॥श्रीः॥
श्रीमते रामानुजाय नमः
जीवपरिच्छेदः
श्रीन्यायसिद्धाञ्जने द्वितीयो जीवपरिच्छेदः ॥
*जीवस्य लक्षणम् देहव्यतिरेकश्च*
अथ जीवः । अल्पपरिमाणत्वे सति ज्ञातृत्वम्, शेषत्वे सति ज्ञातृत्वम्, इत्यादि तल्लक्षणम् । स तावत् न देहः; प्रत्येकसमुदायचैतन्यादिविकल्पा-नुपपत्तेः, शरीरभेद इव अभिप्रायभेदप्रसङ्गात्, ममेति व्यतिरेकप्रत्ययात् सङ्घातत्वादिहेतुभिश्च । अवयविनश्च दूषितत्वात् । सिद्धावपि तद्गुणस्य कारणगुणपूर्वकत्वप्रसङ्गात् । पाकजगुणवत् परिणामविशेषाभ्युपगमेऽपि प्रत्यवयवम् चैतन्यप्रसङ्गो दुष्परिहरः । अत एव *तेभ्यः चैतन्यम् किण्वादिभ्यो मदशक्तिवत्* इति प्रलापो निरस्तः । सङ्घातदशायाम् प्रत्यवयवम् मदशक्तेः, रसविशेषादिवत् । अस्तु तर्हि भूतावयवविशेषः शीघ्रसञ्चारी स्थयी वा ज्ञातेति चेत्; प्रकारान्तरेण अयम् अभ्युपगतः वैदिकः पक्षः । देहाख्यपिण्डातिरेके सिद्धे अनित्य-त्वादिवादस्य अयत्नवार्यत्वात् । आगमेनैव अस्य देहव्यतिरेकसिद्धिरित्येके; यथोक्तमात्मसिद्धौ *आनुमानिकीमपि आत्मसिद्धिमश्रद्दधानाः श्रौतीमेव ताम् श्रोत्रियाः सङ्गिरन्ते* इति ॥
*जीवस्य बाह्येन्द्रियव्यतिरेकः*
न चा सौ बाह्येन्द्रियाणि; तेषाम् बहुत्वात् प्रतिनियमविषयत्वाच्च परस्परानुभूतार्थप्रतिसन्धानपरस्पराविवादानियमानुपपत्तेः । न च तेषु अन्यतमः, नियामकाभावात् । न च तत्समुदायः, समुदायोऽहमिति प्रत्ययाभावात्, अन्ततः समुदायिषु पर्यवसानाच्च । यच्च स्वप्नदशायाम् उपरतबाह्येन्द्रियस्य च व्याघ्रादिरूपात्मदर्शनम्, तदपि बाह्येन्द्रियवर्गात् देहाच्च आत्मनोभेदम् व्यनक्ति । अतः इन्द्रियेषु शरीरे च सकले विकले च सकलोऽहम् विकलोऽहमित्यादिबोधो भ्रमात्, तद्वैशिष्ट्याविवक्षया वा ॥
*जीवस्य मनःप्राणव्यतिरेकः*
नापि मनः, कर्तुरात्मनः करणतयैव श्रुतेः अनुमानतो वा तत्सिद्धेः; आहङ्कारिकत्वश्रवणाच्च । नापि प्राणाः, तेष्वपि देहोक्तयुक्तिसाम्यात् ।
*जीवस्य प्रसिद्धज्ञानव्यतिरेकः*
नापि धीः । ज्ञातृधर्मतया नश्वरतया च स्फुरणात् स एवाहमिति प्रति- सन्धानानुपपत्तेः । न चेदम् प्रतिसन्धानम् भ्रान्तिः; अबाधात् । क्षणभङ्ग-हेतूनाम् प्रागेव निरस्तत्वात् । भ्रान्तिरूपम् वा आत्मप्रतिसन्धानम्, विषय-प्रत्यभिज्ञानम्, स्मृतिमात्रम् च सम्स्काराधारम् स्थिरमात्मानमन्तरेण कथञ्चिदपि न घटते ।
ततश्च उपायानुष्ठानतत्फलानुभवादयोऽपि दुरुपपादाः । यत्पुनराहुः –
*यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलम् तत्रैव बध्नाति कार्पासे रक्तता यथा॥* इति
तदपि असत् । तत्र वासनाधारस्थिरावयवानुवृत्तेः । निरन्वयविनाशिषु जगति सर्वक्षणेषु सन्तानैक्यभेदादयोऽपि दुर्वचाः । नष्टम् सर्वम् क्षणम् प्रति जायमानस्य सर्वस्यापि क्षणस्य उत्तरत्वाविशेषात् । देशविशेषस्यापि क्षणिकत्वेन तदैक्यासिद्धेः । अत एव चित्तविज्ञानालयविज्ञानसन्तानभेदोऽपि निरस्तः । ज्ञानमात्रात्मवादे च प्रागुक्तप्रतिसन्धानाद्यनुपपत्तिभिः सन्तानैश्च ग्रहीतुरभावाच्च न सन्तानसिद्धिः । अतो यच्चाहुः –
*अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसम्वित्तिभेदवानिव लक्ष्यते॥* इति ।
तच्च तेषामेव विपर्यासितदर्शनत्वफलम् ।
*अद्वैतवेदान्तिसम्मतस्य ज्ञानात्मवादस्य निरासः*
एतेन बौद्धगन्धिवेदान्तिनामपि सिद्धान्तोऽपक्रान्तः । केवलज्ञप्तेरह-म्प्रत्ययाविषयत्वात् स्थिरत्वाभ्युपगमेऽपि, अनुभवितृसापेक्षत्वात् भ्रान्तिरूपस्यापि प्रतिसन्धानादेः ज्ञातृत्वस्यापि भ्रान्त्यन्तरसिद्धत्वे अनवस्थानात् । न चासौ कारणानविस्थितिरिति न दोषः । दोषाधिष्ठानयोरपि तथा भूतयोरेव सर्वत्र सम्भवेन अविद्यानादित्वाधिष्ठानसत्यत्वयोरपि परित्यागप्रसङ्गात् ।
यत्तु त एव साङ्ख्यैः सम्भूय आहुः । दर्पणमुखवत्, अयःपिण्डौष्ण्यवत्, करतलरविकरवच्च, चिच्छायापत्तितत्सम्पर्कतद्व्यञ्जकत्वाधीन-तदाश्रयत्वभ्रमात् अन्तःकरणस्य ज्ञातृत्वमिति ।
तत्र यथाश्रुतविवक्षायाम् कथमचाक्षुषयोर्बिम्बाधिकरणयोश्छायापत्तिः? अध्यासमात्रे तदुपचार इति चेत्; कुत्र? कस्य? अन्तःकरणे चैतन्यस्येति चेत्; तर्हि चैतन्यमेव मिथ्या स्यात्; अध्यस्तत्वात् तदनधिकरणचैतन्यस्य-स्वपुष्पपरिमळायमानत्वात् । चैतन्ये अन्तःकरणस्येति चेत्; तर्हि ज्ञानस्य अन्तःकरणाश्रयताभ्रमः स्यात् ; न तु अन्तःकरणस्य ज्ञातृत्वभ्रमः । न च एतादृशः कश्चित् भ्रमो दृश्यते । कथञ्च सम्पर्के सत्यपि द्वयोर्ज्ञातृत्वमौष्ण्यवत् तात्विकमनभ्युपगच्छतस्तद- ध्यासः? धर्मधर्मिभावस्य लोके दृष्टत्वात्, इह तदध्यासात् ज्ञातृत्वभ्रम इति चेत्; कुत्र धर्मत्वाध्यासः? कुत्र वा धर्मित्वाध्यासः? इति नियामकाभावात् वैपरीत्यमपि स्यात् । क्वचित् धर्मिभेदाग्रहः कचित् धर्मभेदाग्रह इति तौ नियामकाविति चेन्न ; ज्ञप्तेः स्वयम्प्रकाशायाः स्वरूपातिरिक्तागृहीत-भेदानभ्युपगमात् । अभ्युपगमे वा सधर्मत्वापातात् । भेदाग्रहायोगादेव अहङ्काराभिव्यङ्ग्यत्वमपि निरस्तम् । यथाहु – र्भगवद्यामुनमुनयः
*आन्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।
स्वयञ्ज्योतिशमात्मानम् व्यनक्तीति न युक्तिमत् ॥
व्यङ्कृव्यङ्ग्यत्वमन्योऽन्यम् न च स्यात् प्रातिकूल्यतः ।
व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ॥* इति ।
अतः सिद्धमात्मैव ज्ञाता अहम्प्रत्ययविषय इति ।
आत्मनोऽहमर्थत्वस्थिरत्वयोः समर्थनम्
किञ्च
प्रत्यक्त्वादुपलम्भतो मम सुखम् भावीति मोक्षेच्छया ।
मुक्तब्रह्ममुमुक्षुवेदवचसा सुप्तोऽहमित्युक्तितः ।
माम् नाज्ञासिषमित्यपि स्ववपुराद्यज्ञानमात्राश्रयात्
स्वापप्राच्यनिजक्रियास्मरणतोऽप्यात्माहमर्थः स्थिरः ॥
आत्मनोऽहमर्थत्वज्ञातृत्वकर्तृत्वादिण्डकयुक्तीनाम्
निराकरणम्
आत्मनोऽहम्प्रत्ययगोचरत्वप्रतिक्षेपकाणि आत्मत्वाजडत्व निर्विकारत्वा-दीनि प्रत्यक्षागमबाधात् असाधारणानैकान्तिकत्वाच्च निरस्तानि । एवम् ज्ञातृत्वकर्तृत्वप्रतिक्षेपकेष्वपि भाव्यम् । एवम् कर्तृत्वज्ञातृत्वादिकम् नात्म-धर्मो धर्मत्वात् दृश्यत्वात् इत्यादिकमपि बाधकबलात्, विपक्षे बाधकाभावा-च्च दुःस्थम् । नाहङ्कारधर्म इति प्रयुज्यमाने का गतिर्देवानाम्प्रियस्य? अविद्येति चेत् ; सत्यमविद्यैव अनाविद्यकर्तृत्वस्य क्वचिदपि अनभ्युपगमात् । आविद्यस्यापि निषेधे तद्विधानविरोधात् ॥
*आत्मनो ज्ञातृत्व कर्तृत्वादीनाम्
प्रमाणैः साधनम्*
ज्ञातृत्वञ्च अस्य स्वाभाविकाकार इति *ज्ञोत एव* इत्यधिकरणे श्रुति-भिरुपपादितम् । भोक्तृत्वहेतुभूतम् कर्तृत्वम् भोक्तुर्जीवस्यैव । तच्च सामान्यतः परमपुरुषहेतुकमिति *कर्ता शास्त्रार्थवत्वात् । परात्तु तच्छ्रुतेः* इत्यधिकरणे प्रपञ्चितम् ।
*जीवात्मनः स्वयम्प्रकाशत्वनित्यत्वनानात्वा-
णुत्वादीनाम् साधनम् *
