ईश्वरपरिच्छेदः

श्रीः

श्रीमते रामानुजाय नमः

ईश्वरपरिच्छेदः

*ईश्वरलक्षणनिरूपणम्*

अथ ईश्वरश्चिन्त्यते । सर्वेश्वरत्वम्, व्यापकत्वे सति चेतनत्वम्, सर्वशेषित्वम्, सर्वकर्मसमाराध्यत्वम्, सर्वफलप्रदत्वम्, सर्वाधारत्वम्,  सर्वकार्योत्पादकत्वम्, स्वज्ञानस्वेतरसमस्तद्रव्यशरीरकत्वम्, स्वतस्सत्य-सङ्कल्पत्वादिकञ्च ईश्वरलक्षणम् ।

यत्तु जन्मादिसूत्रे जन्मादित्रितयसमाहारो लक्षणमुक्तम्;  तत्र एकैकस्य लक्षणत्वे सम्भवत्यपि त्रयाणाम् त्रयः कर्तार इति कुमतिशङ्काव्यावर्तनाय तदिति मन्तव्यम् । सत्यादिवाक्येऽपि अनन्तपदेनैव सर्वव्यवच्छेदसिद्धौ शङ्कितक्रमेण व्यवच्छेदात् पूर्वविशेषणद्वयम् । एवमन्यत्रापि भाव्यम् ॥

*प्रधानादेरब्रह्मत्वनिरूपणम्*

अद्वितीयसमाभ्यधिकदरिद्रत्वश्रवणादसावेकः । स एव ब्रह्म । तस्यैव त्रिविधपरिच्छेदरहितस्य सर्वात्मकत्वेन निरतिशयबृहत्त्वबृम्हण-त्वश्रवणात् । *अग्निः सर्वा देवताः* आपो वा इदम् सर्वम् *ब्राह्मणो वै सर्वा देवताः* *नकिरिन्द्र त्वदुत्तरः* इत्यादेर्व्याघातकर्मविधिशेषत्वाभ्या-मन्यपरत्वनिर्णयात् न तेषामानन्त्यब्रह्मत्वादिसिद्धिः ।

स एव सदसदव्याकृतब्रह्मात्माकाशप्राणशिवनारायणादिशब्दैः  कारणप्रकरणगतैः सामान्यतोविशेषश्च व्यपदिश्यते । स च वृश्चिकोत्पत्तौ गोमयवृश्चिकादिवत् जुगुत्पत्तौ देशकालभेदात् कारणानियमः किम् न स्यादिति वाच्यम्; प्रमाणान्तरेण भेदासिद्धेः । शब्देन तु समानप्रकरणत्वप्रत्यभिज्ञानात् सर्वशाखाप्रत्ययन्यायसामान्य-विशेषन्यायाभ्यामेकत्वादिकण्ठोक्त्याऽभिन्नार्थोपपत्तौ भेदकल्पनायोगात् । अतो न प्रधानादेर्ब्रह्मत्वम् ।

*ब्रह्मरुद्रादेरब्रह्मत्वनिरूपणम्*

नापि ब्रह्मरुद्रादेः; तेषाम् सृज्यत्वसम्हार्यकर्मवश्यत्वादिश्रवणेन जीवत्वसिद्धेः ।

कण्ठोक्तकर्मवश्यत्वकार्यत्वेषु नहेतुता ।

कार्यता लीलया युक्ता कारणस्य हतैनसः ॥

कारणादिप्रकरणेषु च तत्तद्वाचकशब्दानाम् शरीरिपर्यन्ततया निर्वच-नान्तरेण वा आकाशप्राणादिशब्दवत् परमात्मन्येव पर्यवसानसिद्धेः । तदयम् सङ्ग्रहः –

परविद्यासु जीवोक्तिर्निरुक्त्यादेः पराश्रया ।

तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ॥

स्वोपासनोपदेशस्वसर्वैश्वर्यप्रपञ्चनादेश्च प्रह्लादवामदेवादिवत् शास्त्रा-वगतस्वात्मशरीरकपरमात्मानुसन्धानमूलत्वात् तस्य च सर्वशरीरस्य यथाविधि चेतनाचेतनविशिष्टतयाऽप्युपास्यत्वोपपत्तेः । अथर्वशिरश्श्वेता-ऽश्वतरादीनाम् निर्वाहः पुरुषनिर्णये प्रपञ्चितः; श्रीभाष्यकारैश्च वेदार्थ-सङ्ग्रहभाष्यादिषु ।

तदखिलानुसन्धायिभिर्वात्स्यवरदगुरुभिस्तत्त्वनिर्णयाख्ये प्रकरणे सर्वो निष्कर्षः सङ्गृहीतः । तत्त्वसारे च –

*कस्त्वम् तत्त्वविदस्मि वस्तु परमम् किम् तर्हि विष्णुः कथम् तत्त्वेदम्परतैत्तिरीयकमुखत्रय्यन्तसन्दर्शनात् ।

अन्यास्तर्हि गिरः कथम् गुणवशादत्राह रुद्रः कथम्

तदृष्टया कथमुद्भवत्यवतरत्यन्यत्कथम् नीयताम् ॥*

इत्यादिभिः श्लोकैः सङ्गृहीतः ।

एवञ्च नारायणस्यैव परमकारणत्वमुमुक्षूपास्यत्वसर्वान्तर्यामित्वादि- सिद्धेस्त्रिमूर्तिसाम्यैक्योत्तीर्णव्यक्त्यन्तर-परत्वपक्षाश्चत्वारोऽपि निर्मूला वेदितव्याः ।

*भगवतः सर्वत्र पूर्णत्वस्य निरूपणम्*

तिसृषु च मूर्तिषु परिपूर्ण एव ईश्वरः । प्रजापतिपशुपतिमूर्योस्तु प्रमाणबलात् जीवव्यवहित इति विशेषः । एवमेव सर्वत्रापि पूर्ण एव ।

अन्यत्र विद्यमानस्यान्यत्र पूर्णत्वम् न स्यादिति चेत्; किमिदम् पूर्णत्वम् निषिध्यते? किमत्रैव विद्यमानत्वम्? किमत्र पूर्णोपलब्धि-विषयत्वम्? किम् वा अत्र पूर्णकार्यजननसामर्थ्यम्? किम् वा अत्र समस्तगुणविशिष्टत्वम्? नाद्यः; तस्यास्माभिरनभ्युपगमात् ।

न द्वितीयः; तन्निषेधोऽपीह स्वरूपोपलब्धिनिषेधमात्रम् वा? कृत्स्नभागोपलब्धिनिषेधो वा? अम्शत्वानुप-लब्धिनिषेधो वा? आद्ये त्वप्रयोजकत्वम्; अनुपलम्भस्य सामग्र्यभाव-प्रयुक्तत्वात् । तस्याश्चात्र सत्त्वे तदुपलम्भोपपत्तेः ।

द्वितीये सभागत्वसिद्धि असिद्ध्योरिष्टप्रसङ्गः ।

तृतीयेऽप्यम्शत्वाभावादेवाम्शत्वानुपलब्धिर्युक्तेति न तन्निषेधः ।

बहुसम्बन्धादेव तत्तत्सम्बन्धावच्छेदेनाम्शत्वम् स्यादिति चेन्न; बहुगुणव्यक्तिप्रतियोग्यादिविशिष्टेषु द्रव्यजातिनिषेधादिषु तैस्तैस्त-दनभ्युपगमात् । यथोपलम्भम् तद्वदेव सम्योगादिष्वपि ।

निरम्शेष्वपि भावाभावसामानाधिकरण्यस्य युग-पद्भाविनोऽपि व्यवस्थाप्यत्वात् । अन्यथा समस्तसम्बन्धतत्त्वस्यैव लोपे तन्मूलभूतसमस्तकार्यकारणभावादिलोपात् शून्यताप्रसङ्गात् ।

