जडद्रव्यपरिच्छेदः

न्यायसिद्धाञ्जनम्

जडद्रव्यपरिच्छेदः

॥ श्रीः ॥

श्रीमते हयवदनपरब्रह्मणे नमः ।

श्रीमते रामानुजाय नमः ।

श्रीमते निगमान्तमहादेशिकाय नमः ।

श्रीमद्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥

श्रीमन्निगमान्तमहादेशिकैरनुगृहीतम्

॥ श्रीन्यायसिद्धाञ्जनम् ॥

॥ जडद्रव्यपरिच्छेदः ॥

श्रीमद्वेङ्कटनायकः श्रुतिशिरस्तात्पर्यपर्याप्तधी-

र्लब्धार्थो वरदार्यपादरसिकाद्रामानुजाचार्यतः ।

बालानामतिवेलमोहपटलावष्टम्भसीदद्द्दृशाम्

सम्यक्तत्त्वनिरीक्षणाय तनुते सत्तर्कसिद्धाञ्जनम् ॥

सदसद्भूमिकाभेदैस्तत्तत्सिद्धान्तनाटकैः ।

उपप्लुतस्य तत्त्वस्य शुद्ध्यर्थोऽयमुपक्रमः ॥

यन्न्यायपरिशुद्ध्यन्ते सङ्ग्रहेण प्रदर्शितम् ।

पुनस्तद्विस्तरेणात्र प्रमेयमभिदध्महे ॥

*तत्त्वनिरूपणम्*

अशेषचिदचित्प्रकारम् ब्रह्मैकमेव तत्त्वम् ।

तत्र प्रकारप्रकारिणोः प्रकाराणाञ्च मिथोऽत्यन्तभेदेऽपि विशिष्टैक्यादि-विलक्षणैकत्वव्यपदेशस्तदितरनिषेधश्च । अन्यथा समस्तप्रमाणसङ्क्षोभ-प्रसङ्गात् । इदमेव चेत्थम्भूतम् सामान्यतः प्रमाविषयतया विशेषतः प्रकर्षेण मेयतया च प्रमेयमुक्तम् ॥

*तत्त्वान्तर्गतपदार्थ विभाग*

तदन्तर्गतञ्च सर्वम् द्रव्याद्रव्यात्मना विभक्तम् । उपादानम् द्रव्यम् । अवस्थाश्रय उपादानम् । अतथाभूतमद्रव्यम् । प्रत्यक्षादिसिद्धोऽयम् द्रव्या-द्रव्यविभागः ।

*द्रव्याद्रव्यविभागानङ्गीकर्तृबौद्धादि-

मतखण्डनम्*

न सौगतादिनयेनान्यतरनिह्नवः शक्यः, *रूपरूपिप्रभृतीनामबाधिता-नन्यथासिद्धभेदव्यवहारात्, रूपस्पर्शनियताभ्याम् दर्शनस्पर्शनाभ्याम् तदाश्रयैकार्थप्रतिसन्धानात् । ग्राह्यसङ्घातभावेऽपि ग्राहकयोर्विषय-नियमानतिलङ्घनात् । सङ्घातोपाधेश्चैकस्यान्यस्यासिद्धेः, देशकाल-योस्तथाभूतयोस्त्वयाऽनभ्युप- गमात्, अभ्युपगमेऽपि तदैक्येन सम्हतावतिप्रसङ्गात्, एककार्यकारणक-त्वादेश्चासिद्धेः । सिद्धावतिप्रसङ्गस्य दुर्वारत्वात्, एकस्मिन्नेव सन्निकर्षविप्रकर्षादिना पट्वपटुप्रत्ययाद् वेद्यधर्माधिक्यन्यूनतोल्लेखमन्तरेण तयोरसम्भवात् । तत्रैवोदयविलयभाजामवस्थानामध्यक्षसिद्धत्वात्, एकक्षणेऽप्येकस्मिन् श्यामत्वयुवत्वाद्यनेकधर्मदर्शनात् पीतशङ्खभ्रमादौ श्वैत्यानुपलम्भेऽपि शङ्खादिप्रतिसन्धानात्, तस्यैव च तदैव शुक्लतया-ऽन्यैरुपलम्भात्, क्षणभङ्गस्य निराकरिष्यमाणत्वात् । सर्वेष्वपि भ्रमेष्वधिष्ठानभूतस्वरूप-ग्रहेऽपि विशेषाग्रहावश्यम् भावात् । तद्ग्रहेण च भ्रमो-पमर्दाङ्गीकारात् ।

एतेन निर्विशेषैकब्रह्माधिष्ठानविश्वभ्रमवादोऽपि निर्मूलः ।

न च सहोपलम्भनियमान्नीलतदाधारादेरभेदः, एकसामग्रीवेद्यत्वनिय-मात्तदुपपत्तेः, सहत्वतन्नियमाभ्याम् भेदस्यैव स्थिरीकरणेन व्याघातात्, समस्य च सहोपलम्भनियमस्य शङ्खश्वैत्यादावसिद्धेः, असमस्यापि गन्धादौ, भास्वराध्वान्ताभास्वररूपाभ्यामनेकान्तत्वाच्च ।

न च ग्राहकभेदाद् ग्राह्यभेद इव, अन्योन्याश्रयणात् । चक्षुःश्रोत्रादिभेदस्य रूपादिग्राह्यभेदोपाधित्वात्, ग्राहकभेदेऽपि च ग्राह्यैक्यप्रतीतेरुदाहृतत्वात्, ग्राहकैक्येऽपि नीलपीतादिग्राह्यभेददर्शनात्, अन्यत्र च तदविशेषात् । अत एव स्पर्शाद्येकद्वित्रिचतुःस्वभाववाय्वाद्यणुचतुष्कवादो निरस्तः ।

एवञ्च वैशिष्ट्यमपि तात्त्विकम्, विकल्पश्चाबाधितः प्रमाणमिति सिद्धम् । सम्बन्धानुपपत्त्यादिप्रलापस्तु तर्काङ्गपञ्चकान्यतमहान्यादिविध्वस्तः ॥

किञ्च –

परः शतपरिक्षोदात् परस्तादपि वादिभिः ।

उपलम्भबले स्थेयम् तदादौ किम् न गृह्यते ॥

इदमित्थन्त्वयोः किञ्चिद् यदि केनापि भज्यते ।

इदम् नास्तीति वाचोऽपि भङ्गोऽन्यतरभङ्गतः ॥

विसम्वादादिसाध्येषु विकल्पत्वादिहेतवः ।

व्याकुलाः पक्षहेत्वादिबाधाबाधाविकल्पतः ॥

अतः सिद्धोऽयधा तात्त्विकद्रव्याद्रव्यविभागः ॥

द्रव्याणाम् स्थैर्यसाधनम्

क्षणिकत्ववादखण्डनम् च

तानि च द्रव्याणि स्थिराण्येव, क्षणभङ्गे प्रमाणाभावात् । स हि प्रत्य-क्षतोऽनुमानतो वा? नाद्यः, प्रत्यक्षस्य विपरीतरूपत्वात्, प्रत्यभिज्ञाप्रत्यक्षेण स्थिरत्वस्यैव सिद्धेः ।

भ्रान्तिरियमिति चेन्न, कारणदोषबाधकप्रत्ययाभावे तत्त्वायोगात् । यौक्तिकबाधेन दोषोऽप्युन्नीयत इति चेत्, केयम् युक्तिः? करणाकरणाभ्याम् सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मेणा अध्यासप्रसङ्गात्मिका समर्थश्चेत् कुर्यादिति अकुर्वद्दशायामपि करणप्रसङ्गात्मिका वेति चेत् – सहकारि-सन्निधौ कुर्वत्स्वभावत्वस्य, सहकार्यभावप्रयुक्तकार्याभाववत्त्वादेर्वा सामर्थ्य-पदार्थत्वात्, ततश्च समर्थस्यैव करणाकरणयोः सहकारिसन्निध्यसन्निधि-प्रयुक्तत्वादेकत्र समावेशः ।

ननु तावप्येकस्य कथमुपपद्येते इति चेन्न, तत्तत्सामग्रीसन्तानप्रति-नियतकालतया तदुपपत्तेः ।

तत्सामाग्रीविशेषसम्बन्धासम्बन्धयोरपि चोद्यमपरिहार्यमिति चेन्न, भिन्नकालभाविसामग्रीविशेषादेव परिहृतत्वात् ।

तज्जातीयस्यैव बीजक्षणस्य समर्थबीजारम्भे त्वयाऽप्येतदपरिहार्यम् । तत्पूर्वक्षणस्वभावादित्यपि तत एव दत्तोत्तरम्, अन्यथाऽनुपलभ्यमानानन्त-क्षणतत्स्वभावकल्पनागौरवप्रसङ्गात् ।

अन्वयव्यतिरेकवतामपि सहकारिणामकारणत्वे दुर्निर्वहमुपादानस्यापि कारणत्वम् ।

यदि च कालभेदभिन्नयोरेव करणाकरणयोः सहकारिसन्निध्योर्वा वस्तुभेदकत्वम्, देशभेदभिन्नयोरपि करणाकरणयोः सामर्थ्यासामर्थ्ययोः सहकार्यसन्निध्यसन्निध्योर्वा तयोर्भेदकत्वप्रसङ्गेन क्षणेऽपि क्षुद्यमाने-ऽनवधिकभेदप्रसङ्गेन क्वचिदेकम् न सिध्येदिति शून्यवादप्रसङ्गः ।

देशभेदे स्वसन्निध्यसन्निधिभ्यामेव तदुपपत्तिरिति चेन्न, तयोपरि तद्वदेव विरुद्धयोर्भेदकत्वप्रसङ्गात् ।

परस्परविरुद्धपूर्वापरकालसम्बन्ध एव एकस्य कथमिति चेन्न, स्वा-पेक्षया पूर्वापरत्वस्यासिद्धेः । न हि स्वप्रागभावप्रध्वम्सावच्छिन्नकाल- सम्बन्धित्वम् वस्तुनो ब्रूमः । अन्यापेक्षया पूर्वापरयोरपि कालयोरेतदपेक्षया स्वकालत्वे विरोधाभावः क्षणेऽपि स्वीकार्यः । यथा परमाणुद्वयापेक्षया पूर्वापरीभूतस्य तन्मध्यदेशस्य परमाण्वन्तरम् प्रति स्वदेशतया न तस्य तत्सम्बन्धविरोधः । अन्यथा पूर्ववत्क्षणोऽपि क्षुण्णः ।

तथापि पूर्वापरकालयोस्तदुपाध्योर्वा विरुद्धयोस्तेजस्तमसोरिव कथमेकत्र समावेशः? अविरोधे तु यौगपद्यप्रसङ्ग इति चेन्न, यौगपद्ये हि तयोर्विरोधः न त्वेकवस्तुसम्बन्धे । अन्यथा एकज्ञानसम्बन्धेऽपि विरोध-प्रसङ्गेन प्रत्यभिज्ञास्वरूपस्यानुत्पत्तिप्रसङ्गात् ।

यदि पुनः कालयोः स्वरूपभेदेन तादात्म्यविरोधो विवक्षितः, तर्हि रूपरसयोरिव नैकवस्तुसम्बन्धम् प्रतिभन्त्स्यति । न चैकस्यानेकसम्बन्धः क्वचिदपि नास्तीति वाच्यम्, क्षणिकनिर्धर्मकपरमाणावपि पुञ्जदशाया-मनेकनैरन्तर्यादेरभ्युपेतत्वादिति ।

एतेन वर्तमानत्वप्रत्ययात् क्षणभङ्गसिद्धिरिति वदन्तोऽपि निरस्ताः । न हि तेन पूर्वापरकालसम्बन्धाभावो गृह्यते, न चाक्षिप्यते, तद्विरोध्यवर्तमानत्व-मात्रनिषेधात्, तस्य च तदानीम् प्रागभावप्रध्वम्साभावनिषेधात्मकत्वेन पूर्वापरकालसम्बन्धाविरोधित्वात् ।

प्रत्यक्षेणेन्द्रियसम्बन्धक्षणो गृहीतः, क्षणान्तरम् तु तस्य कुतः सिद्ध-मिति चेन्न, प्रत्यभिज्ञानस्य तदबाधस्य चोक्तत्वात् । प्रत्यभिज्ञात्वादेव दीपप्रत्यभिज्ञावत् सर्वापि प्रत्यभिज्ञा भ्रान्तिरिति चेत्, पूर्वाक्तेनैव सोपाधि-कत्वात्, एतदनुमानमात्रबाध्यत्वे प्रत्ययत्वादेव सर्वः प्रत्ययो भ्रान्तिरिति माध्यमिकसमुत्थानस्य दुष्परिहरत्वात् । क्षणभङ्गे भ्रान्तिरूपापि प्रत्यभिज्ञा स्मृतिमात्रमपि नोपपद्यत इत्यात्मनि वक्ष्यामः ।

ततश्च व्याप्तिप्रतिसन्धानाद्यनुपपत्तेरनुमानमात्रमेव निर्मूलमिति कुतः क्षणभङ्गानुमानम्? यत्सत् तत्क्षणिकम्, यथा घटः सन्तश्चामी भावा इत्यपि न । भावशब्देन विश्वपक्षीकारे पक्षहेतुदृष्टान्तभेदासिद्धिः । घटव्यतिरिक्तपक्षी-कारे घटस्य क्षणिकत्वासम्प्रतिपत्तेर्दृष्टान्तत्वायोगः, विरुद्धधर्माध्यासस्य च परिहृतत्वात् ।

अत एव प्रदीपादिदृष्टान्तोऽपि प्रत्युक्तः । तेषामपि त्रिचतुरक्षणस्थायित्वा-भ्युपगमात् । अस्तु तर्हि क्षणोपाधिर्दृष्टान्तः, स हि न स्थिरः । तथात्वे क्षणा-वच्छेदायोगादिति चेन्न, स्थिरैरेव परस्परावच्छिन्नारम्भावसानैः तदवच्छेदोपपत्तेः । परस्परावच्छेदश्च युगपद्विशिष्टबुद्धिविषयतया सिद्धः । यथा दीर्घयोरेव मानदण्डयोः विरुद्धदिक्प्रसृतयोः मध्ये किञ्चित् सम्युक्तयोः परस्परसम्योगावच्छिन्नाम्शेन अल्पतरदेशावच्छेदः कर्तुम् शक्यः । एवम् कालेऽपीति न कश्चिद्दोषः ।

मा भूदन्वयः । यदक्षणिकम् तदसत्, यथा शशविषाणमिति व्यतिरेकः स्यात् । न स्यात्, त्वदभिमतक्षणिकत्वासिद्धेरेव तन्निरूपिताक्षणिकत्वा-सिद्धेः तस्य व्याप्यत्वग्रहणायोगात् । चिरकालस्थायित्वविवक्षायाम् तु निःस्वभावे शशशृङ्गे तदयोगः । अथ शशशृङ्गाभावो दृष्टान्तः; स तर्हि सन्नेव, प्रामाणिकत्वात् । भावेतरत्वलक्षणमसत्त्वमस्तीति चेन्न, भावान्त-राभाववादे तस्याप्यसिद्धेः, अन्यत्राप्यभावस्येव भावस्यापि सुवचत्वात्, प्रत्यक्षत्वादिविरोधपरिहारकुसृष्टेश्चाविशिष्टत्वादिति ॥

केचित्तु नित्यमपि किञ्चित्तत्त्वम् बुद्धोपदिष्टमिति सत्त्वाख्यसाधन-मागमबाधितम् कृत्वा ध्रुवभावित्वमेव हेतुमभिमन्यन्ते । तथा हि – यद्ध्रुवभावि न तद् हेतुसापेक्षम्, अन्यथा ध्रुवभावित्वविरोधात् । अतः कार्याणाम् ध्रुवभाविनः प्रध्वम्सस्याहेतुकत्वसिद्धेर्विलम्बायोगादुदीयमानमेव वस्तु तेन ग्रस्यत इति ।

तत्र ध्रुवभावित्वशब्देन तत्समकालभावित्वतदनन्तरभावित्वनियम-तन्मात्रजन्यत्वतदेकसामग्रीजन्यत्वाहेतुकत्वाद्यर्थविवक्षायाम् यथायथ-मसिद्धिव्याघातसाध्याविशेषादिदोषादेष्यत्वनियममात्रमवशिष्यते । तच्च भवतामपि विसभागसन्तानारम्भककपालक्षणतदविनाभूतप्रतिसङ्ख्या-निरोधादिनाऽनैकान्तिकमिति । अन्यथा सर्वेषामप्युत्तरक्षणानामेष्यत्त्वा-विशेषात्प्रथमक्षण एव सर्वक्षणोत्पत्तौ विश्वविनिवृत्तिप्रसङ्गः ।

आस्थानिवृत्यर्थम् क्षणिकत्वमुपदेष्टव्यमिति चेत् – अहो!  महाधार्मिक-स्यानळीकवादिनो महानयमधर्मः प्रसज्येत । सूक्ष्मधियस्तत्रैवास्थानिवृत्ति-प्रसङ्गाच्च । विश्वानित्यतामात्रोपदेशादपि च तत्सिद्धेः । अन्यथा शून्योप-देशस्यैव अवश्यकर्तव्यताप्रसङ्गादिति ।

प्रत्यनुमानानि च – विगीता प्रत्यभिज्ञा स्वविषये प्रमा; अबाधितबुद्धित्वात्  स्वलक्षणबुद्धिवत् । सा हि स्वविषये प्रमैव अस्माकम् वैभाषिकस्यापि । यत्सत् न तत्क्षणिकम् । यथा सम्प्रतिपन्नम् नित्यम् । सन्तश्चामी भावा इति । यत्प्रतीयते तदक्षणिकम्; यथा शशशृङ्गमिति भवद्व्यव्यवहारेणापि प्रसज्यते । प्रध्वम्सः सहेतुकः पूर्वावधिमत्त्वात् पटवदित्यादीनि च स्वयमुन्नेयानि । एवम् द्रव्यस्य स्थिरत्वम् सिद्धम् ॥

*द्रव्यविभाग विचारः*

तच्च –

द्वेधा जडाजडतया प्रत्यक्तदितरतयापि वा द्रव्यम् ।

षोढा त्रिगुणानेहोजीवेश्वरभोगभूतिमतिभेदात् ॥

धीकालभोगभूतीरविवक्षित्वा गुणादिरूपत्वात् ।

जीवात्मेशभिदार्थम् त्रेधा तत्त्वम् विविञ्चते केचित् ॥

परत एव भासमानम् जडम् । तदन्यदजडम् । स्वस्मै भासमानम् प्रत्यक् । परस्मै भासमानम् परागिति व्यवहरन्ति । तेनाजडाया अपि मतेः पराक्त्वम् सिद्धम् ।

*नारायणार्यकथनस्य निर्वाहः*

यत्तु नीतिमालायाम् नारायणार्यैरुक्तम् – *ज्ञानस्य तु पराक्त्वाभावमात्रमेव । न तु प्रत्यक्त्वमिति* इति । एतदपि पूर्वपक्षप्रोक्तदृग्विषयत्वमात्राधीन-सिद्धिकत्वरूपेदन्त्वाभावाभ्युपगमादिति मन्तव्यम् । एवम् हि तत्र पूर्वपक्षितम् – *तस्य नीलादिवदिदमित्यनवभासात्पराक्त्वाभावेन प्रत्यक्त्वञ्च विद्यते* इति ।

तत्र रजोगुणकत्वतमोगुणकत्वमहदाद्यवस्थार्हत्वानि त्रिगुणलक्षणानि । अध्यक्षादिभिर्यथासम्भवम् नानावस्थस्य तस्य सिद्धेः ।

तच्च अधः प्रभृतिदेशेष्वनन्तम् । ऊर्ध्वम् हि भोगविभूत्यवच्छिन्नम् । नित्यविभूतेस्तमः परत्वश्रुतेः; त्रिगुणस्य च *तदनन्तमसङ्ख्यात-प्रमाणञ्च* इति वचनात् ।

तच्च विचित्रसृष्ट्युपकरणत्वान्माया, विकारान् प्रकरोतीति प्रकृतिः । विद्याविरोधादिभिरविद्यादिश्चोच्यते ।