अस्य स्वयम्प्रकाशत्वनित्यत्वनानात्वाणुत्वादीनि श्रुत्युपपत्तिभ्यात्वा सिद्धानि । स्वस्यच अस्य स्वयम्प्रकाशत्वम् । परस्य तु तज्ज्ञान विषयतयैव प्रकाशते । स्वस्यापि प्रमाणान्तरावसेयाणुत्वशेषत्वनियाम्यत्वनित्यत्वादि-विशिष्टरूपेण ज्ञान विषयत्वमस्त्येव । अहमिति प्रत्यैत्क्वैकत्वविशिष्टतया तु स्वप्रकाशता सर्वदा । योगदशायाम् तु यथावस्थितापूर्वाकारविशिष्टतया यौगिकप्रत्यक्षेण साक्षात्क्रियते । तदिदमुक्तमात्मसिद्धौ
*एवमात्मा स्वतः सिध्यन् आगमेनानुमानतः ।
योगाभ्यासभुवा स्पष्टम् प्रत्यक्षेण प्रकाशते॥* इति ।
तदेवम् ज्ञातृत्वादिरूपभेदात् मातृमेयमानरूपोऽयमात्मा । उक्तम् प्रज्ञा-परित्राणे वरदनारायणभट्टारकैः –
*प्रमाता च प्रमेयञ्च प्रमाणञ्च भवेत्पुमान् ।
प्रमा मेया च धीरेव मेया एव घटादयः ॥* इति ।
स्वयम्प्रकाशत्वादौ श्रुतिः सुप्रसिद्धा । यद्यपि *सत्यम् ज्ञानम्* इत्यत्र अन्तोदात्तत्वबलात् ज्ञानकर्तृत्वार्थकत्वमङ्गीकार्यम्, यद्यपि *विज्ञानघनः* इत्यत्ररसघनदृष्टान्तस्वारस्यात् ज्ञान व्याप्तत्वम् विवक्षितम्, यद्यपि *विज्ञानम् यज्ञम् तनुते* इत्यादिषु तद्गुणसारस्वात्तु तद्व्यपदेशः प्राज्ञवत्, तथापि *एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः* इत्यत्र विज्ञानात्मशब्दस्वारस्यात् विशेषतस्सामान्यतश्च प्रपञ्चितस्य ज्ञातृत्वस्य पुनर्वचने प्रयोजनाभावाच्च ज्ञानस्वरूप-त्वम् सिद्धम् । तथा च *अत्रायम् पुरुषः स्वयञ्ज्योतिर्भवति, कतम आत्मा ? योऽयम् विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः* इत्यादिभिश्च स्वयम्प्रकाशत्वम् स्वरससिद्धमङ्गीकार्यम् । अनुमितिस्तु आत्मा स्वयम्प्रकाशः ; ज्ञानत्वात् धर्मभूतज्ञानवत् इति श्रीविष्णुचित्तैरुक्तम् । अधीकर्मतया प्रकाशमानत्वज्ञानात्मसम्बन्धप्रतिसन्धित्वादीनि परम् अबाधितानि विष्णुमिश्रोक्तानि ॥
स्वस्यैव भासको दीपः स्वात्मनोऽन्यस्य च प्रभा ।
एवम् भेदोऽस्ति साम्येऽपि ज्ञानयोर्धर्मधर्मिणोः ॥ २९ ॥
प्रत्यक्स्वयम्प्रभसुखे नित्यम् पुम्सि व्यवस्थिते ।
अस्वाप्सम् सुखमित्यादौ कालाद्यम्शेऽनुमास्थितिः ॥
अगायम् मधुरम् मन्दमगामित्येवमादिषु ।
माधुर्यादिवदत्रापि सुखम् भाति तदातनम् ॥ ३१ ॥
ज्ञानस्य सम्बन्धिशब्दतया व्युत्पत्तिमात्रम् । प्रवृत्तिनिमित्तम् तु कस्यचित् व्यवहारानुगुण्ये निरपेक्षहेतुत्वम् । तदेव स्वस्येति निरूपितम् स्वयम्प्रकाश-त्वमिति न साध्यविशेषोऽपि । विषयताश्रय वैशिष्ट्यनिर्बन्धो धर्मभूतज्ञाने । धर्मिज्ञानस्यापि विशिष्टत्वात् परमतादतिरेकः।
अस्य तु अविनाशित्वे युक्तयः *अविनाशि तु तद्विद्धि येन सर्वमिदम् ततम्* इत्यादिना भगपद्गीतायामुक्ताः । व्यञ्जिताश्च तद्भाष्ये । अनित्य-त्वेऽस्य अकृताभ्यागमकृतविप्रणाशादिप्रसङ्गश्च ॥
अणुश्चासौ; श्रुतेः, स्वयम्प्रकाशस्य हृत्प्रदेशावच्छिन्नोपलम्भस्वार-स्याच्च । युगपदखिलभुवनेषु अदृष्टद्वारा तत्कार्यसिद्धये विभुत्वकल्पन-मयुक्तम्; ईश्वरप्रीतिकोपयोरेव अदृष्टत्वात्, तदाधारस्य च ईश्वरस्य विभुत्वात्, जीवस्यावि विभुत्वे बाधकाभावात्, विभुत्वे च उपलम्भाद्यस्वारस्याच्च । इन्द्रियवत् शरीरप्रत्युप्तागमनेनैव तत्रतत्र ज्ञानसुखाद्युपपत्तेः । आत्मगमनम् तु उपलम्भश्रुत्याद्यनुकूलम्, विभुत्वकल्पनम् तु न तथेति लाघवमिच्छताम् तदेव फलितम् । उक्तञ्च आत्मसिद्धौ प्राणात्मवादनिराकरणे *अविभो-रात्मनः स्पर्शविरहिणोऽपि प्रयत्नादृष्टप्रेरणानुगुण्येन मनस इव उत्क्रान्ति-गत्यागतयो युज्यन्ते* इति । तथा तत्रैव चैतन्यप्रसरणचोद्यपरिहारयोरपि *गुणिनमपहाय* इत्यादिना अणुत्वम् व्यक्तम् । श्रुतिस्मृत्यादिषु सर्वगतत्वादिव्यपदेशास्तु समुदायापेक्षया धर्मभूतज्ञानद्वारा सूक्ष्मानु-प्रवेशक्षमतया वा तत्रतत्र यथोचितम् निर्वाह्याः । *नित्यो व्यापी* इत्यात्मसिद्धिवचने व्यापिपदमपि *अतिसूक्ष्मतया सर्वाचेतनान्तःप्रवेश-स्वभावः* इति भाष्ये व्याख्यातम् । *उत्क्रान्तिगत्यागतीनाम्* इत्यादि-भिश्च सूत्रकारैरेव अणुत्वम् समर्थितम् । हृत्प्रदेशस्थितस्यैव जीवस्य ज्ञान-द्वारा नानाधिष्टानोपपत्तिः । एवमेव योगिप्रभृतीनाम् नानादेहाधिष्टानम् घटते । न ततो विभुत्वक्लृप्तिः । तदेतदखिलमभिप्रेत्य सूत्रितम् *गुणाद्वाऽऽलोकवत्* इति, मुक्तनिरूपणे च *प्रदीपवदावेशस्तथाहि दर्शयति* इति । एतेन देहात्मा-भिमानमनुसरतामार्हतानाम् देहानुरूपविविधपरिमाणत्व कल्पनमपि भनग्म् । *एव़ञ्चात्माकार्त्स्न्यम्, न च पर्यायादप्यविरोधो विकारादिभ्यः, अन्त्या-स्थितेश्चोभयनित्यत्वादविशेषः* इति सूत्रैश्च तन्निरस्तम् ।
वरदविष्णुमिश्रैस्तु *सम्सारदशायाम् स्वरूपज्ञानयोः स़ङ्कोचादणु-परिमाणमात्मस्वरूपम् । मोक्षदशायाम् तु सर्वगतम् सर्वव्यापि, ज्ञानञ्च विस्तीर्णतया प्रकाशते ।
अयमर्थः
*वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्प्यते ॥*
इति श्रुत्या अवगम्यते । तदाह भगवान्पराशरः *विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा* इति इत्यादिना जीवस्यापि सङ्कोचविकासयोगि-त्वमुक्तम्; अयमेवार्थो *नित्यो व्यापी* इत्यात्मसिद्धिवचनमुपादाय मानयाथात्म्यनिर्णये प्रपञ्चितः तदेतत् सूत्रादिविरोधात् वैभववचनम् ।
यत्तु श्रीमद्गीताभाष्ये *अनादिमत्परम् ब्रह्म* इति व्याख्याने *ब्रह्म बृहत्त्वगुणयोगि शरीरादर्थान्तरभूतम् स्वतश्शरीरादिभिः परिच्छेदरहितम् क्षेत्रज्ञतत्वमित्यर्थः *स चानन्त्याय कल्पते* इति श्रुतेः । शरीरपरिच्छिन्न-त्वञ्च अस्य कर्म-कृतम् । कर्मबन्धान्मुक्तस्यानन्त्यम्* इत्युक्तम्, यच्च *लोके सर्वमावृत्य तिष्टति* इत्यत्र लोके यद्वस्तुजातम् तत्सर्वमावृत्य व्याप्य तिष्ठति परिशुद्धस्वरूपम् देहादिपरिच्छेदरहिततया सर्वगमित्यर्थः* इत्युक्तम्, यच्च *अचरञ्चरमेवच* इत्यत्र *स्वभावतोऽचरम् चरञ्च देहित्वे” इत्युक्तम्, एवम् प्रकरणान्तरेष्वपि *अनवच्छिन्नम् ज्ञानैकाकारम्* इत्युक्तम्, तदखिलम् ज्ञानव्याप्त्यादितत्परमेवेति मन्तव्यम् । सारभाष्यादिषु *स चानत्याय कल्पते* इत्यादेस्तथैव व्याख्यानात् । दीपे तु *प्रदीपवदावे-शस्तथाहि दर्शयति* इति सूत्रे वालाग्रश्रुतिमुपादाय *प्रत्यगात्मनोऽणुत्वमेव स्वरूपमिति सूत्रकारमतम् । *नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्* इति साभिसन्धिकमुक्तत्वाच्च । अतः सदा अणुरेव जीव इति सूत्रभाष्यकारा-दिनाम् सिद्धान्तः ॥
*जीवानाम् ईश्वरात् परस्परम् च भिन्नत्वस्य निरूपणम्*
स चायमात्मा सौभर्यादिक्षेत्रज्ञव्यतिरिक्तेषु प्रतिक्षेत्रम् भिन्नः; स्मृत्य-नुभवसुखदुःख करणप्रयत्नादिप्रतिनियमात् । उक्तम् हि न्यायसूत्रे *नानात्मानो व्यवस्थातः* इति । साङ्ख्यैरप्युक्तम् ।
*जननमरणकरणानाम् प्रतिनियमादयुगत्प्रवृत्तेश्च ।
पुरुषबहुत्वम् सिद्धम् त्रैगुण्यविपर्ययाच्चैव॥* इति ।
