासन्धमरिं तदा ||५१||
घातयित्वा जरासन्धं बुद्धिपूर्वमरिंदमः |
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ||५२||
सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा |
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ||५३||
तेनैव रथमुख्येन तरुणादित्यवर्चसा |
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ||५४||
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ |
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ||५५||
ततो गते भगवति कृष्णे देवकिनन्दने |
जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा ||५६||
संवर्धितौजसो भूयः कर्मणा तेन भारत |
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ||५७||
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् |
तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् ||५८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
023-अध्यायः-दिग्विजयपर्व
वैशम्पायन उवाच||
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी |
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||१||
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् |
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ||२||
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् |
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ||३||
विजयाय प्रयास्यामि दिशं धनदरक्षिताम् |
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ||४||
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः |
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ||५||
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ |
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ||६||
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ||६||
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः |
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ||७||
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ |
ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ||८||
दिशं धनपतेरिष्टामजयत्पाकशासनिः |
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ||९||
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् |
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ||१०||
जनमेजय उवाच||
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय |
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||११||
वैशम्पायन उवाच||
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते |
यौगपद्येन पार्थैर्हि विजितेयं वसुन्धरा ||१२||
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् |
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ||१३||
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः |
सुमण्डलं पापजितं कृतवाननुसैनिकम् ||१४||
स तेन सहितो राजन्सव्यसाची परन्तपः |
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ||१५||
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः |
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ||१६||
स तानपि महेष्वासो विजित्य भरतर्षभ |
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ||१७||
तत्र राजा महानासीद्भगदत्तो विशां पते |
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ||१८||
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् |
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ||१९||
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् |
प्रहसन्नब्रवीद्राजा सङ्ग्रामे विगतक्लमः ||२०||
उपपन्नं महाबाहो त्वयि पाण्डवनन्दन |
पाकशासनदायादे वीर्यमाहवशोभिनि ||२१||
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे |
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ||२२||
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते |
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ||२३||
अर्जुन उवाच||
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः |
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ||२४||
भवान्पितृसखा चैव प्रीयमाणो मयापि च |
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ||२५||
भगदत्त उवाच||
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः |
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ||२६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
024-अध्यायः
वैशम्पायन उवाच||
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः |
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ||१||
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् |
तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ||२||
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः |
तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ||३||
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् |
कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ||४||
मृदङ्गवरनादेन रथनेमिस्वनेन च |
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ||५||
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा |
निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ||६||
सुमहान्संनिपातोऽभूद्धनञ्जयबृहन्तयोः |
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ||७||
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः |
उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ||८||
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ |
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ||९||
मोदापुरं वामदेवं सुदामानं सुसङ्कुलम् |
कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ||१०||
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् |
व्यजयद्धनञ्जयो राजन्देशान्पञ्च प्रमाणतः ||११||
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् |
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ||१२||
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् |
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ||१३||
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् |
ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ||१४||
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः |
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ||१५||
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः |
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ||१६||
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये |
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ||१७||
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः |
उरशावासिनं चैव रोचमानं रणेऽजयत् ||१८||
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् |
प्रामथद्बलमास्थाय पाकशासनिराहवे ||१९||
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः |
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ||२०||
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः |
महता परिमर्देन वशे चक्रे दुरासदान् ||२१||
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः |
दरदान्सह काम्बोजैरजयत्पाकशासनिः ||२२||
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः |
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ||२३||
लोहान्परमकाम्बोजानृषिकानुत्तरानपि |
सहितांस्तान्महाराज व्यजयत्पाकशासनिः ||२४||
ऋषिकेषु तु सङ्ग्रामो बभूवातिभयङ्करः |
तारकामयसङ्काशः परमर्षिकपार्थयोः ||२५||
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि |
शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ||२६||
मयूरसदृशानन्यानुभयानेव चापरान् ||२६||
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कुटम् |
श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ||२७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
025-अध्यायः
वैशम्पायन उवाच||
स श्वेतपर्वतं वीरः समतिक्रम्य भारत |
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ||१||
महता संनिपातेन क्षत्रियान्तकरेण ह |
व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् ||२||
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् |
पाकशासनिरव्यग्रः सहसैन्यः समासदत् ||३||
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् |
ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः ||४||
सरो मानसमासाद्य हाटकानभितः प्रभुः |
गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः ||५||
तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् |
लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ||६||
उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः |
इयेष जेतुं तं देशं पाकशासननन्दनः ||७||
तत एनं महाकाया महावीर्या महाबलाः |
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ||८||
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन |
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ||९||
इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः |
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ||१०||
न चापि किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते |
उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते ||११||
प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किञ्चन |
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ||१२||
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि |
तद्ब्रवीहि करिष्यामो वचनात्तव भारत ||१३||
ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः |
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ||१४||
न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः |
युधिष्ठिराय यत्किञ्चित्करवन्नः प्रदीयताम् ||१५||
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च |
मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् ||१६||
एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् |
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ||१७||
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह |
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ||१८||
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि |
मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः ||१९||
वृतः सुमहता राजन्बलेन चतुरङ्गिणा |
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ||२०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
026-अध्यायः
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् |
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ||१||
महता बलचक्रेण परराष्ट्रावमर्दिना |
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ||२||
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् |
पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ||३||
ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः |
विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ||४||
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् |
कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ||५||
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परन्तपः |
अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ||६||
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः |
सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ||७||
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् |
जिगाय समरे वीरो बलेन बलिनां वरः ||८||
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा |
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ||९||
ततो दक्षिणमागम्य पुलिन्दनगरं महत् |
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ||१०||
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः |
शिशुपालं महावीर्यमभ्ययाज्जनमेजय ||११||
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् |
उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तपः ||१२||
तौ समेत्य महाराज कुरुचेदिवृषौ तदा |
उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ||१३||
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते |
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ||१४||
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् |
स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ||१५||
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः |
सत्कृतः शिशुपालेन ययौ सबलवाहनः ||१६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
027-अध्यायः
वैशम्पायन उवाच||
ततः कुमारविषये श्रेणिमन्तमथाजयत् |
कोसलाधिपतिं चैव बृहद्बलमरिंदमः ||१||
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् |
अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ||२||
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् |
मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ||३||
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् |
सर्वमल्पेन कालेन देशं चक्रे वशे बली ||४||
एवं बहुविधान्देशान्विजित्य पुरुषर्षभः |
उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ||५||
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ||५||
स काशिराजं समरे सुबन्धुमनिवर्तिनम् |
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ||६||
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् |
युध्यमानं बलात्सङ्ख्ये विजिग्ये पाण्डवर्षभः ||७||
ततो मत्स्यान्महातेजा मलयांश्च महाबलान् |
अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ||८||
निवृत्य च महाबाहुर्मदर्वीकं महीधरम् |
सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ||९||
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ||९||
भर्गाणामधिपं चैव निषादाधिपतिं तथा |
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ||१०||
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः |
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ||११||
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः |
वैदेहकं च राजानं जनकं जगतीपतिम् ||१२||
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ||१२||
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् |
किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ||१३||
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् |
विजित्य युधि कौन्तेयो मागधानुपयाद्बली ||१४||
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् |
तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ||१५||
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह |
तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ||१६||
स कम्पयन्निव महीं बलेन चतुरङ्गिणा |
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ||१७||
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत |
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ||१८||
अथ मोदागिरिं चैव राजानं बलवत्तरम् |
पाण्डवो बाहुवीर्येण निजघान महामृधे ||१९||
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् |
कौशिकीकच्छनिलयं राजानं च महौजसम् ||२०||
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ |
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ||२१||
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् |
ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ||२२||
सुह्मानामधिपं चैव ये च सागरवासिनः |
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ||२३||
एवं बहुविधान्देशान्विजित्य पवनात्मजः |
वसु तेभ्य उपादाय लौहित्यमगमद्बली ||२४||
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः |
करमाहारयामास रत्नानि विविधानि च ||२५||
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् |
काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ||२६||
स कोटिशतसङ्ख्येन धनेन महता तदा |
अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ||२७||
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः |
निवेदयामास तदा धर्मराजाय तद्धनम् ||२८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
028-अध्यायः
वैशम्पायन उवाच||
तथैव सहदेवोऽपि धर्मराजेन पूजितः |
महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ||१||
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः |
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ||२||
अधिराजाधिपं चैव दन्तवक्रं महाहवे |
जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ||३||
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् |
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ||४||
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा |
तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ||५||
नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् |
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ||६||
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् |
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ||७||
चक्रे तत्र स सङ्ग्रामं सह भोजेन भारत |
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ||८||
करांस्तेभ्य उपादाय रत्नानि विविधानि च |
ततस्तैरेव सहितो नर्मदामभितो ययौ ||९||
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ |
जिगाय समरे वीरावाश्विनेयः प्रतापवान् ||१०||
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ |
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ||११||
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् |
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ||१२||
सैन्यक्षयकरं चैव प्राणानां संशयाय च |
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ||१३||
ततो हया रथा नागाः पुरुषाः कवचानि च |
प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ||१४||
ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः |
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ||१५||
जनमेजय उवाच||
किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि |
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ||१६||
वैशम्पायन उवाच||
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः |
श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः ||१७||
नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् |
तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ||१८||
तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा |
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ||१९||
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् |
चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ||२०||
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः |
अभयं च स जग्राह स्वसैन्ये वै महीपतिः ||२१||
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः |
जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ||२२||
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह |
बभूवुरनभिग्राह्या योषितश्छन्दतः किल ||२३||
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे |
स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत ||२४||
वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम |
भयादग्नेर्महाराज तदा प्रभृति सर्वदा ||२५||
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् |
परीतमग्निना राजन्नाकम्पत यथा गिरिः ||२६||
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः |
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ||२७||
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक |
पावनात्पावकश्चासि वहनाद्धव्यवाहनः ||२८||
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि |
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ||२९||
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् |
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ||३०||
प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत |
न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः ||३१||
तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् |
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ||३२||
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया |
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ||३३||
मया तु रक्षितव्येयं पुरी भरतसत्तम |
यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति ||३४||
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ||३४||
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः |
पूजयामास माद्रेयः पावकं पुरुषर्षभः ||३५||
पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा |
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ||३६||
प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् |
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ||३७||
त्रैपुरं स वशे कृत्वा राजानममितौजसम् |
निजग्राह महाबाहुस्तरसा पोतनेश्वरम् ||३८||
आहृतिं कौशिकाचार्यं यत्नेन महता ततः |
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ||३९||
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे |
राज्ञे भोजकटस्थाय महामात्राय धीमते ||४०||
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै |
स चास्य ससुतो राजन्प्रतिजग्राह शासनम् ||४१||
प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च |
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ||४२||
ततः शूर्पारकं चैव गणं चोपकृताह्वयम् |
वशे चक्रे महातेजा दण्डकांश्च महाबलः ||४३||
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् |
निषादान्पुरुषादांश्च कर्णप्रावरणानपि ||४४||
ये च कालमुखा नाम नरा राक्षसयोनयः |
कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा ||४५||
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा |
तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः ||४६||
एकपादांश्च पुरुषान्केवलान्वनवासिनः |
नगरीं सञ्जयन्तीं च पिच्छण्डं करहाटकम् ||४७||
दूतैरेव वशे चक्रे करं चैनानदापयत् ||४७||
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः |
अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् ||४८||
अन्ताखीं चैव रोमां च यवनानां पुरं तथा |
दूतैरेव वशे चक्रे करं चैनानदापयत् ||४९||
भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः |
प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने ||५०||
विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः ||५०||
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् |
तच्च कालकृतं धीमानन्वमन्यत स प्रभुः ||५१||
ततः सम्प्रेषयामास रत्नानि विविधानि च |
चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च ||५२||
वासांसि च महार्हाणि मणींश्चैव महाधनान् |
न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् ||५३||
एवं निर्जित्य तरसा सान्त्वेन विजयेन च |
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः ||५४||
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ |
कृतकर्मा सुखं राजन्नुवास जनमेजय ||५५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
029-अध्यायः
वैशम्पायन उवाच||
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा |
वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ||१||
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् |
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ||२||
सिंहनादेन महता योधानां गर्जितेन च |
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ||३||
ततो बहुधनं रम्यं गवाश्वधनधान्यवत् |
कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ||४||
तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः |
मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् ||५||
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः |
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ||६||
तथा मध्यमिकायांश्च वाटधानान्द्विजानथ |
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ||७||
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः |
सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ||८||
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् |
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ||९||
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् |
उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ||१०||
द्वारपालं च तरसा वशे चक्रे महाद्युतिः ||१०||
रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः |
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ||११||
तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः |
स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ||१२||
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् |
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ||१३||
स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते |
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः ||१४||
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् |
पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ||१५||
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् |
न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ||१६||
करभाणां सहस्राणि कोशं तस्य महात्मनः |
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ||१७||
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् |
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ||१८||
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् |
विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ||१९||
श्रीमहाभारतम्
||२ सभापर्वम् ||
030-अध्यायः-राजसूयपर्व
वैशम्पायन उवाच||
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् |
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ||१||
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् |
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ||२||
सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् |
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ||३||
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् |
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ||४||
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् |
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ||५||
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् |
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ||६||
धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् |
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ||७||
स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः |
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ||८||
सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् |
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ||९||
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः |
ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ||१०||
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह |
भूतभव्यभवन्नाथः केशवः केशिसूदनः ||११||
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा |
बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ||१२||
उच्चावचमुपादाय धर्मराजाय माधवः |
धनौघं पुरुषव्याघ्रो बलेन महता वृतः ||१३||
तं धनौघमपर्यन्तं रत्नसागरमक्षयम् |
नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ||१४||
असूर्यमिव सूर्येण निवातमिव वायुना |
कृष्णेन समुपेतेन जहृषे भारतं पुरम् ||१५||
तं मुदाभिसमागम्य सत्कृत्य च यथाविधि |
सम्पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ||१६||
धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः |
भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ||१७||
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते |
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ||१८||
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत |
उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ||१९||
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया |
अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ||२०||
स दीक्षापय गोविन्द त्वमात्मानं महाभुज |
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ||२१||
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो |
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ||२२||
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् |
त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ||२३||
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ||२३||
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते |
नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ||२४||
युधिष्ठिर उवाच||
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम |
यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ||२५||
वैशम्पायन उवाच||
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह |
ईहितुं राजसूयाय साधनान्युपचक्रमे ||२६||
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः |
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ||२७||
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः |
तथोपकरणं सर्वं मङ्गलानि च सर्वशः ||२८||
अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि |
समानयन्तु पुरुषा यथायोगं यथाक्रमम् ||२९||
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः |
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ||३०||
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः |
मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ||३१||
तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् |
सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ||३२||
ततो द्वैपायनो राजन्नृत्विजः समुपानयत् |
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ||३३||
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः |
धनञ्जयानामृषभः सुसामा सामगोऽभवत् ||३४||
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः |
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ||३५||
एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ |
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ||३६||
ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् |
शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ||३७||
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः |
रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ||३८||
तत आज्ञापयामास स राजा राजसत्तमः |
सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ||३९||
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् |
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ||४०||
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि |
विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ||४१||
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् |
आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ||४२||
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् |
दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ||४३||
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः |
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ||४४||
भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा |
क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ||४५||
अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ||४५||
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः |
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ||४६||
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् |
बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ||४७||
सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ||४७||
तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः |
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ||४८||
भुञ्जतां चैव विप्राणां वदतां च महास्वनः |
अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ||४९||
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति |
एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः ||५०||
गवां शतसहस्राणि शयनानां च भारत |
रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ||५१||
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः |
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ||५२||
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् |
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ||५३||
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च |
भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ||५४||
श्रीमहाभारतम्
||२ सभापर्वम् ||
031-अध्यायः
वैशम्पायन उवाच||
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः |
भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ||१||
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः |
संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ||२||
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ |
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ||३||
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत |
समुपादाय रत्नानि विविधानि महान्ति च ||४||
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः |
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ||५||
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः |
गान्धारराजः सुबलः शकुनिश्च महाबलः ||६||
अचलो वृषकश्चैव कर्णश्च रथिनां वरः |
ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ||७||
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः |
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ||८||
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः |
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ||९||
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः |
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ||१०||
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा |
आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ||११||
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा |
कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ||१२||
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते |
विराटः सह पुत्रैश्च माचेल्लश्च महारथः ||१३||
राजानो राजपुत्राश्च नानाजनपदेश्वराः ||१३||
शिशुपालो महावीर्यः सह पुत्रेण भारत |
आगच्छत्पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्मदः ||१४||
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः |
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ||१५||
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च |
वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ||१६||
एते चान्ये च बहवो राजानो मध्यदेशजाः |
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ||१७||
ददुस्तेषामावसथान्धर्मराजस्य शासनात् |
बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ||१८||
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् |
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ||१९||
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् |
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ||२०||
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् |
सुखारोहणसोपानान्महासनपरिच्छदान् ||२१||
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः |
हंसांशुवर्णसदृशानायोजनसुदर्शनान् ||२२||
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः |
बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ||२३||
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् |
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ||२४||
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः |
भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ||२५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
032-अध्यायः
वैशम्पायन उवाच||
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः |
अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ||१||
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ||१||
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः |
इदं वः स्वमहं चैव यदिहास्ति धनं मम ||२||
प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः ||२||
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः |
युयोज ह यथायोगमधिकारेष्वनन्तरम् ||३||
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् |
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ||४||
राज्ञां तु प्रतिपूजार्थं सञ्जयं संन्ययोजयत् |
कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती ||५||
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे |
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ||६||
तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ||६||
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः |
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ||७||
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् |
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ||८||
सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् |
द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् ||९||
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् |
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् ||१०||
कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् |
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ||११||
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः |
लोकराजविमानैश्च ब्राह्मणावसथैः सह ||१२||
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा |
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः ||१३||
राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः |
अशोभत सदो राजन्कौन्तेयस्य महात्मनः ||१४||
ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः |
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ||१५||
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ||१५||
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः |
रत्नोपहारकर्मण्यो बभूव स समागमः ||१६||
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः |
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ||१७||
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः |
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः ||१८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
033-अध्यायः-अर्घाभिहरणपर्व
वैशम्पायन उवाच||
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह |
अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः ||१||
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः |
समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ||२||
समेता ब्रह्मभवने देवा देवर्षयो यथा |
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ||३||
इदमेवं न चाप्येवमेवमेतन्न चान्यथा |
इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् ||४||
कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते |
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ||५||
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् |
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ||६||
केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः |
रेमिरे कथयन्तश्च सर्ववेदविदां वराः ||७||
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः |
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ||८||
न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः |
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ||९||
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् |
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ||१०||
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप |
नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ||११||
सस्मार च पुरावृत्तां कथां तां भरतर्षभ |
अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् ||१२||
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन |
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ||१३||
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः |
प्रतिज्ञां पालयन्धीमाञ्जातः परपुरञ्जयः ||१४||
संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् |
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ||१५||
इति नारायणः शम्भुर्भगवाञ्जगतः प्रभुः |
आदिश्य विबुधान्सर्वानजायत यदुक्षये ||१६||
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः |
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ||१७||
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते |
सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ||१८||
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् |
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ||१९||
इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् |
हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ||२०||
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः |
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ||२१||
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् |
क्रियतामर्हणं राज्ञां यथार्हमिति भारत ||२२||
आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर |
स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा ||२३||
एतानर्हानभिगतानाहुः संवत्सरोषितान् |
त इमे कालपूगस्य महतोऽस्मानुपागताः ||२४||
एषामेकैकशो राजन्नर्घ्यमानीयतामिति |
अथ चैषां वरिष्ठाय समर्थायोपनीयताम् ||२५||
युधिष्ठिर उवाच||
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन |
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ||२६||
वैशम्पायन उवाच||
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य भारत |
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ||२७||
एष ह्येषां समेतानां तेजोबलपराक्रमैः |
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ||२८||
असूर्यमिव सूर्येण निवातमिव वायुना |
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ||२९||
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् |
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ||३०||
प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा |
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ||३१||
स उपालभ्य भीष्मं च धर्मराजं च संसदि |
अपाक्षिपद्वासुदेवं चेदिराजो महाबलः ||३२||
श्रीमहाभारतम्
||२ सभापर्वम् ||
034-अध्यायः
शिशुपाल उवाच||
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु |
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ||१||
नायं युक्तः समाचारः पाण्डवेषु महात्मसु |
यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ||२||
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः |
अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ||३||
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया |
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ||४||
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् |
अर्हणामर्हति तथा यथा युष्माभिरर्चितः ||५||
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ |
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ||६||
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् |
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ||७||
आचार्यं मन्यसे कृष्णमथ वा कुरुपुङ्गव |
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ||८||
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन |
द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ||९||
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः |
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ||१०||
अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः |
किं राजभिरिहानीतैरवमानाय भारत ||११||
वयं तु न भयादस्य कौन्तेयस्य महात्मनः |
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ||१२||
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः |
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ||१३||
किमन्यदवमानाद्धि यदिमं राजसंसदि |
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ||१४||
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् |
को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् ||१५||
योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ||१५||
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् |
कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ||१६||
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः |
ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ||१७||
अथ वा कृपणैरेतामुपनीतां जनार्दन |
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ||१८||
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे |
हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ||१९||
न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते |
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ||२०||
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् |
अराज्ञो राजवत्पूजा तथा ते मधुसूदन ||२१||
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः |
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ||२२||
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् |
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ||२३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
035-अध्यायः
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् |
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ||१||
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् |
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ||२||
न हि धर्मं परं जातु नावबुध्येत पार्थिव |
भीष्मः शान्तनवस्त्वेनं मावमंस्था अतोऽन्यथा ||३||
पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् |
मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ||४||
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् |
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ||५||
भीष्म उवाच||
नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् |
लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ||६||
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः |
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ||७||
अस्यां च समितौ राज्ञामेकमप्यजितं युधि |
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ||८||
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः |
त्रयाणामपि लोकानामर्चनीयो जनार्दनः ||९||
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः |
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ||१०||
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् |
एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी ||११||
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः |
तेषां कथयतां शौरेरहं गुणवतो गुणान् ||१२||
समागतानामश्रौषं बहून्बहुमतान्सताम् ||१२||
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः |
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ||१३||
न केवलं वयं कामाच्चेदिराज जनार्दनम् |
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ||१४||
अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् |
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ||१५||
न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः |
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ||१६||
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः |
पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ||१७||
वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा |
नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ||१८||
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा |
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ||१९||
तमिमं सर्वसम्पन्नमाचार्यं पितरं गुरुम् |
अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ||२०||
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः |
सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ||२१||
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः |
कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् ||२२||
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः |
परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ||२३||
बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या |
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ||२४||
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये |
दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ||२५||
अयं तु पुरुषो बालः शिशुपालो न बुध्यते |
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ||२६||
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः |
स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् ||२७||
सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु |
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ||२८||
अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति |
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ||२९||
श्रीमहाभारतम्
||२ सभापर्वम् ||
036-अध्यायः
वैशम्पायन उवाच||
एवमुक्त्वा ततो भीष्मो विरराम महायशाः |
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ||१||
केशवं केशिहन्तारमप्रमेयपराक्रमम् |
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ||२||
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् |
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ||३||
मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् |
अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ||४||
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् |
मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ||५||
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि |
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ||६||
आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः |
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ||७||
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः |
सम्प्रादृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ||८||
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् |
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ||९||
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ |
आमिषादपकृष्टानां सिंहानामिव गर्जताम् ||१०||
तं बलौघमपर्यन्तं राजसागरमक्षयम् |
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ||११||
पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः |
सहदेवो नृणां देवः समापयत कर्म तत् ||१२||
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः |
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ||१३||
स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु साम्प्रतम् |
युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ||१४||
इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः |
यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ||१५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
037-अध्यायः-शिशुपालवधपर्व
वैशम्पायन उवाच||
ततः सागरसङ्काशं दृष्ट्वा नृपतिसागरम् |
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ||१||
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् |
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ||२||
असौ रोषात्प्रचलितो महान्नृपतिसागरः |
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ||३||
यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् |
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ||४||
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे |
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ||५||
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति |
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ||६||
प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः |
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ||७||
वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः |
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य संनिधौ ||८||
न हि सम्बुध्यते तावत्सुप्तः सिंह इवाच्युतः |
तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः ||९||
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः |
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ||१०||
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः |
यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ||११||
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर |
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् ||१२||
आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा |
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ||१३||
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः |
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ||१४||
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः |
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ||१५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
038-अध्यायः
शिशुपाल उवाच||
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् |
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ||१||
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया |
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ||२||
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् |
तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ||३||
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः |
त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ||४||
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः |
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ||५||
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः |
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ||६||
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् |
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ||७||
चेतनारहितं काष्ठं यद्यनेन निपातितम् |
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ||८||
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः |
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ||९||
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि |
इति ते भीष्म शृण्वानाः परं विस्मयमागताः ||१०||
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः |
स चानेन हतः कंस इत्येतन्न महाद्भुतम् ||११||
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् |
यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ||१२||
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च |
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ||१३||
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा |
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ||१४||
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम |
अजानत इवाख्यासि संस्तुवन्कुरुसत्तम ||१५||
गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ||१५||
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः |
सम्भावयति यद्येवं त्वद्वाक्याच्च जनार्दनः ||१६||
एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ||१६||
न गाथा गाथिनं शास्ति बहु चेदपि गायति |
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ||१७||
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः |
अतः पापीयसी चैषां पाण्डवानामपीष्यते ||१८||
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः |
धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ||१९||
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः |
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ||२०||
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना |
अम्बा नामेति भद्रं ते कथं सापहृता त्वया ||२१||
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः |
भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ||२२||
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः |
तव जातान्यपत्यानि सज्जनाचरिते पथि ||२३||
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा |
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ||२४||
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् |
न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् ||२५||
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः |
सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ||२६||
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् |
सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ||२७||
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् |
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ||२८||
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा |
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ||२९||
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा |
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ||३०||
धर्मं चरत माधर्ममिति तस्य वचः किल |
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ||३१||
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः |
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ||३२||
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः |
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ||३३||
तेषामण्डानि सर्वेषां भक्षयामास पापकृत् |
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ||३४||
ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः |
अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ||३५||
ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् |
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ||३६||
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः |
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ||३७||
ते त्वां हंससधर्माणमपीमे वसुधाधिपाः |
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम् ||३८||
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः |
भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत ||३९||
अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् |
अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते ||४०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
039-अध्यायः
शिशुपाल उवाच||
स मे बहुमतो राजा जरासन्धो महाबलः |
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ||१||
केशवेन कृतं यत्तु जरासन्धवधे तदा |
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ||२||
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना |
दृष्टः प्रभावः कृष्णेन जरासन्धस्य धीमतः ||३||
येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता |
नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ||४||
भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः |
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ||५||
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे |
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ||६||
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया |
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ||७||
अथ वा नैतदाश्चर्यं येषां त्वमसि भारत |
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ||८||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु |
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ||९||
तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते |
भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ||१०||
त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः |
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ||११||
दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् |
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ||१२||