समविषमविकारसन्तानाम्श्च कालभागभेदाभ्यामारभते । इदञ्च परिस्पन्दादियोग्यभूतेन्द्रियपरिणामदशायामपि निश्छिद्रमेव । तत एव हि स्वकार्यव्यापकत्वम् । द्वयोरन्यतरस्य वा स्पर्शशून्यतया न सप्रतिघत्व-विरोधः । वाय्वादिभूतचतुष्टयम् हि स्पर्शवदस्पर्शेनाकाशेन व्याप्तम् । इदमेव त्रिगुणम् पूर्वावस्थोपमर्दकावस्थाभेदाच्चतुर्विम्शतितत्त्वानि मूलप्रकृति-र्महानहङ्कार इन्द्रियाण्येकादश पञ्चतन्मात्राणि पञ्चभूतानि चेति ॥

* त्रिगुणम् निरवयवमिति पक्षः*

ननु एकस्य कथम् बहुधाऽवस्थितविश्वात्मना परिणामः? एकस्यैव मृत्पिण्डस्य घटशरावादिरूपेणेवेति चेन्न; निरवयवे तथानुपपत्तेः । सावय-वत्वे वा बहूनामेव बहुधा परिणामप्रसङ्गात् । तथा च गतमेकोपादानवादेन । एकमेव सदनेकभागात्मकमव्यक्ताख्यमुपादानमिति चेन्न; विकल्पा-सहत्वात् ।

तथा हि – किम् एकत्वमनेकत्वञ्च एकाश्रयमिति मन्यसे? उत एकत्वमम्शिनि अम्शेषु चानेकत्वमिति? यद्वा परिषद्वनसेनादिष्विव अनेकेषामेव सतामेकत्वमेकोपाधिसम्बन्धायत्तमिति? न प्रथमः; व्याघातात् । अन्यथा भेदाभेदवादाय कथम् कुप्येत्? न द्वितीयः; अवयव्यङ्गीकार-प्रसाङ्गात् । तदभ्युपगमेऽपि तस्मादेकस्माज्जगदुत्पत्त्यभावात् । तदम्शा एव हि ततो भिन्ना बहुधा परिणमन्ति । ततो वरमनारूढनिरर्थकैकद्रव्यैः परमाणुभिरेव जगद्द्रव्यारम्भः । अत एव न तृतीयः; प्रथक्पृथगारम्भकत्वे समुदायनिर्देशस्य निरर्थकत्वात् । वास्तविकस्य च एकत्वस्य वनादिष्वप्य-सम्भवात् । औपाधिकैक्यव्यपदेशस्य च  वैशेषिकाद्यभिमतानन्तपरमाणू-पादानवादेऽपि अविशेषात् । अतः एकमनेकधा परिणमतीति कल्पना विवर्तवादस्य प्राग्रूपमिति ॥

अत्र ब्रूमः –

प्रदेशवर्तिसम्योगाद्याधाराणुविभुक्रमात् ।

निरम्शस्यापि घटते प्रादेशिक विकारिता ॥

न तावत्सर्वमद्रव्यम् स्वाश्रयव्यापि; सम्योगादेरन्यथोपलम्भात् । नापि सर्वमाश्रयैकदेशवर्ति स्वाभावसामानाधिकरण्यरहितधर्मोपलब्धेः ॥

अतो विभुष्वणुषु च ग्राह्याः प्रादेशिका गुणाः ।

तथाचाभ्युपगम्यन्ते सर्वैर्वैशेषिकादिभिः ॥

अत्र यद्यपि विभुषु निमित्तभूतमूर्तद्रव्यसम्योगावच्छिन्ने प्रदेशे गुणान्त-रोत्पत्तिरिष्यते, तथापि मूर्तद्रव्यसम्योगस्यैव प्रादेशिकत्वम् कुतः सिद्धम्? न हि विभुषु स्वतः प्रदेशभेदमिच्छथ । न च सम्योगोपाधिके प्रदेशे सम्योग-स्योत्पत्तिः, परस्पराश्रयप्रसङ्गात् । सम्योगविशेषात्प्रदेशभेदसिद्धिः, सिद्धे च तस्मिन्प्रादेशिकसम्योगोत्पत्तिरिति । अत एव मूर्तैर्घटादिभिर्विभुषु स्वपरि-माणानुरूपप्रदेशावच्छेद इत्यपि वार्तम् । अणुद्वयसम्योगे तदनुपपत्तेश्च । अतः सामग्रीविशेषादुत्पद्यमान एव सम्योगो निरवयवेऽपि परमाणौ परममहति वा वस्तुनि स्वाभावसामानाधिकरण्यमनुभवन् स्वाभावाभावात्मकस्वानुबन्धेन यथोपलम्भप्रतिनियतप्रदेशभेदधियमुपदधातीति प्रमाणबलादभ्युप-गन्तव्यम् ।

एवमिहापि निरवयवेऽपि त्रिगुणे परमेश्वरसङ्कल्पविशेषपर्यवसितैः सामग्रीभेदैः स्वाभाविकसम्विभक्ताश्रयाः प्रतिनियतप्रदेशाः परिणतिभेदाः प्रादुष्षन्तीति । तत्र स्पर्शादिलक्षणप्रादेशिकपरिणतिदशायाम् छेदनभेदन-परिस्पन्दनादीनामपि सिद्धिरिति किम् नोपपद्यते? स्पन्दस्पर्शादिभेदाश्रया-म्शानामपि भेदाः त एव विलक्षणधर्माः । यथा निर्भिदाकाशवादे प्रदेशानाम् सम्योगविशेषास्तीव्रतरशब्दादिधर्मा एव वा भेदाः, तद्वदत्रापि ।

नन्वेवमप्यनतिलङ्घनीयैव भेदाभेदवागुरेति चेन्न, ईदृशभेदाभेद-प्रसङ्गस्य वैनाशिकमतेऽपि अविवादात् । अविरोधाच्च । तस्य च अतत्त्ववादे हि विरोधम् ब्रूमः । नपुनस्तथाभूतस्यातथापरिणामे, अवस्थारूपयोरेकत्व-बहुत्वयोः कालभेदेन परिहारात् । तथा च भाष्यम् – *कपालत्वचूर्णत्व-पिण्डत्वाद्यवस्थाप्रहाणेण घटत्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था, तत्प्रहाणेन एकत्वावस्थेति न कश्चिद्विरोधः* इति ।

भवतु अवस्थारूपस्यैकत्वस्य पूर्वापरभाविना बहुत्वेन अविरोधः । तद्द्रव्यस्वरूपैक्येन तु विरोधः स्यात् । न स्यात्; तद्द्रव्यस्य हि अतद्द्रव्यत्वम् विरुद्धम् । न तु तस्यैव सतोऽनेकधर्मयोगोपाधिकम् बहुत्वम् । आह च भगवान्पराशरः –

*परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।

मिथ्यैतदन्यद्द्रव्यम् हि नैति तद्द्रव्यताम् यतः ॥* इति ॥

अस्तु वा स्वतः साम्शत्वम् पिण्डवदव्यक्तस्य । तथापि पिण्डवदेव न भेदाभेदावयविवादप्रसङ्गः ।

नन्वेवम् यथाम्शम् स्वकार्यारम्भकत्वे किमेकीभावावस्थाकल्पनेन इति चेन्न; यदि वयम् कापिलवत्कल्पयेमहि, तदैवमुपालभ्येमहि । कारणश्रुति-समधिगता तु एकत्वावस्था न कल्पनागौरवानुयोगविषयः । न च नैरर्थक्यम्; श्रुति बाधपरिहाराय प्रयोजनकल्पनोपपत्तेः । न च एकत्वमौपाधिकत्वा-दवास्तविकम्; सम्पिण्डितानामेकारम्भादेकत्वारम्भस्यैव लघुत्वात् । अवयविभङ्गे च एतत् स्थापयिष्यामः ।

न च एवमपि पराभिमतपरमाणुपुञ्जमात्रत्वमाशङ्कनीयम्, गन्धरस-रूपस्पर्शादिरहितपरस्पराप्रतिघातकसत्त्वरजस्तमोरूपगुणत्रयाश्रयपरस्पर-सुश्लिष्टपञ्चभूतसूक्ष्मद्रव्यरूपत्वेन श्रुत्यादिसिद्धे पराभिमतपरमाणुस्वभाव-गन्धाभावेनार्थान्तरत्वसिद्धेः ।

यत्तु औपाधिकभेदाभेदवादिनम् प्रति भाष्ये ब्रह्मण उपाधिसम्सर्गादपि छेदनाद्यनुपपत्तिकथनम्, तद्ब्रह्मस्वरूपस्य निष्कलत्वाच्छेद्यत्वादि-वचनबलमवलम्ब्य । अन्यथा ब्रह्मस्वरूप एव सविकारत्वापत्तौ निर्विका-रत्वश्रुतेरनवकाशत्वप्रसङ्गात् । तत्र च सर्वज्ञत्वात्सर्वाम्शगतसुखदुःखादि-प्रतिसन्धानप्रसङ्गो दुष्परिहरः । इह तु अम्शभेदप्रतिनियतविकारेषु न स्वभावसङ्कर इति ॥

*परमाणुकारणवादस्य निरासः*

एतेन परमाणुकारणवादो निरस्तः । जालालोकविलोकनीयत्रसरेणु-शब्दवाच्यद्रव्यादिरिक्ताप्रत्यक्षाणुकल्पने प्रमाणाभावात् । तेष्वेव मात्रया भेदमवलम्ब्य परमाणुद्व्यणुकत्र्यणुकादिव्यपदेशः प्रमाणग्रन्थेषु । तेषामेव रूपाद्यनुद्भवदशायाम्  गृह्यमाणगन्धाश्रयगन्धवहानीतसूक्ष्मद्रव्यवद-चाक्षुषत्वादिसम्भवात्परमाणोरप्रत्यक्षत्वव्यवहारः क्वचित्कृतोऽपि न विरुध्यते । न च पवनानीतगन्धाश्रयद्रव्येषु परमाणुत्वम् भवतामपीष्टम्, परमाणूनाम् प्रत्यक्षगुणाश्रयत्वानभ्युपगमात् । अतः प्रत्यक्षात् आगमाद्वा न भवदभिमतपरमाणुसिद्धिः ।

अनुमानानि तु पश्यामः । अणुपरिमाणतारतम्यम् क्वचिद्विश्रान्तम्; परिमाणतारतम्यरूपत्वात् । महत्परिमाणतारतम्यवदिति चेन्न; तारतम्यरूपत्वादित्येतावतापि व्यभिचाराभावेन परिमाणविशेषणस्य व्यर्थत्वात् । पारिमाण्डल्यविवक्षयाऽणुशब्दप्रयोगेऽन्योन्याश्रयणात् । महत्त्वापकर्षतारतम्यस्य त्रसरेणावेव पर्यवसितत्वाभ्युपगमात् । सामान्यतः परिमाणापकर्षतारतम्यविवक्षया प्रयोगेऽपि तद्विश्रान्तेरपि दृश्यमान एव उपपत्तेः ।

एवमवयवापकर्षतारतम्यविश्रान्तेरपि । अस्तु वा तस्याविश्रान्तिः । तथापि आधिक्यन्यूनताभ्याम् प्रमाणसिद्धाभ्याम् सर्षपमहीधरादि-परिमाणाविशेषप्रसङ्गः परिहृतः । अनन्तत्वाविशेषेऽपि परापरजातीयेषु क्षणदिवसपक्षमाससम्वत्सरचतुर्युगकल्पादिषु च आधिक्यन्यूनतयोः भवद्भिरप्यभ्युपगतत्वात् ।

विप्रतिपन्नम् कार्यद्रव्यारब्धम्; महत्त्वे सति चाक्षुषत्वात्, चाक्षुष-द्रव्यत्वात् इत्यादीनाम् विपक्षे बाधकाभावादप्रयोजकत्वम् । द्रव्यचाक्षुषता-प्रकर्षो महत्त्वावयवसङ्ख्याप्रकर्षानुविधायी दृष्टस्तद्धेतुक एव । अतस्तदभावे चाक्षुषत्वम् न स्यादिति चेन्न; यथोपलम्भम् योग्यतास्वीकारात् । अन्यथा महावयवारब्धत्वस्यापि व्याप्तावनुप्रवेशप्रसङ्गात् । लाघवञ्च अस्मन्मते । वायवीयतैजसाप्यपार्थिवत्रसरेण्वादेरपि पूर्वपूर्वभूतात्मककार्यद्रव्यारब्धत्वा-दस्मन्मतेन सिद्धसाधनत्वञ्च । कार्यावयवित्वसाधनेऽपि चाक्षुषतया- ऽस्मदुपगतेन कालेनानैकान्त्यम् दुष्परिहरम् । परिदृश्यमानमेव परमाणु-मिच्छताम् महत्त्वविशेषणमसिद्धञ्च । चाक्षुषद्रव्यत्वादेव महत्त्वसाधनमपि पूर्ववद्दूष्यम् ।

पृथिवीत्वम् नित्यसमवेतवृत्ति घटपटजातित्वात् सत्तावत् इत्यादि-कुटिलानुमानान्यपि पूर्ववद्विपक्षे बाधकाभावात्, विषयनियमराहित्येनाति-प्रसञ्जकत्वात्, पृथिवीत्वम् नित्यवृत्ति न भवति; पृथिवीमात्रजातित्वा-द्घटत्ववत् इत्यादिभिस्तादृशैरनुमानैः प्रतिपक्षयितुम् शक्यत्वात्, अभिमत-विशेषपर्यवसानासिद्धेश्च निरूपका नानुमानेषु गणयन्ति । घटादीनाम् सर्वेषाम् नित्येश्वराश्रितत्वाभ्युपगमादतिरिक्तसमवायानभ्युपगमाच्च सिद्धसाधन-त्वञ्च । नित्यवृत्तीतिसाधनेऽपि घटादिरूपेण परिणतस्यापि त्रिगुणद्रव्यस्य स्वरूपतो नित्यत्वाभ्युपगमात् स एव दोषः ॥

* परमाणुदूषकचोद्यविषये विचारः*

एवमारम्भकाणामणूनाम् कृत्स्नैकदेशसम्योगविकल्पेनाधिक-परिमाणद्रव्यनारम्भकत्व सभागत्वादिचोद्यम् परमाणुदूषकैः सर्वैरपि क्रियते । भाष्यकारैश्च *महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्* इत्यस्मिन्नधिकरणे तदेव चोद्यम् कृतम् । तदेतन्माध्यमिकानामेवोपपद्यते, न त्वन्येषाम् । तथाहि – सौत्रान्तिकाद्यैरपि पुञ्जदशायाम् परमाणूनाम् सम्योगानभ्युपगमेऽपि परस्परावृतत्वानावृतत्वादिकम् दिगवच्छेदभेदेन स्वीकार्यम् ।

ज्ञानमात्रवादिनोऽपि ज्ञानसायैकस्यानेकज्ञेयाकारसम्भन्धे कृत्स्नैक-देशविकल्पस्तदवस्थ एव । ज्ञेयमिथ्यात्वम् तु तत्परिहारः; मिथ्याभूतेऽ- प्युल्लेखावश्यम्भावात् ।

यस्तु प्रत्यक्षाण्येव सूक्ष्मद्रव्याणि निर्भागाण्यभ्युपगच्छति, तस्यापि विभूनाम् निरवयवानाम् सम्योगे तदेव चोद्यम् स्थितम् ।

यस्तु विभुद्रव्यमपि नैच्छत्, तस्यापि सामान्ये स्यात् । तस्यापि अनभ्युपगमे सम्योगसमवायादावनेकनिष्ठे स्यात् । न हि द्रव्य एवेदम् चोद्यमिति नियमोऽस्ति । द्रव्याणामेव भागवत्त्वयोग्यतेति चेत्, तर्हि अणुविभुव्यतिरिक्तद्रव्याणामित्यपि ग्राह्यम् । सत्यम्, कथम् तर्हि भाष्यम्? दृश्यमानातिरिक्तकल्पनानिरासाभिप्रायम् । निर्भागतयोपलभ्य-मानस्यापि यः सावयवताम् कल्पयति, तस्य सर्वम् द्रव्यम् द्रव्यारम्भक-मवयवतः सम्युज्यैवारभते, दिगवच्छेदोऽप्यवयवत एवेति व्याप्तिः स्यात्, ततः पराभिमतप्रतिष्ठिताण्वसिद्धिरिति प्रत्यक्षागमसिद्धाण्वीश्वरादिषु यथाप्रमाणमङ्गीकार्यम् । अत एव *कृत्स्नप्रसक्तिर्निरयवत्वशब्दकोपो वा* इति सूत्रे *श्रुतेस्तु शब्दमूलत्वात्* इत्यादि च परिहारसूत्रम् ।

*त्रिगुणकारणत्वविषये शङ्का समाधानम् च *

अस्तु तर्हि प्रत्यक्षसिद्धैरेव सूक्ष्मद्रव्यैर्जगदारम्भः । मैवम्, स्वतन्त्रारम्भे शास्त्रविरोधात् । परतन्त्राम्भाभ्युपगमे च यथागमम् प्रकृतेरपि स्वीकार्यत्वात् । भूतचतुष्टय पूर्वभाविनश्च प्रपञ्चस्य तदारम्भणीयत्वविरोधात् । महाभूतचतुष्टयावयवानामाकाशशब्देनाभिधानम् इति हास्यम् । भूतानामन्योऽन्योपादानोपादेयत्वविशिष्ट सृष्टिक्रमप्रक्रियाविरोधाच्च । भूत चतुष्टयातिरिक्तम् नास्तीति चेन्न, आगमविरोधात् । तथा त्रसरेणूनामेव गन्धादिरहितावस्थाऽस्त्विति स्वीकारे तद्वदविभागापत्तिःस्वीकार्येति सैव मूलप्रकृतिरिति सिद्धम् ॥

*मूलप्रकृतेर्लक्षणादि*

सा च समत्रैगुण्या मूलप्रकृतिः । तस्यामपि मात्रया भेदमवलम्ब्य अव्यक्ताक्षरविभक्ताविभक्ततमोरूपावस्थाचतुष्टयमामनन्ति । उक्तञ्च न्यायसुदर्शने वरदनारायणभट्टारकैः – *द्विविधाः स्मृतिकाराः । केचिद-व्यक्तकारणवादिनः । केचित् तमः कारणवादिनः । अव्यक्तस्यैव सूक्ष्मावस्थाभेदोऽक्षरम् तमश्च नातीव भेद इत्यव्यक्ते पर्यवस्यतामभिप्रायः । तमपि भेदमुररीकृत्य तमसि पर्यवस्यताम् । तस्मादुभयेषामविरोधः* इति ।

यत्तु भाष्यादिषु अव्यक्त सहपठिताक्षरशब्दस्य चेतनविषयतया बहुशः उपादानम्; तत्परव्याख्यानप्रकारमनुरुध्य वा, स्वरूपतो निर्विकारे जीवे सृज्यत्ववचनाच्चिद्रूपविकारवत्त्वेऽपि यथाक्षरशब्दप्रवृत्तिः; तथा परब्रह्मे-तरविषयस्याक्षरशब्दस्याचिदवस्थाविशेषेऽपि शक्तिकल्पनोपपद्यत इति प्रतिपादयितुम् वा, क्वचित्क्षरे प्रकृतिविशेषे अक्षरशब्दप्रयोगस्य मुख्यत्वायोगात् परब्रह्मरूपाक्षरसम्बन्धेन लक्षणायाम् प्रयोजनाभावात्, जीवसम्बन्धेन लक्षणायाम् लयविशेषप्रतिपादनौचित्यात्, *उभावेतौ लीयेते परमात्मनि* इत्यादिना द्वयोरपि लयाभिधानाच्च अत्र अजहल्लक्षणैव युक्तेत्यभिप्रायेण वेति न कश्चिद्विरोध इति ॥