जीवाद्वैतवचनानि तु प्रकारैक्यविषयाणि । प्रकारैक्येऽपि हि एकादिशब्दाः प्रयुज्यन्ते यथा अयमयञ्च एको व्रीहिरिति । *रामसुग्रीवयोरैक्यम्* इत्यादि च भाव्यम् । ततश्चायम् सङ्ग्रहः –
अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः ।
एकोक्तिरपृथक्सिद्धेर्देशकालदशादिभिः ॥
साम्यञ्च सर्वजीवानाम् स्वरूपतः, मुख्यावस्थायाम् गुणतोऽपि चेति श्रुतिस्मृत्यादिसिद्धम् । तत्र जीवभेदनिषेधवचनान्यपि प्रामाणिक स्वरूप भेदव्यतिरिक्तदेहात्माभिमाननिबन्धनदेवत्वादिभेदनिषेधपराणि । कण्ठोक्तेन च देवत्वादिनिषेधेन तेषामैकार्थ्यमुचितम् ।
किञ्च निर्विशेषात्मैक्यवादि-नोऽपि बन्धमोक्षयोरविशेषः प्रसज्यते । तत्त्वत इदानीमपि निरस्ताविद्यत्वात्, अतत्त्वतस्तदानीमपि तद्व्यवहारो-पपत्तेः । व्यपदिश्यते हि शुकादिषु मुक्तेष्वपि हि जगति सम्सारः ॥
किञ्च
भ्रान्त्या सर्वभ्रमोच्छेदे नोच्छेदस्तत्त्वतो भवेत् ।
प्रमयात्त्वपसिद्धान्ताद्वैतभङ्गादिसम्भवः ॥ विस्तरेण च परस्तात् दूषयिष्यामः ।
भास्करमते तु नित्यसर्वज्ञस्य उपाधियोग एव परिहास्यः । उपाधिभिश्छेदनाद्ययोगेन ब्रह्मण एव सम्सारि-त्वानपायः । उपाधिसञ्चारे प्रतिक्षणम् बन्धमोक्षप्रसङ्गः । सौभर्यादिवत् उपाधिभेदेऽपि प्रतिसन्धानस्य दुस्त्यजत्वात् । छेदाम्युपगमे च अच्छेद्यवादविरोधः ।
एवम् सकलपदार्थभिन्नाभिन्नसच्चिद्ब्रह्मवादोऽपि दूष्यः । बद्धस्यापि प्रलये मुक्ताविशेषसदापत्त्यभिधानात् । मुक्तस्यापि सर्वज्ञस्य सृष्टौ सर्वहेयतादात्म्यानुसन्धानेन अनन्तसम्सारयोगात् । अतो बन्धमोक्षाविशेष एव । अस्माकमविद्यानिवृत्तिर्नाम भावान्तरम् भविष्यत्येव । तच्च धीविशेषविकासादिरूपम् । प्रीयमाणपरमपुरुषपरिग्रहविशेषादिश्च । परेषाम् तु निखिलमिदमाविलमिति ।
*ब्रह्म वेद ब्रह्मैव भवति* इत्यादिकमित्थमेव ब्रह्मतादात्म्यापरोक्ष्यकृतम् । मुक्तब्रह्मणोस्तादात्म्यम् शरीरशरीरिभावात् । तदापरोक्ष्यञ्च शाश्वतमेव; तदपरोक्षधियो यावदात्मभावित्वात् । न्यायसुदर्शने तु उक्तम् *एव*शब्दः साम्यवाची, *साम्ये चैव क्वचिच्छब्दः* इति निघण्टूक्तेः । *वैष्णवम् वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकानभि-जयति* इति साम्ये श्रौतप्रयोगदर्शनाच्च । विष्णुरेव विष्णुरिवेत्यर्थः । न हि अत्र विष्णुरेव भवतीति विवक्षितम् । स्पर्धमानस्य पशुयागेन तदयोगात् । ऐहिकफलम् हि शत्रुजयादि* इत्यादि ।
भाष्यञ्च गौणतामेवाह *प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव; यथा सेयत्व गौः* इति । मुख्य एव मुख्यप्राय इत्यर्थः । सेयत्व गौरिति तु व्यक्तिद्वयैकरूप्यव्यपदेशः । अतः सिद्धत्व ईश्वरात् परस्परञ्च भिन्ना जीवा इति ॥
*जीवविभागः क्रमः*
स्वतस्सुखी च अयमात्मा । उपाधिवशात् सम्सरति। स द्विधा – सम्सारी असम्सारी चेति । पुण्यपापादिमान् पूर्वः । तच्छून्य इतरः । पूर्वाऽपि द्विधा – नित्यसम्सारी भाविसम्सारविरहश्चेति । तत्र इतः पूर्वमनन्तकल्पेष्विव परस्तादपि हेत्वनागमनात् सम्सारविच्छेदसम्भवात् पूर्वः । मानम् तु लीलाविभूतिनित्यत्वोक्तिः । *क्षिपाम्यजस्रम्, न क्षमामि कदाचन* इत्यादिकमपि तदुत्तम्भकम् । केचित्तु *विलम्भातिरेकपराणि तानि; न तु कस्यचिदपि नित्यः सम्सारः । अविरुद्धयोरसम्सर्गस्य कालविप्रकर्षनियमेन व्याप्तेः । अन्यथा मोक्षसाधने *स किमहम्?* इति सन्देहात् अप्रवृत्ति- प्रसङ्गात्* इति वर्णयन्ति । इतःपूर्वमनागतैतच्छरीराद्युपनिपातवत्, तद्धेतूपनिपातात् भविसम्सारविरहोपपत्तिः । प्रमाणञ्च ब्रह्मविदो मोक्ष-वचनानि ।
एते च सम्सारिणः कर्मपाशप्रग्रथिता ब्रह्माण्डकुहरपरि-वर्तमानकालघटीयन्त्रकुण्डिकायमानाः तस्मिन् क्षीयमाणाः पूर्यमाणाश्च सन्तः परिभ्रमन्ति । तत्र पुण्यकृतो धूमरात्र्यपरपक्षदक्षिणायनषण्मास-पितृलोकाकाशचन्द्रक्रमेण स्वर्गलोकमधिरोहन्ति । अवरोहन्ति च चन्द्रम-सस्स्थानात् आकाशवायुधूमाभ्रमेघादिक्रमेण । तत्र श्रद्धासोमवर्षान्नरेतोम-यीनामाहुतीनाम् विद्युत्पर्जन्यपृथिवीपुरुषयोषितः स्थानानि । प्रायिकी च पञ्चमाहुत्यपेक्षा; द्रौपदीधृष्टद्युम्नप्रभृतिषु अदर्शनात् । एवमपुण्य-कृतामपि स्वेदजादिशरीरेषु पञ्माहुत्यभावात् चन्द्रप्राप्त्यभावाच्च । तेषामतिघोरा निरयसरणिः, निरयदुःखानुभूतिश्च पुराणादिषु प्रपञ्चिता स्मर्यमाणापि कलेबरम् कदम्बगोलायति ।
द्वितीयोऽपि द्विधा – सम्सारा-त्यन्ताभाववान् प्रध्वस्तसम्सारश्चेति । तत्र कदाचिदपि सम्सारहेत्वभावात्, पूर्वस्य ईश्वरवत् नित्यसूरेस्तद-त्यन्ताभावः । उत्तरस्तु उपपादितो मुक्त एव । अनादावपि काले प्रतिदिवसम् सहस्रपुरुषमोक्षेऽपि न सम्सारात्यन्तविलयः । अस्यानन्तस्य एवम् स्वभावत्वात् । उक्तञ्च वेदार्थसङ्ग्रहे *ब्रह्मज्ञान पक्षादपि पापीयानयम् भेदाभेदपक्षः । अपरिमितदुःखस्य पारमार्थिकत्वात् सम्सारिणामनन्तत्वेन दुस्तरत्वाच्च* इति । अनन्तपयोनिधौ पयोबिन्दु-सन्निपातवत् सम्सारिवर्गे पूर्वमुक्तेषु पश्चान्मुक्तानामनुप्रवेशः । अनन्तेष्वपि सम्सार्यसम्सारिषु एकपादत्वत्रिपादत्वतारतम्यमापेक्षिकम् । तथा च मुहूर्तायामाहोरात्र-कल्पादिषु द्रव्यपार्थिवघटादिषु च दृष्टमेव । अत एव नित्यानाम् समस्तबद्धमुक्तापेक्षयापि अनन्तत्वमुपपन्नम् ।
केचित्तु नित्यसूरिवर्गम् नेच्छन्ति; तन्न। *सदा पश्यन्ति सूरयः* इत्यादिभिः सदापश्यदनेकद्रष्टृविशिष्टस्थानविधानात् । अत एव न मुक्तप्रवाहेण वा ईश्वरेण वा अन्यथासिद्धिः । सर्वेषाम् जीवानाम् सम्सारात्य-न्तायोगव्यवच्छेद-साधनानि जीवत्वादिलिङ्गानि यथासम्भवम् सिद्धसाधनबाधादिभि-र्दूष्याणि । एतेषाम् नित्यसूरीणामानन्त्या-वान्तरभेदादिकम् श्रीपाञ्चरात्रसम्हितासु विशदमनुसन्धेयम् ।
अनन्तविष्वक्सेनाद्यैर्नियताधिक्रियैरपि ।
ज्ञानानन्दादिभिर्मुक्ता नित्यानन्दसोदराः ॥
एवम् सदादर्शनादिबलादेव नित्यमुक्तेश्वराणाम् प्रतिसर्गावस्थायाम् सुषुप्त-कल्पतया अवस्थानम् वदन्तः प्रत्युक्ताः । सङ्कोचककर्माद्यभावाच्च साऽवस्था दुरुपपादा ॥
*मोक्षहेतुनिरूपणम्*
अथ को मोक्षहेतुः? भक्तिरूपापन्नोपासनवेदनध्यानादिशब्दवाच्योऽसकृ-दावृत्त आप्रयाणात् अन्वहमनुवर्तमानो ज्ञानविशेषः ।
तथा च सूत्रम् *आवृत्ति-रसकृदुपदेशात्*, इति *आप्रयाणात्तत्रापि हि दृष्टम्* इति च ।
न पुनः केवलम् तत्वज्ञानम्; तस्य अध्ययनविधिसिद्धसाङ्गसशिर-स्काध्ययनगृहीताक्षरराशिविशेषापातप्रतीतनिरतिशयपुरुषार्थसाधनार्थ-निर्णयरागप्राप्तश्रवणमात्रेण निष्पन्नस्य अविधेयत्वात्, तावति सिद्धेऽपि मोक्षादर्शनाच्च । तदुक्तम् भगवता आपस्तम्बेन *बुद्धे क्षेमप्रापणम् तच्छास्त्रैर्विप्रतिषिद्धम् , बुद्धे चेत् क्षमप्रापणमिहैव न दुःखमुपलभेत* इति ।