न च तृतीयः; अवच्छिन्नदेशे सर्वोत्पत्तिनिषेधस्येष्टत्वात् सर्वानु-कूलशक्तिमतस्तत्रापि वृत्तौ विरोधाभावात् । यत्रयत्र यद्यत्कार्यम् दृष्टम्, तत्रतत्र तदनुकूलत्वेन तच्छक्तेः स्वीकारे क्वचित्सर्वोत्पत्तिप्रसङ्गाभावात् । अन्यथा शक्तस्यापि सर्वदाकार्यकरणप्रसङ्गे तद्विपर्ययात् क्षणभङ्गा-वतारात् । तदभ्युपगमेन प्रत्यवस्थाने तद्भङ्गेन भङ्गात् ।

यदि च कालक्रमेण क्वचित् सर्वोत्पादकत्वप्रसङ्ग इष्टः तदा सर्वदेशभाविकृत्स्नव्यक्तिविवक्षायाम् व्याघातः । भूतानामन्यत्र भवन्तीनाम् व्यक्तीनामत्रभवननैरपेक्ष्यात् । नष्टानाम् कदाचिदप्यत्र जन्मागमयोरयोगात् । स्वसजातीयमात्रविवक्षायामिष्टप्रसङ्गात् । विभूतिद्वयस्यापि अम्शतः सम्भेदोऽवतारदशायाम् दृश्यते ।

नापि चतुर्थः; रूपरसगन्धादीनाम् स्वाश्रयव्यापिनाम् कृत्स्न-प्रदेशव्यापित्वस्यावयविपरमाण्वादिषु तैस्तैरभ्युपगमात् ।

एतत्सर्वम् *कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोषो वा* इति परिचोद्य *श्रुतेस्तु* इत्यादिभिः परिहरन् सूत्रकार एवम् प्रदर्शितवान् । अतो यथागमम् सर्वत्र पूर्ण एव भगवान् ॥

*ब्रह्मनिर्गुणवादस्य निराकरणम्*

अत एव निर्गुणवादोऽपि निरस्तः । विरुद्धौ गुणविधिनिषेधौ कथमिति चेत् , विचारयामः । न तावदत्र समुच्चयो युक्तः; विरोधात् । अत एव नोभयत्यागः । न च विकल्पः; सिद्धे तदयोगात् । न चान्य-तरत्यागः; किम् त्याज्यमिति नियामकाभावात् । अपच्छेदनयात् पूर्वम् त्याज्यमिति चेत्; तस्यानियतविरोधपौर्वापर्यविषयत्वात् । नियमे हि विरोधनयात् परानुत्पत्तिरेव । न च विषयव्यवस्थया विरोधपरिहारे सति अन्यतरात्यन्तबाधकापच्छेदन्यायावतारो युक्तः; गुणनिषेधवचसामुत्सर्गा-पवादन्यायेन विहितमङ्गळगुणव्यतिरिक्त विषयत्वात्, श्रूयमाणे हेयगुण- निषेधे पर्यवसानात् । उक्तञ्च तत्त्वसारे –

* यद्ब्रह्मणो गुणशरीरविकारजन्म

कर्मादिगोचरविधिप्रतिषेधवाचः।

अन्योऽन्यभिन्नविषया न विरोधगन्ध-

मर्हन्ति तन्न विधयः प्रतिषेधवाध्याः ॥* इत्यादि ।

एवम् स्थितेऽपि निषेधार्थस्वभावप्रयुक्तपरत्वमात्रेण यदि निर्विशेष-वचसा पूर्वबाधः; तदा शून्यवचसा तस्यापि बाधात् माध्यमिकमतस्यैव विजयित्वम् । द्वयोरपि वचसोः पारमार्थिकस्य प्रामाण्यस्यानभ्युपगमात् । अपारमार्थिकस्य चाविशिष्टत्वात् । तदेवमुभयलिङ्ग एव ईश्वरः ॥

*ब्रह्मणि प्रपञ्चाध्यासनिरासः*

एतेन निर्विशेषस्यापि ब्रह्मण आच्छादिकयाऽविद्यया तिरोहितस्य विक्षेपिकया तया प्रपञ्चाध्यास एव सृष्टिरित्यपि निरस्तम् । तस्य अविद्यादिदोषगन्धायोग्यत्वात् । सर्वज्ञत्वादिगुणगणविशिष्टत्वस्य नित्यचेतनबहुत्वस्य च समर्थितत्वात् । *सदेव* इत्यादिवाक्ये-ऽप्युपादानत्वविधानवुद्धिस्थकारणान्तरनिषेधमात्रे तत्परत्वस्य पौर्वापर्यादिपर्यालोचनसिद्धत्वात् ॥

किञ्च –

अधिष्ठानस्य कार्त्स्न्येलन्येन भानेऽभाने च न भ्रमः । भाताभाताकृतिभिदा सविशेषत्वसाधिका ॥

अतो निर्विशेषस्य तिरोधेयधर्मविशेषायोगात्, स्वरूपमात्रतिरोधाने स्वस्यैव हानिप्रसङ्गात्, स्वयम्प्रकाशतया अत्यन्तविशदस्वरूपे च वस्तुनि बाधकप्रत्ययावसेयविशेषाभावेन अनिर्मोक्षासम्सारयोरन्यतर-प्रसङ्गात् ।

अभिज्ञाप्रत्यभिज्ञयोरपि हि देशकालादिविशेषादस्त्येव मात्रया वैषम्यम् ॥

अभिज्ञायाः प्रत्यभिज्ञा विशिष्टविषया सती ।

तदशक्यभिदाबाधप्रगल्भा न तथाऽत्र ते ॥

अतो यदि स्वरूपम् निवर्तकम्; नित्यनिवृत्तिः स्यात् । यदा तु तदतिरिक्तम् मानम्; तदा सविशेषत्वमेष्टव्यम् । अमानस्य निवर्तकत्वा-दर्शनात् मानत्वमेव निवर्तकत्वौपयिकमिति चेत्; तद्वदेवामेयस्याधिष्ठान-त्वादर्शनात् मेयत्वमेव तदौपयिकमिति किम् न स्वाक्रियते? जडाजड-वैषम्यादिति चेत्; तुल्यम् । मानस्यापि स्वरूपातिरिक्तस्य जडत्वात् । स्वरूपानुप्रवेशिनस्तु तदम्शस्य प्रागपि सत्त्वात् ॥

*केचन श्लोकाः (सविशेषत्वप्रतिपादकाः)*

किञ्च

ब्रह्मणो निर्विशेषत्वमिति धर्मोऽस्ति वा न वा ।

द्विधापि सविशेषत्वम् तद्योगतदयोगजम् ॥

त्वद्वाक्याद्भ्रान्तिसिद्धम् तल्लक्षणावृत्त्यनूदितम् ।  निषेधामोऽभिधाशक्तिर्नास्तीति हि निषिध्यते ॥

निर्विशेषा पुरीत्युक्तिर्यथैकत्र न तिष्ठति ।

तथा सर्वप्रयोगश्च विशेषे पर्यवस्यति ॥

विशेषो निर्विशेषश्चेत् सोऽपि कस्यापि वा न वा ।

पूर्वत्र सविशेषत्वम्, अन्यत्र न विशेषता ॥

ब्रह्म निर्विशेषमित्यभिलापमात्रमिति चेत्; तर्हि सिद्धम् नः समीहितम् । वस्तुतो विशेषप्रतिक्षेपाभावात् , अन्ततश्वामिलापगोचरत्वस्य विधानात् । वस्तुमात्रस्य तदपि नास्तीति चेन्न;

अवाच्यम् वाच्यमिति वा वस्तुनि प्रतिपादिते ।

वाच्यमेव भवेद्वस्तु वाच्यावाच्यवचोऽन्वयात् ॥

किञ्च

दृढाध्यक्षादिमानेन जगत्सत्यत्वनिर्णये ।

निर्विशेषवचोऽन्यार्थञ्च यूपादित्यैक्यवाक्यवत् ॥

प्रत्यक्षादिप्रत्ययो निरालम्बनः प्रत्ययत्वात् स्वाप्नप्रत्ययवत्, प्रपञ्चो मिथ्या दृश्यत्वात् व्यावर्तमानत्वात् शुक्तिरूप्यवत् इत्यादिभि-रागममन्तरेणापि जगद्बाध इति चेच्च; अप्रसिद्धविशेषणत्वस्ववचन-विरोधादिदोषात् । विरुद्धयोः समुच्चयवत् तत्प्रतिक्षेपयोरपि परस्पराभावात्मनोः समुच्चयस्य विरुद्धत्वात् ।