*महतो लक्षणादि*

*महद्द्रव्यनिरूपणम्*

अव्यक्ताहङ्कारावस्थाऽव्यवहितोत्तरपूर्वावस्थाविशिष्टम् त्रिगुणम् महान् । तच्छब्दवाच्यत्वमेव वा तल्लक्षणम् । एवमहङ्कारादिष्वपि भाव्यम् । अध्यवसायरूपवृत्तिर्महानिति साङ्ख्याः । यथाहुः – *अध्यवसायो बुद्धिः* इति । तदसत्, अध्यवसायस्याधर्मत्वात् । यदि परम् तन्निमित्तत्वमात्रम् महतः, तावतैव बुद्ध्यवसायादिप्रयोगविषयत्वम्, न च तन्निमित्तत्वमात्रम् लक्षणम्, अतिव्याप्तेः, अवान्तरविषयस्यापि अनवधारणात् । अवधारयताम् तु तदपि लक्षणम् । एवम् धर्माधर्मादिकारणत्वादिकमपि लक्षणम् निरसनीयम् । स त्रिधा – सात्त्विको राजसस्तामसश्चेति । तत्र तत्तद्गुणोन्मेषवशादम्शभेदात्त-त्तद्व्यपदेशः ॥

*अहङ्कारतत्त्वनिरूपणम्*

*अहङ्कारद्रव्यनिरूपणम्*

इन्द्रियाव्यवहितपूर्वावस्थाविशिष्टम् त्रिगुणमहङ्कारः । अत्रापि पूर्ववत् *अभिमानोऽहङ्कारः* इति साङ्ख्यलक्षणम् दूषणीयम् । स च अनात्मनि देहे अहम्भावकरणहेतुत्वमात्रादहङ्कारशब्दवाच्यः । न त्वहमर्थत्वात् । प्रतीच आत्मन एव तत्त्वात् । न चैवम् त्याज्यत्ववचनविरोधः, अहङ्कारस्य उत्कृष्टजनावमानहेतोर्गर्वापरपर्यायस्याभिमानस्य तथोक्तेः ।

सोऽपि पूर्ववत् त्रिविधः । तत्र सात्विकादिन्द्रियाणि । तामसात् शब्दतन्मात्रम् । राजसः उभयानुग्राहकः । राजसतामसयोरपीन्द्रिया- व्यवहितपूर्वभावित्वमात्रम् सिद्धमिति नाव्याप्तिः । त्रयाणाम् प्रत्येकप्रत्येक- लक्षणमपि यथास्वम् कार्यकारणप्रकाराः । यत्तूक्तम् भोजराजेन –

स्यात् त्रिविधोऽहङ्कारो जीवनसम्रम्भगर्वरूपोऽयम् ।

सम्भेदादस्य सतो विषयो व्यवहार्यतामेति ॥

सात्त्विकराजसतामसभेदात्सञ्जायते पुनस्त्रेधा ।

स च तैजसवैकारिकभूतादिकनामभिः समुच्छ्वसिति ॥

तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि ।

भूतादेस्तन्मात्राण्येषाम् सर्गोऽयमेतस्मात् ॥ इति ॥

तत्र विरुद्धाम्शो बाह्यशैवागममूलत्वेन अनादरणीयः । एवम् भगवत्पराशराद्युक्तप्रमाणतमपुराणाद्यानुगुण्येन पुराणान्तरादिवचनादीनि निर्वाह्याणि । अत्यन्तविरुद्धानि तु अनादेयानि ॥

*इन्द्रियद्रव्यस्य निरूपणम्*

प्राणाद्यन्यत्वे सति हृत्कर्णचक्षुरादिशरीरप्रदेशविशेषावच्छिन्न-व्यापारतया तत्त्कार्यविशेषशक्तमिन्द्रियम् । *अशरीरम् प्राणधार्यमेव यद्द्रव्यम् पुरुषोपकारकम् तदिन्द्रियम्* इति वरदविष्णुमिश्रैः उक्तम् । *सात्विकाहङ्कारोपादानकमिन्द्रियम्* इति साङ्ख्यादिलक्षणमप्राकृते-न्द्रियव्याप्तेरयुक्तम् । *शरीरसम्योगेसत्येव साक्षात्प्रमितिसाधनमप्रत्यक्षम् साक्षात्कारसाधनम्* इत्यादि वैशेषिकाद्युक्तम् तु कर्मेन्द्रियाव्याप्त्यादेरनु-पपन्नम् । वक्ष्यते च वागादीनामिन्द्रियत्वम् ॥

*इन्द्रियविभागप्रकारः*

द्विधेन्द्रियम् प्राकृतमप्राकृतमिति । शुद्धाशुद्धसत्त्वयोगादेस्तद्भेदः । अव्यक्तमहङ्कारेष्वपि प्राकृताप्राकृतविभागोऽस्तीति केचिदाचार्याः । शब्दतन्मात्रसहभवत्वसात्विकाहङ्कारोपादानद्रव्यत्वादि प्राकृतेन्द्रिय- लक्षणम् । पुनश्च इन्द्रियम् द्विविधम् ज्ञानेन्द्रियम् कर्मेन्द्रियमिति । ज्ञानप्रसरणशक्तमिन्द्रियम् ज्ञानेन्द्रियम् । तत् षोढा मनः श्रोत्रादिभेदात् । उक्तश्चैवम् विभागस्तत्त्वरत्नाकरे भट्टपराशरपादैः – *तच्च षोढा* इत्युपक्रम्य *आन्तरम् मनः* इत्यन्तेन । मनः पूर्वकत्वात्सर्वप्रवृत्तीनाम् मनः कर्मेन्द्रिय-मिति साङ्ख्यादयः । यथाहुः –

*बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनात्वगाख्यानि ।

वाक्पाणिपादपायूपस्थम् कर्मेन्द्रियम ह्याहुः ॥

उभयात्मकमत्र मनः* इति ।

तदसत्, तस्य च ज्ञानद्वारैव कर्महेतुत्वात् । तावता च तथात्वे चक्षुरादावपि प्रसङ्गात् । क्वचित्कर्मेन्द्रियत्व व्यवहारस्तु औपचारिकः । मानसवाचिक-कायिककर्मविभागस्तु कर्मशब्दस्य शुभाशुभसङ्कल्पादिरूपज्ञानेऽपि प्रयोगात् । अतः षडपि ज्ञानेन्द्रियाणि । तत्र प्राकृत विभागम् प्रत्युच्यते ॥

*प्राकृतमन इन्द्रियस्य निरूपणम्*

अशुद्धसत्वे सति पञ्चविषयसाधारणेन्द्रियत्वम्, स्मृतिकरणेन्द्रियत्वम् इत्यादि प्राकृतमनोलक्षणम् । तच्च हृत्प्रदेशमात्राधिष्ठानम् । इन्द्रियाणा-न्तराणामपि हृत्प्रदेश एव कन्दस्थानम् । स्थानान्तरेष्वपि यथासम्भवम् वृत्तिः । आत्मनोऽपि तत्रैव भूयसा वृत्तिः । तथा च भाष्यम् -*सर्वेन्द्रिय कन्दभूतस्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम्* इति । मन एकमेव अन्तःकरणम् । सङ्कल्प अद्यवसायादयस्तद्व्यापारभेदादेव जायन्ते इति नान्तःकरणवैविध्यम् । तथा च भाष्यम् – *अध्यवसायाभिमानचिन्तावृत्ति भेदात् मन एव बुद्ध्यहङ्कारचित्तशब्दैर्व्यपदिश्यते* इति । उदाहृतञ्चैतत् प्राणे सूत्रकारैः – *पञ्चवृत्तिर्मनोवद्व्यपदिश्यते* इति । अतः *अन्तःकरणम् त्रिविधम्* इत्यादिवादिनः साङ्ख्यादयो निरस्ताः ॥

*प्राकृतश्रोत्रेन्द्रियस्य निरूपणम्*

शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियम् प्राकृतश्रोत्रम् । तन्मनु-ष्यादीनाम् कर्णशष्कुल्यवच्छिन्नवृत्ति । द्विजिह्वानाम् नयनवृत्ति । तदुक्तम् न्यायतत्त्वे करणपादाष्टमाधिकरणे – *चक्षुषा श्रवणम् सर्पाणामेवेति नियम्यते* इत्यादि । यत्तूक्तम् तत्त्वरत्नाकरे – *कर्णशष्कुलीशरीरनयन-गोलकरसनानासिकाधिष्ठानानि च तानि* इति, तत्प्रायिकम् मन्तव्यम् ।

एतस्य नाभसत्वादिगुपादानत्वादिवादानामनन्यथासिद्धा-हङ्कारिकत्ववचनबलादाप्यायितत्वादिभिर्निर्वाहः । यत्तु करणपाद पञ्चमाधिकरणे नेत्रश्रोत्रादि शक्तीनामालोकशब्दाद्यात्मकत्वमुक्तम्, यच्च तथैव सप्तमाधिकरणे – *अन्नस्य अतिसूक्ष्मपरिणाममिन्द्रियम्* इत्यादिना *कर्मेन्द्रियाणामप्यन्नपरिणामत्वात्* इत्यादिना च इन्द्रियाणाम् भौति-कत्वम् प्रतीतम्, तदप्यखिलमाप्यायनाभिप्रायेण निर्वाह्यम् । तथैव हि स्मृतिवचनमपि वेदार्थसङ्ग्रहे निर्व्यूढम् । यथा – *वैकारिकाहङ्कारादेका-दशेन्द्रियाणि जायन्ते इति हि वैदिकाः* इत्युपक्रम्य *एवमाहङ्कारिकाणा-मिन्द्रियाणाम् भूतैश्चाप्यायनम् महाभारते उच्यते* इति ।

*श्रोत्रभौतिकत्वानुमाननिरासः*

श्रोत्रम् भौतिकम् बाह्येन्द्रियत्वात्, आकाशः इन्द्रियारम्भको भूतत्वात्, शब्दः स्वसमानजातीयगुणवता इन्द्रियेण गृह्यते, बहिरिन्द्रिय व्यवस्थाहेतु गुणत्वात्, श्रोत्रम् स्वग्राह्यगुणसजातीयगुणवत् बहिरिन्द्रियत्वात् – इत्यादी-नाम् चक्षुराद्यभौतिकत्वस्य वक्ष्यमाणत्वात् साध्यविकलत्वश्रुतिबाधादि-दूषणानि वाच्यानि – शब्दस्य भूतधर्मत्वात् श्रुतेर्वैकारिकत्वतः । सम्युक्त- निलयो योग्यः स तथा सम्प्रतीयते ॥

शब्दस्य द्रव्याद्रव्यत्वश्रोत्रगमनशब्दागमानादिविवादमद्रव्ये शमयिष्यामः ।

*त्वगादीन्द्रियाणाम् निरूपणम्*

त्वगादीनामपीन्द्रियाणाम् पूर्वोक्तश्रोत्रलक्षणे शब्दमात्रपदस्थाने क्रमात् स्पर्शमात्रादिपदन्यासेन लक्षणम् ऊह्यम् । तत्र त्वगाश्रयः कृत्स्नम् वपुः ।  प्रदेशभेदेन स्पर्शोपलम्भतारतम्यम् । नखदन्तकेशादिषु स्पर्शानुपलम्भश्च प्राणमाद्यन्तारतम्यात् इति करणपादाष्टमाधिकरणे प्रोक्तम् । यथायोग्यम् वाय्ववादि चतुष्टयम् सम्योगेन तया गृह्यते । स्पर्शादयस्तु सम्युक्तनिष्ठतया । चक्षुरादीनामाश्रयाः नयनगोलक तालुनासाः । तत्र गजानाम् नासा हस्तः इति पाणिघ्राणयोरेकमेवाधिष्ठानमुच्यते । तत्रोक्तम् *हस्तेन गन्धोपलब्धिः गजानामेव* इत्यादि । जङ्गमशरीरेष्वेव प्रायशोऽयमिन्द्रियप्रदेशनियमः । चक्षुषा वायु व्यतिरिक्तभूतचतुष्टयम् तथैव गृह्यते । रूपादयोऽपि स्पर्शादिवत् । दूरस्थग्रहणे तु चाक्षुषमहःप्रसरणात् सम्बन्धसिद्धिः । तच्च करणपादद्वितीयाधिकरणे प्रपञ्चितम् ॥ प्रतिबिम्ब- ग्रहणे तु स्वच्छद्रव्यप्रतिहतस्य नयनमहसः प्रतिस्रोतःप्रसरादिमूलकत्वम् भ्रान्त्यधिकरणपूर्वपक्षे अभिहितम् । स्फटिकादौ दर्शनवशात् नयनादि-प्रभामात्रप्रवेशयोग्यम् सम्स्थानमिति सर्वेषाम् तद्व्यवहितोपलम्भः । अञ्जनादिसम्स्कृतनयनप्रभायाः पृथिव्यादावनुप्रवेशात् तदक्तचक्षुषाम् निधि प्रभृतेरुपलम्भः । जिह्वाघ्राणाभ्याम् तु रसगन्धौ क्रमात्सम्युक्तनिष्ठतया गृह्येते । उक्तञ्चेदम् सम्बन्ध द्वैविध्यम् तत्त्वरत्नाकरे –

*तत्र वृद्धा विदामासुः सम्योगम् सन्निकर्षणम् ।

सम्युक्ताश्रयञ्चेति यथासम्भवमूह्यताम् ॥* इति ॥

तदेवम् मनःस्पर्शनलोचनानि द्रव्याद्रव्यग्राहकाणि । श्रोत्रजिह्वाघ्राणानि अद्रव्यग्राहकाणि । सर्वेषामपि इन्द्रियाणाम् तत्तत्कालादिविशिष्टवस्तु-ग्राहकत्वात् द्रव्याद्रव्यग्राहकत्वमेव वा । उक्तञ्च प्रमेयसङ्ग्रहे श्रीविष्णु-चित्तार्यैः सन्मात्रप्रत्यक्षनिराकरणप्रसङ्गेन – *कालस्य वस्तुधर्मतया सर्वप्रतीति अन्तर्भावात् न पृथग्रूपत्वम्* इति ॥

*वैशेषिकादीनामिन्द्रियभौतिकत्ववादस्य

खण्डणम्*

यत्तु वैशेषिकादिभिरुच्यते – त्वगादीनिन्द्रियाणि क्रमाद्वाय्वाद्यात्मकानि स्पर्शादिषु मध्ये स्पर्शरूपरसगन्धमात्राभिव्यञ्जकत्वात्, स्वेदशैत्याद्यभि-व्यञ्जकपवनवत्, दीपप्रभावत्, दन्तान्तर्गत तोयवत्, कुङ्कुमगन्धाभि-व्यञ्जकघृतवत् इति । तत्र व्यञ्जकत्वम् नाम व्यक्तिम् प्रति करणत्वम् तदनुग्राहकत्वम् वा? सामान्येन हेतुत्वमात्रम् वा? इन्द्रियत्वम् वा? न प्रथमद्वितीयौ, स्वेतरहेतुवर्ग प्रतियोगिकस्य साधकतमत्वादेर्वैवक्षिकत्वेन साधनवैकल्यासिद्धिप्रसङ्गात् । न तृतीयः, इन्द्रिय अधिष्ठानतत्सम्स्कारादि- भिरनैकान्तिकत्वात् । न तुरीयः; साधनवैकल्यात् । सर्वेषाञ्च आगमबाधः । स एव धर्मिग्राहकबाधोऽपि । आगममन्तरेण गोलकातिरिक्ते-न्द्रियासिद्धेः । किञ्चित्करणपूर्विकेत्येतावतापि करणमात्रम् हि सिद्ध्येत्, नातिरिक्तम् । गोलकादेरवैकल्येऽपि कार्यवैकल्यादतिरिक्तम् कल्प्यते इति चेन्न; सूक्ष्मस्य वैकल्यस्य मूषिकाघ्रातबीजवत् दुर्दर्शत्वात्, परिमलादिप्रसर इव पार्थिवगोलकावयवविशेष प्रसरवशादेव विषयसम्बन्धसिद्धेः, प्राप्यकारित्वाविरोधाच्च । अतोऽन्वयव्यतिरेकसिद्धस्य आगमसिद्धस्य वा पक्षीकारे ग्राहकप्रमाणबाधोऽवर्जनीयः ।

यत्तु आलोकाभावे जायमानो रूपसाक्षात्कारः तेजः करणकः, रूपसाक्षा-त्कारत्वात्, सत्यालोके जायमानरूपसाक्षात्कारवदिति चक्षुषस्तैजसत्व-मिति । तदपि न; आप्यायकतेजसा सिद्धसाधनात् । तेजसस्तत्र कारण-त्वेऽपि तत् चक्षुरेवेति नियामकाभावात् । इन्द्रियवदेवानुद्भूतरूपस्पर्शस्य कस्यचिद्बाह्यतेजसोऽपि ग्रीष्मोष्मवत् सम्भवात् । उद्भूतरूपस्यापि साधने भवदभिमतेन्द्रियस्यापि तथात्वप्रसङ्गेन तमस एव असिद्धिप्रसङ्गात् । ईश्वरज्ञानेन च  अनैकान्त्यात् । अनित्यत्वेन विशेषणेऽपि स्वाप्नयोगि-साक्षात्कारैः अनैकान्त्यात् । सर्वव्यभिचारस्थलव्यतिरिक्तत्वे सतीति विशेषणे तर्ककौशलम् । एवमनुमानान्तरेऽपि यथासम्भवम् दूषणमूह्यम् ।

*अप्राकृतश्रोत्रादौ विशेषस्य निरूपणम्*

अप्राकृतश्रोत्रादिषु तु मुक्तेश्वरादीनाम् करणाधीनज्ञानप्रसराभावेऽपि स्वेच्छया परिग्रहवशात् विषयसहकारिनियमे न निर्बन्धः । तत्तदधिष्ठान- विशेषादिभिः तल्लक्षणम् ।

*बौद्धानाम् बुद्धसार्वज्ञवादस्य खण्डनम्*

बौद्धास्तु बुद्धश्चक्षुषैव सर्वम् जानातीति वदन्ति । तदयुक्तम्, तादृशभव-दभिमतसार्वज्ञ्ये प्रमाणाभावात् । चक्षुःप्रकर्षतारतम्यम् क्वचिद्विश्रान्तम् प्रकर्षतारतम्यत्वादित्यादेरपि चक्षुर्ग्राह्यवर्गे एव सर्वातिशायित्व-सम्भावनया तदतिलङ्घनेन रसादिविषयविश्रान्त्ययोगादिति ॥

*प्राकृत कर्मेन्द्रिय निरूपणम्*

अथ कर्मेन्द्रियम् – उच्चारणादिषु अन्यतमक्रियाहेतुत्वम् तल्लक्षणम् । तत् पञ्चधा वागादिभेदात् । वर्णोच्चारणकरणमिन्द्रियम् वाक् । तच्च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामूर्धरूपस्थानाष्टकवृत्ति । शुकादिव्य-तिरिक्तविहङ्गादीनाम् तत्तददृष्टसम्स्थानादिसहकारिविरहात् वर्णोच्चारण अशक्तिः । शुकादीनामपि किञ्चित् तद्वैषम्यात् उच्चारणवैषम्यम् ।

शिल्पकरणमिन्द्रियम् पाणिः । स च मनुष्यादीनामङ्गुल्यादिवृत्तिः । वारणादीनाम् नासावृत्तिः । ननु तालुपादादिभिरपि अभ्यास पाठवात् मौक्तिक-ग्रथनलिपिकरणादि शिल्पदर्शनात् तत्रापि तद्वृत्तिः आस्थेया; सत्यम् । मात्रया तद्वृत्तिरस्त्येव विरोधाभावाद्देशभेदेन । इन्द्रियान्तरव्याप्ते देशे अवस्थानादे-श्चक्षुःस्पर्शनादौ दर्शनादिति ।

सञ्चरणकरणमिन्द्रियम् पादः । स च मनुष्यादीनाम् चरणादिवृत्तिः । भुजगपतगादीनाम् तूरःपक्षादिवृत्तिः । तदुक्तम् करणपादाष्टमाधिकरणे – *सर्पाः पादात् कर्मेन्द्रियात् ऋते वक्षसा गच्छन्ति । तेषाम् गतिशक्तिरुरसि । तस्मादुरगास्ते पन्नगाश्च* इति । *पादात् कर्मेन्द्रियात्* इत्यवयवविशेष- लक्षणा । सर्वेषामपि जन्तूनामेकादशेन्द्रियवत्त्वेन साक्षादिन्द्रियनिषेधा-योगात् । तस्य च तत्तत्सम्स्थानादि सहकारेण स्थलजलगगनादिसञ्चार-हेतुता । विहगादिपरकायप्रवेशे अन्वयव्यतिरेक दर्शनात् ।