नापि श्रवणमननोपासननिर्धूत-भेदवासनस्य वाक्यमात्रजन्यः साक्षात्कार इति वाच्यम्; तस्य अन्योऽन्याश्रयविरोधादिदुष्टत्वात् ।
अविद्यास्वरूपसम्बन्धनिवर्तकज्ञानतज्ज्ञातृ-तदैक्योपदेशादीनाम् विकल्पासहत्वम् भाष्यादिषु ग्राह्यम् ।
असत्यात् सत्यप्रतिपत्तिश्च सर्वथा अनुपपन्ना । तथा हि –
सत्यधीर्मम सत्येन तवासत्यादसत्यधीः ।
सत्यादसत्यधीर्वेति नासत्यासत्यधीर्भवेत्॥
कर्मापि न केवलम् ज्ञानसमुच्चितम् वा मुक्तिहेतुः; वेदनमेव विधाय उपा-यान्तरनिषेधात् । तदङ्गतया कर्मानुप्रवेशे तु न विरोधः, तथा सति तस्य उपायान्तरत्वाभावात् । परमात्मसाक्षात्कारोदयविरोधिरजस्तमोमूलभूत-साम्सारिकपुणयपापरूपप्राचीनकर्मनिर्मथनकृतचित्तशुद्धिद्वारेण हि तथा तदुपयोगः । एतेन विशिष्टदेशवासव्रत विशेषवैष्णवसम्श्रयादेर्ज्ञानयोग- कर्मयोगयोश्च परम्परया मोक्षहेतुत्वमित्यपि सिद्धम्, वैष्णवसम्श्रया-देरुपासनशेषतया उपादानात् । यजमानेन सह पश्वादीनाम् स्वर्गादिगमनवद्वा मोक्षसिद्धिः । *यजमानेन सहिताः स्वर्गम् यान्ति नराधिप* इति हि महाभारतोक्तिः । ज्ञानकर्मयोगयोश्च वक्तव्यमखिलम् श्रीमद्गीताभाष्ये व्यक्तमुक्तम् । तत्र हि कर्मयोगप्रसङ्गेषु *कर्मयोगस्य सुशकत्वात् अप्रमादत्वाच्च अन्तर्गतात्मज्ञानतया निरपेक्षत्वात्* इत्यादिप्रकारेण आत्मावलोकनसिद्धिरुपपादिता । तथा *निराशीर्यचित्तात्मा* इति श्लोके *ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेन एवम् रूपेण आत्मानम् पश्यतीत्यर्थः* इत्युक्तम् । तथा *ब्रह्मार्पणम्* इति श्लोकेऽपि *मुमुक्षुणा क्रियमाणम् कर्म परब्रह्मात्म-कमेवेत्यनुसन्धानयुक्ततया ज्ञानाकारम् साक्षादवलोकनसाधनम् । न ज्ञाननिष्ठाव्यवधानेन* इत्युक्तम् ।
तथा पञ्चमाध्याये –
*सन्यासः कर्मयोगश्च निश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्यासात् कर्मयोगो विशिष्यते ॥
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ।
यत्साङ्ख्यैः प्राप्यते स्थान ष्ठा तद्योगैरपि गम्यते ॥*
इत्येतैर्व्यक्तमेव नैरपेक्ष्यमुक्तम् ।
*सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥*
इति ज्ञानयोगादपि कर्मयोगस्य शीध्रकारित्वम् कर्मयोगादृते ज्ञानयोगस्य दुष्प्रापत्वञ्च प्रतिपादितम् । द्वयोरपि च भक्त्यङ्गत्वम् बहुषु प्रदेशेषु अभिहितम् । तथा हि *अथैतदप्यशक्तोऽसि* इत्यस्य व्याख्याने *ततोऽक्षर-योगमात्मस्वभावानुसन्धानरूपम् परभक्तिजननम् पूर्वषट्कोदितमाश्रित्य तदुपायतया सर्वकर्मफलत्यागम् कुरु* इत्युक्तम् । तथा *श्रेयो हि ज्ञानम-भ्यासात्* इत्यत्र *शान्ते मनस्यात्मध्यानम् सम्पत्स्यते । आत्मध्यानाच्च तदापरोक्ष्यम्, तदापरोक्ष्यात् परा भक्तिरिति भक्तियोगाभ्यासाशक्तस्य आत्म-निष्ठैव श्रेयसी । आत्मनिष्ठस्यापि अशान्तमनसो निष्ठावाप्तये अन्तर्ग-तात्मज्ञानानभिसम्हितफलकर्मनिष्ठैव श्रेयसीत्यर्थः* इत्युक्तम् । तथा तृतीय- षट्कारम्भे *पूर्वस्मिन् षट्के परमप्राप्यस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतम् प्रत्यगात्मनो याथात्म्य-दर्शनम् ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम्* इत्युक्तम् । *उभय-परिकर्मितस्वान्तस्य ऐकान्तिकात्यन्तिकभक्तियोगलभ्यः* इति ।
अत्रेदम् तत्वम् । भक्तियोगः परमात्मप्राप्त्युपायभूतः । तदशक्तस्य तद्भक्तियोग-सिध्यर्थम् आत्मावलोकनमपेक्षितम् । तस्य च ज्ञानयोगकर्मयोगौ द्वौ पृथगुपायौ । तत्र ज्ञानयोगः स्वात्मावलोकनेऽन्तरङ्गः । तथापि प्रथमम् स दुष्करः । तदनधिकारिणस्तुल्यफलः कर्मयोग एव कार्यः । तदधिकारिणोऽपि व्यपदेश्यस्य लोक सङ्ग्रहार्थम् कर्मयोगम् परित्यज्य ज्ञानयोगमनुतिष्ठतो-ऽपि न दोषः । इमौ च योगौ कामनाभेदेन कस्यचित् कैवल्यमात्रसाधकौ । यथा भगवदुपासनमेव कस्यचित् ऐश्वर्यादिकम् साधयति । प्रवाहानादिपुण्य-पापरूपकर्मतारतम्येन शक्त्यशक्तिकामनादितारतम्यमिति न कश्चित् दोष इति । तत्सिद्धम् भक्तिरेव मोक्षोपाय इति ।
*भक्तिनिरूपणम्*
महनीयविषये प्रीतिर्भक्तिः । सैव अवस्थाभेदात् परभक्त्यादिभेदम् भजते । स्तुतिनमस्कारादिषु तत्सम्भन्धात् भक्तिशब्द उपचारतः । सा च भक्तिः सदक्षरमधुदहरभूमवैश्वानरादिविद्याभेदात् बहुधा गुणोपसम्हारपादे निपुणमनुसन्धेया । एवम् चातुरात्म्योपासनरूपा अपि भक्तयः सद्विद्यादि-भेदवदङ्गीकार्याः । प्रमाणसिद्धत्वनैरपेक्ष्याद्यविशेषात् ।
एताः सर्वास्त-त्तच्छास्त्रप्रतिपादिततत्तद्वर्णाश्रमधर्मनिष्ठत्रैवर्णिकमनुष्य-देवासुरादिसाध्याः । स्त्रीविधुराणामपि जपोपवासाद्यङ्गाधिकृतानाम् ब्रह्मविद्याधिकारोऽस्त्येव । अनाश्रमित्वात् आश्रमित्वमेव ज्याय इति विशेषः । नैष्ठिकादिपरिभ्रष्टानाम् तु अनधिकार एव; तथा स्मृतेः शिष्टबहिष्कारादेश्च । कृतप्रायश्चित्तानामपि तेषाम् ब्रह्मविद्याधिकारो नास्त्येवेति *बहिस्तूभयथापि स्मृतेराचाराच्च* इति सूत्रेऽभिहितम् ।
ननु गोपिकादेरपि मोक्षः श्रूयते, तत्कथम् त्रैवर्णिकत्व-नियमः? इत्थम् । न हि तेषाम् तत्तच्छरीरेष्वेव उपायानुष्ठानम्, किम् तु प्राचीनेष्वेव ब्राह्मणादिजन्मसु । प्रागेव प्राप्तोपायानामपि तेषाम् प्रारब्धकर्म-विशेषादिना निकृष्टशरीरप्रवेशः । अन्तिमशरीरम् तु यत्किमपीति न दोषः । प्रारब्धावधिकत्वाद्बन्धस्य । एवम् विदुरादयश्च भवान्तरीयसम्स्कारोद्बोध-जनितज्ञानेनेति नापशूद्राधिकरणविरोधः । स्मरन्ति च ।
*धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते ।
वर्णावरत्वे सम्प्राप्ताः सम्सिद्धिम् श्रमणी यथा ॥* इत्यादि ।
शुश्रूषोर्जानश्रुतेः शूद्रेत्यामन्त्रणम् शोचनादिति सूत्र एव व्यक्तम् ।
*न्यासविद्यानिरूपणम्*
अध्यवसायादि विशेषविशिष्टा न्यासविद्या । तस्या अपि बुद्धिविशेषत्वात् *नान्यः पन्थाः* इत्यादिभिर्न विरोधः । भक्तिविशेषत्वाच्च *भक्त्यात्वन- न्यया* इत्यादिभिः । यथाहुः –
*साधनम् भगवत्प्राप्तौ स एवेति स्थिरा मतिः ।
साध्य भक्तिस्तथा सैव प्रपत्तिरिति गीयते ॥
उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः ।
उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥* इति ॥
तस्या अपि हि शब्दान्तरादिभिः सद्विद्यादिभेदवत् भेदे सिद्धे सर्ववेदान्तप्रत्यय न्यायात् सर्वप्रपत्तिप्रकरणपठितगुणोपसम्हारेण पौष्कल्ये च सिद्धे *विकल्पोऽविशिष्टफलत्वात्* इति न्यायेन विद्यान्तरसमुच्चय-प्रसङ्गाभावः, त्याज्य समुच्चये विरोधाच्च ।
भक्त्यङ्गभूता साचान्यैव; अभिसन्धिभेधात् । यथा ऐश्वर्यसाधिका भक्तिरपवर्गोपायभक्तिभ्यो भिध्यते, यथा च कर्मस्वरूपाविशेषेऽपि नित्यकाम्यज्योतिष्टोमभेदः ।
भक्तिविशेषभूतायास्तस्याः पृथगुपायत्व-परिगणनम् कथम्? इति चेत् सकृदसकृत्त्वनिरपेक्षसापेक्षत्वादिभेदमाश्रित्येति मन्वीथाः । फलवैषम्याभावे लघूपाये सति गुरूपायविधानमनर्थकमिति चेन्नः तादृशाध्यवसायादे-र्दुष्करत्वेन गौरवाविशेषात् ।