*केचन श्लोकाः*

तथा

सदसद्व्यतिरेकेण विधानात्तन्निषेधनात् ।

सदसद्व्यतिरिक्तस्य सिद्धा सदसदात्मता ॥

एकविज्ञानेन सर्वविज्ञानञ्च न ते भवेत् ।

सद्विज्ञानेन सदसदन्यविज्ञप्त्य सम्भवात् ॥

ऐक्यसाधर्म्यवैधर्म्यभावैः स्यादेकतोऽन्यधीः ।

बाधासिद्धायध्याहृतयो लक्षणा च स्युरत्र ते ॥

किञ्च

तत्त्वे द्वित्रिचतुष्कोटिव्युदासेन यथायथम् ।

निरुच्यमाने निर्लज्जैरनिर्वाच्यत्वमुच्यते ॥

तथा बाधतद्योग्यत्वादिसाधने चानुपलम्भादिदोषात् । नश्वरत्वादि-साधनम् त्विष्टमेव ।

किञ्च

तत्तत्पक्षादिबुद्धीनाम् प्रमाणत्वाप्रमात्वयोः ।

बाधासिद्धयादयो दोषा विज़ुभन्ते यथायथम् ॥

तदभ्युपगमे च अनुमानस्य निष्प्रयोजनत्वस्ववचनविरोधानुत्थानानि स्युः ।

किञ्च समस्तप्रत्यक्षाद्यप्रमाणत्वसिद्धावेतदनुमानोत्थानम् । ततश्च तत्सिद्धिरित्यन्योऽन्याश्रयणम् । भेदवासनादोषमूलत्वात् प्रत्यक्ष-मप्रमाणमिति चेन्न; दोषत्वाप्रमाणत्वयोरन्योऽन्याश्रयणात् । शास्त्रतो-ऽन्यतरसिद्धौ तत्प्राबल्यापेक्षया चक्रकापातः । श्रुतिप्राबल्याप्रामाण्यदुष्ट-कारणत्वनिश्चयानुमानप्रवृत्तीनाम् । तत्तत्पदार्थस्वरूपम् प्रत्यक्षादिविषयः, धर्मस्तु मिथ्यात्वादिनामकस्तदविरुद्धानुमानविषय इत्यविरोध इति  चेन्न; स्वरूपसिद्धेरेव मिथ्यात्वविरोधात् स्वरूपाविरोधिमिथ्याशब्द-परिभाषितधर्मसाधने चास्माकमनिष्टाभावः ॥

*मिथ्या इत्यादि श्लोकार्थः*

किञ्च –

मिथ्यावादिप्रतिज्ञार्थः स्वप्रतिज्ञाम् स्पृशेन्न वा ।

आद्ये स्वस्यैव विध्वम्सो द्वितीये व्यभिचारिता ॥

मिथ्यात्वस्य तु मिथ्यात्वे मिथ्यात्वम् बाधितम् भवेत् ।

सत्यत्वस्य तु सत्यत्वे सत्यत्वम् स्थापितम् भवेत् ॥

यदि प्रपञ्चमिथ्यात्वम् सद्ब्रह्मैवेति सद्भवेत् ।

प्रपञ्चश्च तथैवेति स सत्यो न कथम् भवेत् ॥

जडत्वात्स न तच्चेत्तन्मिथ्यात्वञ्च न तद्भवेत् ।

तत्त्वेनैव तदन्यत्वान्न तत्सत्यञ्च ते भवेत् ॥

सदसद्भिन्नता चापि विरोधात्सदसत्त्ववत् ।

परस्परमतिस्तस्य बाधिकेति निरूप्यताम् ॥

किञ्च, प्रपञ्चतद्वाधकप्रत्ययाभ्यामुपहितानुपहितादिवेषेण ब्रह्मणोऽपि दृश्यत्वादनैकान्त्यम् , ब्रह्ममिथ्यात्वम् वा स्यात् ।

अनुभूतिरवेद्या, अनुभूतित्वादिति चेन्न;

अनुभूतिरवेद्येति वचनम् बोधकम् न वा ।

आद्ये तेनैव वेद्यत्वम् नो चेत्किम् क्व विधीयते ॥

ब्रह्मणश्चात्यन्तावेद्यत्वे *अथातो ब्रह्मजिज्ञासा*, *ब्रह्मविदाप्नोति परम्*, *आत्मा वा अरे द्रष्टव्यः* इत्यादिव्याकोपश्च । उपदेशश्च निष्प्रयोजनः, उपदेष्टश्चाद्वैतनिश्चयानिश्चययोः कस्मै किमुपदेश्यम्? न ह्यनुन्मत्ता मिथ्यात्वेन निर्णीतेभ्यः प्रतिबिम्बादिभ्य उपदिशन्ति । व्यावृत्त्यनुवृत्तिमात्रम् तु न मिथ्यात्वादिप्रयोजकम् ।

*केचन श्लोकाः*

तथा हि –

व्यावृत्तेऽपिच सत्यत्वम् रज्जुवम्शादिके स्फुटम् ।

तत्रैव चानुवृत्तस्य मिथ्यात्वमपि भोगिनः ॥

व्यावृत्तिमात्राद्यदि तत् सतोऽप्येतत्प्रसज्यते ।

सत्त्वम् घटस्येहेदानीम् नास्तीत्यादि निरूपणात् ॥

तच्चेत्तद्देशकालादौ नापोढम् तत्समम् घटे ।

सदेव घटदेशश्चेन्नान्यथैवोपलम्भनात् ॥

सत्सदित्यनुवृत्त्या चेत् सतः सत्यत्वमिष्यते । भिन्ननास्त्यनुवृत्त्यादेर्भेदनास्त्योश्च सत्यता ॥

देशकालादिभेदेन नास्तिता सर्वगामिनी ।

भिन्नता च मिथोऽपेक्षा न क्वचिद्विनिवर्तते ॥

शब्दमात्रानुवृत्तिश्चेत् तत्रापि च तथैव नः ।

तत्तत्प्रमाणयोग्यत्वमात्रम् सत्तेति मन्महे ॥

अनुवृत्तधिया सत्ता सर्वभावानुयायिनी ।

यद्यपीष्टा तथाप्येषा तद्धर्मत्वेन सिध्यति ॥

अतः प्रतिपन्नदेशकालादौ निवृत्तम् मिथ्या; नान्यत् । अन्यत्सदिति तत्त्वम् ।

प्रत्यनुमानञ्च –

भानासद्व्यतिरेकाद्यैर्विमतम् सत्यमात्मवत् ।

विमतः प्रत्ययः सम्यग्ज्ञानाबाधात्स्वतन्त्रवत् ॥ इत्यादि । अत्रान्तिमयुगवेदान्तिनामभिजन्मरहस्यम् प्रकाशयामः ।

साङ्ख्यसौगतचार्वाकसङ्कराच्छङ्करोदयः ।

दूषणान्यपि तान्यत्र भूयस्तदधिकानि च ॥

तदेवम् सिद्धम् न च ब्रह्म बम्भ्रमीतीति ॥

*शङ्करादिपक्षत्रयेऽपि ब्रह्मण

उपादानत्वानुपपत्तिनिरूपणम्*

न च तत् स्वरूपेण जगदुपादानम्; निर्विकारत्वनिर्दोषत्वादिविरोधात् । नापि शक्त्युपधानेन; शक्तेरभिन्नत्वे स्वरूपानतिरेकात् । भिन्नत्वे-ऽस्मन्मतापातात् । भिन्नाभिन्नत्वेऽभिन्नत्वाकारेण विकारादिदोष-प्रसङ्गात् । एतेन स्वतस्सर्वेषाम् भिन्नाभिन्नत्वमपि निरस्तम् । व्यावृत्तमेव दूषितम् ।