मलादित्यागकरणमिन्द्रियम् पायुः । स च तत्तदवयववृत्तिः । विहङ्ग-विशेषादीनाम् तु मुखादिवृत्तिः । तच्चोक्तम् तत्रैवाष्टमाधिकरणे – *यथा वा मान्धाळादीनामास्येन विण्मूत्रविसर्गः* इति ।

आनन्दविशेषकरणमिन्द्रियमुपस्थः । स च मेहनादिवृत्तिः ।

*कर्मेन्द्रियसमर्थनम्*

ये तु कर्मेन्द्रियाणिनाभ्युपगच्छन्ति, तैर्ज्ञानेन्द्रियाणि नाभ्युपेयानि । तर्कागमयोरुभयत्राविशेषात् । चक्षुर्गोलकादाविव दृष्टावैकल्येऽपि पादादौ सञ्चारादेः क्वचित् सूक्ष्मदोषविशेषेण प्रतिबन्धादिति ।

*इन्द्रियसङ्खयापरिमाणादिनिरूपणम्*

एतेषाम् सङ्खयानिर्णयाधिकरणोपसम्हारे भाष्यम्  -*इत्यादि श्रुतिस्मृतिसिद्धेन्द्रियसङ्ख्या स्थिता । अधिकसङ्ख्यावादा मनोवृत्ति-भेदाभिप्रायाः । न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादिकार्यविशेष- प्रयुक्ताः* इति ।

अणुत्वञ्च एषामुपलब्ध्ययोग्यपरिच्छिन्नपरिमाणत्वमात्रमेव *अणवश्च* इति सूत्रोक्तमिति भाष्ये व्यक्तम् । *एते सर्व एव समाः, सर्व एवानन्ताः* इति श्रुतिस्तु उपकरणत्व साम्यम् *अथ यो ह्येताननन्ता-नुपास्ते* इत्युपास्यतया विहितप्राणविशेषणभूतकार्यबाहुल्याञ्चाभिप्रैति । अत एव तेषाम् परिच्छिन्नविचित्रपरिमाणत्वम् स्थितम् । विकारशील-त्वाच्च मशकमातङ्गादिनानादेहेषु विचित्रपरिमाणत्वम् । कालभेदेन परिणामभेदाविरोधम् ज्ञाने समर्थयिष्यामः ।

सर्वेषाञ्च एषाम् स्वाधिष्ठानदोषादिरेव दोषः । सुषुप्त्याद्यवस्था-विव स्थावराद्यवस्थासु अदृष्टादिवशात् तत्तद्वृत्तिनिरोधतारतम्यम् । प्रबला-दृष्टसहकारात् गन्धर्वयोगि प्रभृतीन्द्रियाणामतिसूक्ष्मव्यवहितविषयता ।

उत्पत्तेरारभ्य अदृष्टवशात् प्रतिपुरुषनियतानामपि तेषाम् जीववत्परकाय-प्रवेशे विशिष्टादृष्टान्तरवशात् कायवदेव परोपकारकत्वम् । स्वेन्द्रियैः सह सर्वत्र प्रवेशात् तेषामेव वा तत्राप्युपकारकत्वम् । मृतकायप्रवेशे हि स्वेन्द्रियैरेव तथा । जीववत्परकायप्रवेशेऽपि स एव समाधिरुचितः ।

स्मृतिश्च –

*शरीरम् यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

गृहीत्वैतानि सम्याति वायुर्गन्धानिवाशयात्* ॥ इति ॥

मृतकायस्य च परकायव्यवहार उपचारात् । परकायारम्भकशरीरैकदेशैः अस्थ्यादिभिः प्रविष्टस्य कायलक्षणसङ्घातः आरभ्यते । तदा च स्वशरीरम् मृतमेव । मृतपरकायप्रवेशवत् पुनः प्रवेशः । अनेकशरीराधिष्ठानशक्तानाम् तु यथेष्टम् । शरीरविनाशे च इन्द्रियाणि आप्यायकैर्मात्रया हीयन्ते । शरीरान्तरे पुनरापूर्यन्ते । मुक्तपरित्यक्तानि अन्यपरिगृहीतानि अपरिगृहीतानि वा यावत्

प्रलयमवतिष्ठन्ते इत्यादिकम् द्रष्टव्यम् ।

*कर्मेन्द्रियाणाम् प्रतिशरीरमुत्पत्तिविनाशविषये

विचारः*

ननु कर्मेन्द्रियाणाम् शरीरेण सहोत्पत्तिविनाशौ, न पुनः शरीरान्तरगमनमस्ति । तथा हि सारे अभिहितम् – *हस्तादयोऽपि इन्द्रियाणि, जीवे देहान्तरवस्थिते उपकारकत्वाविशेषात्* इति । एवम् भाष्येऽपि उक्तम्  -*न सप्तैवेन्द्रियाणि, अपि तु एकादश । हस्तादीनामपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात् कार्यभेदाच्च । दृश्यते हि श्रोत्रादीनामिव कार्यभेद आदानादिः* इति, *न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादि-कार्यविशेषप्रयुक्ताः* इति च । दीपे तु व्यक्तमेवोक्तम् – *तत्र श्रोत्रादीनि जीवेन सह शरीरान्तरगमनेऽपि गच्छन्ति । वाग्घस्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सह उत्पत्तिविनाशयोगीनि उपकारकाणि* इत्यादि । अतो यादवप्रकाशवत् कर्मेन्द्रियाणास्तु प्रतिशरीरमुत्पत्तिविनाशौ भाष्यकाराभि-मतौ; नैतदेवम् । *प्राणगतेश्च* इति सूत्रे *तमुत्क्रामन्तम् प्राणोऽनूत्क्रामति । प्राणमनूत्क्रामन्तम् सर्वे प्राणा अनूत्क्रामन्ति* इत्यादि श्रुतेः उदाहृतत्वात्, *सप्तगतेः* इत्यधिकरणे *यानित्वितराणि । विषयाणाम् ग्राहकत्वेन तेषामौपचारिकः प्राणव्यपदेशः* इति पूर्वपक्षम् कृत्वा *हस्तादयस्तु स्थितेऽतो नैवम्* इति तेषामपि प्राणत्वसमर्थनाच्च । *प्राणगतेश्च* इत्यस्यैव समनन्तरे *अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्* इति सूत्रे भाष्यम् – *यत्रास्य पुरुषस्य मृतस्याग्निम् वागप्येति वायुम् प्राणश्चक्षुरादित्यम् इत्यादिना प्राणानाम् जीवमरणकाले अग्न्यादिषु अप्ययश्रवणात् न तेषाम् जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेन्न; भाक्तत्वात् अग्न्यादिष्वप्ययश्रवणस्य* इत्यादिकम् । अतः कर्मेन्द्रियस्य वाचोऽत्र गतिरभ्युपेतेत्युपलभ्यते । तदन्येषामपि सममेव । सारेऽपि उक्तम् – *सप्तानाम् गतिश्रवणम् विशेषणञ्च तेषाम् प्राधान्यात्* इति । दीपेऽपि – *सप्तानामेव गतिश्रवणम् योगकाले विशेषणञ्च ज्ञानेन्द्रि-याणाम् मनसः तद्वृत्तिरूपबुद्धेश्च प्राधान्यात्* इत्यादि । नच आहङ्कारि-केन्द्रियवादिनः प्रतिशरीरमिन्द्रियोत्पत्तिविनाशाभ्युपगम उपपद्यते । पाण्याद्यधिष्ठानानि तु नेन्द्रियाणीति तदुत्पत्तिलयोपपत्तिः ।  कथाम् तर्हि श्रोत्रादीनीत्यादेर्निर्वाहः ? इत्थम् – परमतवत् प्रतिशरीरमुत्पत्ति-विनाशाभ्युपगमेऽपि तेषामिन्द्रियत्वम् सिध्यतीति कृत्वा *हस्तादयस्तु स्थितेऽतो नैवम्* इति सूत्रस्य योजनान्तराभिप्रायेणैवमुक्तम् । अत एकादशेन्द्रियाण्यपि शरीरान्तरेष्वपि अनुवर्तन्ते इति भाष्यकाराभिप्रेतमिति प्रतीमः ।

*इन्द्रियविषये परवादिमतानामनादरणीयता*

एवमेषामेव एतावतामेव एवम् स्वभावानामेव आगमेनैव सिद्धत्वात् सौगतवैशेषिकचार्वाकप्रभृतीनाम् स्त्रीन्द्रियपुरुषेन्द्रियादिकल्पनम्, कर्मेन्द्रियपरित्यागः, एकेन्द्रियवादः, तत्रापि त्वगिन्द्रियैकस्वीकारः,

शरीरस्यैव इन्द्रियत्वम्, कर्मेन्द्रियाणाम् शरीरोत्पत्तिविनाशयोरुत्पत्ति-विनाशौ, मनोविभुत्वनित्यत्वतैजसत्वनिर्मनस्कत्वादीनि, राजसाह-ङ्कारजन्यत्वभौतिकत्वादीनि अन्यान्यपि प्रलपितानि अनादरणीयानि ।

युक्तिबाधादयश्च यथासम्भवमुन्नेया इति ॥

* तन्मात्रादिसृष्टिनिरूपणम्*

अथ तन्मात्रादिसृष्टिः । भूतानामव्यवहितसूक्ष्मावस्थाविशिष्टम् द्रव्यम् तन्मात्रम् । दधिरूपेण परिणममानस्य पयसो मध्यमावस्थावत् भूतरूपेण परिणममानस्य द्रव्यस्य ततःपूर्वा काचित् अवस्था तन्मात्रा । तद्विशिष्टमपि द्रव्यम् तन्मात्रमित्युच्यते । तदेव च भूतोपादानमिति न शब्दादिगुणमात्रा-त्भूतसृष्टिः ।

विशिष्टशब्दादिविषयाधिकरणम् भूतम् । अत्रापि प्राकृताप्राकृतविवेकः पूर्ववत् । तन्मात्राणि च भूतानि च प्रत्येकम् पञ्चधा, शब्दतन्मात्राकाशादि- भेदात् ।

तत्र तामसाहङ्काराकाशयोर्मध्यमावथाविशिष्टम् द्रव्यम्  शब्द तन्मात्रम् । एवमुत्तरोत्तरतन्मात्रेष्वपि तत्तद्भूतद्वयमध्यमास्वथाविशिष्टत्वम्, अविशिष्ट तत्तद्गुणाश्रयत्वम्, तत्तद्भूतोपादानत्वञ्च लक्षणमूह्यम् ।

साङ्ख्यास्तु  – *पञ्चापि तन्मात्राणि तामसाहङ्कारोत्पन्नानि । तत्र शब्दतन्मात्रमाकाशारम्भकम् । इतराणि तु तन्मात्राणि पूर्वपूर्व तन्मात्र सहकृतानि उत्तरोत्तरभूतारम्भकाणि* इत्याहुः । तदसत्, *आकाशाद्वायुः* इत्याद्यनन्यथा सिद्धोपादानक्रमविशेषाभिधानदर्शनात् । भगवत्पराशरादि-   भिश्च प्रपञ्चितत्वात् ॥ *तन्मात्राणि भूतादौ* इति श्रुतिस्तु न साक्षाद्यौगपद्येन अप्ययपरा, *पृथिव्यप्सु प्रलीयते* इत्यादि पूर्ववाक्यविरोधात् । *आकाशा-द्वायुः* इत्यादि श्रुत्यन्तरविरोधाच्च । तथात्वे हि *पृथिवी गन्धतन्मात्रे लीयते । आपो रसतन्मात्रे लीयन्ते* इत्यादिक्रममुक्त्वा *तन्मात्राणि भूतादौ* इति वक्तव्यम् । न चेयम् श्रुतिरत्यन्तक्रम निबिन्धनपरा *आकाश इन्द्रियेषु । इन्द्रियाणि तन्मात्रेषु* इति भवतामपि अनभिमतक्रमविशेषापात प्रतीतेः ।

एवम् *अष्टौ प्रकृतयः, षोडश विकाराः* इतिश्रुतिरपि यथा कथञ्चित् नेया ।

अत उक्तस्य शब्दतन्मात्रलक्षणस्य नातिव्याप्तिः । सहोत्पत्तावपि समकालीनत्वमेव, न तु आकाशाहङ्कार अपेक्षया स्पर्शतन्मात्रत्वादीनाम् मध्यमावस्थात्मकत्वमिति नातिव्याप्तिः ॥

*आकाश द्रव्य निरूपणम्*

अस्पर्शत्वे सति विशिष्टशब्दाधारत्वम् श्रोत्राप्यायकत्वञ्च आकाश-लक्षणम् । अयञ्च अवकाशदानादिना उपकरोतीति शास्त्रसिद्धत्वादभ्युपेत्यम् । आकाशरूपपरिणामरहितप्रकृत्यादिप्रदेशेष्वपि अवकाशोऽस्त्येव । अन्यथा तत्र स्पर्शवत् गत्यादिनिरोधप्रसङ्गात् ।

आकाशदेर्नित्यत्वादिसाधनानि निरवयवद्रव्यत्वादीनि आगमबाधा-न्यतरानैकान्तिकत्वादिभिर्दूषणीयानि । किञ्च इदम् नित्यत्वम् किम् अवस्थापत्तिराहित्यम्? किम् वा द्रव्यस्य सर्वदा सत्त्वम्? इति । न प्रथमः, पार्थिव परमाण्वादिभिरनैकान्तिकत्वात् । पक्षे च शब्दवत्त्वतदभावाद्यवस्था-भेदस्वीकारेण बाधापसिद्धान्तप्रसङ्गात् । न द्वितीयः सिद्धसाधनत्वात् । अवयवविश्लेषलक्षणो विनाशो निषिध्यते इति चेन्न; अहङ्कारादि दशाप्राप्तस्य सिद्धसाधनत्वादेव । वायुत्वपञ्चीकरणादि प्राप्तावस्थाभेदे सर्वोपपत्तिः प्रागेवोक्ता ॥

*आकाशस्य प्रत्यक्षत्व निरूपणम्*

प्रत्यक्षश्चायमाकाशः । यदा उन्मीलनम् चक्षुषः, तदैव आकाशोऽयमिति प्रतीतेः । न च नीरूपस्य कथम् चाक्षुषमिति वाच्यम्; रूपवतो वा कथम् चाक्षुषमिति प्रसङ्गात् । उपलम्भसिद्धया योग्यतयेति चेत्; तुल्यम् । अन्यथा रूपरूपिरूपैकार्थसमवायाद्यवान्तरभेदकल्पनानुपपत्तेश्च ।

पञ्चीकरणेन वा व्यष्टिरूपसिद्धिर्भाष्योक्ता । प्रमेय सङ्ग्रहे च उक्तम् – *यथा कालस्य वस्तुधर्मतया सर्वप्रतीत्यन्तर्भावात् न पृथग्रूपवत्वम् । गगनस्य दिशाञ्च त्रिवृत्करणेन रूपवत्त्वम्* इत्यादि । यत्तूक्तम् भाष्ये – *न च चक्षुषा सन्मात्रम् गृह्यते; तस्य रूपरूपिरूपैकार्थसमवेत-पदार्थग्राहित्वात्* इति । तत् प्रत्यक्षस्य विशिष्टविषयत्वपरम् । न तु रूपवन्मिश्रितत्वाख्यसम्बन्धवर्जनपरम् । अत एव हि -*रूपरूपैकार्थ-सन्निवेशाद्यालिप्तमेव चाक्षुषमिति स्थितम्* इति प्रमेय सङ्ग्रहोक्तिः । अतः सम्युक्त समवेतस्यापि रूपस्य कार्यकरत्वमुपलम्भबलात् ग्राह्यम् ।

न च ईश्वरादावतिप्रसङ्गः; गुरुत्वादि तुल्यत्वात् । वाय्वादीनां तु पञ्चीकरणेन रूपवत्वेऽपि रूपानुद्भवादचाक्षुषत्वम् ॥ यत्तु प्रमेय सङ्ग्रहे *अद्य जातस्य चक्षुरपि नहि अरूपम् वायुम् गृह्णाति* इति । तदपि उद्भूतरूपाभावपरमेव । अत एवम् प्रकारेण रूपित्वात् नभस आकाश-मस्ति श्याममिति प्रतीतिः ।

*आकाश आवरणाभावरूप इति

बौद्धमतस्य खण्डनम्*

अत एव च इयम् प्रतीतिर्नावरणाभावावलम्बना, विधिरूपत्वात् । भावान्तराभाववादिनस्तु अदोषत्वात् । अतिरिक्तवादिनाम् तु प्रागभावादि विकल्प दुःस्थत्वात् । कृत्स्नप्रतियोगिकनिषेधस्य असिद्धेः । आवरणेष्वपि तादात्म्याभावस्य सामानाधिकरण्यनिषेधात्मकत्वात् । सम्सर्गाभावस्य च यत्किञ्चित्सम्सर्गिप्रत्ययमन्तरेण अनुपपत्तेः । तथा च स एव आकाश इति स्यात् । न च काल्पनिकाधिकरणनिषेधः, अबाधितत्वायोगात् । नापि आलोकतिमिरावलम्भनः; तेषु आकाशप्रतीतिव्यवहारयोरयोगात् ।  आरोप-स्यापि प्रतीतिपूर्वकत्वात्, अप्रत्यक्षत्वे च तस्याङ्गुल्यानिर्देशपूर्वकपामर-व्यवहारगोचरतया निर्मूला स्यात् । शब्दाधिकरण परिशेषानुमानादेरपामर-विषयत्वादशक्यत्वाच्च ।

*आकाशानुमेयत्ववादखण्डनम्*

न हि शब्दस्य गन्धवद् भेर्याद्यवयवधर्मत्वे कारकतया व्यञ्जकतया च अभ्युपगतवायुधर्मत्वे वा कश्चत् दोषः । न च स्पर्शनादिग्राह्यत्वप्रसङ्गः, एक-भूतगुणस्यैव गन्धरसरूपादेर्भिन्नाक्षग्राह्यत्वस्य दृष्टत्वात् । एवम् बाधका-न्तरमपि दूष्यम् । गौरवञ्च भवतो बाधकका स्यात् । आगमवशात्तु वय-माकाशे शब्दमिच्छामः ।

*वायुनिरूपणम्*

आकाशात् स्पर्शतन्मात्रम् । ततो वायुः । तस्य विशिष्टस्पर्शवत्त्वे सति रूपशून्यत्वम्, अस्मदादिस्पर्शनैकेन्द्रियग्राह्यद्रव्यत्वम्, अनुष्णाशीतस्पर्श-विशिष्टत्वे सति गन्धशून्यत्वम् इत्यादि लक्षणम् ।

अस्य त्वगिन्द्रियायोग्यत्वाप्रत्यक्षत्वादि साधनानि अरूपिद्रव्यत्वादीनि उपलम्भविरोधानैकान्त्यादिभिर्निरसनीयानि । स्पर्शवत्त्वमेव हि स्पर्शने-न्द्रियग्राह्यत्वौपयिकम्; न रूपवत्त्वम् । तथा च भाष्यम् तदनुसारि विवरण-कारवचनञ्च – *स्पर्शनमपि न सन्मात्रविषयम् स्पर्शतद्वद्वस्तुविषयत्वात्* इति । प्रमेयसङ्ग्रहश्च – *त्वगिन्द्रियस्यापि स्पर्शवद्वस्तुविषये शक्तिः* इति । यदि च स्पर्शानुमेयो वायुः स्यात्, क्षितिसलिलतेजसामपि स्पर्शनग्राह्यत्वम् न स्यात् । तत्रापि ततस्तदनुमानस्य सुवचस्त्वात् । उपलम्भस्य समत्वात् ।