तथोक्तम् प्रपत्तिप्रकरणे *उपायः सुकरः सोऽयम् दुष्करश्च मतो मम* इति । यथा च कश्चित् महता प्रयासेन महीपतेरर्थमासादयति, स्खलने च यथोचितम् दण्डयते । अपरस्तु अन्तरङ्गसेवाक्षमः क्षोदीयसैव आयासेन तावन्त तदधिकञ्च अर्थमासादयति, क्षुद्रेषु स्खलितेषु सह्यते, महत्खपि अल्पदण्डो भवति । तत्रापि अन्तरङ्गसेवा मन्दभाग्यानाम् दुर्लभेति चेत्; अत्रापि तथैव । यथा उपायभक्तिष्वेव तत्तच्छाखाभेदेन वर्णाश्रमभेदेन च अङ्गभूतानाम् कर्मणाम् गुरुलघुतारतम्येऽपि फलमविशिष्टम्, तथेहापि । कथम् तर्हि *अतस्त्विरतज्ज्यायोलिङ्गाच्च* इति सूत्रे *भूयोधर्मकाल्प-धर्मकयोरतुल्यकार्यत्वात्* इति भाष्यम्? इत्थम् ; एकाधिकारिगोचर-मुख्यगौणविषयम् हि तत् । अन्यथा अधिकधर्मकाश्रमान्तरसूत्रान्त-रादिष्वपि फलवैषम्यप्रसङ्गेन तदनुप्रवेशस्य ज्यायस्त्वप्रसङ्गात् । उपायभक्तौ नित्यनैमित्तिककर्मणाम् फलाभिसन्धिरहितकाम्यकर्मणाञ्च अङ्गत्वेनानुष्ठानम्, न पुनः स्वातन्त्र्येण । निषिद्धवर्जनम् द्वयोरपि भक्त्योः समम् । साध्यभक्तौ तु काम्यानाम् स्वरूपतोऽपि त्यागः; न तु नित्यानाम् । अङ्गिनः प्रहणात् तेषामपि तदङ्गानाम् परित्याग एवेति चेन्न; स्वतन्त्रा-धिकारानपायात् । तदेतदखिलम् *उपायापायसन्त्यागी मध्यमाम् वृत्तिमास्थितः* इत्यादिभिर्विशदमवगन्तव्यम् ॥
*प्रपन्नस्य यथेष्टसञ्चारनिषेधनिरूपणम्*
यत्तु – केचित् परित्यक्तसकलवर्णाश्रमधर्माः सम्वर्तभरतविदुरादयो ब्रह्मविदः सञ्चरन्तीति यथेष्टकरणकौतुकिनाम् प्रलपितम्; तदसत् । तत्तत्प्रकरणेष्वेव जडवादाचरणज्ञानाभिसन्ध्यादिमात्रप्रतिपादनपरत्वनिर्णयात्, *बाल्येन तिष्टासेत्, जडवल्लोकमाचरेत्, सताम् मार्गमदूषयन्* इत्यादीनाम् पर्या-लोचनात् । बाल्य़ञ्च शक्तिविद्याभिजनाद्युत्कर्षाणाम् सतामनाविष्करणमेव; न तु कामचारवादभक्षकत्वादि । तथा च सूत्राणि *अनाविष्कुर्वन्नन्वयात्, सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्, शब्दश्चातोऽकामकारे* इत्यादीनि । अन्यथा *स खल्वेवनि वर्तयन् यावदायुषनि ब्रह्मलोकमभिसम्पद्यते, नाविरतो दुश्चरितात्, वर्णाश्रमाचाखता* इत्यादिश्रुतिस्मृतिशतप्रकोप प्रसङ्गः ।
*उत्तरपूर्वाद्ययोरश्लेषविनाश-
प्रकारनिरूपणम्*
कथम् तर्हि उत्तरपूर्वाघयोरश्लेषविनाशौ वाच्यौ? इत्थम्, समधिगतवि-द्यानाम् भुक्त-फलकृतप्रायश्चित्तप्रारब्धकर्मव्यतिरिक्तम् प्राचीनम् कर्म उपायप्रभावादेव अग्निप्रोतेषीकतूलवत् प्रदूयते । उत्तरञ्च अबुद्धिपूर्वकम् पुष्करपलाश आप इव न श्लिष्यति । पुण्येऽपि विद्यानुकूलव्यतिरिक्ताम्शस्य सुखहेतुत्वेपि मोक्ष-विरोधित्वाविशेषात् अनिष्टफलतया पापशब्दाभिलप्यस्य अश्लेषविनाशावेव । *नाभुक्तम् क्षीयते कर्म* इत्यादिकम् तु विद्याभिन्नविषयम् । प्रारब्धम् तु भोगेनैव क्षपणीयम् । सूत्रञ्च *भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते* इति । प्रारब्धकर्मणाञ्च न तद्देहपातावधिकत्वनियमः कर्मणाम् विचित्रफलत्वात् । एतद्देहावसान एवेति न्यस्तभरस्य तु तस्य तद्देहपातावधिकत्वमेव, *यावन्न विमोक्ष्येऽथ सम्पत्स्ये* इत्यस्यापि प्रारब्धतत्तत्कर्मफलपर्यवसानविषय-त्वात् । *अस्माच्छरीरात् समुत्थाय* इत्यादेरपि अन्तिमशरीरविषयत्वात् । अत एव *यावदधिकारमवस्थितिराधिकारिकाणाम्* इतिसूत्रम् । एतेन अन्तिमशरीरनिवृत्तौ देशकालनियमाभावोऽपि सिद्धः । सूत्राणि *निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च, अतश्चायनेऽपि दक्षिणे* इत्या-दीनि । एवम् बुद्धिपूर्वमुत्तरमपि भोगेन प्रायश्चित्तेन वा क्षपणीयम् । न चैष प्रायशो विद्याननुकूलम् पुण्यम् पापञ्च बुद्धिपूर्वकम् करोति; फलाभिसन्धि-युक्तपुण्यस्य च विद्याविरोधित्वात्, फलान्तरेषु च विरक्तत्वात्, पापे च ईश्वराज्ञाति लङ्घनभयात् । यदि च कदाचित् बुद्धिपूर्वकम् करोति, तदा भीतः स्वयमेव तत्तदुचितम् प्रायश्चित्तम् करोति । अथ प्रमादात् तदपि न करोति; तदापि प्रारब्धकर्मपर्यवसानात् प्रागेव तत्तत्कर्म यथाकथ़ञ्चित् फलति, न तु स्वयमेव जन्मादिप्रयोजकम् भवति । अथ च जन्मादिहेतुरेव कर्मविशेषः शापादिर्वा उपनिपतितः; तदा तेन तत्प्रसज्यत एव । तथापि निष्पन्नस्य उपायस्य न शैथिल्यम् । स तु प्रारब्धकर्मण इव एतस्यापि पर्यवसाने सम्सारम् निवर्तयति । न च पुनरुत्तरोत्तरकर्मकरणात् सम्साराविच्छेद इति वाच्यम्; शास्त्रविरोधात्, निष्पन्नोपासनस्य निष्फलत्वप्रसङ्गात् । सूत्राभिप्रेतञ्चैतत् । *एवम् मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्था-वधृतेः* इति । इदञ्च सूत्रम् विद्याङ्गकर्मनिषयमपि विद्यायाम् तुल्यन्याय-तया अनुसन्धेयम् ।
*सुहृदः साधुकृत्याम् इत्यादिश्रुतिविषयनिरूपणम्*
नन्वेवम् समस्तकर्मप्रलये साधुपापकृत्ययोर्हानम् सुहृद्द्विषदुपायनञ्च कथम् घटते? तथाहि । न तावत् पूर्वकृतयोः; तत्र केषाञ्चित् कर्मणाम् दत्त- फलत्वात् । प्रायश्चित्तविद्याभ्याम् विनष्टत्वात्, फलवत् तयोरपि कर्मस्व-रूपनिवर्तकत्वात् । केषाञ्चित् प्रारब्धफलानाम् भोगेनैव क्षपितत्वात्, एवमुत्तरकृतानामबुद्धिपूर्वकाणाञ्च अश्लिष्टत्वात्, विद्यानुकूलानाञ्च विद्यैयैव फलभूतया निवृत्तत्वात्, तत्र च साधुकृत्याम्शाभावात् । न च सुहृदादिकृत-स्यैव कर्मणोऽनेन हानादिकमुपपद्यते; स्वकीयत्वाभावात्, दायसमोपायन-निर्देशानुपपत्तेः । उपायनवाचोयुक्तिस्तत्सौहार्दशात्रवाभ्याम् जनितत्वा दौपचारिकीति चेन्न; *हानौ तूपायनशब्दशेषत्वात्* इत्यादि सूत्रभाष्यादि विरोधादचिन्तनीयत्वप्रसङ्गाच्च प्रागेव सौहार्दादिकृतस्य दायसम-कालप्राप्त्यभिधानविरोधाच्चेति । अत्रोच्यते; दत्तफलम्, अदत्तफलञ्चेति पूर्वाघम् द्विविधम् । अदत्तफलमपि प्रायश्चित्तविनष्टम्, अविनष्टञ्चेति । अविनष्टमपि प्रारब्धफलम्, अप्रारब्धफलञ्चेति । तत्रान्तिमम् विद्यया विनाश्यम् । एवमुत्तरमपि विद्यानुकूलम्, अननुकूलञ्चेति द्विविधम् । अननुकूलमपि बुद्धिपूर्वम्, अबुद्धिपूर्वञ्चेति । तत्र अबुद्धिपूर्वस्य विद्याबला-दश्लेषः । एववि ययोः कर्मराश्योः प्रबलकर्मान्तरप्रतिरोधाददत्तफलयोरश्लेष-विनाशौ तयोर्हानम् सुहृदाद्युपायनञ्च उच्यते । तथा च *सुहृदः साधुकृत्याम्* इत्यस्य विषयविभागपरे *अतोऽन्याऽपि ह्येकेषामुभयोः* इति सूत्रे भाष्यम् *विद्यया अश्लेषविनाशश्रुतिश्च तद्विषया* इति । अश्लेषविनाशौ च करमशक्ति-प्रतिबन्धतन्नाशावेव । सा च शक्तिर्भगवत्कोपप्रीति विशेषात्मिका । तादृशौ च प्रीतिकोपौ सुहृद्द्विषद्गोचरौ भवत इति तावतैव उपायनवाचोयुक्तिः । *पाते तु* इति सूत्राम्शे *शरीरपातादूर्ध्वम् तु विद्यानुगुणदृष्टफलानि सुकृतानि नश्य-न्तीत्यर्थः* इति भाष्यम् । विद्यानुगुणानामदत्तफलानाम् कर्मणाम् शरीर-पातादूर्ध्वम् विनाश उपायनञ्च । इतरेषाम् तु विद्याधिगमदशायामेवाश्लेष-विनाशौ, उत्क्रमणदशायाञ्च हानमुपायनञ्चेति विभाग इति ।