*शङ्करादिपक्षत्रयेऽपि जगद्ब्रह्मणोः

सामानाधिकरण्यानुपपत्तिनिरूपणम्*

शङ्करादिपक्षत्रयेऽपि चिदचित्प्रपञ्चब्रह्मणाम् बहुविधसामानाधिकरण्यवैरूप्येण लक्षणादिभिश्च महान् क्लेशः ।

निर्भेदे सति दौष्कर्याद्विधाय जगदात्मताम् ।

तत्रैव तन्निषेधोऽयमिति बालिशजल्पितम् ॥

सामानाधिकरण्यम् हि न शुक्तिकलधौतयोः ।

न च द्विचन्द्रयोर्नापि बिम्बतत्प्रतिबिम्बयोः ॥

न घटाकाशयोर्नापि घटद्वितयरन्ध्रयोः ।

तथैव न घटाकाशमहाकाशादिकेष्वपि ॥

एवम् न पिण्डघटयोर्न वा घटशरावयोः ।

न च पिण्डाम्शयोर्नापि घटयोश्च परस्परम् ॥

मृदाद्याकारतो या तु सामानधिकरण्यधीः ।

व्यक्तिभेदेऽपि जात्यादिनिमित्तैक्यनिबन्धना ।

अक्लिष्टत्वेऽपि पक्षाणाम् नैयायिकादिमतमेव साधीयः ॥

तथा हि –

वाचाम् परिगृहीतानाम् यूपादित्यादिवाक्यवत् ।

व्याहतार्थाभिधायित्वात् वरम् क्लिष्टार्थकल्पना ॥

*जगद्ब्रह्मणोः भिन्नाभिन्नत्वनिराकरणम्*

भिन्नाभिन्नत्वम् भवदभिमतम् विरुद्धमिति वक्तुमपि लज्जामहे । तथापि ब्रूमः । अभेदो हि भेदाभावः । अतस्तञ्च तदभावञ्च कथमेक-त्रैकदैवाध्यवस्येम? भेदाभावातिरिक्तस्त्वभेदो नास्त्येव । जात्याकारेणाभेद इति चेत्; तर्हि जात्यादावभेदो व्यक्त्यादिषु भेद इति नैकस्य भिन्नाभि-न्नत्वम् । जातिव्यक्त्यादिकमपि मिथोभिन्नाभिन्नमिति चेत्; इदम् स्वरूपेणैव वा? आकारान्तरेण वा? पूर्वत्र विरोधः उत्तरत्र अनवस्थादिदोषः ।

सप्तभङ्गीभक्तान् प्रति चोद्यते –

यदि सत्त्वादनैकान्त्यम् विमतस्यान्यवन्मतम् ।

तस्यैकान्त्ये त्वनैकान्त्यम्, अनैकान्त्ये न नः क्षतिः ॥ विशेषणविशेष्यत्वप्रतीतेर्नैकधीः क्वचित् ।

एकोऽयम् घट इत्यादिरेको दण्डीति बुद्धिवत् ॥

परतन्त्रस्वभावात् मत्वर्थीयानपेक्षता ।

सहधीनियमोऽप्येवम् स हि भेदैकसाधकः ॥

असिद्धिश्च विना द्रव्यम् गन्धादेरुपलम्भनात् ।       आलोकाध्वान्तरूपादावनैकान्त्यञ्च दृश्यताम् ॥

तदयम् सङ्ग्रहः

नाभेदधीः प्राग्वैशिष्ठ्यात् धर्मैक्यादेकतामतिः ।

मत्वर्थीयः पृथक्सिद्धे सहभावोऽपि भेदकः ॥

*ब्रह्मणः त्रिविधपरिच्छेदराहित्यनिरूपणम्*

जगद्ब्रह्मणोरत्यन्तभेदे कथम् त्रिविधपरिच्छेदराहित्यम्? इत्थम् । तत्र देशकालपरिच्छेदाभावस्तु सर्वदेशकालव्याप्तत्वात् सिद्धः । वस्तुपरि-च्छेदराहित्यम् तु न सर्वतादात्म्यम्, सर्वाध्यासाश्रयत्वम्, स्वेतरसमस्त-मिथ्यात्वादिकम् वा; प्रागुक्तदूषणशतोन्मेषात् । अतो अन्यथैतन्निर्वाह्यम् । तत्रैवमुक्तम् जन्माद्यधिकरणे विवरणकारैः *वस्तुपरिच्छेदो वस्तुपरि-माणम् । देशपरिच्छेदस्तद्धेतुकः* इति । अयमेवार्थो वेदार्थसङ्ग्रह-विवरणेऽप्युक्तः । वरदनारायणभट्टारकैस्त्वेवमुक्तम् न्याय सुदर्शने *वस्तु- परिच्छेदो नाम इयद्गुणक इयद्विभूतिमानित्येवम्विधः । तद्रहितम् ब्रह्म । वस्त्वन्तरभावो वा वस्तुपरिच्छेदः । तद्रहितञ्च ब्रह्म । ब्रह्मव्यावृत्तस्य सर्वस्य ब्रह्मशरीरत्वात् । तद्व्यतिरिक्तम् किञ्चिदपि नास्ति* इति । अयमसौ न भवतीति व्यवहारो न तस्यामवस्थायाम् प्रवर्ततेः इत्यर्थः । तथा च भाष्यकारः *ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात्* इति । अयमेवार्थो नारायणार्यैरप्युक्तः *गुणैरियत्ताराहित्यात् वस्तुनाऽपरिच्छिन्नत्वञ्च अवगम्यते* इति ।

अत्र *इयद्गुणकः* इत्यादिपक्ष एव प्रायः श्लाध्यः । एतदुक्तम् भवति; स्वरूपतो गुणतो विभूतितो वा  केनचिदाकारेण कुतश्चिदपकर्षो वस्तुपरिच्छेदः । वस्तुपरिमाणमिति पक्षोऽपि एतदन्तर्गतः । तथा वस्त्वन्तराभावपक्षोऽपि । स हि  सर्ववस्तुसामानाधिकरण्यनिबन्धनम् सर्वशरीरत्वेन सर्वात्मकत्वमिति नियमनादिगुणकाष्ठैवेति । तदेव-मत्यन्तभिन्नानन्तवस्तुसत्यत्वेऽपि ब्रह्मणस्त्रिविधपरिच्छेदराहित्य-मुपपन्नम् ॥

*निमित्तमात्रेश्वरवादनिरासः*

एतेन पातञ्जलशैवकाणादादीनाम् निमित्तमात्रवादोऽपि निरस्तः । कारणावस्थसूक्ष्मचिदचिद्वस्तुविशिष्टस्य तस्यैवोपादानत्वश्रुतेः । न च तावता निर्विकारत्वश्रुतिविरोधः, तस्याः सर्वान्तर्यामिशरीर्यम्शव्यवस्थि-तत्वात् । विशिष्टवेषेण विकाराश्रयत्वम् तु इष्टमेव, मनुष्यादिशरीरविशिष्टे स्वरूपतो निर्विकारे पुम्सि बाल्ययुवत्व स्थविरत्वस्थूलत्वादिवत् । ईश्वरो न जगदुपादानम् जगन्निमित्तत्वात्, यो यन्निमित्तम् न स तस्योपा-दानम्, यथा घटस्य कुलाल इति चेन्न; धर्मिग्राहकविरोधात् ।  निमित्त-तयैवानुमानसिद्धः पक्षीकृत इति चेन्न; तस्यानुमातुमशक्यत्वात् ।

*ईश्वरानुमाननिरासः*

क्षित्यादिकम् सकर्तृकम् कार्यत्वात् घटवदिति चेन्न; यथादृष्टोपसम्हारे बाधात् । अन्यथा ज्ञानेच्छयोरपि त्यागप्रसङ्गात् । नित्यज्ञानस्य शरीरादिनेव नित्यप्रयत्नस्यापि ज्ञानादिना निरपेक्षत्ववचनोपपत्तेः ।