तस्य च वायोः स्वभावाद्वा अदृष्टात्मकेश्वरसङ्कल्पाद्वा स्वारसिकम् तिर्यक् प्रसरणम् । पार्थिवादिद्रव्येण वा वाय्वन्तरेण वा अभिघातवशात् भ्रमणोर्ध्वगमनादयः । ते च दूरस्थेन तृणरजः प्रभृतीनाम् भ्रमणोर्ध्वगमनादिभिरनुमेयाः । तत्रत्येन तु स्पर्शनग्राह्याः । एतेन वायोः नानात्वमपि वायुद्रव्य सिद्धम् । अस्य च सर्वतः पार्थिवाप्योपरोधे सति स्तम्भः । सलिलातपकुसुमादियोगाच्छीतोष्ण सौरभारोपः । तथा च अन्वय-व्यतिरेकौ ।

एतेन *वृद्धिः समानैः सर्वेषाम् विपरीतैर्विपर्ययः* इति न्यायात् वायुः शीत इत्यायुर्वेदानुसारिणाम् वादिनाम् मतम् निरस्तम् । शीतसम्वर्ध्यत्वोष्णा-पचेयत्वादिभिः साम्यात्तु शीततया उपदेशः । न तु सजातीयविजातीयाभ्यामेव उपचय अपचयाविति नियमः; पार्थिवादिभिर्दोषाणामनियमेन उपचयापचय- दर्शनात् । तत्रापि तत्तत्पदार्थ साम्सिद्धिकसलिलाद्यम्शशक्त्या तदुप-पत्तिरिति चेत् अत्रापि तथात्वे को विरोधः? व्यष्ठ्यवस्थस्य मारुतस्य तदुपचयापचयहेतूनाञ्च पाञ्चभौतिकत्वात् । *आपोमयः प्राणः* इति श्रुत्या प्राणस्य सलिलाप्यायितत्वसिद्धेश्च शीतसम्वर्ध्यत्वाद्युपपत्तेः । दुरूहाम् वस्तुशक्तिमवलम्ब्यैव स्वभावः प्रभावश्च तैरेव क्वचित्क्वचित् वर्ण्यते; यथा दुन्दुभिस्वनादौ । सा च अत्रापि अनिवार्येति न सङ्कटम् किञ्चित् ।

स च त्वगिन्द्रियाप्यायनेन प्राणशरीरविषयात्मतया च उपकरोति । तत्र शरीरधारणादिहेतुर्वायुविशेष एव प्राण सञ्ज्ञः । न वायुमात्रम्, नापि वायुक्रिया; सूत्रितञ्च – *न वायुक्रिये पृथगुपदेशात्* इति । स एव व्यापारभेदात् पञ्चधा दशधा च उच्यते । सूत्रितञ्च – *पञ्चवृत्तिर्मनो-वद्व्यपदिश्यते* इति । प्राणापानव्यानोदानसमानभेदात् पञ्चधा । नागकूर्मकृकरदेवदत्तधनञ्जयाख्यैर्भेदैः स दशधा । प्राणशब्दस्तु वादशब्दवत् सामान्यतो विशेषतश्च व्युत्पन्नः । अस्य शरीरेन्द्रियधारकत्वम् *यस्मिन्नु-त्क्रान्ते इदम् शरीरम् पापिष्ठतरमिव दृश्यते*, *एतस्यैव सर्वे रूपमभवन्* इत्यादि श्रुतिसिद्धम् । भाष्यञ्च – *प्राणस्य तु शरीरेन्द्रियधारणम्* इत्यादि । प्रपञ्चितश्चायमर्थः प्राणविद्यायाम् । एवम् जङ्गमशरीरेष्विव स्थावर-शरीरेष्वपि असावस्त्येव । मूलनिषिक्तसलिलदोहदपार्थिवधातूनाम-भ्यादानात् । अत्रापि भाष्यम् – *स्थावरेषु हि प्राणसम्भवेऽपि तस्य पञ्चधा अवस्थाय शरीरस्य धारणार्थत्वेन अवस्थानम् नास्ति* इति । *अत एव प्राणः* इति सूत्रे दीपश्च – *शिलाकाष्ठादिषु प्राणायत्तस्थित्य-भावात्* इति । नखदन्तरोमकिणादीनामपि मन्दप्राणाश्रयत्वम् न्यायतत्त्वे करणपाद अष्टमाधिकरणे प्रपञ्चितम् । अस्यैव रेचकपूरककुम्भकरूपम् नियमनम् अष्टाङ्गयोगे चतुर्थमङ्गम् । आयुर्वेदेषु योगानुशासने च अस्य प्रपञ्चो ग्राह्यः । प्राणाख्यात् वायोरन्य एव शरीरोपा-दानभूतो वायुः । तदुपादानत्वम् वायुप्रचुरेषु मारुतादि शरीरेषु व्यक्तम् । विषयत्वम् चण्डवातताळ-वृन्तपवनादिषु ॥

*तेजोद्रव्य निरूपणम्*

वायोः रूपतन्मात्रम् । ततस्तेजः । *वायोरग्निः* इत्यग्निशब्दस्तेजो-मात्रपरः । ननु *वायोरग्निः* इत्युपादानत्वविवक्षायाम् प्रत्यक्षविरोधः । पर्णतृणकाष्ठादीनामेव भस्मधूमधूमध्वजादिरूपेण परीणामदर्शनात् । पर्णादीनाञ्च पार्थिवत्वात् । अप्रत्यक्षैस्तदानीमपि अदृष्टाद्युपनीतैः तेजोऽवयवैर्ज्वालारम्भ इति कल्पनस्य गुरुत्वात् । विचित्रारम्भस्य च भस्मधूमाङ्गारादिषु दृष्टत्वेन अवर्जनीयत्वात् । स्पर्शविशेषस्य धूमादि-गतगन्धविशेषवत् दुरालभास्पर्शादिवदुपपत्तेः । अतः सलिलस्य फेनत-रङ्गबुद्बुदवत् पृथिव्या एव अम्शतो हुतवहादिपरिणामः इति सिद्धे *वायोरग्निः* इत्यादि निमित्तकारणत्वमात्रेणापि उपपद्यते इति; तदसत् । अनन्यथासिद्धोपादानप्रकरणपठितसृष्टिप्रलयक्रमप्रक्रियाविरोधात् । पर्णतृणादीनामपि पाञ्चभौतिकत्वस्य वक्ष्यमाणत्वात् । तत एव तदम्शतो निर्वृत्तेरपि इष्टत्वात् । ज्वालानिर्वापणानन्तरमेव तदवयवानुपलम्भवत् तदुत्पत्तेः । प्रागपि तथैव उपपत्तौ गौरवस्यापि अभावात् । अबिन्धने च जातवेदसि पार्थिवपरिणामात्मकत्वकल्पनायोगात् ।  अनियतोपादान- क्लृप्तेर्गुरुत्वात् । तदेवम् तत्रतत्र लीन एव अग्निः सहकारिविशेषवशाद् अदृष्टाद्युपनीतसजातीयावयवयोगाच्च उद्भूत उपलभ्यते । व्यवहरन्ति च महर्षयोऽपि; *काष्ठेऽग्निरिव शेरते* । *दारुण्याग्निर्यथा तैलम् तिले तद्वदसौ पुमान्* इत्यादि ।

अतः समष्टिसृष्टिदशायाम् वायोरेव उपादानात् अग्नेरुत्पत्तिरुपपन्ना । व्यष्टिदशायाम् तु तेजस एव सूक्ष्मात् स्थूलतेजसः समुद्भव इति ।

उष्णस्पर्शत्वभास्वररूपवत्त्वादिकञ्च तेजसो लक्षणम् । तच्च वाक्- चक्षुषोराप्यायकम् । *तजोमयी वाक्*, *आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्*, *रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः*  इत्यादिश्रुतेः । दिवाभीतादि व्यतिरिक्त लोचनानाम् अञ्जनविशेषादिशून्यानाम् तिमिराद्यतिरिक्त विषयप्रत्ययोत्पादने प्रभूतरूपमाप्यायकातिरिक्तम् तदवश्यापेक्षितम् ।    वैश्वानराद्यात्मना च तदुपकारः । वैश्वानरो नाम शरीरान्तर्वर्ती प्राणादि-सम्योगात् अशितपीतपाकादिहेतुस्तेजोविशेषः । शरीरत्वम् च तेजसस्तेजः प्रचुरेषु दहनतपनादिशरीरेषु व्यक्तम् । विषयत्वम् चन्द्रिकातपशतह्नदा-हुतवहादिषु ।

तत्र हुतवहस्य ज्वालात्मकस्य दाह्यनाशे नाशदर्शनात्, पुष्कलकारण-क्रमोपनिपातात् एकदा अनेकदीपादर्शनाच्च आशुतरविनाशित्वरूपम् क्षणिकत्वम् सिद्धम् । प्रत्यभिज्ञातु निष्क्रान्तप्रविष्टवदसम्भवात्, निर्वापिता-रोपित दीपादिष्विव अन्यथासिद्धा । प्रत्यक्षत्वम् ज्वालाभेदस्योक्तम् तत्वरत्नाकरे – *निपुणनिरीक्षणे च जलवेणिकावत् ज्वालासञ्चरणम् दृश्यते* इति ।

*अहेतुक एव ज्वाला विनाशः* इति बौद्धगन्धिनः केचिदाहुः । तदयुक्तम्; क्षणभङ्गप्रसङ्गात् । अदृष्टेश्वरादेश्च हेतोरवर्जनीयत्वात् । वेगादेश्च अविना-भूतस्यावस्थान्तरापादकत्वोपपत्तेः । एवमन्त्यशब्दचरमसम्स्कारादिष्वपि स्वतोविनाशवादिनो निरस्ताः । तदखिलमभिप्रेत्योक्तम् वेदार्थसङ्ग्रहे *दावाग्न्यादीनामपि पूर्वावस्था विरोधिपरिणामपरम्परा अवर्जनीयैव* इति । तत्र भौमदिव्यादिभेदस्तत्र तत्र सामग्रीकार्याणि क्षणिकत्वस्थिरत्वादीनि यथायोगमुन्नेयानि ॥

तेजः पुनः सामान्यतो द्विविधम् – प्रभा प्रभावच्चेति । आवरणसद-सद्भावाधीनसङ्कोचविकासो यथावेगशक्त्यधिष्ठानदेशाधिकदेशप्रसारी तेजोविशेषः प्रभा । सा च प्रभावद्भिः सहोत्पद्यते, सह च विनश्यति । न चासौ विशीर्णदीपाद्यवयवः, ऊर्ध्वगमनस्वभावानाम् वाताद्यभिघातदर्शने युगपद्विष्वग्विशरणादिकल्पनस्य गुरुत्वात् । प्रभायास्तु यथोपलम्भम् तथाऽभ्युपगमात् । स्थिरतरेषु मणिद्युमणिप्रभृतिषु च विशरणप्रसङ्गात् । तदभ्यपगमे च तेषाम् दीपादिवत् विनाशप्रसङ्गात् । तत्रापि  प्रतिक्षणोत्प-त्त्यादिकल्पनस्य अतिगुरुत्वात् । तैलदशादिवत् सामग्रीविशेषादर्शनात् । न च मण्यादीनाम् प्रत्यभिज्ञा भ्रान्तिः । विशरणे सिद्धे तद्भ्रान्तित्वसिद्धिः, तत्सिद्धौ विशरणसिद्धिरिति परस्पराश्रयणात् । विशीर्णगन्धाश्रयचम्पककुसुमादिवदम्शतो विशरणेऽपि प्रत्यभिज्ञानमिति चेन्न; भ्रान्तेर्दत्तोत्तरत्वात् । यथोपलम्भम् द्रव्यान्तराभ्युपगमे भ्रान्तित्व-कल्पनानवकाशात् । गन्धोपलम्भे तु   वायुगतिविशेषानुविधाननियमात्, आश्रयभूतचम्पकादिनाशेऽपि गन्धावस्थानदर्शनाच्च प्रभातुल्यत्व परित्यागः । ग्रीष्मनिशादिषु औष्ण्योपलम्भेऽपि प्रभात्मकम् स्वरूपम् नास्त्येव । अस्याश्च मूलाग्रयोः घनविरलत्वादयो यथा दर्शनम् ग्राह्याः । यत्तु वरदविष्णुमिश्रैर्निरवयवात्म-ज्ञानसङ्कोचविकासदृष्टान्ततया प्रभामुप-न्यस्योक्तम् *प्रभाया निरवयवत्वमवयवानुपलम्भात्* इति; तत् छेदनभेदनयोग्यावयवविरह अभिप्रायेणेति मन्तव्यम् । न चैषा स्वतन्त्रा; दीपापृथक्सिद्धतयैव प्रतीतेः ।

तद्विशिष्टम् तेजः प्रभावात् । तच्च मणिद्युमणिदीपादि बहुप्रकारम् । सामग्रीविशेषाधीनस्वभावभेदात् तेजसः शोकहर्षशोषणवृद्धिपाकप्रकाशादि-जनकत्वतारतम्यम् । ऊर्ध्वज्वलनमपि तत एव वा, अदृष्टादेव वा । तस्य रोहितभास्वरैकस्वभावस्यापि सलिलादि सम्सर्गभेदात् वर्णवैचित्र्योपलम्भः । एतच्च *यदग्ने रोहितम् रूपम्* इत्यादिश्रुतिसिद्धम् । वैशेषिकादीनाम् शुक्लत्वसाधकान्वयव्यतिरेकौ श्रुतिबाधितौ अन्यथासिद्धौ च । मध्याह्न-मार्ताण्डमण्डलश्वैत्योपलम्भस्यापि मण्डलोपष्टम्भकानुद्भूतस्पर्शोद्भूतरूप-शलिलाम्शनिबन्धनत्वेपपत्तेः । उद्भवानुद्भवयोश्च गुणानामन्यत्रापि अनियमाभ्युपगमात् ॥

*जलनिरूपणम्*

तेजसो रसतन्मात्रम् । तस्मात् आपः । शीतस्पर्शवत्त्वम्, निर्गन्धत्वे सति विशिष्टरसवत्त्वम् इत्यादि तल्लक्षणम् । तासाम् शुक्लमधुरशीततैकस्वभाव-त्त्नामाश्रयादिसम्सर्गभेदात् रूपरसस्पर्शवैचित्र्यारोपः । अद्रव्यनिरूपणे तु तेजोऽबन्नगुणव्यवस्था समर्थयिष्यते । स्वाभाविकमासाम् द्रवत्वम् । आप्येष्वपि करकादिषु उपष्टम्भवशात् काठिन्यम् । प्राणरसनाप्यायनादि-नोपकुर्वते । शरीरत्वमासामप्प्रचुरेषु वरुणलोकादिशरीरेषु स्पष्टम् । विषयत्वम् सरित्समुद्रादिषु ॥

*पृथिवीद्रव्य निरूपणम्*

अद्भ्यो गन्धतन्मात्रम् । ततः पृथिवी । विशिष्टगन्धवत्त्वम्, रसवत्त्वे सति विशिष्टस्पर्शवत्त्वम्, इत्यादि तल्लक्षणम् । सा प्रथमम् सुरभिमधुरकृष्णा-नुष्णाशीतस्पर्शा जाता । ततोऽनुष्णाशीतत्वम् सर्वदा अनुवृत्तम् । तेजः  सलिलस्पर्शोपाध्यन्वयव्यतिरेकात्तदुपाधिक एव औष्ण्यशैत्योपलम्भः । कार्ष्ण्यम् स्वतः सिद्धमिति श्रुतिसिद्धम् । पाकभेदात्तु विचित्रवर्णता जायते । सुरभिस्वभावत्वमपि औत्सर्गिकन्यायसिद्धम् । कारणस्य पयसो माधुर्यानु-विधानञ्च बाधकाभावे ग्राह्यम् । तस्याः काठिन्येऽपि सलिल आतपादियोगात् क्वचित् द्रवत्वोपलम्भः । मनोघ्राणाप्यायनादिना च तस्या उपकारः । शरीर-त्वमस्याः मनुष्यतिर्यक्स्थावरादिषु व्यक्तम् । विषयत्वम् मृत्पाषाणौ-धितिमिरादिषु । यद्यपि विषयादिरूपेण निर्दिष्टानाम् सर्वेषामपि ईश्वरापेक्षया तत्तदिविशिष्टजीवापेक्षयापि शरीरत्वम् वक्ष्यते; तथापि लोकव्यवहारोपकार-तारतम्यावलोकनेन विभज्य व्यवहारः । शरीरतया अभ्युपगतमपि विषय-तया वैशेषिकैरप्युक्तम् – *विषयोमृत्पाषाणस्थावरलक्षणः* इति । स्थावरस्य हि शरीरत्वम् तैरेव प्रपञ्चितम् ॥

*तमसः पार्थिव द्रव्यत्व निरूपणम्*

तमो द्रव्यम् पार्थिवञ्च; अबाधितनीलादिप्रत्ययविषयत्वात् । आलोका-भावे चाक्षुषत्वम् नास्तीति बाधकमिति चेन्न; तेजसि व्यभिचारात् । तद्व्य-तिरिक्तत्वे सतीति चेत्; तथापि भवदभिमते तमसि एतदभावेऽपि चाक्षुषत्वात् । इतरसामग्रीसाकल्यलक्षणयोग्यथासिद्ध्यर्थञ्च तथा अङ्गीकार इति चेत्; अत्रापि प्रतीयमानाकारभङ्गपरिहाराय बुद्ध्यस्व । न हि यत् क्वचित् यदपेक्षम्, तत् सर्वत्र तदपेक्षमिति नियमः । स्वेदशैत्यादिग्रहे वायुसापेक्षस्य स्पर्शनस्य औष्ण्यग्रहे तदभावसापेक्षत्वात्  ।

आलोकाभावप्रत्ययविशेषाभावनैल्यमात्रप्रतीतिपक्षाः विधिरूपेण प्रत्ययात्, लोक प्रतीतिविरोधप्रसङ्गात्, नीलमिति धर्मितया स्फुरणाच्च निरस्ताः । प्रलयविनाशावसानादयस्तु विधिरूपेण वर्तमाना अपि स्फुटव-स्त्वन्तरानुपलम्भात् कस्यचिदित्येव सर्वसम्वित्सिद्धेश्च अभावपक्षे निक्षेपम् सहन्ते । स्पर्शानुपलम्भादिचोद्यम् तु इन्द्रनीलालोकादिष्विव निर्वाह्यम् ।

आगमसिद्धञ्च तमसो द्रव्यत्वादिकम् । *तमः ससर्ज भगवान्* इति तत्त्वान्तरवत् सृष्टिवचनात् । *नासीत्तमो ज्योतिरभूत् न चान्यत्* इति कार्यान्तरैर्ज्योतिषा च सह लयाभिधानात् । आलोकाभावपक्षे तमोज्योति- षोर्द्वयोरपि लयाभिधानविरोधात् । अन्तर्यामिब्राह्मणे च *यस्य तमः शरीरम्* इति तेजसा सह तमसः शरीरत्वेन अभिधानात् । तत्र च भाष्यम् – *एवमम्ब्व-ग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु* इत्यादि ।

यत्तु षडर्थसङ्क्षेपे भावरूपाज्ञानानुमानदूषणे प्रोक्तम् – *निमीलनेऽपि भातीति न तमो द्रव्यम् । अन्धस्तु नाक्षिस्थग्रहेऽलम् । व्याहरति च* इति । तत् श्रुतिस्मृतिभाष्यादि विरोधात् मतान्तरेण एकदेशिमतेन वा उक्तम् । निमीलनेऽपि भानस्य पित्तोपहत चक्षुषः किञ्चित्पित्तोपलम्भे अपि तुल्यत्वात् जात्यन्धस्य तु तद्द्रव्याव्यवहारात् । अजात्यन्धस्यापि  इन्द्रियाधिष्ठानक्षोभेऽपि मात्रया इन्द्रियशक्तेरनपगमनादक्षिस्थ ग्रहस्याविरोधात् ।

तमो न द्रव्यम्; आलोकाभावे गृह्यमाणत्वात् आलोकाभाववदिति चेन्न; प्राभाकराणाम् हेतुदृष्टान्तयोरभावात् । उदयनादीनाम् पक्ष दृष्टान्तभेदाभावात् । रूपमात्रतमोवादिनोऽपि दिवाभीतादिदृश्यमानैर्द्रव्यैर्व्यभिचारात् ।  मानुषचक्षुषेति विशेषणेऽपि योगिदृश्यमानैः, अयोगीति विशेषणेऽपि अञ्जनाक्तचक्षुषा दृश्यमानैः, प्रकृष्ठाञ्जनादिरहितमानुपचक्षुषेति विशेषणेऽपि तमो नीलिमातिरिक्तम् नैल्याश्रयत्वेन अबाधित प्रतीतिविषयत्वात्, इत्यादिभिर्बाधः प्रतिरोधो वा दुष्परिहरः ॥