न्यासविद्यामाहात्म्यनिरूपणम्
न्यासविद्या तु प्रारब्धमपि निश्शेषम् विनाशयितुम् शक्ता, तथापि रागविषयमम्शम् तदनुबन्धि दुःखञ्च स्थापयति । निश्शेषवैराग्ये तु निश्शेषम् निवर्तयति । अत एवार्तदृप्तभेदः । रागविषयश्चाम्शो दृप्ते नैतावदिति परिच्छेत्तुम् शक्यः; विचित्रत्वात् पुम्सामभिप्रायपद्धतेः । अस्याञ्च विद्यायामन्तिमप्रत्ययापेक्षापि न विद्यते ॥
*इयम् केवले त्यादिश्लोकार्यवर्णनम्*
इयम् केवललक्ष्मीशोपायत्वप्रत्ययात्मिका ।
स्वहेतुत्वधियम् रुन्धे किम् पुनः सहकारिणाम् ॥
प्रारब्धकर्मावधिको मोक्ष इत्थमुपासितुः ।
दृप्तस्य देहावधिक आर्तस्यार्त्यवधिर्मतः ॥
*उत्क्रान्तेरर्चिरादिगतेश्च निरूपणम्*
उच्चिक्रमिषतः सर्वस्य पूर्वम् वागिन्द्रियम् तदनु च शेषाणि नवेन्द्रियाणि मनसा सहाविभागम् गच्छन्ति । तच्च सर्वेन्द्रियसम्युक्तम् मनः प्राणेन । स च एकादशेन्द्रियसम्युक्तो जीवेन । स च इन्द्रियप्राणसम्युक्तः पञ्चभूतैः । तानि च इन्द्रियप्राणजीव सम्युक्तानि परमात्मना । एतावच्च विद्वदविदुषोः साधारणम् । अविदुषस्तु विशेषः प्रागेवोक्तः विद्वाम्स्तु सर्वोऽपि मूर्धन्यया ब्रह्मनाड्या सुखेन शरीरात् निष्क्रामन् अर्चिरहस्सितपक्षोदगयनाब्दमरु- दर्केन्दुवैद्युतवरुणेन्द्र प्रजापतिसञ्ज्ञैरातिवाहिकैः पुरुषैः क्रमाद्यथास्वम् देशमतिवाह्यमानो वैद्युतेनामानवनाम्ना तेनैव क्रमात् वरुणादि समीपम् नीतस्तेन ब्रह्मसमीपमुपनीयते । एषैवार्चिरादिगतिः कर्मणामन्यसङ्क्रा-न्तिश्च –
*सम्भूतिञ्च विनाशञ्च यस्तद्वेदोभयम् सह ।
विनाशेन मृत्युम् तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥*
इति सम्भूतिविनाशशब्दाभ्यामुच्यते । कर्मणाम् विनाशेन हि सम्सार-तरणम् । अर्चिरादिसम्भूत्या च ब्रह्मप्राप्तिः । *सम्भूतिमुपासते* इत्यत्रोपा-सनम् चिन्तनमात्रमेव । सम्भूतिशब्दश्च प्राप्तौ बहुशः प्रयुक्तः, *तेऽर्चिषमभि-सम्भवन्ति, एतमितः प्रेत्याभिसम्भवितास्मि, ब्रह्मलोकमभिसम्भवानि* इत्यादिषु । नारायणार्यैस्तु सम्भूतिविनाशशब्दौ फलद्वारा विद्याकर्मविषया-वुक्तौ *विदुषो विद्यासाध्यस्यापवर्गस्य सम्यगभिवृद्धिरूपत्वात्* इत्यादिना । एवञ्च *विद्याञ्चाविद्याञ्च यस्तद्वेदोभयम् सह* इत्यादिश्रुत्यैकार्थ्यम् स्यात् ।
उत्क्रम्य गच्छतश्चास्य सर्वकर्मक्षयेऽपि च विद्यामाहात्म्यादेव सूक्ष्म-शब्दाभिलप्यम् किञ्चित् त्रिगुणद्रव्यमुपष्टम्भकमनुवर्तते । उक्तञ्च सारे *शरीरादुत्क्रान्तस्यापि सूक्ष्मशरीरमनुवर्तते* । अत एव च प्राथमिकसाक्षा-त्कारः प्रत्यूषकल्प इति गतिसाफल्यम् । निश्शेषाविद्याविनाशश्च विशिष्ट-देशगतिसापेक्ष इति गतिशास्त्रादेवाध्यवसीयते । तथा च *परम् जैमिनिर्मुख्यत्वात्* इति सूत्रे भाष्यम् *यथा हि विद्योत्पत्तेर्वर्णाश्रमकर्म- शौचाचारदेशकालाद्यपेक्षा* *तमेतम् वेदानुवचनेन* इत्यादिशास्त्रादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पत्तिरपि विशिष्टदेशगतिसापेक्षेति गतिशास्त्रादवगम्यते* इति । उत्क्रमणप्रभृति च उत्तरोत्तरमतिशयितज्ञाना- नन्दशाली जायते । प्राणेन्द्रियादिमत्वाच्च मध्ये भोगविहारसम्वादाद्यु- पपत्तिः । अमानवकरस्पर्शादारभ्य चासौ मुक्तः । ततः पूर्वः सर्वोऽप्युपाय-व्यापारः।
*मोक्षफलनिरूपणम्*
फलम् परमपद पर्यङ्कारोहणादिकम् । तथाचायमीश्वर इवापहत-पाप्मत्वसत्यसङ्कल्पत्वादिविशिष्टो भवति । तच्चास्य समस्तप्रतिबन्ध-कात्यन्तिकलयादाविर्भूतम् स्वाभाविकम् रूपम् । ततः परम् अस्य कदाचिदपि न सम्सारात्मिका पुनरावृत्तिः । प्रथमम् तावदकाल काल्यत्वा-जरत्वाक्षरत्वादिवचनेन देशलयाभावात्, *स यदि पितृलोककामो भवति* इत्यादिना अनायासस्वसङ्कल्पमात्रसृष्टपरमपुरुषभोगनिर्मग्नाप्राकृतभोग- रूपत्वेन सम्सारत्वाभावात् । सृष्ट्यादिजगद्व्यापारमोक्षप्रदत्व-मुमुक्षूपास्यत्वशेषित्वादि रूपभगवदसाधारणधर्मव्यतिरिक्तज्ञानानन्दसत्य-सङ्कल्पत्वादि गुणात्यन्त साम्यातिरेकेण सायुज्यन्तु गगनारविन्दमकर- न्दवार्तामनुसरति । न तावत् सायुज्यम् ब्रह्मणि लयः । अग्निवाय्वादि-सायुज्येऽपि लयप्रसङ्गात् ।
नापि साधारण शरीरवत्त्वम्; जीवशरीरापेक्षया सम्सारेऽपि समत्वात् । ईश्वरशरीरापेक्षया मोक्षेऽप्ययोगात् । एवमन्यदपि । किम् तर्हीदम्? समाना-त्मगुणयोगित्वम् । तत्रैव चास्य स्वारस्यम् । सयुग्भावो हि सायुज्यम् । सयुक्छब्दश्च भिन्नयोरेकत्र साधारणयोगम् दर्शयति । *परमम् साम्यमुपैति* *मम साधर्म्यमागताः* इत्यादिबलाच्च ब्रह्मैव भवति इत्यादीनामपि साम्य एव तात्पर्यमिति प्रागेवोपपादितम् । अग्न्यादिप्राप्तिषु सालोख्या- दितारतम्यमस्ति । ब्रह्मप्राप्तौ तु सायुज्यरूपायाम् पूर्वम् त्रयमप्यविनाभूतम् । यत्तु
*मोक्षम् सालोक्यसारूप्यम् प्रार्थये न कदाचन ।
इच्छाम्यहम् महाभहो सायुज्यम् तव सुव्रत ॥
लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्तिच केचिदन्ये ।
अन्ये तु रूपम् सदृशम् भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥*
इत्यादि; तदपि श्रीविष्णुलोकादिविचित्रावान्तरपदप्राप्त्यपेक्षयेति न दोषः ।
*भगवत्कैङ्कर्यस्य पुरुषार्थसमर्थनम्*
न च सेवा दुःखहेतुः सेवात्वादिति वाच्यम्; अनीश्वरसेवापक्षीकारे सिद्ध-साधनात् । ईश्वरसेवापक्षीकारे बाधात् । सुखरूपेषु वदान्यसेवादिषु चानै-कान्त्यात् । एतद्व्यतिरिक्तसेवा दुःखहेतुः सेवात्वात् एतत्सेवावदित्यत्रापि व्यतिरेकोपलक्षितव्यक्तिद्वयेम्ऽशतः सिद्धसाधनबाधयोरन्यतरानतिपातात् । एवम् सेवामात्रपक्षीकारे दृष्टान्ताभावश्चाधिकः । केवलव्यतिरेकित्वविव-क्षायाम् दुःखहेत्वन्तरसद्भावेन सपक्षवतस्तत्रावर्तमानस्य सेवात्वस्यासाधा-रणत्वप्रसङ्गात् । केवलव्यतिरेकी च निरसिष्यते । तर्कोऽपि निराश्रयो न साधकः । केवला व्याप्तिरप्रयोजिका । व्यभिचारश्चोक्तः । दुःखहेतुत्वे च पापावष्टब्धत्वमुपाधिः । निवृत्तस्वातन्त्र्याभिमानस्य दासभूतस्य ईश्वर-सेवायाः स्वरूपानुरूपत्वेन सुखरूपत्वमेवोपपन्नम् ॥
१९ *मोक्षविचारः*
तदेवम् विषयकारणस्वरूपविशेषविशिष्टज्ञानविशेषसाध्यो मोक्षः, स च निर्दुःखनिरतिशयानन्दरूपभगवदनुभवात्मक इति सिद्धम् ।
*मोक्षविषयकमतान्तरनिराकरणम्*