स्वतो विषयप्रावण्ये ज्ञानत्वप्रसङ्ग इति चेन्न; जीवनपूर्वकप्रयत्न-वदुपपत्तेः । अदृष्टात् तत्र नियम इति चेत्; अत्रापि तथास्तु । त्वयाप्येतदेष्टव्यम् । अन्यथा नित्यज्ञानचिकीर्षाप्रयत्नानाम् सर्वदा सर्वगोचरत्वेन विषय-नियमाभावे युगपत्सर्वकार्योत्पत्तौ युगपदनायाससर्वमोक्षक्षणभङ्गानन्तरक्षणकार्याभावादिप्रसङ्गात् ।

सहकारिक्रमात् कार्यक्रम इत्यविलक्षवचनम्; सहकारिणामपि कार्यत्वात् युगपदेव निवृत्तिप्रसङ्गात् ।

प्रयत्नस्य समस्तवस्तुगोचर ज्ञानसमानविषयत्वे नित्यवस्तूनामपि तत्प्रयत्नाविषयत्व-प्रसङ्गः, ततश्च तेषामपि सृष्टि सम्हारादिप्रसङ्गः, अशक्यविषयप्रयत्नत्वा-दीश्वरस्यैवानीश्वरत्वम् वा ।

अस्तु तर्हि अदृष्टैकनियतप्रयत्नमात्रवानीश्वर इति चेत्; जीवस्यैवा-नित्यप्रयत्नस्यैव तथाविधनियमोपपत्तेः । अङ्कुरादि-गोचरप्रयत्नो न केनापि ह्युपलभ्यते इति चेन्न; जीवनपूर्वकप्रयत्नेऽपि समत्वात् । कार्यादेव हि तत्कल्पनम् । तदत्रापि समम् । अदृष्टस्य च सर्वकार्यनिमित्तस्य नियामकत्वे किमदृष्टप्रयत्नकल्पनप्रयत्नेन?

अत्रैवम् सङ्ग्रहः

सर्वगत्वादनियमो नित्यगत्वादुपद्रवः ।

अदृष्टान्नियमे नित्ययत्नोऽत्राजागलस्तनः ॥

स्वादृष्टपरतन्त्रः स्यादवरात्मा क्वचित्क्वचित् ।

परादृष्टपराधीनः सर्वत्रैव भवेत्परः ॥

प्रयत्नस्य च ज्ञानादतिरेकम् पराभिमतमनुरुध्यैतदुक्तमिति मन्तव्यम् ।

*सिद्ध्यसिद्धीत्यादिश्लोकानामर्थवर्णनम्*

सिद्ध्यसिद्ध्योर्विरोधो नेत्येवम् प्रलपतस्तव ।

विरोधसिद्ध्यसिद्ध्योश्च तन्निषेधो निषिध्यते ॥

त्वत्सिद्धान्तत्वदुक्तिभ्याम् हेत्वाभासेन वा पुनः ।

ज्ञातो व्याप्तिविरोधेन विशेषः प्रतिषिध्यते ॥ तृणादिमर्मरीभावहेतुत्वादग्निमद्धिमम् ।

इति कृत्वा पक्षबलात् शीताग्निर्न हि कल्प्यते ॥

व्यापकत्वेन दृष्टस्य पक्षसम्बन्धमात्रतः ।

अधिकाम्शग्रहे हेतुः पक्षधर्मोऽपि न क्षमः ॥

सिद्धे तु पक्षसम्बन्धे पारिशेष्यादिना पुनः ।

अधिकाम्शग्रहश्चेन्न पारिशेष्यानिरूपणात् ॥

दृष्टजातीयनिश्शेषभङ्गे साध्यम् न सिध्यति ।

अभङ्गेनाधिकम् सिध्येत् न च सामान्यतःस्थितिः ॥

परिशेषानुमानस्याप्यन्वयित्वे समा गतिः ।

केवलव्यतिरेकी तु परस्तान्निरसिष्यते ॥

*सकर्तृकत्वानुमाने दोषप्रतिपादनम्*

किञ्च सकर्तृकमित्यत्र उपादानादिसमस्तकारणविषयज्ञानादिमान् कर्तृतया विवक्षितः? कतिपयविषयज्ञानादिमान् वा? सामान्यतो वा? पूर्वत्र व्याप्त्यसिद्धिः । न हि कुलालादयो घटादिहेतुभूतमदृष्टेश्वरादिकम् जानन्ति । उत्तरयोः पक्षयोरीश्वरासिद्धिः । यागाद्युपकरणमृदाद्युपादानवेदिभिर्जी वैरेव सिद्धसाधनात् । एतेन ह्यणुकादिकर्तृत्वमपि जीवस्यैवादृष्टद्वारा घटते इति सिद्धम् ।

शरीराजन्यत्वेन च कार्यत्वहेतोर्बाधः । सोपाधिकत्वम् वा दुष्परिहरम्, न च व्यर्थम् विशेषणम्; असिद्धिपरिहारेण तस्य सार्थकत्वात् । न च हेतुविशेषणम् सर्वमनैकान्त्यपरिहारायेति मन्त्रपाठोऽयम् । व्यर्थविशेषणम् तर्हि सर्वत्रादूषणम् स्यादिति चेन्न; यत्किञ्चिद्दोषपरि-हारा-नुपयुक्तत्वस्य वैयर्थ्येऽनुरूपत्वात् । तथा च प्रकृतानुपयोगिन-स्तस्यार्थान्तराख्यनिग्रहस्थानम् वाऽस्तु । न च विशिष्टस्य व्याप्त्यभावात् एकामसिद्धिम् परिहरतो द्वितीयापत्तिरिति वाच्यम्; तस्य तदभावासिद्धेः । यत्र शरीराजन्यत्वम् तत्र सर्वत्राजन्यत्वमात्रमप्यस्तीति तस्य व्याप्तौ अस्यापि व्याप्तिर्दुर्निवारैव । अन्यथा कलमाङ्कुरात् कलमबीजानुमानमुच्छिद्येत । बीजव्यतिरेकमात्रेण कलमाङ्कुरस्यापि व्यतिरेकसिद्धेर्व्यतिरेकव्याप्तौ व्यर्थविशेषणत्वात् । बीजमन्तरेणापि केचिदङ्कुरा जायन्त इति चेत्; कलमबीजमपि नानुमीयेत, तदन्तरे-णापि तदुपपत्तेः । एवम् मैत्रीतनयस्य श्यामत्वे शाकाद्याहारपरिणामश्च नोपाधिः स्यात्; आहारपरिणामव्यतिरेकमात्रेण श्यामत्वव्यतिरेकात् शाकादीति-विशेषणवैयर्थ्यात् । तन्निवृत्तावपि तमालेन्द्रनीलश्यामत्वम् दृश्यत इति चेन्न; विशिष्टस्यापि तत्र व्यतिरेकात् । न च शरीरश्यामत्वस्यैव तत् प्रयोजकम्; स्थावरायोनिजश्यामशरीरेषु शाकाद्याहारपरिणामाभावात् । आहारपरिणतिजशरीरश्यामत्वम् शाकाद्याहारपरिणतिपूर्वकमिति चेन्न; अत्र साध्यद्वाराऽपि समव्याप्तेर्वैयर्थ्यकबळितत्वात् । यत् श्यामम् न भवति तत् शाकाद्याहारपरिणतिपूर्वकम् न भवतीत्येतावता तत्सिद्धेः । श्यामत्वजातिविशेषोऽनुपात्तविशेषणः साध्यः, तेन न  व्यर्थतेति चेन्न; विशेषणमन्तरेण तस्य दुर्वचत्वात् । विशेषशब्दमात्राभिधानेऽपि तस्यैव व्यर्थत्वात् ॥