उक्तम् वरदगुरुभिस्तत्त्वसारे –

“तमो नाम द्रव्यम् बहुलनिरलम् मेचकचलम्

प्रतीमः केनापि क्वचिदपि न बाधश्च ददृशे ।

अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते

निरालोकम् चक्षुः प्रथयति हि तद्दर्शनवशात् ॥* इति ॥

नन्वेवमस्तु तमसो द्रव्यत्वम् सिद्धान्तः । पार्थिवत्वम् तु भाष्यकारादि-वचनात् न ज्ञातमिति चेन्न; प्राकृतत्वनीलत्ववचनाभ्याम् परिशेषात् सिद्धेः । न हि वायुपर्यन्तेषु प्राकृतेषु रूपगुणोऽस्ति । न वा तोयतेजसोः कृष्णरूपमस्ति । तथा च श्रुतिः *यदग्ने रोहितम्* इत्यादिका ।

ननु तत्त्वरत्नाकरे मूलप्रकृतिरेवेदम् तम इत्युक्तम् । तथा हि –

*बध्नाति यदभिद्रोहात् यत्प्रपत्त्या च मुञ्चति ।

जन्तूँस्तमस्तमाश्रित्य हरिम् तत्प्रविविच्यते ॥

अतो न काकदन्तानामिव तस्य परीक्षणम् ।

उपेक्ष्यम् बन्धकत्वस्य ज्ञाने हानप्रयोजनात् ॥

तत्स्वरूपतदुत्पत्तिग्राहकादिषु सूरयः ।

विवदन्ते ततो जातः सन्देहश्चिन्त्यतेऽधुना ॥*

अत्र आलोकाभावस्तम इति काश्यपीयाः । नास्त्येव तमः, नीलाभाव-रूपस्मृतिप्रमोष एव तमोव्यवहारहेतुः इति प्राभाकराः । द्रव्यान्तरमेवेदम् कल्प्यम् इति कौमारिलाः । प्रधानत्वमेव तमः  इति तत्त्वविदः इत्युपक्रम्य प्राथमिकमतयुगलमथनपूर्वकम् तृतीयमुपन्यस्य –

*अत्र तत्त्वविदः प्राहुः स्थूलसूक्ष्मात्मना स्थिता ।

दैवी गुणमयी माया बाह्यान्तरतमो मता ॥* इत्युक्तम् । अतो न पार्थिवत्व-परिशेषो युक्त इति । तन्न, तत्र मूलप्रकृतित्वम् तावत् न सम्भवति, विकारै- स्सह सृष्टिसम्हारवचनात् । अन्तर्यामिब्राह्मणे च कार्यवर्गानुप्रवेशेन प्राथमिक-तमोव्यतिरिक्तस्य तेजोविरोधितमसः पृथक्शरीरत्वाभिधानात् । प्रधान-तमसश्च प्रत्यक्षग्राह्यत्वासिद्धेः ॥

*नाहो न रात्रिर्न नभो न भूमिः नासीत्तमो ज्योतिरभून्न चान्यत् ।

श्रोत्रादिबुद्ध्यानुपलभ्यमेकम् प्राधानिकम् ब्रह्म पुमाँस्तदासीत् ॥* इति श्लोकस्मृतेः ॥

अवस्थान्तराश्रयणेन सर्वमिदमुपपद्यते इति चेत् ? सत्यम् । तदेव अस्माभिरुच्यते । पृथिव्यवस्थातिरिक्तमवस्थान्तरमिति चेन्न;  पूर्वोक्तपरिशेषात् । पृथिवीतः पृथगेव सृष्ट्यादिवचनम् कथमुपपद्यते इति चेत्; स्वर्गान्तरिक्षादिसृष्टिवदिति भाव्यम् । तमश्शब्दप्रयोगानुवृत्तिः कथम् इति चेत् ? अनेकार्थेत्वेन अनुवृत्त्यन्यथासिद्धेः ज्ञानालोकयोः प्रकाशशब्दवत् । यद्वा उद्भूततमोगुणमेव अवलम्ब्य द्वयोरपि व्यवहारोपपत्तिः । कथम् तर्हि तत्त्वरत्नाकरोक्तिः? वस्तुतस्तु वयमपि सम्शेमहि । न हि तत्र प्रतिज्ञानिर्वाह-पर्यन्तम् ग्रन्थो निबद्धः, येन अभिप्रायमध्यवस्येम । स हि प्रबन्धः *अत्र तत्त्वविदः प्राहुः* इति श्लोकमात्र एव विघ्नितः । निबद्धमात्रञ्च अस्मदु-क्ताविरुद्धम् । पार्थिवत्वेऽपि प्रधानतत्त्वानतिरेकात् । न हि वयमसत्कार्य-वादिनः । समस्तप्रकृतिप्राकृतपरीक्षोपक्रमविवक्षया च *बध्नाति यदभि-द्रोहात्* इत्यादेरुपपत्तिः । अत्र *तत्त्वविदः* इति श्लोकेऽपि *स्थूलसूक्ष्मात्मना स्थिता* इति विभागात् एवमेव तात्पर्यमिति विभावयामः । अस्तु वा किञ्चिदभिनवघनघनावलीमलीमसमानाघ्रातस्पर्शरसगन्धमन्धकारा-भिधानमवस्थान्तरम् प्रकृतेः । तथाऽपि न पृथग्द्रव्यत्वसिद्धिः ॥

*प्रकृतिप्राकृततत्त्वनिरूपणोपसम्हारः*

तदेवम् चतुर्विम्शतितत्त्वानि चिन्तितानि । *आत्मन आकाशः सम्भूतः* *तत्तेजोऽसृजत* इत्यादि न्यूनसृष्टिव्यपदेशा न तत्त्वान्तरसृष्टिप्रतिक्षेपपराः; प्रामाणिकत्वाविशेषेण तत्परित्याग अयोगात् । वदन्ति च –

*क्षीरादिदम् तत इदञ्च ततो दधीति ।

क्षीराद्दधीति वदताम् किल को विशेषः ॥* इति ।

*षट्त्रिम्शत्तत्त्ववादनिराकरणम्*

अत एव षट्त्रिम्शत्तत्ववादोऽपि निराकृतः । ते हि एवमाहुः

*शैवागमेषु मुख्यम् पतिपशुपाशा इति क्रमात् त्रितयम् ।

तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकम् पाशः ॥ इति तत्त्वसङ्ग्रहः ।

मलम् कर्म च माया च मायोत्थमखिलम् जगत् ।

तिरोधानकरी शक्तिरर्थपञ्चकमिष्यते ॥

इति पाशविभागः ।

मायापुरुषः शिव इत्येतत् त्रितयम् महार्थसम्हारे ।

अवशिष्यते पुनस्तत् प्रवर्तते पूर्ववत्सृष्टौ ॥

इति सृष्टिप्रलयाश्रयनित्यत्त्व निष्कर्षः ।

शुद्धानि पञ्च तत्त्वान्याद्यन्तेषु स्मरन्ति शिवतत्त्वम् ।

शक्तिसदाशिवतत्त्वे ईश्वरविद्याख्यतत्त्वे च ॥

पुम्सो ज्ञकर्तृतार्थम् मायातस्तत्त्वपञ्चकम् भवति ।

कालो नियतिश्च तथा कला च विद्या च रागश्च ॥

अव्यक्तम् मायातो गुणतत्त्वम् तदनु बुद्ध्यहङ्कारौ ।

चेतोधीकर्मेन्द्रियतन्मात्राणीति तत्त्वानि ॥

इति तत्त्वगणना*

तत्र चिदचिदीश्वरविभागतन्नित्यत्वादौ न विवादः । ईश्वरस्तु प्रसिद्धशिवात् विलक्षणः शाश्वतशिवादिशब्देन निर्दिष्टो नारायणः । स च चिदचितोः सर्वावस्थावस्थितयोः शरीरी इत्येवमादिः औपनिषदानाम् विशेष ईश्वरे समर्थयिष्यते । तत्त्वगणनायाम् तु शुद्धतत्त्वपञ्चकस्य परमार्थत एकतत्त्वात्मकतया तैरेव उक्तत्वात् तत्र नातीव विवादः । तथा हि तैरेवोक्तम् –

*पञ्चानामप्येषाम् न हि क्रमोऽस्तीह कालरहितत्वात् ।

व्यापारवशादेषाम् विहिता खलु कल्पना शास्त्रे ॥

तत्त्वम् वस्तुत एकम् शिवसञ्ज्ञम् चित्रशक्तिखचितम् तत् ।

शक्तिव्यापृतिभेदात् तस्यैते कल्पिता भदाः ॥* इति ।

*रागोऽभिष्वङ्गात्मा* इति तैर्लक्षितस्य रागस्य पुरुषगुणभूतस्य न प्राकृततत्त्वान्तरत्वम् । प्रकृतिसम्सर्गवशात् पुरुषस्य रागो जायते इत्येता-वदवशिष्यते । रागाख्यकार्येण तत्कारणभूततत्त्वान्तरक्लृप्तिरिति चेन्न; सुखहेतुत्वज्ञानादिभिरेव तदुत्पत्त्युपपत्तेः, अन्यथा द्वेषादिकार्येष्वपि तत्त्वान्तरकल्पनाप्रसङ्गात् । विद्यापि –

*उद्बुद्धकर्तृशक्तेः पुम्सो विषयप्रदर्शननिमित्तम् ।

विद्यातत्त्वम् सूते प्रकाशरूपञ्च करणवैशिष्ट्यात् ॥* इत्यभिहिता ।

तत्रापि पुनर्मनःप्रभृति प्रमितिकरणग्राम एव विषयप्रदर्शने पर्याप्त इति न करणान्तरम् अनुमन्यामहे ।

*मायास्तदनु कला मलम् नृणामेकतस्तिरस्कृत्य ।

व्यञ्जयति कर्तृशक्तिम् कलेति तेनेह कथितेयम् ॥

कालेन नियत्या चाप्युपसर्जनतामुपेतया सततम् ।

विदधाति व्यापारम् निजमेषा ह्यवनिपर्यन्तम् ॥* इति च कलाऽभिहिता ।

तत्रापि अव्यक्तावस्थाकारणभूताक्षरशब्दाभिलप्यप्रकृत्यवस्थामिच्छामः । तत्र कलाशब्दः शब्दान्तरम् वा प्रयुज्यताम् । कर्तृशक्तिव्यञ्जकत्वम् तु तस्यानेष्यते । ज्ञानेच्छापुण्यपापादिभिरेव तदभिव्यक्तेः । ज्ञनादेश्च इन्द्रियाद्यधीनत्वात् ।

*नियतिर्नियमनरूपा मायातः साप्यनन्तरम् भवति ।

नियमयति येन निखिलम् तेनेयम् नियतिरित्युक्ता ॥

* इति परिभाषिता ।

तत्र नियमनशब्देन नियन्तृशक्तिविवक्षायामीश्वरसङ्कल्पाद्यतिरिक्त-नियतिर्नास्ति । प्रतिनियतफलावश्यम्भावित्वादिविवक्षायाम् तु पुण्यपापादिरूपैव नियतिः । तत्तत्स्वकार्यकरणादिविवक्षायाम् प्रतिनियत-तत्तद्वस्तुशक्तिरेव नियतिरिति न प्राकृततत्त्वान्तरमस्ति । यदि पुनः प्रमाणभूतेषु पञ्चरात्रादिषु क्वचिन्नियत्यादिसृष्टिरुच्यते, तदापि तत्र तत्र तात्पर्यभेदेन सम्प्रतिपन्नतत्त्वविशेषतच्छक्त्यादीनामेव पृथग्गणनमिति मन्तव्यम् । युक्तिश्च निर्बन्धतो दूष्यते; न त्वागमः ॥

*कालद्रव्य निरूपणम्*

कालस्य मायासृज्यत्वादिकम्

*अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते ।*

इत्यादिभिर्बाधितम् । तर्कश्च –

यतः कुतश्चित्कालाम्शात् परतः पूर्वतोऽपि वा ।

कालो न चेत्; त्वदुक्तिस्थम् पौर्वापर्यम् न सिध्यति ॥

कालाधीनभवद्भव्यभूतादिव्यवहारवान् ।

देशोऽन्योऽपि ततः सोऽपि तदभावे न सिध्यति ॥

नित्यविभूतावपि कालस्याहेतुत्वमात्रम्; नत्वभावः –

*कालम् न पचते तत्र न कालस्तत्र वै प्रभुः ।*

*कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।* इत्यादि वचनात् । अन्यथा *सदा पश्यन्ति* इत्यादिभिर्विरोधात् ।

अस्य च अन्वयव्यतिरेकाभ्यामागमाश्च यथायोगम् तत्तत्कार्य निमित्तत्व सिद्धिः । तच्च उपाध्यवच्छेदात् । सविकारत्वपक्षे स्वविकारान्प्रति  कालस्योपादानत्वमेव, निमित्तभूताकारान्तराभावात् ॥

एकेनैव क्षणेनास्य विश्वस्यापि विशेषणात् ।

कालवत्तत्क्षणानाञ्च व्यापित्वमवगम्यते ॥

अस्य विकारित्वीम् –

*सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि ।

कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥*

इत्यादिश्रुतिः *कालम् सः*, *कला मुहूर्तादिमयः* इत्यादिस्मृतिश्चाह । अत्र स्वारसिकार्थे बाधकाभावादधिदेवतोपाद्युत्पत्त्या निर्वाहो न शङ्क्यः । विभोर्विकारित्वानुपपत्तिर्बाधिकेति चेन्न, अवयवोच्छूनतादिलक्षणस्य विकारस्यानभ्युपगमात् । अवस्थान्तरापत्तिमात्रस्याविरोधात् । अन्यथा विभोरेवासिद्धिप्रसङ्गात् । सर्वमूर्त्तसम्योगित्वम् हि विभुत्वम् । तस्मादन्ततः सम्योगलक्षणमङ्गीकार्यम् । अथ विकारित्वानुपपत्या विभुत्वमेव कस्य-चिन्नास्तीति मतम्, तथापि कालस्य विकारित्वाद्विभुत्वमेव भज्येत । न पुनर्विभुत्वाद्विकारित्वम् । कथ़ञ्च विकारित्वम् विभुत्वस्य बाधकम्? कारणत्वे प्रमाणाभावादिति चेत्; न तावदिदम् सामान्यतः । तथा हि –

न हेतुकार्यतेत्येतत् बोधाय फणितम् न वा ।

द्विधापि भङ्गः स्वोक्त्यादेः फलवत्त्वाफलत्वयोः ॥

सावधेरवधिर्योऽसौ पूर्वो हेतुः परो रिपुः ।

कार्यम् नित्यमसद्वा स्यात् अवधेरनपेक्षणात् ॥

अन्वये सत्यपि नित्यविभोर्देशकालव्यतिरेकाभावेन कारणत्वम् दुर्ग्रहमिति चेन्न; तावन्तरेणापि धर्मिग्राहकेणैव तत्सिद्धेः । सामान्यतश्च अन्वयव्यतिरेकयोरपि सुशकत्वात् । सामान्यतः सिद्धस्य पारिशेष्यादिभि-र्विभुत्वादिसिद्धेः ।

विकारित्वमविभुत्वेन व्याप्तमिति चेन्न; ईश्वर तज्ज्ञानाभ्यामनै-कान्त्यात् । तयोरपि पक्षीकरणे श्रुतिबाधादिप्रसङ्गात् । निर्विकार एवेश्वर इति न दोष इति चेन्न; सम्योगसिसृक्षादिलक्षणविकारस्य अवश्यम्भावितया अभ्युपगन्तव्यत्वात् । तत्र कृत्स्न एकदेशविकल्पाद्यनुपपत्तयस्तु विभुद्रव्य इव अविभुद्रव्येष्वपि तुल्यत्वात् शून्यवादम् प्रसञ्जयेयुः । ताश्च सूत्रकारैरेव ईश्वरे प्रसज्य परिहृताः – *कृत्स्नप्रसक्तिः*, *त्* श्रुतेस्तु शब्दमूलत्वात् इत्यादिभिः ।

उक्तञ्च कालादीनाम् विकारस्वरूपत्वम् वेदार्थसङ्ग्रहे – *निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेद-स्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पृष्टानन्तमहाविभूतिः* इति । उक्तञ्च नीतिमालायाम् नारायणार्यैः – *कालोऽनाद्यनन्तोऽजस्रक्षणपरिणामीमुहूर्त अहोरात्रदिविभागवान् परणामपरिस्पन्दहेतुः* इति ।

*कालद्रव्यस्य प्रत्यक्षत्वनिरूपणम्*

प्रत्यक्षश्चायम् । यथा हि –

वर्तमानतयाऽध्यक्षे सर्वम् वस्तु प्रकाशते ।

न सा स्वरूपम् धीभेदात् नोपाधिरनवस्थितेः ॥

तत्र स्वपरनिर्वाहे पूर्वत्रैव तथा न किम् ।

तथा चास्त्विति धीरान्प्रत्यन्तस्त्वागमो बलम् ॥

तत्सिद्धस्योपलम्भेन प्रत्यक्षत्वम् प्रसाध्यते ।

लाघवात्तद्विषयता वर्तमानधियो वरम् ॥

न चैषा लैङ्गिकी बुद्धिर्लिङ्गादेरविमर्शतः ।

विमर्शेऽप्यन्यथासिद्धेस्तर्कानुग्रहवर्जनात् ॥

मिथःकरम्बितैरेव मूर्तैर्वा विश्ववर्तिभिः ।

तद्युक्तैर्गगनाद्यैर्वा पक्षद्वितयसम्मतैः ॥

रविस्पन्दादिभूयस्त्वफल्गुत्वाद्युपनायकैः ।

परावरत्वादिसिद्धेरन्यथागौरवोदयात् ॥

तावन्मात्रोपनेतृत्वे सिद्धस्यार्थस्य कल्पिते ।

जगतो मिश्ररूपत्वम् न भवेदधिके यथा ॥

कालसम्बन्धरूपोऽयम् परत्वादिरिति स्थिते ।

लिङ्गसिद्ध्यैव कालस्य प्रत्यक्षत्वमुपागतम् ॥

अतोऽनुमानमात्रेण कालोऽन्यो नैव सिध्यति ।

केवलागमसिद्धे च न लोकव्यवहार्यता ॥

तदेवम् केवलैस्तर्कैः कालस्य दुरुपपादतामालम्ब्य हि न्यायतत्त्वे सम्योगाधिकरणे – *सम्योगविभागसङ्ख्या कालः* इत्यादि चोक्तम् । प्रमातृपादे च प्रसङ्गात् कालमपलप्य *तस्मादेकाश्रयक्रियासङ्ख्या कालः* इति सूक्तमुपसम्हृतम् । प्रपञ्चितञ्चास्य प्रत्यक्षत्वम् तत्रैव – *यथा सर्वे प्रत्ययाः कालोपश्लिष्टा एव हि दृश्यन्ते । तदिति देशकालविशिष्टतयैव स्मृतिरपि जायमाना प्रागपि कालानुभवम् साधयति* इति । जैननिराकरणे भाष्यञ्च *कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्ति-त्वादयो न वक्तव्याः, न च परिहर्तव्याः । कालोऽस्ति नास्तीति व्यवहारो व्यवहर्तृणाम् जात्याद्यस्तित्वव्यवहारतुल्यः* इति । अत एव च कालस्य पृथग्गणनाभावः ॥