अन्येषाम् तु देहविच्छेदमात्रसहस्रयुवतिसम्भोगज्ञानालीकलयवासनात्यन्तविराम-विषयोपरागवैधुर्यनित्योर्ध्वगमनार्हच्छरीरानुप्रवेशविशिष्टनिरावरणत्ववियतानुभव स्वातन्त्र्यशिवसारीप्यशिवसाम्यापत्तिचिच्छक्ति-परिशेषाविद्यानिवृत्त्युपाधिनिवृत्तिसकलवैशेषिकगुणोच्छेद केवलात्मानन्दा- नुभवप्रभृतयो निश्रेयस बाह्यार्थ देहातिरिक्तात्मसद्भावविकल्पा पारमार्थिक-त्ववत्तदागमाप्रामाण्यब्रह्मनिर्विकारत्वनिर्दोषत्वज्ञानानन्दादिनित्यत्वप्रति-पादनादिभिर्दूषणीयाः । यदिह दृषदविशेषनिश्रेयसवादिनाम् दृषन्मतीनामि-दमनुमानम् आत्मा कदाचिदखिलविशेषगुणशून्यः अनित्यवैशेषिकगुणा-श्रयत्वात् उत्पद्यमान घटप्रलयाकाशादिवदिति; तत्रागमबाधस्तावद्व्यक्तः । ज्ञानसम्स्कारपक्षे हेतोरन्यतरासिद्धिश्च । ज्ञानादीनाम् भवदभिमतगुणत्वा-नभ्युपगमात् सिद्धसाधनम् स्वरूपसिद्धिश्च । प्रलयाकाशादेरनभ्युपमादुत्प-द्यमानघटादेरपि सगुणत्वाभ्युपगमादुदाहरणस्याश्रयहीनत्वसाध्य विकलत्वे । प्रलयकालगतप्रकृत्यादेरपि सत्त्वादिगुणयोगात् परैरनभ्युपगमाच्च न तद्दृष्टान्तोपन्यासः । एवमस्मदीये ज्ञानसम्स्कारपक्षे मुक्तावस्थायाम् ज्ञानस्याखिलविशेषगुणशून्यत्वमस्तु वा, मा वा, तथापि परानभ्युपगमात् नैष दृष्टान्तः । ज्ञानद्रव्यत्वतद्गतसम्स्कारयोस्तैरनभ्युपगमादिति ॥
*कैवल्याख्यमोक्षोविषये शङ्का तत्समाधानम् च*
ननु स्वात्मानन्दानुसन्धानरूपकैवल्याख्योऽपि मोक्षो भगवद्यामुन-मुनिभिरुक्तः
*ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् ।
वेद्योपादेयभावानामष्टमे भेद उच्यते॥* इति,
*सम्सृत्यक्षरवैष्णवाध्वसु नृणाम् सम्भाव्यते कर्हिचित्* इति च । अनुसृत-श्चायमर्थो भाष्यकारैरपि । तथा हि *चतुर्विधा भजन्ते माम्* इत्यादौ *जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छुः* इत्याद्युक्तेः । अष्टमाध्याया-रम्भेऽपि सप्तमार्थानुक्रमणे *सुकृततारतम्येन च प्रतिपत्ति वैशिष्ट्यादैश्वर्या-क्षरयाथात्म्यभगवत्प्राप्तीच्छयोपासकभेदम्* इत्याद्युक्तेश्च । तथा *कैवल्या-र्थिनाम् स्मरणप्रकारमाह* इत्युक्त्वा *यदक्षरम् वेद* इति श्लोकमवतार्य *सर्वद्वाराणि* इत्यादेर्व्याख्याने *ओमित्येकाक्षरम् ब्रह्म मद्वाचकम् व्याहरन् वाच्यम् मामनुस्मरन्नात्मनः प्राणम् मूर्धन्याधाय देहम् त्यजन् यः प्रयाति स याति परमाम् गतिम् । प्रकृतिवियुक्तम् मत्समानाकारमपुनरावृत्तिमात्मानम् प्राप्नोतीत्यर्थः* इति चोक्तेः । अनन्तरञ्च *एवमैश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्त्यनुगुणम् भगवदुपासनप्रकारः उक्तः । अथ ज्ञानिनो भगवदुपासन-प्रकारम् प्राप्तिप्रकारञ्चाह* इत्युक्त्वा *अनन्यचेताः* इत्येतद्व्याख्यातम् । *अतः परमध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्चापुनरावृत्तिम्, ऐश्वर्यार्थिनः पुनरावृत्तिञ्चाह* इत्युक्त्वा *मामुपेत्य* इत्यादिकम् *प्रभवत्यहरागमे* इत्येतदन्तम् व्याख्याय *कैवल्यम् प्राप्तानामपि पुनरावृत्तिर्न विद्यते इत्याह* इत्युक्त्वा *परस्तस्मात्तु* इत्यादिकमपि *तद्धाम परमम् मम* इत्येतदन्तम् व्याख्यातम् । अनन्तरञ्च *ज्ञानिनः प्राप्यम् तु तस्मादत्यन्तविभक्त-मित्याह* इत्युक्त्वा *पुरुषः स परः पार्थ* इति श्लोको व्याख्यातः । अनन्तरञ्च *आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च साधारणीमर्चि-रादिकाम् गतिमाह* इत्युक्तम् । अथ तत्रभाष्यग्रन्थ एवेह लिख्यते । तथा हि । *द्वयोरप्यर्चिरादिका गतिः श्रुता श्रुतौ । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम् *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः* इत्यादौ । अर्चिरादिना गतस्य परब्रह्म-प्राप्तिरपुनरावृत्तिश्चाम्नाता *स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमम् मानवमावर्तम् नावर्तन्ते* इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्ग-भूतात्मप्राप्तिविषयेयम् *तद्य इत्थम् विदुः* इति गतिश्रुतिः *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते* इति परविद्यायाः पृथक्छ्रुति वैयर्थ्यात् । पञ्चाग्नि-विद्यायाञ्च *इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति* इति, *रमणीयचरणाः कपूयचरणाः* इति पुण्यपापहेतुको मनुष्यादिभावोऽपामेव भूतान्तरसम्सृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रमिति चिदचितोर्विवेक-मभिधाय *तद्य इत्थम् विदुः, तेऽर्चिषमभिसम्भवन्ति, इमम् मानवमावर्तम् नावर्तन्ते* इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थम् विदुस्तेऽर्चिरादिना गच्छन्ति न च पुनरावर्तन्ते इत्युक्तमिति गम्यते । आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च *स एनान् ब्रह्म गमयति* इति ब्रह्मप्राप्तिवचनादचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसमित्य- नुसन्धेयम् । तत्क्रतुन्यायाच्च । परशेषतैकरसत्वञ्च *य आत्मनि तिष्ठन् यस्यात्मा शरीरम्* इत्यादिश्रुतिसिद्धम्* इति । अतोऽक्षरनिष्ठस्याप्यर्चि-रादिगतिः सिद्धा ।
यत्तु *यः सर्वेषु नश्यत्सु न विनश्यति* इत्यस्याक्षर-विषयस्य व्याख्याने *सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति* इत्युक्तम्; तदप्यचित्सम्सृष्टावस्था-विषयम् । अन्यथा पूर्वोक्तगतिविरोधात् । द्वादशाध्याये च *ये त्वक्षरम्* इत्यत्र *तेऽपि माम् प्राप्नुवन्त्येव । मत्समानाकारमसम्सारिणमात्मानम् प्राप्नुवन्त्येवेत्यर्थः* इत्युक्तम् । अतः साम्प्रदायिक एवायम् कैवल्याख्यो मोक्ष इति केचित् ॥
*कैवल्यासिद्धान्तनिरूपणम्*
अत्रोच्यते । न तावदयम् मोक्षो भाष्यकाराभिमतः; शारीरकभाष्ये व्यक्त-मुक्तत्वात् । तथा हि *वाक्यान्वयात्* इत्यधिकरणे तावत् *अमृतत्वस्य परमपुरुषवेदनैकोपायतया प्रतिपादनात्* इत्युक्त्वा *परमपुरुषविभूति-भूतस्य प्राप्तुरात्मनः स्वरूपयाथात्म्यवेदनमपवर्गसाधनभूतपरमपुरुषवेद- नोपयोगितयाऽऽवश्यकम्; न स्वत एवोपायत्वेन* इत्युक्तम् । तथा *येयम् प्रेते विचिकित्सा मनुष्ये* इत्यादिव्याख्याने तत्तद्वाद्यभिमतमोक्षविकल्पा-नुपन्यस्य *त्रय्यन्तनिष्णातास्तु* इत्यादिना जीवपरयोः स्वरूपस्वभावा-नप्यभिधाय *जीवस्यानादिकर्मरूपविद्यातिरोहितस्य अविद्याच्छेदपूर्वक-स्वाभाविक परमात्मानुभवमेव मोक्षमाचक्षते* इत्युक्तम् । *सर्वकर्म-विनिर्मुक्तात्मस्वरूपावाप्तिर्हि भगवत्प्राप्तिगर्भा । *त इमे सत्याः कामा अनृतापिधानाः* इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनात्* इति वेदार्थसङ्ग्रहेऽभिहितम् ।
एवम् वरदविष्णुमिश्रैरपि *नन्वेवम् निश्शेषकर्मक्षयाभावात् कैवल्यप्राप्तौ न मुक्तः स्यात्* इत्याशङ्खयोक्तम् *सत्यम्; अमुक्त एव सः मोक्षस्य परमात्मानन्दानुभव-रूपत्वात्, तस्य ब्रह्मानन्दानुभवाभावात् स्वानन्द-मात्रानुभवात् । स्वानन्द- मात्रानुभवश्च *योगिनाममृतम् स्थानम् स्वात्म-सन्तोषिणश्च ये* इति भगवत्पराशरवचनात् । मुक्तिव्यतिरिक्तमनपायि योगसाध्यमैश्वर्यम्* इति । भट्टपराशरपादैरध्यात्मखण्डद्वयव्याख्यायाम् ऐश्वर्याक्षरयोः अपवर्गव्यति-रिक्ततया तुल्यत्वम् दर्शितम् । *अन्येष्वै-श्वर्याक्षरभोगेषु अनपेक्षया जुगुप्सया साधिष्ठानम्* इत्यादिना ।