*पूर्वोक्तानुमान एव उपरि दोषकथनम्*

किञ्च कार्यत्वात् सकर्तृकमित्यत्रापि व्यर्थविशेषणत्वम् सुवचम्; हेतुमत्त्वमात्रव्यतिरेकेण कार्यत्वव्यतिरेकस्य सुवचत्वात् । हेतुशब्दोऽ-त्रानुपात्त इति चेन्न; तस्य फलितत्वात् । अन्यथा अशरीरत्वशब्दप्रयोगे भवतोऽपि पर्यनुयोगानवकाशात् । विग्रहेण शरीराजन्यत्वम् फलितमिति चेत्; तर्हि कर्तृशब्दनिर्वचनेनापि हेतुविशेषत्वम् फलितम्, सकर्तृकमिति हेतुतयैव सम्बन्धो वाच्यः ।

एवम् सावयवत्वादनित्यत्वाभिधानेऽप्यवयवजन्यत्वम् फलितमिति तत्रापि व्यर्थविशेषणता स्यात् । नहि अवयवैः सम्बन्धमात्रम्, तेषु समवायमात्रम् वा हेतुः; नित्येष्वपि जातिगुणादिषु तत्सम्भवात् ।

विपक्षे बाधकतयोक्ताकारणकार्योत्पत्तिप्रसङ्गोऽपि कर्तुः कारणविशेष-त्वनिश्चयादेव परिहृतः । अचेतनम् चेतनाधिष्ठितमेव प्रवर्तत इति नियमात् कारणमात्रत्वम् सिद्धमिति चेन्न; नियमासिद्धेः । दृश्यते हि अयस्कान्तादिभिरप्ययःप्रभृतेः प्रवर्तनम् । अयोगव्यवच्छेद: सिषाधयिषितः, न त्वन्ययोगव्यवच्छेद इति चेन्न; अन्वयव्यतिरेक-वतस्तस्यैव अन्यस्य विशेषहेतुत्वोपपत्तौ ततोऽतिरिक्तस्यादृष्टस्य कल्पनायोगात् । विपक्षे बाधकामावस्य चोक्तत्वात् ॥

*अधिष्ठानविचारः*

किञ्च इदमधिष्ठानम् किम् रूपम्? प्रेरणमिति चेन्न; अमूर्तेषु तदयोगात् । हेतुत्वेन ज्ञानमात्रमिति चेन्न; प्रयत्नस्याकिञ्चित्करत्वप्रसङ्गात् । ज्ञानादित्रयवतः सन्निधानमात्रमिति चेन्न; तस्य नित्यत्वेन कार्यस्यापि सदातनत्वप्रसङ्गात् । अदृष्टविशेषात् नियम इति चेत्; न तर्हि अदृष्टस्य एतदधीना प्रवृत्तिः, तस्यैव तन्नियामकत्वात् । अन्यथा तस्यापि यावत्सत्तम् प्रवृत्तिप्रसङ्गात् ।

किञ्च स्वयमचेतनस्य ईश्वरज्ञानस्य न चेतनाधिष्ठानमस्ति; ज्ञानान्तराभावात् । वस्तुतश्चेतन एव ईश्वरात्मा तदाश्रयतया स्थित इति चेन्न; जीवेन सिद्धसाधनात् । सामान्यतः स्वयमेव तदपि ज्ञानम् प्रतीयते इति तावता तदधिष्ठानमिति चेन्न; विशेषाकारस्याहेतुत्व-प्रसङ्गात् । अन्यथा यथाकथञ्चित् सर्वगोचरज्ञानवत्त्वै सर्वस्रष्टृत्वा-विरोधात् । ज्ञानान्तरेण तदधिष्ठानमिति चेन्न; अनवस्थानात् । एतेनैव तदधिष्ठानमिति चेन्न; अन्योन्यप्रवर्तनेऽन्योन्याश्रयणात् । उत्तरस्य ज्ञानस्य जगत्कारणत्वाभावात् नान्योन्याश्रयणमिति चेन्न; अत्यन्ता-कारणत्वेऽसत्त्वप्रसङ्गात् । कारणाधिष्ठानौपयिकस्यास्य च अकारणत्वे प्रथमस्यापि कारणस्याकारणत्वप्रसङ्गात् । एवम् चिकीर्षाप्रयत्नयो-रप्यकारणत्वे गतमीश्वरकर्तृत्वेन ॥

*पूर्वानुमान एव उपरिदूषणनिरूपणम्*

किञ्च यदकर्तृकम् तत् कार्यम् न भवतीति व्यतिरेकव्याप्तावहेतु-कत्वमुमाधिः । अहेतुकत्वमकर्तृकत्वव्यापकमिति चेन्न; पक्षे सन्धिग्ध-त्वेनोपाधित्वानपायात् । अन्यथा शाकाद्याहारपरिणतेरप्यनुपाधित्वेन मैत्रीतनयस्य श्यामत्वमनुमीयेत । न च सामान्याभावस्य विशेषाभाव-व्यापकत्वम् । अन्यथा पृथिवीत्वाभावेन घटत्वाभावव्याप्तौ करकादेर-पार्थिवत्वादिप्रसङ्गः ।

ननु कर्तृर्हेतु विशेषत्वम् नाम हेतुष्वन्यतमत्वम्, सर्वकार्याननु-वृत्तत्वम् वा, अभिप्रेत्येदमुच्यते; तत्रादृष्टादावपि प्रसङ्गादाद्यो निरस्तः, द्वितीयस्तु कल्पोऽसिद्ध इति चेन्न; पूर्वोक्ताधिष्ठाननियमनिरासेन दत्तोत्तरत्वात् ।

*पूर्वानुमान एव दोषोद्भावनम्*

किञ्च क्षित्यादिकमितीश्वरघटादिसम्योगः पक्षीकृतः? न वा? पूर्वत्र भागासिद्धिः, एतदनुमानसिद्धपक्षीकारेऽन्योन्याश्रयणम्, उत्तरत्र सन्दिग्धा-नैकान्तिकता । घटेश्वरसम्योगस्य सकर्तृकत्वसन्देहेऽपि ईश्वरसिद्धि-रविरुद्धेति चेन्न; तत्सम्योगवदेव केषाञ्चित् अन्येषामप्यकर्तृकत्वम् भवेदिति शङ्कामात्रस्य दुर्वारत्वात् । तावताऽपि क्षित्यादिसकर्तृकत्व-निश्चयभङ्गात् । विप्रतिपन्नम् कार्यम् सकर्तृकमिति सामान्यतः पक्षीकारात् न कश्चिद्दोष इति चेन्न; सामान्यस्य प्रयोगस्यापि समस्त-विशेषकबळीकारार्थत्वात् । ततश्च समस्तविशेषाणाम् सामान्यतः सिद्धिसाकाङ्क्षत्वात् । अन्यत एव वा तत्सिद्धावनुमानवैयर्थ्यान्योन्या-श्रयौ दुष्परिहरौ ॥