*तत्त्वानाम् सङ्ख्यायाः परिणामप्रकारादेश्च

वर्णनम्*

तदेवमव्यक्तोपक्रममहदहङ्कारेन्द्रियतन्मात्रभूतसृष्टिप्रकरणेषु जीवपरौ पञ्चविम्शक षड्विम्शकौ । अक्षरतमसोरन्यतरोपक्रमे कालस्य पृथग्गणने च षड्विम्शकसप्तविम्शकाष्टाविम्शकत्वादिकम् यथासम्भवम् भाव्यम् । श्रुतिश्च  – *तम् षड्विम्शकमित्याहुः सप्तविम्शमथापरे* इति । सत्वरज-स्तमसाम् पृथग्गणनया अधिकसङ्ख्यारज निर्वहन्तस्तेषारज द्रव्यत्व-दूषणेन वक्ष्यमाणेन निरस्ताः । पञ्चविम्शातिरिक्तनिषेधपराणाम् निर्वाहस्तु भगवता व्यासेन मोक्षधर्मेऽभिहितः –

*अन्यश्च राजन् स परस्तथान्यः पञ्चविम्शकः ।

तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः* ॥इति ॥

सूत्रितञ्च *अवस्थितेरिति काशकृत्स्नः* इति । प्रपञ्चितश्चायमर्थो भाष्यादिषु समानाधिकरणनिर्वाहे ।

नन्वेवमपि तत्तद्भूतेषु सवितृकान्तहिमकरकवैद्युतवैश्वानराद्युत्तरोत्तरा-वस्थादर्शनात् तत्त्वसङ्ख्यानियमोऽनुपपन्नः; मैवम् । समष्ट्यवस्थापेक्षया तन्नियमात् । पञ्चीकरणपश्चाद्भाविव्यष्ट्यवस्थाविशेषाणाम् त्वानन्त्यादपरिसङ्ख्यानम् ।

एतेषु च तत्त्वेषु भागत एव उत्तरोत्तरसृष्टिः । पूर्वपूर्वैरुत्तरोत्तरावरणस्य तत्तदाकारेण च कार्यावृत्तेः श्रुतत्वात् । अन्यथा पृथिव्येकशेषप्रसङ्गात्   पूर्वपूर्वभूतानामुपलम्भादिसिद्धत्वाच्च ।

तन्मत्राणाम् तु आवारकत्वाद्यनाश्रयणात् निश्शेषपरिणाम इत्येके । शरीरादेश्चतुर्विम्शतितत्त्वमयत्ववचनात् तेषामप्येकदेशतः परिणाम इत्यपरे । पूर्वस्मिन्पक्षे तन्मात्रकार्यभूतगुणपञ्चकेन सह शरीरादेश्चतुर्विम्शतितत्त्व-मयत्वोक्तिरिति वा सर्वाचित् तत्त्वमयत्वमात्र प्रतिपादनपरतया वा निर्वाहः । अपरस्मिन् पक्षे क्वचित् केषाञ्चित् सृष्ट्यनुक्तिवद् अविवक्षया आवरणा-द्यनुक्तिरिति गतिः ॥

*पञ्चीकरणब्रह्माण्डसृष्ट्यादिवर्णनम्*

एतानि तत्त्वानि प्रथममीश्वरः स्वसङ्कल्पादेव     तत्तदव्यवहितपूर्वपूर्व-तत्त्वशरीरकः सृष्ट्वा व्यष्टिनामरूपव्याकरणम् सङ्कल्प्य तेषाम् तत्त्वानाम् पृथग्भूतानाम् व्यष्टिसृष्ट्यशक्तेः परस्परसम्मिश्रणञ्च सङ्कल्प्य *व्योम्नो-ऽर्धभागश्चत्वारो वायुतेजःपयोभुवाम्* इत्यादिक्रमेण एकैकभूतेषु भूतान्त-राणाम् अष्टमाम्शचतुष्कैः पञ्तीकरणम् कृत्वा तेषु स्वानुप्रविष्टजीववर्ग-मनुप्रवेश्य तैरेव तत्त्वैर्दशगुणितोत्तर सप्तावरणवेष्टितम् हेमाख्यपरिणाम-गतभूतमयम् ब्रह्माण्डमारभ्य तदन्तरे च स्वनामाभिपङ्कजप्रभृति सप्तम स्थानेषु अन्यतमेन सकलतदण्डान्तर्वर्त्तिचेतनभरितविग्रहम् चतुर्मुखम् प्रसादात् सृजति, क्रोधाच्च रुद्रम् । अत्र श्रुतिः – *एको ह वै नारायण आसीत् न ब्रह्मा नेशानः*इत्यारभ्य *तत्र ब्रह्मा चतुर्मुखोऽजायत त्र्यक्षः शूलपाणिः पुरुषोऽजायत* इत्यादिका । *नारायणाद्ब्रह्मा जायते । नारायणाद्रुद्रो जायते* इत्यादयश्च । उक्तञ्च महाभारते –

*ब्रह्माणम् शितिकण्ठञ्च याश्चान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितम् फलम् ॥

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।

तदादर्शितपन्थानौ सृष्टिसम्हारकारकौ ॥* इति ॥

स च भगवान् अनन्तरम् स्वविहितब्रह्मान्तर्यामिरूपेण अवस्थितः स्वप्रहित-वेदोपज्ञविज्ञानेन स्वार्पिताभ्याम् विचित्रसृष्टिविषयबुद्धिशक्तिभ्यामुपबृम्हितेन स्वनिर्धूतमधुकैटभादिविविधापदा ब्रह्मणा ब्रह्माण्डान्तश्चतुर्दशभुवनसम्स्थान-तदधिकरणकदेवतिर्यङ्मनुष्यस्थावरादिदिग्विशेषादि विविधविचित्रव्यष्टि-सञ्ज्ञामूर्तिसृष्टिम् कारयति, करोति च तच्छरीरकः । तथा च सूत्रम् – *सञ्ज्ञा-मूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्* इति । सम्हारयति सम्हरति च हरशरीरकः ॥

*दिशो निरूपणम्*

ननु नित्यविभोर्दिशः कार्यत्वम् कथम्? न; नित्यविभुदिग्द्रव्यस्यासिद्धेः । प्राक्प्रत्यग्दूरासन्नादिव्यपदेशानाम् तु उभयसम्मतैस्तत्तदुपाध्युपहितै-स्तैस्तैराकाशादिद्रव्यैरेव मूर्तान्तर सम्युक्तसम्योगपरम्परास्यूतैस्त-त्तत्प्राक्त्वादिभेदनिर्वाहकत्वाभिमतोपाधिविशेषैरेव वा यथायोगम् निर्वाहात् ।

सम्प्रतिपन्नाकाशादिपरित्यागेन सर्वत्र सर्वगुणघटनरूपातिप्रसङ्गपरिहाराय अधिकदिग्धर्मिकल्पनम् पापक्षयवत् पुण्यपरिक्षयोऽपि भवतीति भयात् मन्दाकिनीमपहाय मरीचिकानुधावनम् ।

तावन्मात्रोपनेतृत्वस्वभावान्यप्रकल्पनात् ।

सिद्धस्य धर्मिणः कल्प्या तावन्मात्रोपनेतृता ॥

अस्तु तर्हि आकाशातिरिक्तम् दिक्तत्त्वम् *पद्भ्याम् भूमिर्दिशः श्रोत्रात्*, *दिशम् श्रोत्रम्* इत्यादि पृथक्सृष्टिप्रलयश्रवणादिति चेन्न; अभिमानिदेव-तोपाधिसृष्ट्या निर्वाहात् । तत्तदेकप्रकरणस्थान्तरिक्षस्वर्गलोकाद्यवच्छेद-सृष्ट्यादिवत् । अन्यथा तत्रपि तत्त्वान्तरस्वीकारप्रसङ्गात् । सूत्रकारादिभिश्च *न वायुक्रिये पृथगुपदेशात्* इत्यधिकरणे पृथक् सृष्ट्याद्युपदेशवतोऽपि प्राणस्य वायुविशेषत्वमेवोक्तम् । तत् दिगादीनामपि प्रदर्शनार्थम् मन्तव्यम् । यदि च कार्यम् किमपि दिक्तत्त्वम्, तदा तत्सृष्टेः पूर्वम् सम्हारात् परतश्च प्रकृतिमहदादितत्त्वानामावरणत्वावार्यत्वदूरत्वासन्नत्वव्यवस्था न स्यात् । व्यष्टि दशायाम् हि दिक्सृष्टिः श्रूयते । प्रकृतिकार्यतया प्रादेशिकत्वे वा शुद्ध-सत्त्वत्रिगुणादेरूर्ध्वाधःप्रभृतिव्यवस्था न स्यात् । यदि तत्रोपाधिभिरुपहितै-र्वातैस्तैर्निर्वाहः, तदत्रापि सममिति सिद्धम् न दिक् तत्त्वान्तरम् इति ।

यत्तु प्रमेयसङ्ग्रहे प्रोक्तम्  – *गगनस्य दिशाञ्च त्रिवित्करणेन रूप-वत्त्वम्*, अतश्चाक्षुषम् सर्वम् सविशेषमेव गृह्यते* इति; तेनापि पञ्चीकृत-भूतारब्धत्वमात्रम् प्रतीयते । न पुनः स्थिरपरिगणितचतुर्विम्शत्यतिरिक्त-तत्त्वान्तरत्वम् । वरदविष्णुमिश्रैस्तु – *द्रव्यञ्च षड्विम्शतिविधम् सत्व-रजस्तमाम्सि* इत्यादिना दिग्द्रव्यम् पृथगेव सङ्ख्यातम् । *आकाशकाल-दिशश्चक्षुरिन्द्रियेण* इति तस्य चाक्षुषत्वमप्युक्तम् । *दिक्कालौ चाक्षुषौ प्रत्यक्षपरत्वापरत्वकारणसम्योगाश्रयत्वात् घटवदित्यनुमानेनावगम्यते* इति च तत् साधितञ्च । अत्र पृथक्त्वम् भाष्यविरुद्धसत्त्वादिपरिगणनवत् अन्यपरतया निर्वाह्यमिति ॥

*पञ्चीकरणादिविषये विचारः*

तदेतत् ब्रह्माण्डप्रभृति स्तम्बपर्यन्तम् सर्वमपि पञ्चभूतात्मकम्;   पञ्चीकरणादिवचनात् । *तासाम् त्रिवृतम् त्रिवृतमेकैकाम् करवाणि* इत्युपलक्षणम्; समानप्रकरणैरुपबृम्हणैश्च तथा अध्यवसायात् । भूयसा तु लौकिकपरीक्षकागमव्यवहाराः । तथा च सूत्रम् -*वैशेष्यात्तु तद्वादस्तद्वादः* इति, *त्र्यात्मकत्वात्तु भूयस्त्वात्* इति च । एवम् पञ्चीकरणमपि उपलक्षणमेव ॥

*नानावीर्याः पृथग्भूतास्ततस्ते सम्हतिम् विना ।

नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः ॥

समेत्यान्योऽन्यसम्योगम् परस्परसमाश्रयाः ।

एकसङ्घातलक्षास्तु सम्प्राप्यैक्यमशेषतः ॥

महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।*

इति भगवत्पराशरवचनात् । तथा श्रीमद्गीताभाष्ये – *महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव चेति क्षेत्ररम्भकद्रव्याणि* इत्यादिकमुक्त्वा *प्रकृत्यादि-पृथिव्यन्तद्रव्यारब्धमिन्द्रियाश्रयभूतम् इच्छाद्वेषसुखदुःखविकारिभूत-सङ्घातरूपम् चेतनसुखदुःखोपभोगाधारत्वप्रयोजनम् क्षेत्रमित्युक्तम् भवति* इत्यक्तम् । तदेवमष्टद्रव्योपादानानि शरीराणि । इन्द्रियाणि तु शरीराश्रितानि द्रव्यान्तराणि । *इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि* इति विभजनात्, *इन्द्रियाश्रयभूतम्* इत्युपसम्हाराच्च । एतेन तन्मात्राणाम् पूर्वोक्तो निश्शेषपरिणामपक्षः परिगृहीत इव सूच्यते ॥

*जातिसङ्करदोषस्य निराकरण-

मवयविखण्डनञ्च*

नन्वेकस्यानेकद्रव्योपादानकत्वे जातिसङ्करः स्यात्; न स्यात् । अवयविनोऽस्माभिः अनभ्युपगमात् । बुद्धिशब्दसङ्ख्यापरिमाणदेशकाल-कार्यादिभेदस्य अवयव्यारम्भकतया भवदभिमत अवस्थान्तरमात्रेण निर्वाहात् । अन्यथा राश्यादिष्वपि द्रव्यान्तरकल्पनाप्रसङ्गात् ।   गुरुत्वा-दिकार्य अदर्शनादिनिर्वाहपरिक्लेशात् । पृथग्दशापतनदर्शनेन अवयव-गुरुत्वस्य अप्रतिबन्धात् । अवयविगुरुत्वप्रतिबन्धे तु द्व्यणुकप्रभृतेः सर्वस्यापतनप्रसङ्गात् परमाणुगुरुत्वैरेव सर्वत्र पतने घटादेः साक्षात् परमाण्वारब्धत्वाभावेन  तत्पतने तद्गुरुत्वस्य असमवायित्वायोगात् । सम्योगाभावाच्च दीर्घैकतन्तुसम्वर्तनजनितेषु तन्त्वतिरिक्त व्यवहारभङ्ग-प्रसङ्गात् । द्विताय तन्तुप्रभृत्युपान्त्यतन्तुपर्यन्त पटधियो विभज्यमान-तन्तुव्यतिरिक्ततन्तुगतपटधियश्च अविशेषात् । आरभ्यारम्भवादेऽपि प्रथमद्वितीय तन्त्वपगमे द्वितन्तुकादिद्रव्यावस्थानभ्युपगमात् । घटादिषु च आरम्भकभागानुपलम्भेन यथेष्टभाग अनर्हत्वात् उपलम्भश्रुतिभ्याम् बाधितत्वाच्च । अतोऽवयव्यनभ्युपगमात् न जातिसङ्करः ।

अभ्युपगच्छतामपि प्रतिनियतकनकरजताद्यम्शनिर्मितबिम्बादिवत् धेरम्बादिवच्च निर्वोढुम् शक्यत्वात् । अस्मन्मते तु सङ्घातविशेषरूपेषु तत्तद्भूताम्शानाम् प्रतिनियतत्वात् ।

अवयविवादिनामपि यथास्वम् निमित्ततया उपादानतया च अनेक-भूतानामेकसङ्घातानुप्रवेशोऽवर्जनीयः । न च तत्र मिथो जातिसङ्करः, तादात्म्यम् वा जायते इति नास्माकम् कश्चित् विशेषः ॥

न च जातिसङ्करो दोषः; उपीधिसङ्करवत् । न हि मिथो धर्मिपरिहारेण वर्तमानयोः उपाध्योः कार्यत्वमूर्तत्वादिरूपयोरेकत्र समावेशो नातिप्रसङ्गा- वहः, जात्योस्तु तथेति नियामकम् अस्त्यन्यत्राभिमानात् । परावरभाव-रहितयोर्जात्योरसमावेशनियमोपलम्भो नियामक इति चेन्न; उपाध्योरपि नीलत्वपीतत्वादिरूपयोस्तत्सम्भवात् । केषुचित् दर्शनस्य जातावपि समत्वात् । कनकत्वकुण्डलत्वयोः काञ्चनकटककलधौतकुण्डलादिषु पृथगेव पर्तमानयोः काञ्चनकुण्डले समावेशदर्शनात्, गत्वतीव्रत्वादीनाञ्च तीव्रगकारादौ । तेषाञ्च जातित्वाभ्युपगमात् ।

तत्रान्यतरजातिभङ्गो वा, सदृशसम्स्थानाभिव्यङ्ग्यजातिद्वयकल्पना वा, इत्यादि तु स्वसिद्धान्तस्तनन्धयविषयवात्सल्यम् । तच्च स्वापत्यम् मार्जारादिवत् जिघत्सति । अत्यन्तसजातीयेष्वपि एकजातीयत्वेन अबाधितप्रत्यभिज्ञाने जातेरेव भङ्गप्रसङ्गात् । तदेवम् सिद्धमनेक-तत्त्वात्मकम् ब्रह्माण्डदिव्यष्टिविश्वमिति ।

*ब्रह्माण्डनिरूपणम्*

एवम् विधब्रह्माण्डानन्त्यतदन्तर्वर्तिलोकविशेषसम्स्थानतत्परिमाण- लोकपालनिवासादिभेदतत्तदवस्थानकालादयो ज्यौतिषपुराणादिषु प्रपञ्चिता द्रष्टव्याः । क्वचित्क्वचित्विरोधिनोऽपि तात्पर्य भेदादिनिर्वाह्याः । एषा च प्रतिनियतदेशकालस्वरूपफलभोगतारतम्यनिम्नोन्नतब्रह्मादिस्तम्बपर्यन्ता विषमसृष्टिः स्वरूपानादेर्जीवस्य प्रवाहानादिकर्मतारतम्य निबन्धनेति      नाकृताभ्यागमकृतविप्रणाशवैषम्यनैर्घृण्यादिप्रसङ्गः । जीवानामाप्रलया-वस्थायित्वादिपक्षे तु एते दोषाः स्फुटाः । तदेवम् पुण्यपाप तारतम्यात् केचित् द्युप्रभृतिलोकेषु उत्कृष्टशरीरेन्द्रियज्ञानशक्त्यादिमन्तः । केचिच्च नरकादिषु घोरदुःखकारणात् निकृष्टशरीरादिमन्तः । केचिच्च मिश्रकर्माणः पृथिव्यादिषु मिश्रमध्यमसुखादिमन्तः ॥

*शरीरलक्षणनिरूपणम्*

इह प्रसङ्गात् सामान्यतः शरीरलक्षणमुच्यते – *यस्य चेतनस्य यद्द्रव्यम् सर्वात्मना स्वार्थे नियन्तुम् धारयितुञ्च शक्यम् तच्छेषतैक-स्वरूपञ्च तत्तस्य शरीरम्* इति भाष्यम् । गोघटादिवत् सम्स्थानादि-भिरनियतवृत्तेः शरीरशब्दस्य क्वचिद्विशेषे नियामकाभावात् सर्वप्रयोगा-नुगुणम् इदमेव श्रुतिसिद्धम् व्यापकम् लक्षणमिति भाष्यकाराभिप्रायः ।

एतच्च एकलक्षणमिति केचिद्व्याचख्युः । लक्षणत्रयमित्यपरे । एकत्व-पक्षे व्यवच्छेद्यपरिक्लेशः । अन्ये तु एकलक्षणत्वेऽपि जन्मादित्रयस्य ब्रह्म-लक्षणत्व इव अत्रापि न व्यवच्छेद्यम् सिद्धमस्ति, शङ्कितम् तु सममित्याहुः । यौक्तिकग्रन्थेषु तथा निर्वाहस्य अनुचितत्वात् त्रित्वपक्ष एव मुख्यः । भट्टपराशरपादैरपि अध्यात्मखण्डद्वयविवरणे स एव पक्षः सूचितः – *चेतनाचेतनयोरविशिष्टम् तम् प्रति शरीरत्वम्; स्वेच्छया नियच्छता भगवता व्याप्यत्वाविशेषात् । *इदमेव भौतिकस्य शरीरस्यापि शरीरत्वम्* इत्येकस्य लक्षणतया उपपादनात् ।

तत्रैवम् लक्षणत्रयनिष्कर्षः – यस्य चेतनस्य यदवस्थम् द्रव्यम् यावत्सत्तमसम्बन्धनार्हम् स्वशक्ये नियन्तव्यस्वभावम्, एतदवस्थम् तस्य शरीरम् इत्येकम् लक्षणम् । चेतनस्य चैतन्यविशिष्टस्येत्यर्थः । तेन चैतन्यस्य तत्तदाश्रयम् प्रति शरीरत्वव्यवच्छेदः । यदवस्थमित्यव्याप्ति-परिहारः । तस्यैव द्रव्यस्य अवस्थान्तरे वियोगात् । द्रव्यमिति क्रियादि-व्यवच्छेदः । यावत्सत्तमित्यादिना जीवम् प्रति परकाय प्राणेन्द्रिय-कुठारादिव्यवच्छेदः; प्राणादीनाम् हि पृथगेव सृष्टानाम् शरीरनिर्माणात् पूर्वम्भावात्, तथा मोक्षात्पश्चादपि तेषामाप्रलयावस्थानात् ।