यदि चासौ मोक्षः तदा स्वाभाविकरूपप्राप्तिमन्तरेण न पर्यवसानम् । यदि पर्यवसानम्; तदा नित्यसम्सारविशेष एवायमिति मन्तव्यम् । अशरीरस्य कथम् सम्सारित्वमिति चेत्; कथम् वा प्रलयदशापन्नस्य? तदानीमप्युत्तरशरीराद्यारम्भयोग्यसूक्ष्माचित्सम्सर्गादिति चेत्; अस्याप्यचित्सम्सर्गोऽभ्युपगन्तव्य एव । अतः शरीराम्भो भविष्यति न वेत्येष एव विशेषः । किमस्याचित्सम्सर्गे प्रमाणमितिचेत्; स्वपरयाथात्म्या-नुभवाभावः। मायायवनिकान्तर्हितो हि जीवो यथावस्थितम् स्वरूपम् न जानाति । किम् कारणमिति चेत्; कर्मविशेषः । उक्तञ्च वेदार्थसङ्ग्रहे *सर्वकर्मविनिर्मुक्तात्म स्वरूपावाप्तिर्हि; भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधानाः* इति भगवतो गुणगणस्य तिरोधायकत्वेनानृत शब्देन स्वकर्मणः प्रतिपादनात्* इति ।
यद्यस्य निश्शेषाविद्याविलयेऽपि परमात्मयाथात्म्यानुभवो न स्यात्, अन्येषामपि तथा स्यात्; अविशेषात्। तावदेवास्य स्वाभाविकरूपम् स्यात् ।
अचित्सम्सर्गेऽपि कथमसौ पुनर्न सम्सरतीति चेत्; कैवल्यहेतुकर्म-जनितभगवत्सङ्कल्पस्य तथाविधत्वादिति भाव्यम् ।
ननु तापत्रयाभिहितोऽयमीश्वरज्ञानादेव विशुद्धिम् गतः, तत्कथम् विशदस्वात्मा-नुभवदशायामीश्वरम् विस्मरेदिति चेत्; सम्यगुक्तम् । तथापि कैवल्यसद्भावे निर्बन्धश्चेत् पूर्वोक्त एव हेतुः । उक्तञ्च श्रीविष्णुचित्तैः – *ब्रह्मप्राप्तीच्छयोपक्रा-न्तस्योपासनस्य कथम् केवलप्रापकत्वम् ? उच्यते । यथा स्वर्गकामस्यैव यागे प्रक्रान्तस्य यथावदननुष्ठाने ब्रह्मराक्षसत्वादि भवति* इति ।
ननु कस्यैवम्विधे स्वाभाविकभगवदनुभवयोग्यतागन्धविधुरतया-दग्धबीजपर्याये स्वात्मन्यभिलाषः स्यादिति चेत्; हन्त ! अनेवम्विधेष्वपि स्वर्ग-पशुपुत्रभिक्षोदनादिष्वभिलाषिणो दृश्यन्ते, किम् पुनरतिशयानन्द-शालिन्येवम्विधे । प्रसिद्धश्च प्रियास्पदत्वम् स्वात्मनः । आगमश्च *आश्चर्यवत्पश्यति कश्चि-देनम्* इत्यादि । सुप्तोत्थितप्रत्यभिज्ञानम् सुखमहमस्वाप्समित्येवम् रूपम् प्रागेवोक्तम् । प्रपञ्चितञ्च भाष्यादिषु । श्रीविष्णुचित्तैश्चोक्तम् –
*स्वापे सुखत्वाभिज्ञानात् तद्विच्छेदे च रोषतः ।
तदर्थमन्यत्यागाच्च श्रुतिस्मृतिशतैरपि ॥* इति ॥
कथमिह मोक्षव्यपदेश इति चेत्; दुःखहेतुभूतदेहेन्द्रियात्यन्तविलयात् । केनमार्गेण केवलो गच्छति? कुत्र तिष्ठति? इति चेत्; येन केनापि यत्रकुत्रापि । न तावदर्चिरादिगतिः प्रकृतेः परस्तात् वासश्चास्य युज्यते । परमात्मोपा-सनप्रकरणेष्वेव तयोः श्रवणात् । *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते* इति विभागस्यापि परमात्मात्मकस्वात्मानुसन्धानस्वात्म-शरीरकपरमात्मानुसन्धानभेदमूलवात् । यदि चास्यार्चिरादिमार्गेण गतिस्स्यात्, तदा विशिष्टदेशप्राप्त्या निश्शेषाविद्यानिवृत्तिर्ब्रह्मप्राप्तिश्च स्यादेव; *स एनान् ब्रह्म गमयति* इति श्रवणात् । सूत्रञ्च *दर्शनाच्च* इति । एवञ्च सति ज्ञानसङ्कोचहेतुभूताविद्यात्यन्तविलयात् सर्वज्ञत्वादिप्रसङ्गो दुष्परिहरः । भगवद्यामुनमुनिभिरपि *सम्सृत्यक्षरवैष्णवाध्वसु* इति वैष्णवाध्वा पृथगुपदिष्टः । अक्षिपुरुषस्य परमात्मत्वनिर्णयायोक्ते *श्रुतोपनि-षत्कगत्यभिधानाच्च* इति सूत्रे भाष्यञ्च *अधिगतपरमपुरुषयाथात्म्य-स्यानुसन्धेयतया श्रुत्यन्तरप्रतिपद्यमानार्चिरादिका गतिर्या तामपुन-रावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषम् श्रुतवते* इत्यादि । अतोऽपि केवलात्मानुसन्धायिनोऽर्चिरादिगतिर्नास्ति । अन्यथा तया परमात्मनिर्णयायोगात् । *अप्रतीकालम्बनान्नयतीति बादरायणः* इति सूत्रे चात्र वक्तव्यम् सर्वम् प्रपञ्चितम् भाष्ये । पञ्चाग्निविद्यानिष्ठस्यापि प्रकृति-विनिर्मुक्तब्रह्मात्मक स्वात्मानुसन्धायित्वम् तत्रैव तत्क्रतुर्न्यायादिना निर्णीतम् । भूमविद्यागतप्राणशब्दवाच्यकेवलजीवोपासकस्य च अर्चिरादि-गतिः कण्ठोक्त्या प्रतिषिद्धा *नामादिप्राण पर्यन्तप्रतीकालम्बनानाम् तु उभयविधश्रुतिसिद्धोपासनाभावात् तत्क्रतुन्यायाञ्चार्चिरादिगति-र्ब्रह्मप्राप्तिश्च न विद्यते* इत्यादिना । नामादिप्राणपर्यन्तोपासकानाम् *विशेषञ्च दर्शयति* इति सूत्रेण फलान्तरञ्च प्रदर्शितम् । तदधिकरणोपसम्हारे चोक्तम् *तस्मादचिन्मिश्रम् केवलम् वा चिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते; न तान् नयति । अपि तु परम् ब्रह्मोपासीनाना-त्मानञ्च प्रकृतिवियुक्तम् ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम्* इति । सारे चोक्तम् पञ्चाग्निविदस्तु प्रकृतिवियुक्तात्मस्वरूपम् *य आत्मनि तिष्ठन्* इत्यादिना ब्रह्मात्मकमुपासते इत्यप्रतीकालम्बनत्वम् तत्क्रतुन्यायाविरोधश्च । उभयेऽपि परिपूर्णम् ब्रह्मोपासते मुखभेदेन स्वात्मशरीरम् ब्रह्म केचन । ब्रह्मात्मकस्वात्मानमितरे* इत्यादि । एवम् दीपेऽपि प्रपञ्चितम् दृष्टव्यम् ।
एवम् स्थिते श्रीमद्गीताभाष्यवाक्यान्यपि तदनुरोधेन वर्णनीयानि । पञ्चाग्निविदोऽर्चिरादिगतिस्तावत् सर्वग्रन्थेषु अविगीता । तस्य च परमात्मात्मकस्वात्मानुसन्धातृत्वम् सिद्धम् । तस्य किम् कैवल्यमेव पुरुषार्थः? उत परमात्मानुभवोऽपि? इत्यत्र विषयः । तत्र च शारीरकभाष्याद्यनुसारे तस्य परमात्मानुभवः, श्रीमद्गीताभाष्यस्वारस्यानुसारे कैवल्यम्, इतीच्छन्ति । उभयविरुद्धतया ग्रन्थनिर्वहणन्तु श्रीमद्गीताभाष्य-टीकायाम् तात्पर्यचन्द्रिकायामुक्तमस्माभिः ॥
*कैवल्यसारार्थ निरूपणम्*
अत्र किञ्चिदुच्यते । यस्त्वयम् *आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च साधारणीमर्चिरादिकाम् गतिमाह* इत्यादिग्रन्थस्तु प्रस्तुतत्वमात्रेण कैवल्यनिष्ठपरमपुरुषनिष्ठविषय इति न मन्तव्यम् । किम् तु परमात्म-कस्वात्मानुसन्धातृस्वात्म शरीरकपरमात्मानुसन्धातृभेदमिन्नब्रह्म-विद्विषय एव । तथा सति आत्मयाथात्म्य विच्छेदोऽप्य-त्यन्तानुगुणः । एकग्रन्थशकलास्वारस्यम् बहुग्रन्थ स्वारस्याय ग्राह्यम् । नचात्र कश्चिद्भगवद्यामुनमुनिवचनविरोधगन्धोऽपीति । श्रीमद्गीताभाष्येऽपि पञ्चाग्निविद्यानिष्ठस्य ब्रह्मात्मक स्वात्मानुसन्धानम्, तत्क्रतुन्यायात् ब्रह्मप्राप्तिश्च स्फुटतरम् प्रत्यपादि ।
केचित्तु ब्रह्मभूतस्वात्मा कैवल्यभोग्यः, ब्रह्मणस्तु स्वात्मविशेषणतया भानमात्रमस्तीत्याहुः । तर्हि न तत्कैवल्यम् भवेत् । साधनतो गतितः प्रमाणतः प्रकारतश्चदुर्निरूपञ्चतदित्यात्मयाथात्म्यविदः ॥
कान्ताम् प्राप्य विचित्रकर्मरचिताम् पर्यायतो भूमिकाम्
केनाप्यद्भुतनाटकेन कमपि श्रीमन्तमानन्दयन् ।
कृत्वा शास्त्रमुखे मनः प्रतिमुखम् गर्भावमर्शात्परम्
विद्यानिर्वहणेन लब्धविभवो हृद्येष विद्यातते ॥
इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
न्यायसिद्धाञ्जने जीवपरिच्छेदो द्वितीयः सम्पूर्णम् ॥