*ईश्वरानुमाननिरासप्रयोजननिरूपणम्*

ननु अस्माकमीश्वरानुमाननिरासेन किम् प्रयोजनम्? न च प्रयोजना-भाव मात्रम्, अनुमानत एवेश्वरम् प्रतिपद्य तम् भजमानान् प्रतिनास्तिक्य- शङ्काऽप्यापादिता स्यादिति महत्तेषामस्माकञ्च पापमिति । अहो? महाकारुणिकोऽसि । तादृशेभ्य एतन्नोपदिश्यताम् । प्रयोजनम् च शृणु । प्रथमम् तावत् यथावस्थिततत्त्वावबोधः श्रोत्रेण गन्धग्रहणनिरासवत्, अनुमानस्याभासताम् पश्यतस्तीव्रबुद्धेरीश्वराविश्वासपरिहारश्च । ततश्च मन्दानाम् मतेस्तीव्रबुद्धिना प्रक्षोभो न स्यात् । एवमपि क्रियताम् कारुण्यम्; अप्राप्तप्रापकस्य आगमस्यानुवादप्रसङ्गोऽपि परिहृतः स्यात् । अनुवादत्वेऽपि ईश्वरः सिध्यत्येवेति न कश्चिद्दोष इति चेन्न; निमित्तो-पादानभूतेश्वरासिद्धेः । निमित्ततयाऽनुमानसिद्धमीश्वरमनूद्य उपादानत्वादि विधीयताम्, प्रत्यक्षसिद्धम् पृथिव्यादिकमनूद्येश्वरशेषत्वशरीरत्वादिविधान-वदिति चेत्; तथैवानूद्य उपादानत्वनिषेधकानुमानोदये धर्मिग्राहकबाधस्य दुर्वचत्वप्रसङ्गात् । विशिष्टतया तु आगमेनैव सिद्धौ तस्य सुवचत्वात् । पृथिव्यादेरीश्वरशेषत्वादिनिषेधानुमानवत् तदपीष्यतामिति चेन्न; तस्य निषेध्यग्राहकसिद्ध्यसिद्धिभ्याम् व्याघातस्य सुवचत्वात् । अत्र ईश्वरो न पृथिव्याद्युपादानम्; चेतनत्वात् कर्तृत्वाद्वा कुलालवदित्यादि-प्रयोगे कथञ्चिदपि स दुर्वचः। तदा तु आगमस्यान्यपरत्वोपपत्तौ ईश्वर-स्यानुपादानत्वमेव स्यादिति *जन्माद्यस्य यतः* इति निखिलजगदेक-कारणत्वसम्वित् विलीयेतेति भयादनन्तरमेव सूत्रकारैः * शास्त्रयोनि-त्वात्* इति प्रमाणान्तरगोचरत्वम् निरस्तम् ।

ननुतर्हि *रचनानुपपत्तेश्च* इत्यादिसूत्रम् तद्भाष्यादिकम् च कथम् सङ्घटेत? प्रमातृपादे चेतनस्यैव कर्तृत्वप्रतिपादनप्रकरणे *ननु वायु-र्भूरेणूनाम् सङ्घातम् करोति* इत्यादिना परिचोद्य दत्तमुत्तरम् उच्यते । *कर्तृकरणकर्माणीति त्रीणि कारणानि क्रियाविशिष्टानि । तेषामन्यतमाभावे क्रिया न युज्येत* इत्यादि, अत्रापि ईश्वमानुमानानुमतिर्दृष्टा । अतः *शास्त्रयोनित्वात्* इत्यस्यान्यथाऽर्थो वाच्य इति चेन्न; *रचनानुपपत्तेः* इत्यादेरन्यभावत्वात् । तत्र हि चेतनानधिष्ठितप्रकृत्याद्युपादानत्वमात्रप्रतिपादकान् प्रतिविशेषविरोधा- दिप्रदर्शने तात्पर्यम् । स्वपक्षे तु तेषाम् सम्भावना-तर्कत्वमेव, तदनुगृहीतस्त्वागम एव प्रमाणम् । अत एव न्यायतत्त्व-वचनमपि निर्व्यूढम् । तदेवमुपादानमनूद्य निमित्तत्वनिषेधकान् निमित्त-मनूद्योपादानत्वनिषेधकाम्श्च प्रति धर्मिग्राहकबाधम् वक्तुम् केवलजगदु-पादाननिमित्तानुमानयोर्दूषणमिति मन्तव्यम् । आगमेश्वरादिपक्षीकारे त्वाश्रयासिद्धिरिति सङ्ग्रहः ॥

*ईश्वरस्य अभिन्ननिमित्तोपादानत्वस्य समर्थनम्*

निमित्तोपादानैक्यवाक्यम् यूपादित्यैक्यवाक्यवदिति चेत्; कथम्? लक्षणविरोधादिति चेत्; मैवम् । नहि उपादानासमवायिव्यतिरिक्तम् निमित्तमिति निमित्तलक्षणम् , नापि निमित्तासमवायिव्यतिरिक्तकारण-मुपादानमित्युपादानलक्षणम् , येनात्र विरोधः स्यात् । किम् तर्हि? * *उपादानकारणत्वञ्च परिणामास्पदत्वमेव* इति वेदार्थसङ्ग्रहानु-सारादवस्थाश्रय उपादानम् । आगन्तुकोऽपृथक्सिद्धो धर्मोऽवस्था । विशेषतस्तूत्तरोत्तरावस्थाविशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्य-वस्थाविशिष्टम् तदेव वस्तूपादानम्, यथा घटत्वावस्थाविशिष्टमृद्द्रव्या-पेक्षया पिण्डत्वावस्थाविशिष्टम् तदेव द्रव्यम् । तदनुगुणशब्देन प्रति-सर्गावस्थाव्यवच्छेदः । परिणामौन्मुख्यातिरिक्तेन आकारेणापेक्षितम् कारणम् निमित्तम् । असमवायीत्यवान्तरविभागस्तु नास्मदीयैरभ्युपगतः पारिभाषिकत्वात् । अन्यथा निमित्तकारणप्रत्यासन्नम् कारणमनिमित्त-मित्यादिविभागान्तरस्यापि परिभाषितुम् शक्यत्वात् । पटाद्यसमवायि-तया तन्तुसम्योगादयस्तु असिद्धा एव अवयविभङ्गात्, तावत एव तत्त्वात् । सम्योगादिकारणतया नोदनादयस्तु सिद्धा अपि निमित्तकोटेर्न व्यतिरिच्यन्ते । ततश्च लक्षणद्वयमपि ईश्वरे सिद्धम्; अविभक्तनामरूप-चिदचिच्छरीरकस्य विभक्तनामरूपचिदचिच्छरीरकत्वापेक्षयोपादानत्व-सिद्धेः अविभक्तचिदचिच्छरीरकत्वातिरिकेन कुलालादिसाधारण-सङ्कल्पविशेषवत्त्वाद्याकारेण निमित्तत्वसिद्धेश्च । ईश्वरस्यैव क्वचिद्विषये कर्तृत्वमुपादानत्वञ्च परैरपि स्वीकार्यम् । सन्ति हि सम्योगादयो घटादिभिरीश्वरस्य । ततश्च ईश्वरस्तेषाम् समवायित्वात् सर्वकार्यकर्तृ-त्वाच्च उपादानम्, निमित्तञ्च । तत्कर्तृत्वानभ्युपगमे कार्यत्वात्स-कर्तृकमित्यनुमानम् दशमदशापन्नम् । एवमनीश्वरेष्वपि बुद्धिपूर्व-स्वज्ञानसुखाद्युत्पादने निमित्तोपादानत्वसमुच्चयः सिद्धः । ततः सिद्धम् सूक्ष्मचिदचिद्वस्तुशरीरकम् ब्रह्मैव स्थूलचिदचिद्वस्तुशरीरतया परिणमतीति वेदान्ताः प्रतिपादयन्तीति । तेन च तद्व्यतिरिक्तस्य निखिलस्य आधाराधेयभावेश्वरेशितव्यत्वशेषशेषित्वशरीरशरीरिभावकार्यकारणभावादयो यथाग्रहणम् सम्बन्धाः ॥