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् |
भीष्म एव महाबाहुर्महासेनमिवेश्वरः ||१३||
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत |
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ||१४||
नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः |
समुद्धूतो घनापाये वेलामिव महोदधिः ||१५||
शिशुपालस्तु सङ्क्रुद्धे भीमसेने नराधिप |
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ||१६||
उत्पतन्तं तु वेगेन पुनः पुनररिंदमः |
न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा ||१७||
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् |
भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ||१८||
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः |
मत्प्रतापाग्निनिर्दग्धं पतङ्गमिव वह्निना ||१९||
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः |
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ||२०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
040-अध्यायः
भीष्म उवाच||
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः |
रासभारावसदृशं रुराव च ननाद च ||१||
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ |
वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ||२||
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् |
चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ||३||
एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः |
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ||४||
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः |
मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ||५||
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः |
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ||६||
येनेदमीरितं वाक्यं ममैव तनयं प्रति |
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ||७||
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति |
अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ||८||
येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ |
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ||९||
तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् |
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ||१०||
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् |
धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ||११||
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः |
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ||१२||
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् |
शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ||१३||
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ |
यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ||१४||
अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् |
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ||१५||
अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः |
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ||१६||
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ |
पेततुस्तच्च नयनं निममज्ज ललाटजम् ||१७||
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत |
ददस्व मे वरं कृष्ण भयार्ताया महाभुज ||१८||
त्वं ह्यार्तानां समाश्वासो भीतानामभयङ्करः |
पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ||१९||
ददानि कं वरं किं वा करवाणि पितृष्वसः |
शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ||२०||
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् |
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ||२१||
कृष्ण उवाच||
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः |
पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ||२२||
भीष्म उवाच||
एवमेष नृपः पापः शिशुपालः सुमन्दधीः |
त्वां समाह्वयते वीर गोविन्दवरदर्पितः ||२३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
041-अध्यायः
भीष्म उवाच||
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् |
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ||१||
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः |
क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ||२||
एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् |
तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ||३||
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् |
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ||४||
वैशम्पायन उवाच||
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा |
उवाच चैनं सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ||५||
शिशुपाल उवाच||
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः |
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ||६||
संस्तवाय मनो भीष्म परेषां रमते सदा |
यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ||७||
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् |
जायमानेन येनेयमभवद्दारिता मही ||८||
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले |
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ||९||
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ |
स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ||१०||
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् |
इमां वसुमतीं कुर्यादशेषामिति मे मतिः ||११||
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् |
अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ||१२||
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् |
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ||१३||
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप |
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ||१४||
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः |
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ||१५||
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः |
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ||१६||
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि |
समावेशयसे सर्वं जगत्केवलकाम्यया ||१७||
अथ वैषा न ते भक्तिः पकृतिं याति भारत |
मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ||१८||
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे |
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ||१९||
मा साहसमितीदं सा सततं वाशते किल |
साहसं चात्मनातीव चरन्ती नावबुध्यते ||२०||
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः |
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ||२१||
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् |
तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ||२२||
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् |
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ||२३||
वैशम्पायन उवाच||
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः |
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ||२४||
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् |
योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ||२५||
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुधुर्नृपाः |
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ||२६||
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः |
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ||२७||
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः |
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ||२८||
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः |
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ||२९||
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये |
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ||३०||
पशुवद्घातनं वा मे दहनं वा कटाग्निना |
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ||३१||
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः |
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ||३२||
कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् |
यावदस्यैव देवस्य देहं विशतु पातितः ||३३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
042-अध्यायः
वैशम्पायन उवाच||
ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः |
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ||१||
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन |
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ||२||
सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा |
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ||३||
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् |
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ||४||
इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ||४||
एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः |
उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ||५||
एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः |
सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ||६||
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् |
अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः ||७||
क्रीडतो भोजराजन्यानेष रैवतके गिरौ |
हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ||८||
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् |
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ||९||
सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः |
भार्यामभ्यहरन्मोहादकामां तामितो गताम् ||१०||
एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् |
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ||११||
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् |
दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ||१२||
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् |
कृतानि तु परोक्षं मे यानि तानि निबोधत ||१३||
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् |
अवलेपाद्वधार्हस्य समग्रे राजमण्डले ||१४||
रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः |
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ||१५||
एवमादि ततः सर्वे सहितास्ते नराधिपाः |
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ||१६||
ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् |
जहास स्वनवद्धासं प्रहस्येदमुवाच ह ||१७||
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् |
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ||१८||
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् |
अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन ||१९||
क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम |
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति ||२०||
तथा ब्रुवत एवास्य भगवान्मधुसूदनः |
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ||२१||
स पपात महाबाहुर्वज्राहत इवाचलः ||२१||
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः |
उत्पतन्तं महाराज गगनादिव भास्करम् ||२२||
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् |
ववन्दे तत्तदा तेजो विवेश च नराधिप ||२३||
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः |
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ||२४||
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः |
कृष्णेन निहते चैद्ये चचाल च वसुन्धरा ||२५||
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन |
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ||२६||
हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः |
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||२७||
रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः |
केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् ||२८||
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः |
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ||२९||
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् |
दमघोषात्मजं वीरं संसाधयत मा चिरम् ||३०||
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ||३०||
चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् |
अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ||३१||
ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् |
यूनां प्रीतिकरो राजन्सम्बभौ विपुलौजसः ||३२||
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् |
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ||३३||
समापयामास च तं राजसूयं महाक्रतुम् |
तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः ||३४||
ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ||३४||
ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् |
समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् ||३५||
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो |
आजमीढाजमीढानां यशः संवर्धितं त्वया ||३६||
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ||३६||
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः |
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ||३७||
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः |
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ||३८||
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः |
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः ||३९||
तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ||३९||
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः |
यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ||४०||
विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् |
धनञ्जयो यज्ञसेनं महात्मानं महारथः ||४१||
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः |
द्रोणं च ससुतं वीरं सहदेवो महारथः ||४२||
नकुलः सुबलं राजन्सहपुत्रं समन्वयात् |
द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् ||४३||
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः |
एवं सम्पूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ||४४||
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ |
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ||४५||
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन |
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ||४६||
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् |
तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् ||४७||
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् |
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ||४८||
न वयं त्वामृते वीर रंस्यामेह कथञ्चन |
अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी ||४९||
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् |
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ||५०||
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः |
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ||५१||
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे |
सुभद्रां द्रौपदीं चैव सभाजयत केशवः ||५२||
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् |
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ||५३||
ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् |
योजयित्वा महाराज दारुकः प्रत्युपस्थितः ||५४||
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् |
प्रदक्षिणमुपावृत्य समारुह्य महामनाः ||५५||
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ||५५||
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः |
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ||५६||
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः |
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ||५७||
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते |
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ||५८||
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ||५८||
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ |
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ||५९||
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप |
एको दुर्योधनो राजा शकुनिश्चापि सौबलः ||६०||
तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ ||६०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
043-अध्यायः-द्यूतपर्व
वैशम्पायन उवाच||
वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ |
शनैर्ददर्श तां सर्वां सभां शकुनिना सह ||१||
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः |
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ||२||
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः |
स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ||३||
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः |
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ||४||
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् |
वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ||५||
जले निपतितं दृष्ट्वा किङ्करा जहसुर्भृशम् |
वासांसि च शुभान्यस्मै प्रददू राजशासनात् ||६||
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः |
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ||७||
नामर्षयत्ततस्तेषामवहासममर्षणः |
आकारं रक्षमाणस्तु न स तान्समुदैक्षत ||८||
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् |
आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ||९||
द्वारं च विवृताकारं ललाटेन समाहनत् |
संवृतं चेति मन्वानो द्वारदेशादुपारमत् ||१०||
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते |
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ||११||
अप्रहृष्टेन मनसा राजसूये महाक्रतौ |
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ||१२||
पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः |
दुर्योधनस्य नृपतेः पापा मतिरजायत ||१३||
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् |
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ||१४||
महिमानं परं चापि पाण्डवानां महात्मनाम् |
दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ||१५||
स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् |
श्रियं च तामनुपमां धर्मराजस्य धीमतः ||१६||
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा |
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ||१७||
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत |
दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ||१८||
दुर्योधन उवाच||
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् |
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ||१९||
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल |
यथा शक्रस्य देवेषु तथाभूतं महाद्युते ||२०||
अमर्षेण सुसम्पूर्णो दह्यमानो दिवानिशम् |
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ||२१||
पश्य सात्वतमुख्येन शिशुपालं निपातितम् |
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ||२२||
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना |
क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ||२३||
वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् |
सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ||२४||
तथा हि रत्नान्यादाय विविधानि नृपा नृपम् |
उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ||२५||
श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे |
अमर्षवशमापन्नो दह्येऽहमतथोचितः ||२६||
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् |
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ||२७||
को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् |
सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ||२८||
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि |
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ||२९||
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् |
यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत् ||३०||
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् |
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ||३१||
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् |
दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ||३२||
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल |
तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ||३३||
तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् |
धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ||३४||
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् |
रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ||३५||
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् |
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ||३६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
044-अध्यायः
शकुनिरुवाच||
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् |
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ||१||
अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् |
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ||२||
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह |
सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ||३||
लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते |
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ||४||
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी |
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ||५||
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः |
कृता वशे महीपालास्तत्र का परिदेवना ||६||
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् |
सभां तां कारयामास सव्यसाची परन्तपः ||७||
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः |
वहन्ति तां सभां भीमास्तत्र का परिदेवना ||८||
यच्चासहायतां राजन्नुक्तवानसि भारत |
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ||९||
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता |
सूतपुत्रश्च राधेयो गौतमश्च महारथः ||१०||
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् |
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुन्धराम् ||११||
दुर्योधन उवाच||
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः |
एतानेव विजेष्यामि यदि त्वमनुमन्यसे ||१२||
एतेषु विजितेष्वद्य भविष्यति मही मम |
सर्वे च पृथिवीपालाः सभा सा च महाधना ||१३||
शकुनिरुवाच||
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः |
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ||१४||
नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि |
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ||१५||
अहं तु तद्विजानामि विजेतुं येन शक्यते |
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ||१६||
दुर्योधन उवाच||
अप्रमादेन सुहृदामन्येषां च महात्मनाम् |
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ||१७||
शकुनिरुवाच||
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् |
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ||१८||
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि |
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ||१९||
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् |
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ||२०||
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय |
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ||२१||
दुर्योधन उवाच||
त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल |
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ||२२||
श्रीमहाभारतम्
||२ सभापर्वम् ||
045-अध्यायः
वैशम्पायन उवाच||
अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् |
युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ||१||
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् |
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ||२||
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् |
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ||३||
दुर्योधनो महाराज विवर्णो हरिणः कृशः |
दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ||४||
न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम् |
ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ||५||
धृतराष्ट्र उवाच||
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक |
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ||६||
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् |
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ||७||
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् |
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ||८||
आच्छादयसि प्रावारानश्नासि पिशितौदनम् |
आजानेया वहन्ति त्वां केनासि हरिणः कृशः ||९||
शयनानि महार्हाणि योषितश्च मनोरमाः |
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ||१०||
देवानामिव ते सर्वं वाचि बद्धं न संशयः |
स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक ||११||
दुर्योधन उवाच||
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा |
अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ||१२||
अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः |
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ||१३||
सन्तोषो वै श्रियं हन्ति अभिमानश्च भारत |
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ||१४||
न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे |
ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ||१५||
सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च |
अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् ||१६||
तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ||१६||
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः |
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ||१७||
दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् |
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ||१८||
कदलीमृगमोकानि कृष्णश्यामारुणानि च |
काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ||१९||
रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः |
त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ||२०||
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते |
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ||२१||
न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः |
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ||२२||
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप |
शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ||२३||
ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः |
त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ||२४||
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् |
एवं बलिं समादाय प्रवेशं लेभिरे ततः ||२५||
यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः |
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ||२६||
शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् |
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ||२७||
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ |
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ||२८||
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः |
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ||२९||
पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् |
स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो ध्मायति नित्यशः ||३०||
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत |
उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ||३१||
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः |
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ||३२||
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः |
वैश्या इव महीपाला द्विजातिपरिवेषकाः ||३३||
न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा |
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ||३४||
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् |
शान्तिं न परिगच्छामि दह्यमानेन चेतसा ||३५||
शकुनिरुवाच||
यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे |
तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ||३६||
अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत |
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ||३७||
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् |
आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ||३८||
वैशम्पायन उवाच||
एवमुक्तः शकुनिना राजा दुर्योधनस्तदा |
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ||३९||
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् |
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ||४०||
धृतराष्ट्र उवाच||
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने |
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ||४१||
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् |
उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ||४२||
दुर्योधन उवाच||
निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति |
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ||४३||
स मयि त्वं मृते राजन्विदुरेण सुखी भव |
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ||४४||
वैशम्पायन उवाच||
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः |
धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ||४५||
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम |
मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ||४६||
ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः |
सुकृतां सुप्रवेशां च निवेदयत मे शनैः ||४७||
दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः |
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ||४८||
अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः |
द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ||४९||
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् |
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ||५०||
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् |
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ||५१||
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो |
पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ||५२||
धृतराष्ट्र उवाच||
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति |
दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ||५३||
अशुभं वा शुभं वापि हितं वा यदि वाहितम् |
प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ||५४||
मयि संनिहिते चैव भीष्मे च भरतर्षभे |
अनयो दैवविहितो न कथञ्चिद्भविष्यति ||५५||
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे |
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ||५६||
न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते |
दैवमेव परं मन्ये येनैतदुपपद्यते ||५७||
इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् |
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ||५८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
046-अध्यायः
जनमेजय उवाच||
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् |
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ||१||
के च तत्र सभास्तारा राजानो ब्रह्मवित्तम |
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ||२||
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज |
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ||३||
सूत उवाच||
एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् |
आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ||४||
वैशम्पायन उवाच||
शृणु मे विस्तरेणेमां कथां भरतसत्तम |
भूय एव महाराज यदि ते श्रवणे मतिः ||५||
विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः |
दुर्योधनमिदं वाक्यमुवाच विजने पुनः ||६||
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति |
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ||७||
हितं हि परमं मन्ये विदुरो यत्प्रभाषते |
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ||८||
देवर्षिर्वासवगुरुर्देवराजाय धीमते |
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ||९||
तद्वेद विदुरः सर्वं सरहस्यं महाकविः |
स्थितश्च वचने तस्य सदाहमपि पुत्रक ||१०||
विदुरो वापि मेधावी कुरूणां प्रवरो मतः |
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ||११||
द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते |
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ||१२||
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् |
प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ||१३||
अधीतवान्कृती शास्त्रे लालितः सततं गृहे |
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ||१४||
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् |
तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ||१५||
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् |
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ||१६||
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् |
समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ||१७||
दुर्योधन उवाच||
अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः |
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ||१८||
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो |
ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ||१९||
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् |
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ||२०||
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः |
कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ||२१||
हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा |
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ||२२||
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते |
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ||२३||
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् |
नादृश्यत परः प्रान्तो नापरस्तत्र भारत ||२४||
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः |
प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ||२५||
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् |
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ||२६||
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः |
शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ||२७||
तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् |
सपत्नेनावहासो हि स मां दहति भारत ||२८||
पुनश्च तादृशीमेव वापीं जलजशालिनीम् |
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ||२९||
तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् |
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ||३०||
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः |
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ||३१||
प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप |
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ||३२||
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ||३२||
तत्र मां यमजौ दूरादालोक्य ललितौ किल |
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ||३३||
उवाच सहदेवस्तु तत्र मां विस्मयन्निव |
इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ||३४||
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे |
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ||३५||