*स्वशक्ये* इत्यसम्भवपरिहारः । न हि विहङ्गमशरीरसाध्यम् विहायोगमनम् मानुषमृगसरीसृपादिशरीरस्य शक्यम् । न च तावता  तेषामशरीरत्वमिति भावः । स्वशक्यञ्च अन्वयव्यतिरेकादिसमधिगतम् यथासम्भवम् भाव्यम् । अतः शिलाकाष्ठघटपटादिषु जीवशरीरेष्वपि तदधीनत्वाभावेन अव्याप्तिचोद्यम् परिहृतम् भवति; स्थावरादिवत् अति-सूक्ष्मस्य नियमनविशेषस्य अस्मदादिभिर्दुर्ग्रहत्वात् । यद्यपि क्वचित् स्थावरेषु उन्मेषनिमेषादिकम् दृश्यते, तथापि न तत् सार्वत्रिकम् । स्मरन्ति च शिलाकाष्ठादिष्वपि स्वल्पतरम् चैतन्यम् । *अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका* इत्यादि । वक्ष्यमाणचतुर्थलक्षणपक्षे तु नास्य चोद्यस्य अवकाशोऽपि । न च अत्र शक्ये सर्वत्र नियमनम् विवक्षितम्;  अनिच्छादि-वशेन तस्यापि क्वचिदसम्भवात्, सहकार्यनागमनमात्रेण कार्यानुत्पत्ति सिद्धेः । न हि अङ्कुरमनुत्पाद्य विनष्टस्य बीजवर्गस्य अङ्कुर उत्पादन सामर्थ्यम् नास्तीति शक्यते वक्तुम् । नियन्तव्येत्य-नियन्तव्यव्याध्यादिव्यवच्छेदः । व्याध्यादीनाम् द्रव्यात्मकत्वात् तदीयत्वात् स्वशक्ये प्रवर्तमानत्वाच्च । एवम् पुत्रशरीरादीनामपि ।  स्वभावशब्देन अव्याप्तिपरिहारः । व्याध्यादि-दशायाम् स्वशक्येऽपि अशक्यनियमनानाम् मानुषशरीरादीनामपि शरीर-त्वात् तदानीमेतस्य अशक्यनियमनत्वस्य औपाधिकत्वादिति ध्येयम् ॥

यस्य चेतनस्य यदवस्थम् द्रव्यम् यावत्सत्तम् धार्यम् तदवस्थम् तस्य शरीरमिति द्वितीयम् लक्षणम् । पुत्रशरीरादिकम् न यावत्सत्तम् धार्यमिति व्यवच्छिद्यते । शेषम् प्राग्वत् ।

तथा यस्य चेतनस्य यदवस्थम् द्रव्यम् यावत्सत्तमशेषतानर्हम् तदवस्थम् तस्य शरीरमिति तृतीयम् लक्षणम् । अशेषतानर्हमिति पूर्ववदेव पुत्रादिव्यवच्छेदः । दानादिना तेषाम् स्वशेषत्वनिवर्तनस्य शक्यत्वात् । शरीरस्य तु दासत्वाद्यापादनेन परशेषत्वेऽपि स्वस्वशेषत्वस्य साम्सिद्धिकस्य निवर्तयितुमशक्यत्वादिति ।

अत्रेदम् चतुर्थमपि लक्षणत्रयफलितम् श्रीभाष्यकाराभिप्रेतम् लक्षण-मुच्यते – यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेषणम् द्रव्यम् तत् तस्य शरीरमिति । यावत्सत्तमसम्बन्धानर्हत्वमपृथक्सिद्धत्वम् । आधेयत्व-विधेयत्वशेषत्वानि अपृथक्सिद्धेः अवान्तरभेदा इह विवक्षिताः । व्यवच्छेद्यम् तु स्पष्टमेव ।

एतेन एतमपि परिहृतम् । यदुत शरीरशब्दस्य अन्यतमम् वा? त्रीण्यपि वा? त्रिकम् वा प्रवृत्तिनिमित्तम्? न प्रथमः, *आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानि* इति भाष्यविरोधात् । न द्वितीयः; गौरवात् अनेकार्थत्व प्रसङ्गाच्च । न तृतीयः; गौरवात् भिन्नलक्षणपक्षे च अस्वा- रस्यादिति । त्रिभिरुपलक्षितस्यैव चेतन अपृथक्सिद्धत्वस्य प्रवृत्ति-निमित्तत्त्वात् न कश्चित् दोषः ।

ईश्वरतज्ज्ञानव्यतिरिक्तम् द्रव्यम् शरीरमिति वा तटस्थलक्षणम् । भाष्ये शरीरत्वस्य पितृत्वादिवत् सप्रतियोगिकत्वसूचनाय  देवत्वमनुष्यत्व-द्विपात्त्वादि अवान्तरभेदानामप्रयोजकत्वसूचनाय च *यस्य चेतनस्य यद्द्रव्यम्* इत्यादिनिर्देशः । प्रतियोगिनिर्देशरहिते लक्षणे यथाप्रमाणम् प्रतियोगिविशेषव्यवस्था । यथा वैशेषिकादीनाम् लक्षणेषु सप्रतिसम्बन्धि-कगुणसामान्यविशेषसमवायाभावादीनाम् प्रतिसम्बन्धिनिर्देशरहितेषु च लक्षणेषु *कर्मान्यत्वे सति जातिमात्राश्रयो गुणः, नित्यमेकमनेकसमवायि सामान्यम्, अजातिरेकवृत्तिर्विशेषः, नित्यसम्बन्धः समवायः* इत्यादिषु ॥

*अक्षपादवर्णितशरीरलक्षणखण्डनम्*

अन्यैस्तु *चेष्टेन्द्रियार्थाश्रयः शरीरम्* इति सूत्रितम् । तत्र अन्त्यावयवित्वे सति चेष्टाश्रयत्वमेकम् लक्षणम् । तद्विशेषितेन्द्रियाश्रयत्वभोगायतनत्वे द्वे । तत्र चेष्टाशब्देन क्रियामात्रविवक्षायामतिव्याप्तिर्व्यक्ता । प्रयत्नवदात्मसम्योगा-समवायिकारणकक्रियाविवक्षायाम् प्रयत्नवदीश्वरसम्योगासमवायिकारणक-क्रियाश्रयेषु तच्छरीरतया तैरनभ्युपगतेषु भूभूधरादिषु अतिव्याप्तिः । प्रयत्नवज्जीवेति विशेषणे प्राणादिषु अतिव्याप्तिः । बुद्धिपूर्वकप्रयत्नेति- विशेषणेऽपि बुद्धिपूर्वकाकुञ्चन प्रसारणादिदशायाम् तेष्वेव अतिव्याप्तिः । वाय्वादेरन्त्यावयवित्वम् नास्तीति चेत्; कस्य तर्ह्यस्ति? घटादेरिति चेन्न; तत्रापि अनेकघटपटादिभिर्भित्तिकन्थादिनिर्माणे तदसिद्धेः । तत्र तदारम्भो    नास्तीति चेत्, अन्यत्रापि तथैव नास्तीत्येव तु सत्यम् । तर्हि अस्तु घटा-दयोमध्यावयविन इति चेन्न; सर्वत्रापि तथाप्रसङ्गात्. अन्त्यावयवित्व-माकाशकोरकायितमिति साधु तद्विशेषितम् लक्षणम् ।

इन्द्रियाश्रयत्वम्, तत्समवायित्वम्, तत्सम्योगित्वम् वा स्यात् । न प्रथमः; अनभ्युपगमात्, इन्द्रिय अवयवानाम् तन्मते शरीरत्वप्रसङ्गाच्च । न   द्वितीयः; घटादिष्वपि तत्सम्भवात् । यावत्सत्तम् इन्द्रिय सम्योगो विवक्षित इति चेत्; तदपि न । अनिमेषचक्षुषि प्रेक्षमाणे पुरुषे तदातनोत्पन्नविनष्ट बुद्बुदप्रभृतिष्वतिव्याप्तेः । नित्यमनःपक्षे च आत्मादिषु । तैः शरीरतया मृतशरीरस्य अभ्युपगमाच्च । इन्द्रियसम्युक्तकृत्स्नप्रदेशम् शरीरमिति चेन्न; मूर्तयोः शरीरेन्द्रिययोः सप्रतिघत्वविरोधेन कृत्स्नप्रदेश सम्योगा-भावस्य युष्माभिरेव अभ्युपगन्तव्यत्वात्, निरिन्द्रियशरीरान्तःप्रदेश-विशेषस्य प्रामाणिकत्वाच्च । युगपदनेकेन्द्रियावस्थितिदेशः शरीरमिति चेन्न; अवस्थितिरिति सम्योगमात्रविवक्षायामाकाशादीनाम् ईश्वरस्य च अस्मदादीन् प्रति शरीरत्वप्रसङ्गात् । अपृथक्सिद्धिविवक्षायामसिद्धेः, ईश्वरस्य अस्मत् पक्षेण शरीरत्वप्रसङ्गाच्च । उपष्टम्भकत्वादिविवक्षायाम् प्राणेऽतिव्याप्तिः । यावत्सत्तमिन्द्रियासम्योग अयोग्यम् शरीरमित्यपि दत्तोत्तरम्; ईश्वरादिषु अतिव्याप्तेर्दुष्परिहरत्वात् । इन्द्रियव्यतिरिक्तम् प्राण व्यापाराधीनप्रवृत्तिनिवृत्त्यादिकम् शरीरमिति चेन्न; आत्मनि मलादिषु च प्रसङ्गात् । सर्वप्रवृत्तिषु तादधीन्यम् विवक्षितमिति चेन्न; असम्भवात् । न हि वाय्वाद्याकृष्यमाणशरीरादिप्रवृत्तिः प्राणाधीना ।

भोगायतनत्वमपि यदि भोगस्थानत्वमात्रम्, तदा गृहादिषु अतिव्याप्तिः । यदाश्रित्यैव आत्मा भोगवान् भवति, तद्भोगायतनमिति विवक्षितमिति चेन्न; अस्मन्मतेन लक्षणासम्भवात् । अशरीरस्यापि मुक्तस्य भोग-विशेषाभ्युपगमात् । दुःखात्मक भोगो विवक्षित इति चेत्; तथापि इन्द्रियेषु अतिव्याप्तिः । ईश्वर मुक्तादिभिरिच्छागृहीतशरीरेषु अव्याप्तिश्च । स्वभ्रमवशेन भोगाश्रय इत्यपि न; तत्तद्वादिभेदैरात्मतया बुध्यमानेषु इन्द्रियमनःप्राणेषु अतिव्याप्तेः । ईश्वरमुक्तादिशरीरेषु अव्याप्तेश्च । शिरः पाणि पादादिमयम् शरीरमिति चेत्; शिलापुत्रकादिष्वपि तत्सम्भवात् । प्राणादिमत्त्वे सतीति चेन्न; मृतशरीराद्यव्याप्तेः । यदा कदाचित् प्राणादिसम्बन्धमात्रम् विवक्षि-तमिति चेत्; तथापि स्थावरादिशरीरेषु अव्याप्तिः । तेषु प्राणादिसत्त्वेऽपि पाणिपादादिसम्स्थानाभावात् । एवम् लक्षणान्तराण्यपि दूष्याणि । तत्र श्रुत्यादि अनुरोधेन पूर्वोक्तमेव लक्षणम् ॥

*शरीरविभाग प्रतिपादनम्*

तदेतत् शरीरम् द्विविधम् – नित्यमनित्यञ्चेति । तत्र नित्यम् त्रिगुण-द्रव्यकालजीव शुभाश्रयात्मकमीश्वरशरीरम् । नित्यानाञ्च स्वाभाविक-गरुडभुजगादिरूपम् । अनित्यञ्च द्विवधम् – अकर्मकृतम् कर्मकृतञ्चेति । प्रथममीश्वरस्य महदादिरूपम् । तथा अनन्तगरुडादीनाम् मुक्तानाञ्च इच्छाकृततत्तद्रूपम् । कर्मकृतमपि द्विवधम् – स्वसङ्कल्पसहकृतकर्मकृतम् केवलकर्मकृतञ्चेति । पूर्वं महताम् सौभरिप्रभृतीनाम् । उत्तरञ्च अन्येषाम् क्षुद्राणाम् ।

पुनः शरीरम् सामान्यतो द्विधा जङ्गम अजङ्गमञ्चेति । काष्ठादीनाम् शिलादीनाञ्च अजङ्गमत्वमेव । यथा वृक्षगुल्मलतावीरूत्तृणानाम् तमोमोहमहामोहतामिस्रसञ्ज्ञानाम् । शिलादिशरीरिणोऽपि जीवा विद्यन्ते इति अहल्यादिवृत्तान्त श्रवणात् सिद्धम् । तथा च वेदार्थसङ्ग्रहे प्रोक्तम् – *अतो देवो मनुषयो यक्षो राक्षसः पक्षी वृक्षो लता काष्टShThaम् शिला तृणम् घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेन अभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमान  तत्तत्सम्स्थानवस्तुमुखेन तदभिमानिजीव-तदन्तर्यामिपरमात्मपर्यन्तस्यैव वाचकाः* इति । इदञ्च व्यष्टिनामरूपाणाम् सर्वेषाम् जीवानुप्रवेश श्रुतिबलावलम्बेनोक्तम् । उक्तञ्च श्रीमद्गीताभाष्ये *जघन्यगुणवृत्तिस्था अधोगच्छन्ति तामसाः* इति  – *अथ तामसास्तु जघन्यगुणवृत्तिस्थाः –उत्तरोत्तरनिकृष्टतमोवृत्तिषु स्थिताः । अधो गच्छन्ति अन्त्यत्वम्, ततस्तिर्य-क्त्वम्, ततः क्रिमिकीटादिजन्म, ततः स्थावरत्वम्, ततोऽपि गुल्मलतात्वम्, ततश्च शिलाकाष्ठलोष्टादित्वम् गच्छन्तीत्यर्थः* इति । अत्र स्थावर-शब्दो गोबलीवर्दनयात् वृक्षादिस्थावराख्यविशेषविषयो ज्ञेयः ।

जङ्गमम् चतुर्धा, देवमनुष्यतिर्यङ्नारकिसम्स्थान भेदात् । असुरयक्ष-राक्षसादयोऽपि देवयोनयः । भूलोकवर्ति ब्रह्मक्षत्रियविट्शूद्रादयो मनुष्य-योनयः । तेषाम् तु श्रुतिस्मृत्युक्तविधिनिषेधविषयता । देवादीनामपि सा अस्त्येव । प्रायश्चित्ताध्वरतपश्चर्याब्रह्मविद्यादिश्रवणात् । मृगपक्षिसरीसृपादयः तिर्यग्योनयः । नारकिणस्तु रौरवादिषु दुःखैकाश्रयदुस्त्यजविग्रहाः । जङ्गमम् पुनर्द्विविधम् – योनिजम् अयोनिजञ्चेति । इदम् देवादिषु त्रिष्वपि सम्भवति । प्रजापतिमधुकैटभधृष्टद्युम्नैरावतस्वेदजादि दर्शनात् । तत्र योनिजेष्वेव पञ्चमाहुत्यपेक्षा । योनिप्राप्तेः  पूर्वमाकाशवायुधूमाभ्रमेघ-वृष्टिव्रीह्यादि रेतःसिक्षु अन्यशरीरेषु सम्सर्गमात्रम् । तत्र व्रीह्यादिप्राप्तेः पूर्वम् शीघ्रमेव निष्क्रमणम् । ततः परम् दुर्निष्प्रपतनम् । द्युपर्जन्यपृथिवी-पुरुषानन्तरम् पञ्चमे योषिदग्नौ हुतस्य तत्तत्कालप्रतिनियतपरिणाम विशेषादय आयुर्वेदयोगादिशास्त्रेषु विशदमवसेयाः । सप्तधातूनाम् शुक्लशोणितसम्भवत्वप्रकारः, प्रकृतिविकृतिभावनियतवातपित्तकफादि-प्रपञ्चो, नाड्यादिविशेषतत्परिमाणादयश्च तेष्वेवावसेयाः । एवम् जरायुजाण्डजोद्भिज्जस्वेदजभेददोऽपि भाव्यः ॥

*व्यष्टिजीवशरीराणामीश्वरशरीरत्व-

विषयेमतभेदवर्णनम्*

एषाञ्च व्यष्टिजीवशरीराणामीश्वरम् प्रति शरीरत्वम् सद्वारकमद्वारक-ञ्चेति एकः सम्प्रदायः । अद्वारकमेवेति अन्यः । प्रथमस्तु पक्षः प्राचुर्येण भाष्यकारव्यवहारैः सूच्यते । तत्त्वरत्नाकरेऽपि स एवोक्तः. *चेतनाचेतन-योरविशिष्टम् तम् प्रति शरीरत्वम्* इत्यादिवचनात् । द्वितीयस्तु पक्षो विवरण काराङ्गीकृतः । षडर्थसङ्क्षेपे हि अचितो जीवेश्वरयोर्देहत्वात् तद्वाचि-    शब्दजनितधियामुभयत्र पर्यवसानम्, उभयोरपि स्वयमेव भानात् द्विर्भानञ्चाशङ्क्योक्तम् *नाचितो जीवाद्वारा ब्रह्मशरीरत्वात्* इति । विवरणेऽपि अयमेवार्थः प्रपञ्चितः ।

अयञ्च विवादो देवमनुष्यादिव्यष्टिदेहविषयः; दिव्यमङ्गळविग्रहाद्य-चित्सु सद्वारकत्वायोगात् । विवरणेऽपि हि तमःप्रभृतीनामपि शरीरत्वनिर्देश- विरोधपरिहाराय *आदिसृष्टौ तु* इत्यादिना समष्टितत्त्वानाम् साक्षात् परशरीरत्वमुक्तम् । तेजोऽबन्नसृष्टिसमनन्तरभाविदेवमनुष्यादिनामरूप-व्याकरणमात्र एव *अनेन जीवेन* इत्यादि श्रुत्यनुसारेण सद्वारकत्वम् । तत्रापि अद्वारकम् सद्वारकञ्च शरीरत्वे न कश्चित् दोषः । उभयपर्यवसानमपि विशेषमूलप्रयोगभेदप्रतिनियमात् परिहृतम् । अत एव न द्विर्भानमपि ।

न च एकस्य युगपदनेकम् प्रति शरीरत्वमनुपपन्नम्; तल्लक्षणयोगेन तदुपपत्तेः, अनेकम् प्रति शेषत्वादिवत् । न च स्वतो जीववत् शरीरभूतस्य त्रिगुणद्रव्यस्य जीवानुप्रविष्टसङ्घातविशेषदशामात्रेण ईश्वरम् प्रति शरीर-त्वमपसरति । न च तदन्यत् द्रव्यम्; द्रव्याभेदात् । व्याकृतभूतत्वगादीन्प्रति च ईश्वरस्य अन्तर्यामित्वात् । तत एव च तेषाम् तच्छरीरत्वम् श्रूयते । सुषुप्तिमूर्च्छाद्यवस्थासु च स्वाभाविकमीश्वरनियाम्यत्वमेव देहदेहिनोर्दृश्यते । अत इदमद्वारकनियमनम् तत्पक्षे न स्यात् । जीवासत्तामात्रञ्च न देहनियमनौपयिकम्; तदानीम् ज्ञानेच्छारहिततया तस्य गगनादिसत्तातुल्यत्त्वात् । अतः सर्वावस्थानाम् सर्वद्रव्याणामीश्वरम् प्रत्येव स्वतश्शरीरत्वम् । जीवम् प्रति तु तत्कर्मकृतमिति समीचीनोऽयम् पन्थाः ॥

एनामात्मतिरस्क्रियायवनिकामिच्छाविहारस्थलीम्

निर्व्यापारविभावरीसहचरीम् निद्रामनिद्रात्मनः ।

ब्रह्मस्तम्बमहेन्द्रजालरचनापिञ्छावलीम् श्रीमतो

विष्णोर्लोहितशुक्लकृष्णशबलाम् विद्यामविद्यातनुम् ॥

इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य

श्रीवेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीन्यायसिद्धाञ्जने जडद्रव्यपरिच्छेदः प्रथमः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.