*श्रीतत्त्वनिरूपणम्*

*ईश्वरस्यश्रिया सह नित्यसम्बन्धात् तयोः साम्यादिवाक्यानाम् स्वारस्यनिर्वाहः*

श्रिया सह तु दाम्पत्यम् शाश्वतम् तत एव तु ।

तयोः साम्यैक्यशक्तित्वतद्वत्त्वादिगिराम् गतिः ॥

ज्ञानानन्दाद्यत्यन्तसाम्यात् जगज्जनकत्वशेषित्वशरण्यत्वप्राप्य-त्वादिसाम्याच्च साम्यगिराम् निर्वाहो व्यक्तः । एकत्ववादा अप्येवम् द्वन्द्वरूपेणात्यन्तसमतया प्रकारैक्येन, समस्तप्रपञ्चप्रतियोगिकैकशेषि-त्वाश्रयत्वेन, महेन्द्राग्नीषोमादिवत् यथाविनियोगम् श्रियातद्वल्लभस्य वैशिष्ट्यात्, समस्तात्महविः प्रति उद्देश्यैकदेवतात्वादिवेषेण वा निर्वाह्या; शक्तित्ववादास्तु पत्नीत्वादिरूपेण विशेषणत्वाभिप्रायाः, सृष्ट्यादिव्यापारेषु समानलीलतया प्रेरकत्वेन सहकारित्वाभिप्राया वा । प्रयुज्यते च सर्वत्र स्त्रीपुम्सात्मकेषु द्वन्द्वान्तरेष्वपि स्त्र्यम्शे शक्तित्ववादः । व्यूहवदवस्था-भेदवादास्तु अवतारादिविषयाः सर्वस्य भगवदात्मकत्वेन तस्य स्वेच्छया परेच्छया वा कार्यदशापन्नस्यापि भगवदवस्थाभेदत्वात् । एवमिच्छासम्विदहन्तादिव्यपदेशा अपि प्रणयानु-विधेयत्वस्वयम्प्रकाशत्व स्वरूपनिरूपकत्वविशेषरूपादिपरा द्रष्टव्याः । अत्र वक्तव्यमखिलम् पडर्थसङ्क्षेपे दिव्यस्थाननिरूपणानन्तरम् श्रीराम-मिश्रैरुक्तम् । अथ तत्रत्योऽयम् ग्रन्थः – *समाननयात् महिष्यादिसिद्धिश्च । ननु शेषित्वविशिष्टविधिरशक्यः; अन्यशेषस्य तदन्यशेषत्वायोगात् । न चानुवादः, अत एव । किञ्च महिष्यादिकम् परस्य शरीरम् । अन्यथा एकमेवेति विरुध्यते । आनन्दादिवदपृथग्भावाभावात् । अतः समत्वान्न मिथः शेषशेषिता । मैवम्; पत्युः पत्न्या अपीति लोकसिद्धम् ।

*दिव्यदम्पत्योः प्रपञ्चः शेष इति निरूपणम्*

उभयाधिष्ठानञ्चैकम् शेषित्वम् । अविभागस्मृतेः । तदुक्तम् नीतिविद्भिः *अन्यतरानिच्छायाद्धिः त्याग एव न सम्वर्तेत इति । न ह्यनिर्वृत्तिः पृथक्त्वे । एतन्न्यायसहकृतवाक्येन च शेषित्वविशिष्टपत्नी-विधिः । अनूद्य वा । न च लोके शरीरस्य अपत्नीत्वम् नाम मानान्तरा-गोचरे विरोधः । अचित्त्वाच्च अपत्नीत्वम् लोके । स च स्वस्मिन्नात्मा-श्रयदोषः । शेषत्वमन्यत्रापि, अविरोधात् इति । अनेन च श्रीराममिश्र-वचसा द्वन्द्वम् प्रति जगतः शेषतैकरसत्वमुपपादितम् । श्रुतिश्च –

*अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः ।

उद्धृता विष्णुना लक्ष्मीरुकारेणोच्यते तथा ।

मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥* इति ।

मन्त्रान्तरेष्विव प्रणवेऽपि बहवोऽर्था बहुषु प्रदेशेषु प्रतिपाद्यन्ते एव । न चार्थविरोधः येनान्यपरता स्यात् । *अस्येशाना जगतो विष्णुपत्नी* *ईश्वरीम् सर्वभूतानाम्* इत्यादिका च ।  आदित्यादिशब्दसामानाधिकरण्यात् आद्या श्रुतिर्भूविषयेति केचित् दिग्विषयेति तु कुदृष्टिः । श्रुतिलिङ्गादिविरोधात् । आह च भगवान् पराशरः *त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तम् चराचरम्* *यथा सर्वगतो विष्णुस्तथैवेयम् द्विजोत्तम* *नानयोर्विद्यते परम्* इत्यादि । तथा च भगवच्छास्त्रवचनम् –

*एकतत्त्वमिवोदितौ* लक्ष्म्याः समस्तश्चिदचित्प्रपञ्चो व्याप्यस्तदीशस्य तु सापि सर्वम् । तथाऽपि साधारणमीशितृत्वम् श्रीश्रीशयोर्द्वौ च सदैकशेषी* इत्यादि । अहिर्बुध्न्यसम्हितालक्ष्मीतन्त्रादिषु च विस्तरेणायमर्थोऽवधार्यः ।

*ईश्वरतत्त्वसम्बन्धिनाम् केषाञ्चिद्विशेषार्थानाम्

निरूपणम्*

*भूमिनीलयोः लक्ष्म्यम्शत्वनिरूपणम्*

एतेन भूम्यादेरपि तदम्शत्ववचनम् निर्व्यूढम् । अनुप्रवेशादेव हि अनन्तविष्वक्सेनादेरपि सङ्कर्षणाद्यात्मकत्वमुच्यते ।

यथाविनियोगमुपासनावान्तरभेदात् ब्रह्मणः पत्नीपरिजनादिसाहित्य-राहित्यविकल्पः, न पुनर्भ्रान्तत्वशुद्धत्वकार्यकारणावस्थादिविषयत्वात्; प्रागेव तत्र दूषणाभिधानात् । व्यूहविभवादिषु हेतुकार्यभावम् सर्वम् विग्रहविषयम् वक्ष्यामः । तत्तद्व्यूहाद्यनुरूपाश्च लक्ष्म्यादिव्यूहादयः शास्त्रसिद्धाः । व्यूहादिषु मिथोऽङ्गाङ्गिभावादिकम् स्वसङ्कल्प-मात्रायत्तम्, ईश्वरस्य सर्वत्रैकत्वात् ।

यत्तु यन्त्रविशेषादिषु लक्ष्मीसुदर्शनादीन्प्रति वासुदेवादेरङ्गत्वम् क्वचित्क्वचित् प्रतिपाद्यते, तत्र यथाऽवस्थित-ब्रह्मात्मकत्वानुसन्धाने स्वात्मानम् प्रत्येव स्वस्यैच्छमङ्गत्वमिति न कश्चिद्विरोधः । ब्रह्मदृष्ट्याऽनुसन्धाने तु तत्तत्फलविशेषार्थम् तदङ्गकत्वेन प्राधान्य दृष्टिरिति त्रय्यन्तोदितदृष्टिविध्यन्तरेष्विव न तत्त्वव्यवस्थाभङ्गः । न चैवमागमान्तरप्रतिपाद्यतत्त्वेष्वपि प्रसङ्गः; तेषामागमानामप्रामाण्यस्य वक्ष्यमाणत्वात् । पञ्चरात्रप्रामाण्यस्य आगमप्रामाण्ये भाष्ये च श्रीपञ्चरात्राधिकरणे प्रपञ्चितत्वात्, अस्माभिश्च न्यायपरिशुद्धावुक्तत्वात् । न च यन्त्रादय एव सामान्यतो निर्मूला इति वाच्यम्; तापनीयो-पनिषदादिषु तद्दर्शनात्, प्रत्यक्षतः फलोपलम्भाच्च । अतस्तत्त्व-वैपरीत्यम्, तदुक्तिमूलशास्त्राप्रामाण्यम् वा न शङ्कनीयम् । अतः सिद्धमशेषचिदचित्प्रकारम् ब्रह्म एकः श्रीमन्नारायण इति ॥

*ईश्वरपरिच्छेदान्तिमश्लोकार्थवर्णनम्*

स्फारास्तीर्णभुजङ्गपुङ्गववपुःपर्यङ्कवर्यम् गतौ

सर्गस्थित्यवसानकेळिरसिकौ तौ दम्पती नः पती ।

नाभीपङ्कजशायिनः श्रुतिसुखैरन्योन्यबद्धस्मितौ

डिम्भस्याम्बुजसम्भवस्य वचनैरोन्तत्सदित्यादिभिः ॥

इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु

श्रीन्यायसिद्धाञ्जने ईश्वरपरिच्छेदः तृतीयः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.